अध्ययनम्
- अनुक्रमणिका
- उपनयने समिदाधानम्
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६२३ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
उपनयने समिदाधानम्
परि॑ त्वाऽग्ने॒ परि॑ मृजा॒म्यायु॑षा च॒ धने॑न च। सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ सु॒वीरो॑ वि॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः᳚ सु॒गृहो॑ गृ॒हैः सु॒पतिः॒ पत्या॑ सुमे॒धा मे॒धया॑ सु॒ब्रह्मा᳚ ब्रह्मचा॒रिभिः॑। अ॒ग्नये॑ समि॒धमाहा॑र्षं बृह॒ते जा॒तवे॑दसे।
॥१॥यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒ध्यस॑ ए॒वं मा॒मायु॑षा॒ वर्च॑सा स॒न्या मे॒धया᳚ प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒ समे॑धय॒ स्वाहा᳚। एधो᳚ऽस्येधिषी॒महि॒ स्वाहा᳚। स॒मिद॑सि समे॒धिषी॒महि॒ स्वाहा᳚। तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा᳚। अपो॑ अ॒द्यान्व॑चारिष॒ꣳ रसे॑न॒ सम॑सृक्ष्महि।
॥२॥पय॑स्वाꣳ अग्न॒ आग॑मं॒ तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा᳚। सं मा᳚ऽग्ने॒ वर्च॑सा सृज प्र॒जया॑ च॒ धने॑न च॒ स्वाहा᳚। वि॒द्युन्मे॑ अस्य दे॒वा इन्द्रो॑ वि॒द्यात्स॒हर्षि॑भिः॒ स्वाहा᳚। अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा᳚। द्यावा॑पृथि॒वीभ्या॒ꣴ स्वाहा᳚।
॥३॥ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्ध॑स्व॒ चाप्या॑यस्व च॒ तया॒ऽहं वर्ध॑मानो भूयासमा॒प्याय॑मानश्च॒ स्वाहा᳚। यो मा᳚ऽग्ने भा॒गिन॑ꣳ स॒न्तमथा॑भा॒गं चिकी॑र्षति। अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा᳚। स॒मिध॑मा॒धाया᳚ग्ने॒ सर्व॑व्रतो भूयास॒ꣴ स्वाहा᳚।
॥४॥