मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपनयने संशासनादि

उपनयने संशासनादि. Also called upanayane samshasanadi, Upanayane saṃśāsanādi. Svara-marked text on Vaidhika Dharma.

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

तै॰सं॰ २.५.११

६१ निवी॑तं मनु॒ष्या॑णां प्राचीनावी॒तं पि॑तृ॒णामुप॑वीतं दे॒वाना॒मुप॑ व्ययते

देवल॒क्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह॒ तिष्ठ॒न् ह्याश्रु॑ततरं॒ वद॑ति॒

तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के

प्रति॑तिष्ठति॒ यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रं तद्यन्मं॒द्रं मा॑नु॒षं तद्यद॑न्त॒रा

तथ्सदे॑वमन्त॒रानूच्यꣳ॑ सदेव॒त्वाय॑ वि॒द्वाꣳसो॒ वै

६२ पु॒रा होता॑रोऽभूव॒न्तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑नः॒

सम॑रुक्षन्नन्तर्वे॒द्य॑न्यः पादो॒ भव॑ति बहिर्वे॒द्य॑न्योऽथान्वा॒हाध्व॑नां॒

विधृ॑त्यै प॒थामसꣳ॑रोहा॒याथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑

रु॒न्धेऽथो॒ परि॑मितं चै॒वाप॑रिमितं॒ चाव॑ रु॒न्धेऽथो᳚ ग्रा॒म्याग्श्चै॒व

प॒शूना॑र॒ण्याग्श्चाव॑ रु॒न्धेऽथो॑

६३ देवलो॒कं चै॒व म॑नुष्यलो॒कं चा॒भि ज॑यति दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑

य॒ज्ञं नान्व॑पश्य॒न्थ्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाऽघा॑रय॒त्ततो॒ वै दे॒वा

य॒ज्ञमन्व॑पश्य॒न्॒ यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒

अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलू᳚क्षो भवति॒ य ए॒वं वेदाथो॑

त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभि॒

६४ र्य ए॒वं वेद॒ यदेक॑याघा॒रये॒देकां᳚ प्रीणीया॒द्यद्द्वाभ्यां॒ द्वे

प्री॑णीया॒द्यत्ति॒सृभि॒रति॒ तद्रे॑चये॒न्मन॒साघा॑रयति॒ मन॑सा॒

ह्यना᳚प्तमा॒प्यते॑ ति॒र्यञ्च॒मा घा॑रय॒त्यच्छं॑बट्कारं॒ वाक्च॒

मन॑श्चार्तीयेताम॒हं दे॒वेभ्यो॑ ह॒व्यं व॑हा॒मीति॒ वाग॑ब्रवीद॒हं दे॒वेभ्य॒

इति॒ मन॒स्तौ प्र॒जाप॑तिं प्र॒श्नमै॑ता॒ꣳ॒ सो᳚ऽब्रवीत्

६५ प्र॒जाप॑तिर्दू॒तीरे॒व त्वं मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा

वद॒तीति॒ तत्खलु॒ तुभ्यं॒ न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त् तस्मा॒न्मन॑सा

प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ परि॒धीन्थ्सं

मा᳚र्ष्टि पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मं त्रयो॒ वै प्रा॒णाः प्रा॒णाने॒वाभि ज॑यति॒

त्रिर्द॑क्षिणा॒र्ध्यं॑ त्रय॑

६६ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्यं॑ त्रयो॒

वै दे॑व॒यानाः॒ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑ वाजयति॒ त्रयो॒ वै

दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ संप॑द्यन्ते॒ द्वाद॑श॒

मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑

दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र इ॑व॒

६७ वै सु॑व॒र्गो लो॒कः सु॑व॒र्गमे॒वास्मै॑ लो॒कं प्र रो॑चयत्यृ॒जुमा

घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णः संत॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒

संत॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑

जि॒ह्मं तस्याघा॑रयेत् प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मं न॑यति ता॒जक् प्र मी॑यते॒ शिरो॒

वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा

६८ ऽघा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒

प्रति॑ दधात्य॒ग्निर्दे॒वानां᳚ दू॒त आसी॒द्दैव्योऽसु॑राणां॒ तौ प्र॒जाप॑तिं

प्र॒श्नमै॑ता॒ꣳ॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या

श्रा॑व॒येती॒दं दे॑वाः श‍ृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व

दे॒वानां॒ तम॑वृणीत॒ ततो॑ दे॒वा

६९ अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषः॑ प्रव॒रं प्र॑वृ॒णते॒

भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च

प्र॒श्नमे॒यातां᳚ ब्राह्म॒णायाधि॑ ब्रूया॒द्यद्ब्रा᳚ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह॒

यद्ब्रा᳚ह्म॒णं प॒राहा॒त्मानं॒ परा॑ह॒ तस्मा᳚द् ब्राह्म॒णो न प॒रोच्यः॑ ॥ २। ५। ११॥

वा आ॑र॒ण्याग्श्चाव॑ रुं॒धेथो॑ प॒शुभिः॒ सो᳚ब्रवीद्दक्षिणा॒र्ध्यं॑ त्रय॑

इव ध्रु॒वा दे॒वाश्च॑त्वारि॒ꣳ॒शच्च॑TS 2.5.11

॥१॥