मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सपत्नीबाधनं कर्म

Also spelled: Sapatnibadhanam Karma · Sapathnibadhanam Karma

सपत्नीबाधनं कर्म. Also called sapatni badhanam, Sapatnībādhanaṃ karma. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
सपत्नीबाधनं कर्म · टिप्पण्यः
मूलम्
याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६१५–६१६ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।

सपत्नीबाधनं कर्म

उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑। अ॒हं तद्विद्व॒ला प॑तिम॒भ्य॑साक्षि विषास॒हिः। अ॒हं के॒तुर॒हं मू॒र्धाऽहमु॒ग्रा वि॒वाच॑नी। ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒वाच॑रेत्। मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट्। उ॒ताहम॑स्मि॒ संज॑या॒ पत्यु॑र्मे॒ श्लोक॑ उत्त॒मः। येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य॑भवद् दि॒व्यु॑त्त॒मः।

॥१॥

अ॒हं तद॑क्रि देवा असप॒त्ना किला॑भवम्। अ॒स॒प॒त्ना स॑पत्नि॒घ्नी जय॑न्त्यभि॒भूव॑रीः । आवि॑त्सि॒ सर्वा॑सा॒ꣳ राधो॒ वर्चो॒ अस्थे॑यसामिव। सम॑जैषमि॒मा अ॒हꣳ स॒पत्नी॑रभि॒भूव॑रीः। यथा॒ऽहम॑स्य वी॒रस्य॑ वि॒राजा॑मि॒ धन॑स्य च॥१७॥

॥२॥

टिप्पण्यः

“उत्त॑रे॒दुत्त॑राभ्यः” इति वा

॥३॥

“मू॒र्धाऽहमु॒ग्रो वि॒वाच॑नम्” इति वा

॥४॥

“ममे॒दनु॒” इति वा

॥५॥

“अ॒हं तद॑क्रिरेवा सप॒त्ना” इति वा

॥६॥