skipLink.label

प्रथम काण्ड

प्रपाठक 1

प्रथमकाण्डे प्रथमः प्रपाठकः

प्रथमकाण्डे प्रथमः प्रपाठकः

इषे त्वा सुभूताय वायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वम् अघ्न्या देवेभ्या इन्द्राय भागं मा वः स्तेन ईशत माघशंसो धुर्वा अस्मिन् गोपतौ स्यात बह्वीर् यजमानस्य पशून् पाहि

॥१.१.१॥

गोषद् असि प्रत्युष्टं रक्षः प्रत्युष्टारातिः ॥

प्रेयम् अगाद् धिषणा बर्हिर् अछ मनुना कृता स्वधया वितष्टा ।

तयावहन्ते कवयः पुरस्तात् ॥

देवानां परिषूतम् असि विष्णोः स्तुपो ऽतिसृष्टो गवां भागो देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर् देवसदनं दामि ॥

अतस् त्वं बर्हिः शतवल्शं विरोह सहस्रवल्शा वि वयं रुहेम ॥

अयुपिता योनिर् अदित्या रास्नासीन्द्राण्याः सन्नहनं पूषा ते ग्रन्थिं ग्रथ्नातु स ते मास्थाद् इन्द्रस्य त्वा बाहुभ्याम् उद्यछे बृहस्पतेर् मूर्ध्नाहराम्य् उर्व् अन्तरिक्षं वीह्य् अदित्यास् त्वा पृष्ठे सादयामि

॥१.१.२॥

शुन्धध्वं दैव्याय कर्मणे वसूनां पवित्रम् असि शतधारं सहस्रधारम् अछिद्रतनु ॥

द्यौर् असि पृथिव्य् असि मातरिश्वनो घर्मः ॥

विश्वहोतुर् धामन्त् सीद ॥

पोषाय त्वादित्या रास्नासि काम् अधुक्षः सा विश्वायुर् अस्त्व् असौ काम् अधुक्षः सा विश्वभूर् अस्त्व् असौ काम् अधुक्षः सा विश्वकर्मास्त्व् असौ हुतः स्तोको हुतो द्रप्सो ऽग्ने पाहि विप्रुषः सुपचा देवेभ्यो हव्यं पचाग्नये त्वा बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् इन्द्राय त्वा भागं सोमेनातनच्मि विष्णो हव्यं रक्षस्वापो जागृत

॥१.१.३॥

वेषाय वां कर्मणे वां सुकृताय वां देवीर् आपो ऽग्रेगुवो ऽग्रेणीयो ऽग्रे ऽस्य यज्ञस्य प्रेताग्रं यज्ञं नयताग्रं यज्ञपतिं युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये प्रोक्षिताः स्थ संसीदन्तां दैवीर् विशो वानस्पत्यासि वर्षवृद्धम् अस्य् उर्व् अन्तरिक्षं वीहि प्रत्युष्टं रक्षः प्रत्युष्टारातिर् धूर् असि ध्वर ध्वरन्तं यो अस्मान् ध्वराद् यं वयं ध्वराम तं ध्वर

॥१.१.४॥

देवानाम् असि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् अह्रुतम् असि हविर्धानं दृंहस्व मा ह्वार् विष्णोः क्रमो ऽस्य् उरु वाताय मित्रस्य वश् चक्षुषा प्रेक्षे देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां यछन्तु पञ्च गोपीथाय वो नारातये ऽग्नये वो जुष्टान् निर्वपाम्य् अमुष्मै वो जुष्टान् इदं देवानाम् इदम् उ नः सह दृंहन्तां दुर्याः स्वाहा द्यावापृथिवीभ्यां निर् वरुणस्य पाशाद् अमुक्षि स्वर् अभिव्यक्शं ज्योतिर् वैश्वानरम् उर्व् अन्तरिक्षं वीह्य् अदित्या व उपस्थे सादयामि

॥१.१.५॥

देवो वः सवितोत्पुनात्व् अछिद्रेण पवित्रेण ।

वसोः सूर्यस्य रश्मिभिः ॥

अग्नये वो जुष्टान् प्रोक्षाम्य् अमुष्मै वो जुष्टान् यद् वो ऽशुद्ध आलेभे तञ् शुन्धध्वम् अदित्यास् त्वग् अस्य् अवधूतं रक्षो ऽवधूतारातिर् अदित्यास् त्वग् असि प्रति त्वादित्यास् त्वग् वेत्तु पृथुग्रावासि वानस्पत्यः प्रति त्वादित्यास् त्वग् वेत्त्व् अग्नेर् जिह्वासि वाचो विसर्जनम् आयुषे वो बृहद्ग्रावासि वानस्पत्यो देवेभ्यो हव्यं शमीष्व सुशमि शमीष्व कुटरुर् असि मधुजिह्वस् त्वया वयं सङ्घातंसङ्घातं जेष्मेषम् आवदोर्जम् आवद रायस्पोषम् आवद

॥१.१.६॥

वर्षवृद्धम् असि प्रति त्वा वर्षवृद्धं वेत्तु परापूतं रक्षः परापूतारातिः प्रविद्धो रक्षसां भागो ऽदित्यास् त्वग् अस्य् अवधूतं रक्षो ऽवधूतारातिर् अदित्यास् त्वग् असि प्रति त्वादित्यास् त्वग् वेत्तु धिषणासि पार्वती प्रति त्वादित्यास् त्वग् वेत्तु धिषणासि पार्वती प्रति त्वा पार्वती वेत्त्व् अदित्याः स्कम्भो ऽसि धान्यम् असि धिनुहि देवान् प्राणाय त्वापानाय त्वा व्यानाय त्वा दीर्घाम् अनु प्रसृतिं संस्पृशेथाम् आयुषे वो मित्रस्य वश् चक्षुषावेक्षे देवो वः सविता हिरण्यपाणिर् उपगृह्णातु

॥१.१.७॥

निर्दग्धं रक्षो निर्दग्धारातिः समुद्रं मा धाग् ध्रुवम् असि पृथिवीं दृंहापाग्ने ऽग्निम् आमादं जहि निः क्रव्यादं नुदस्वाग्ने देवयजनं वह धरुणम् अस्य् अन्तरिक्षं दृम्ह धर्त्रम् असि दिवं दृम्ह धर्मासि विश्वा विश्वानि दृम्ह चिद् असि परिचिद् असि विश्वासु दिक्षु सीद सजातान् अस्मै यजमानाय परिवेशय सजाता इमं यजमानं परिविशन्तु वसूनां रुद्राणाम् आदित्यानां भृगूणाम् अङ्गिरसां घर्मस्य तपसा तप्यध्वम् ॥

यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः ।

पूष्णस् तान्य् अपि व्रत इन्द्रवायू विमुञ्चताम्

॥१.१.८॥

देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां संवपामि ॥

देवो वः सवितोत्पुनात्व् अछिद्रेण पवित्रेण ।

वसोः सूर्यस्य रश्मिभिः ॥

सम् आपा ओषधीभिर् गछन्तां सम् ओषधयो रसेन ।

सं रेवतीर् जगतीः शिवाः शिवाभिः समसृक्षतापः ॥

सीदन्तु विशो जनयत्यै त्वा घर्मो ऽसि विश्वायुर् घर्म घर्मे श्रयस्वोरु प्रथस्वोरु ते यज्ञपतिः प्रथतां सं ते तन्वा तन्वः पृच्यन्ताम् ॥

परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।

दधद् रत्नानि दाशुषे ॥

देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके पृथिव्या अग्ने ब्रह्म गृह्णीष्व

॥१.१.९॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आदद इन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुस् तिग्मतेजाः पृथिवि देवयजनि मा हिंसिषं ता ओषधीनां मूलं व्रजं गछ गोस्थानं वर्षतु ते पर्जन्यो बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचि मा वः शिवा ओषधयो मूलं हिंसिषं व्रजं गछ गोस्थानं वर्षतु ते पर्जन्यो बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचि द्रप्सस् ते दिवं मा स्कान् व्रजं गछ गोस्थानं वर्षतु ते पर्जन्यो बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचि वसवस् त्वा परिगृह्णन्तु गायत्रेण छन्दसा रुद्रास् त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसादित्यास् त्वा परिगृह्णन्तु जागतेन छन्दसापाररुं पृथिव्या अदेवयजनं सत्यसद् अस्य् ऋतसद् असि घर्मसद् असि ॥

पुरा क्रूरस्य विसृपो विरप्शिन उदादाय पृथिवीं जीरदानुम् ।

ताम् ऐरयंश् चन्द्रमसि स्वधाभिस् तां धीरासः कवयो ऽनुदिश्यायजन्त

॥१.१.१०॥

प्रत्युष्टं रक्षः प्रत्युष्टारातिर् आयुः प्राणं मा निर्मार्जीश् चक्षुः श्रोत्रं मा निर्मार्जीर् वाचं पशून् मा निर्मार्जीर् यज्ञं प्रजां मा निर्मार्जीस् तेजो ऽसि शुक्रम् असि ज्योतिर् अस्य् अमृतम् असि वैश्वदेवम् असि ॥

हविर् असि वैश्वानरम् उन्नीतशुष्मं सत्यौजाः ।

सहो ऽसि सहस्वारातिं सहस्व पृतनायतः ॥

सहस्रवीर्यम् असि तन् मा जिन्वाज्यस्याज्यम् असि हविषो हविः सत्यस्य सत्यं सत्याभिघृतं सत्येन त्वाभिघारयाम्य् अदब्धेन त्वा चक्षुषावेक्षे रायस्पोषाय सुप्रजास्त्वाय ॥

धामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् ।

देववीत्यै त्वा गृह्णामि ॥

देवीर् आपः शुद्धा यूयं देवान् युयुध्वं शुद्धा वयं सुपरिविष्टाः परिवेष्टारो वो भूयास्म कृष्णो ऽस्य् आखरेष्ठो ऽग्नये घृतं भव वेदिर् असि बर्हिषे त्वा जुष्टं प्रोक्षामि बर्हिर् असि वेद्यै त्वा जुष्टं प्रोक्षामि स्वाहा पितृभ्यो घर्मपावभ्यः

॥१.१.११॥

आखरेष्ठस् : फ़्न् सन्धि इस् स्त्रन्गे। एद्।: आखरेष्ठा अग्नये। प्: आखरेष्ठः।

पूषा ते ग्रन्थिं विष्यतु विष्णोः स्तुपो ऽस्य् उरु प्रथस्वोर्णम्रदं स्वासस्थं देवेभ्यो गन्धर्वो ऽसि विश्वावसुर् विश्वस्माद् ईषमाणो यजमानस्य परिधिर् इड ईडित इन्द्रस्य बाहुर् असि दक्षिणो यजमानस्य परिधिर् इड ईडितो मित्रावरुणौ त्वोत्तरतः परिधत्तां यजमानस्य परिधिर् असीड ईडितः ॥

नित्यहोतारं त्वा कवे द्युमन्तः समिधीमहि ॥

वर्षिष्ठे अधि नाके पृथिव्याः सूर्यस् त्वा रश्मिभिः पुरस्तात् पातु कस्याश्चिद् अभिशस्त्या विश्वजनस्य विधृती स्थो वसूनां रुद्राणाम् आदित्यानां सदो ऽसि स्रुचां योनिर् द्यौर् असि जन्मना जुहूर् नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीदान्तरिक्षम् असि जन्मनोपभृन् नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीद पृथिव्य् असि जन्मना ध्रुवा नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीद ऋषभो ऽसि शाक्वरो वषट्कारस्य त्वा मात्रायां सादयामि ॥

ध्रुवा असदन्न् ऋतस्य योनौ सुकृतस्य लोके ता विष्णो पाहि ॥

पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञन्यम् ॥

विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानि

॥१.१.१२॥

सूयमे मे ऽद्य स्तं स्वावृतौ सूपावृतव् अग्नाविष्णू विजिहाथां मा मा हिंसिष्टं लोकं मे लोककृतौ कृणुतं मा मोदोषिष्टम् आत्मानं मे पातं शिवौ भवतम् अद्य नो विष्णोः स्थामासीत इन्द्रस् तिष्ठन् वीर्यम् अकृणोद् देवताभिः समारभ्य ॥

ऊर्ध्वो अध्वरो दिविस्पृग् अह्रुतो यज्ञो यज्ञपतेः ।

इन्द्रवान्त् स्ववान् बृहद्भाः ॥

वीहि मधोर् घृतस्य स्वाहा सं ज्योतिषा ज्योतिः ॥

वाजस्य मा प्रसवेनोद्ग्राभेणोदजिग्रभत् ।

अथा सपत्नान् इन्द्रो मे निग्राभेणाधरं अकः ॥

उद्ग्राभश् च निग्राभश् च ब्रह्म देवं अवीवृधत् ।

अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥

वसुर् अस्य् उपावसुर् असि विश्वावसुर् अस्य् अप्तुभी रिहाणा व्यन्तु वयो वशा पृश्निर् भूत्वा मरुतो गछ ततो नो वृष्ट्यावत ॥

संस्रावभागाः स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च देवाः ।

इमां वाचम् अभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् ॥

देवा गातुविदो गातुं वित्त्वा गातुम् इत मनसस्पते सुधात्व् इमं यज्ञं दिवि देवेषु वाते धाः स्वाहा

॥१.१.१३॥
प्रपाठक 2

प्रथमकाण्डे द्वितीयः प्रपाठकः

प्रथमकाण्डे द्वितीयः प्रपाठकः

तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तञ् शकेयम्

॥१.२.१॥

आकूत्यै प्रयुजे अग्नये स्वाहा मेधायै मनसे अग्नये स्वाहा दीक्षायै तपसे अग्नये स्वाहा सरस्वत्यै पूष्णे अग्नये स्वाहा ॥

आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष ।

बृहस्पतिर् नो हविषा वृधातु ॥ स्वाहा ॥

विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।

विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ स्वाहा ॥

ऋक्सामयोः शिल्पे स्थस् ते वाम् आरभ आ मोदृचः पातं विष्णोः शर्मासि शर्म मे यछ नमस् ते अस्तु मा मा हिंसीः ॥

इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण संशिशाधि ।

ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेयम् ॥

सूर्याग्नी द्यावापृथिवी उरो अन्तरिक्षाप ओषधया उप मा दीक्षायां दीक्षापतयो ह्वयध्वं देव सवितस् त्वं दीक्षाया दीक्षापतिर् असीत्थं मा सन्तं पाह्य् ऊर्ग् अस्य् आङ्गिरस्य् ऊर्णम्रदा ऊर्जं मयि धेहीन्द्रस्य योनिर् असि गोपाय मा नमस् ते अस्तु मा मा हिंसीः ॥

कृषिं सुसस्याम् उत्कृषे सुपिप्पला ओषधीस् कृधि ।

विषाणे विष्यैतं ग्रन्थिं यद् अस्य गुष्पितं हृदि मनो यद् अस्य गुष्पितम् ॥

बृहन्न् असि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहि नक्षत्राणां मातीकाशात् पाहि ॥

आ वो देवास ईमहे वामं प्रयत्य् अध्वरे ।

यद् वो देवास आगुरि यज्ञियासो हवामहे ॥

स्वाहा यज्ञं मनसः स्वाहा दिवः स्वाहा पृथिव्याः स्वाहोरोर् अन्तरिक्षात् स्वाहा वातात् परिगृह्णामि स्वाहा

॥१.२.२॥

नक्षत्राणां सकाशान् मा यौषं व्रतं चरत ॥

दैवीं धियं मनामहे सुमृडीकाम् अभिष्टये ।

वर्चोधां यज्ञवाहसं सुतीर्था नो असद् वशे ॥

ये देवा मनुजाता मनोयुजः सुदक्षा दक्षपितरस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ॥

शिवाः पीता भवत यूयम् आपो अस्माकं योना उदरे सुशेवाः ।

इरावतीर् अनमीवा अनागसः शिवा नो भवत जीवसे ॥

कामो हविषां मन्दिष्ठो ऽग्ने त्वं सु जागृहि वयं सु मन्दिषीमहि ।

गोपाय नः स्वस्तये प्रबुधे नः पुनस् कृधि ॥

पुनर् मनः पुनर् आयुर् ना आगात् पुनः प्राणः पुनर् आकूतम् आगात् ।

वैश्वानरो ऽदब्धस् तनूपा अपबाधतां दुरितानि विश्वा ॥

त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ ।

त्वं यज्ञेष्व् ईड्यो व्रतम् अस्मासु धारय ॥

पूषा सनीनां सोमो राधसां मा पृणन् पूर्त्या विराधिष्ट मा वयम् आयुषा वर्चसा च रास्वेयत् सोमा भूयो भर देवः सविता वसोर् वसुदावा वायुर् गोपास् त्वष्टाधिपतिः पुषा प्रतिग्रहीता देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं वो मा क्रमिषं याः पशूनाम् ऋषभे वाचस् ताः सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिणोमि यथाभागं वो अत्र शिवा नः पुनर् आयन्तु वाचो वायवे त्वा वरुणाय त्वा रुद्राय त्वा निरृत्यै त्वेन्द्राय त्वा मरुद्भ्यस् त्वा

॥१.२.३॥

इयं ते शुक्र तनूर् इदं वर्चस् तया सम्भव भ्राजं गछ जूर् असि धृता मनसा जुष्टा विष्णवे तस्यास् ते सत्यसवसः प्रसवे तन्वो यन्त्रम् अशीय स्वाहा शुक्रम् असि चन्द्रम् अस्य् अमृतम् असि वैश्वदेवम् असि चिद् असि मनासि धीर् असि दक्षिणासि यज्ञियासि क्षत्रियास्य् अदितिर् अस्य् उभयतःशीर्ष्णी सा नः सुप्राची सुप्रतीची भव मित्रस् त्वा पदि बध्नातु पूषाध्वनः पात्व् इन्द्रायाध्यक्षायानु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः सा देवि देवम् अछेहीन्द्राय सोमं रुद्रस् त्वावर्तयतु स्वस्ति सोमसखा पुनर् एहि वस्व्य् असि रुद्रास्य् अदितिर् अस्य् आदित्यासि चन्द्रासि रुद्रासि बृहस्पतिष् ट्वा सुम्ने रम्णातु रुद्रो वसुभिर् आचके पृथिव्यास् त्वा मूर्धन्न् आजिघर्मि यज्ञिया इडायास् पदे घृतवति स्वाहास्मे रमस्वास्मे ते रायस् तव रायस् तवतव रायो मा रायस्पोषेण वियौष्म त्वष्ट्रिमन्तस् त्वा सपेम

॥१.२.४॥

सूर्यस्य चक्षुर् आरुहम् अग्नेर् अक्ष्णः कनीनिकाम् ।

यद् एतशेभिर् ईयसे भ्राजमानो विपश्चिता ॥

अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् ।

येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥

आस्माको ऽसि शुक्रस् ते ग्रहः स्वाहा त्वा विचिद्भ्यः ॥

अभि त्यं देवं सवितारमोण्योः कविक्रतुम् अर्चामि सत्यसवसं रत्नधाम् अभि प्रियं मतिम् ।

ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः ॥

प्रजाभ्यस् त्वा प्रजास् त्वानुप्राणन्तु प्रजाः पाहि शुक्रं ते शुक्र शुक्रेण चन्द्रं चन्द्रेणामृतम् अमृतेन क्रीणामि देव सोम शक्म यत् ते गोर् अस्मे ते चन्द्राणि तपसस् तनूर् असि प्रजापतेर् वर्णः सहस्रपोषं पुष्यन्ती परमेण पशुना क्रीयस्वास्मे ते बन्धुः सुवाङ् नभ्राड् अङ्घारे बम्भारे ऽस्तर् अहस्त कृशान एते वः सोमक्रयणास् तान् रक्षध्वं मा वो दभन् दुश्चक्षा वो मावक्शत्

॥१.२.५॥

सोमक्रयणास् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

स्वजा असि स्वभूर् अस्य् अस्मे कर्मणे जात ऋतेन त्वा गृह्णाम्य् ऋतेन नः पाहि मित्रो ना एहि सुमित्रधः सह रायस्पोषेणेन्द्रस्योरुम् आविश दक्षिणम् उशन्न् उशन्तं स्योनः स्योनम् ॥

उद् आयुषा स्वायुषोद् ओषधीनां रसेन ।

उत् पर्जन्यस्य धाम्नोदस्थाम् अमृतं अनु ॥

उर्व् अन्तरिक्षं वीह्य् अदित्याः सदा आसीद ॥

अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणं पृथिव्याः ।

आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥

वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पयो अघ्न्यासु ।

हृत्सु क्रतुं वरुणं दिक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥

धूर् असि ध्वर ध्वरन्तं यो अस्मान् ध्वराद् यं वयं ध्वराम तं ध्वर ॥

वारुणम् असि वरुणस् त्वोत्तभ्नातु वरुणस्य स्कम्भो ऽसि ॥

प्रच्यवस्व भुवनस्पते विश्वान्य् अभि धामानि ।

मा त्वा परिपरिणो मा परिपन्थिनो मा त्वा वृका अघायवो विदन् ॥

श्येनो भूत्वा परापत यजमानस्य नो गृहे संस्कृतम् ।

देवेभ्यः सुत्यायै ॥

नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत ।

दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत ॥

वारुणम् असि वरुणस् त्वोत्तभ्नातु वरुणस्य स्कम्भसर्जनम् असि ॥

विचृत्तो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशो नमो वरुणस्य पाशायाग्नेस् तनूर् असि विष्णवे त्वा सोमस्य तनूर् असि विष्णवे त्वातिथेर् आतिथ्यम् असि विष्णवे त्वाग्नये त्वा रायस्पोषदे विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा वारुणम् असि वरुणो ऽसि धृतव्रतो वरुणस्य ऋतसदनम् आसीद वरुणाय त्वा

॥१.२.६॥

अग्नेर् जनित्रम् असि वृषणौ स्थ उर्वश्य् अस्य् आयुर् असि पुरूरवा असि गायत्रम् असि त्रिष्टुब् असि जगद् असि ॥

भवतं नः समनसौ समोकसौ सचेतसा अरेपसौ ॥

मा यज्ञं हिंसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥

अग्ना अग्निश् चरति प्रविष्टा ऋषीणां पुत्रो अधिराज एषः ॥

तस्मै विधेम हविषा वयं मा देवानां यूयुपाम भागधेयम् ॥

आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे शक्मने शक्वराय शक्मना ओजिष्ठायानाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजः ॥ अभिशस्तिपा अनभिशस्तेन्यम् ॥

अनु म इदं व्रतं व्रतपतिर् मन्यताम् अनु दीक्षां दीक्षापतिर् अञ्जसा सत्यम् उपागां सुविते मा धा अग्ने व्रतपते या मम तनूर् एषा सा त्वय्य् अग्ने व्रतपते या तव तनूर् इयं सा मयि सह नौ व्रतपते व्रतिनोर् व्रतान्य् अंशुरंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद आ त्वम् इन्द्राय प्यायस्वा तुभ्यम् इन्द्रः प्यायताम् आप्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय स्वस्त्य् उदृचम् एष्टा राया एष्टा वामानि प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्यै ॥

या ते अग्ने ऽयाशया तनूर् वर्षिष्ठा गहेनष्ठा ।

त्वेषं वचो अपावधीर् उग्रं वचो अपावधीः ॥ स्वाहा ॥

या ते अग्ने रजाशया या ते अग्ने हराशया या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यै ते स्वाहा

॥१.२.७॥

तप्तायनी मे ऽसि वित्तायनी मे ऽस्य् अवतान् मा नाथितम् अवताद् व्यथितम् अग्ने अङ्गिरो यो ऽस्यां पृथिव्याम् अध्य् अस्य् आयुना नाम्नेहि वसवस् त्वा हरन्तु गायत्रेण छन्दसा वित्स्व यज्ञपतेर् यत् ते ऽनाधृष्टं धामानाधृष्यं तेन त्वादधे ऽग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्याम् अध्य् अस्य् आयुना नाम्नेहि रुद्रास् त्वा हरन्तु त्रैष्टुभेन छन्दसा वित्स्व यज्ञपतेर् यत् ते ऽनाधृष्टं धामानाधृष्यं तेन त्वादधे ऽग्ने अङ्गिरो यस् तृतीयस्यां पृथिव्याम् अध्य् अस्य् आयुना नाम्नेह्य् आदित्यास् त्वा हरन्तु जागतेन छन्दसा वित्स्व यज्ञपतेर् यत् ते ऽनाधृष्टं धामानाधृष्यं तेन त्वादधे विदेर् अग्ने नभो नाम यत् ते सिंहीर् असि महिषीर् असि देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेन्द्रघोषास् त्वा पुरस्ताद् वसुभिः पान्तु पितरस् त्वा मनोजवा दक्षिणतः पान्तु रुद्रास् त्वा प्रचेतसः पश्चात् पान्तु विश्वकर्मा त्वादित्यैर् उत्तरात् पातु सिंहीर् असि सपत्नसाही स्वाहा सिंहीर् असि रायस्पोषवनिः स्वाहा सिंहीर् असि सुप्रजावनिः स्वाहा सिंहीर् अस्य् आदित्यवनिः सजातवनिः स्वाहा सिंहीर् अस्य् आवह देवान् देवायते यजमानाय स्वाहा भूतेभ्यस् त्वा विश्वायुर् असि पृथिवीं दृम्ह ध्रुवक्षितिर् अस्य् अन्तरिक्षं दृंहाच्युतक्षिद् असि दिवं दृंहाग्नेर् भस्मास्य् अग्नेः पुरीषम् अस्य् अग्नेः कुलायम् असि ॥

विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपता अविह्रुतम् ।

वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति

॥१.२.८॥

देवश्रुतौ देवेष्व् आघोषेथाम् ॥

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।

वि होत्रा दधे वयुनाविद् एका इन् मही देवस्य सवितुः परिष्टुतिः ॥

अप जन्यं भयं नुद मा चक्रा आवृत्सत ।

गृहं सोमस्य गछतं गछद् इन्द्रस्य निष्कृतम् ॥

इदं विष्णुर् विचक्रमे त्रेधा निदधे पदा ।

समूढम् अस्य पांसुरे ॥

इरावती धेनुमती हि भूतं सूयवसिनी मनवे यशस्ये ।

व्यष्कभ्ना रोदसी विष्ण एते दाधर्थ पृथिवीम् अभितो मयूखैः ॥

सुवाग् आवद देव दुर्यं अरिष्यन्न् अरिष्यतः ॥

आ नो वीरो जायतां कर्मण्यो ऽभिशस्तिपा अनभिशस्तेन्यः ।

यं बहवो ऽनुजीवान् यो बहूनाम् असद् वशी ॥

वैष्णवम् असि विष्णुस् त्वोत्तभ्नातु ॥

दिवो विष्ण उत वा पृथिव्या उरोर् वा विष्णो बृहतो अन्तरिक्षात् ।

हस्तौ पृणस्व बहुभिर् वसव्यैर् आ प्रयछ दक्षिणाद् ओत सव्यात् ॥

विष्णोर् नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि ।

यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥

विष्णोः पृष्ठम् असि विष्णो रराटम् असि विष्णोः शिप्रे स्थो विष्णोः स्यूर् असि विष्णोर् ध्रुवो ऽसि वैष्णवम् असि विष्णवे त्वा ॥

प्र तद् विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।

यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा

॥१.२.९॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ऽभ्रिर् असि नारिर् असीदम् अहं रक्षसो ग्रीवा अपिकृन्तामीदम् अहं यो मे समानो यो ऽसमानो ऽरातीयति तस्य ग्रीवा अपिकृन्तामि बृहन्न् असि बृहद्राया बृहतीम् इन्द्राय वाचं वद रक्षोहणं वलगहनं वैष्णवीं सम्राड् असि सपत्नहेदम् अहं तान् वलगान् उद्वपामि यान् मे समानो यान् असमानो निचखान ये कुल्फदघ्ने निरस्तो वलगः स्वराड् अस्य् अभिमातिहेदम् अहं तान् वलगान् उद्वपामि यान् मे सजातो यान् असजातो निचखान ये जानुदघ्ने निरस्तो वलगो विराड् असि रक्षोहेदम् अहं तान् वलगान् उद्वपामि यान् मे सबन्धुर् यान् असबन्धुर् निचखान ये नाभिदघ्ने निरस्तो वलगः सत्रराड् अस्य् अशस्तिहेदम् अहं तान् वलगान् उद्वपामि यान् मे भ्रातृव्यो यान् अभ्रातृव्यो निचखान ये अंसदघ्ने निरस्तो वलगः सर्वराड् अस्य् अरातीयतो हन्तेदम् अहं तान् वलगान् उद्वपामि यान् मे सजन्यो यान् असजन्यो निचखान ये शीर्षदघ्ने निरस्तो वलगः ॥

सम्मृश इमान् आयुषे वर्चसे च देवानां निधिर् असि द्वेषोयवनः ।

युयोध्य् अस्मद् द्वेषांसि यानि कानि च चकृम ॥

देवानाम् इदं निहितं यद् अस्त्य् अथाभाहि प्रदिशश् चतस्रः ।

कृण्वानो अन्यं अधरान्त् सपत्नान्

॥१.२.१०॥

पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वा शुन्धन्तां लोकाः पितृषदना यवो ऽसि यवय द्वेषो अस्मद् यवयारातिं पितृषदनं त्वा लोकम् अवस्तृणामि ॥

उञ्श्रयस्व वनस्पते सजूर् देवेन बर्हिषा ।

नितानस् त्वा मारुतो निहन्तु मित्रावरुणौ ध्रुवेण धर्मणा ॥

ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामि ब्रह्म दृम्ह क्षत्रं दृम्ह रायस्पोषं दृम्ह प्रजां दृम्ह सजातान् अस्मै यजमानाय दृम्ह ॥

घृतेन द्यावापृथिवी आपृण विश्वजनस्य छायासि ॥

परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।

वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥

इन्द्राय त्वेन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवो ऽस्य् ऐन्द्रम् असीन्द्राय त्वा रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवान् रक्षोहणं त्वा वलगहनम् अवसिञ्चामि वैष्णवं रक्षोहणं त्वा वलगहनम् अवस्तृणामि वैष्णवं रक्षोघ्नी वां वलगघ्नी उपदधामि वैष्णवी रक्षोघ्नी वां वलगघ्नी पर्यूहामि वैष्णवी रक्षोहणं त्वा वलगहनम् आस्तृणामि वैष्णवम्

॥१.२.११॥

विभूर् असि प्रवाहणो वह्निर् असि हव्यवाहनः श्वात्रो ऽसि प्रचेतास् तुथो ऽसि विश्ववेदा अवस्युर् असि दुवस्वान् अङ्घारिर् असि बम्भारिर् उशिग् असि कविः शुन्ध्युर् असि मार्जालीयः सम्राड् असि कृशानुः परिषद्यो ऽस्य् आस्तव्यो नभो ऽसि प्रतक्वासम्मृष्टो ऽसि हव्यसूदनः सगरो ऽसि विश्ववेदा ऋतधामासि स्वर्ज्योतिः समुद्रो ऽसि विश्वव्यचा अजो ऽस्य् एकपाद् अहिर् असि बुध्न्यः कव्यो ऽसि कव्यवाहनो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा नमस् ते अस्तु मा मा हिंसीः

॥१.२.१२॥

त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः ।

उरु यन्तासि वरूथम् ॥ स्वाहा ॥

जुषाणो अप्तुर् आज्यस्य वेतु ॥ स्वाहा ॥

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।

युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम ॥

उरु विष्णो विक्रमस्वोरु क्षयाय नस् कृधि ।

घृतं घृतवने पिब प्रप्र यज्ञपतिं तिर ॥ स्वाहा ॥

एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरम् अमृतस्य गोपाम् ।

स नः शर्म त्रिवरूथं वियंसत् पातं नो द्यावापृथिवी उपस्थे ॥

उर्व् अन्तरिक्षं वीह्य् अदित्याः सदा आसीद देव सवितर् एष ते सोमस् तं रक्षस्व मा त्वा दभन् दुश्चक्षास् ते मावक्शद् एतत् त्वं देव सोम देवान् उपावृतेदम् अहं मनुष्यान्त् सह रायस्पोषेण प्रजया चोपावर्ते नमो देवेभ्यः स्वधा पितृभ्यो निर् वरुणस्य पाशाद् अमुक्षि स्वर् अभिव्यक्शं ज्योतिर् वैश्वानरम् अग्ने व्रतपते या तव तनूर् मय्य् अभूद् एषा सा त्वय्य् अग्ने व्रतपते या मम तनूस् त्वय्य् अभूद् इयं सा मयि पुनर् नौ व्रतपते व्रतिनोर् व्रतानि यथायथं नौ व्रतपते व्रतिनोर् व्रतानि वि व्रतानि सृजावहै

॥१.२.१३॥

उपावृत : फ़्न् ⟨ उपावृतस्

उपावृत : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्: लिएस् उपावृत्त स्तत्त् उपावृत

उपावृत : फ़्न् च्फ़्। ३।९।१:११३।१४: उपावृता इति। अवृतस् स्ग्२ अओरिस्त्

अत्य् अन्यान् अगां नान्यान् उपागाम् अर्वाक् त्वा परेभ्यः परो ऽवरेभ्यो ऽविदं तं त्वा जुषामहे देवयज्यायै जुष्टं विष्णवे विष्णवे त्वा ॥

उरु विष्णो विक्रमस्वोरु क्षयाय नस् कृधि ।

घृतं घृतवने पिब प्रप्र यज्ञपतिं तिर ॥ स्वाहा ॥

ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।

या ते शिवतमा तनूस् तयैनम् उपस्पृश ॥

यं त्वाम् अयं स्वधितिस् तिग्मतेजाः प्रणिनाय महते सौभगाय ।

दिवम् अग्रेण मा हिंसीर् अन्तरिक्षं मध्येन पृथिव्या सम्भव भ्राजं गछ ।

वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयं रुहेम ॥

पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वा शुन्धन्तां लोकाः पितृषदना यवो ऽसि यवय द्वेषो अस्मद् यवयारातिं पितृषदनं त्वा लोकम् अवस्तृणामि ॥

स्वावेशो ऽस्य् अग्रेगा नेत्πणाम् अधि त्वा स्थास्यति तस्य वित्स्व ॥

घृतेन द्यावापृथिवी आपृण देवस् त्वा सविता मध्वानक्तु ॥

इन्द्रस्य चषालम् असि सुपिप्पला ओषधीस् कृधि दिवम् अग्रेणोत्तभानान्तरिक्षं मध्येनापृण पृथिवीम् उपरेण दृम्ह ॥

ता ते धामान्य् उश्मसि गमध्यै गावो यत्र भूरिशृङ्गा अयासः ।

अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अवभाति भूरि ॥

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।

इन्द्रस्य युज्यः सखा ॥

ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामि ब्रह्म दृम्ह क्षत्रं दृम्ह रायस्पोषं दृम्ह प्रजां दृम्ह सजातान् अस्मै यजमानाय दृम्ह ॥

तद् विष्णोः परमं पदं शच्या पश्यन्ति सूरयः ।

दिवीव चक्षुर् आततम् ॥

परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानं मनुष्याः सह रायस्पोषेण प्रजया च व्ययन्तां दिवः सानूपेष दिवं ते धूमो गछत्व् अन्तरिक्षं ज्योतिः पृथिवीं भस्म स्वाहा

॥१.२.१४॥

इषे त्वोपावीर् अस्य् उपो देवान् दैवीर् विशः प्रागुर् वह्नय उशिजो बृहस्पते धारया वसूनि हव्या ते स्वदं देव त्वष्टर् वसु रणे रेवती रमध्वं देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आदद ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चाम्य् अमुष्मै त्वा जुष्टं धर्षा मानुषा अद्भ्यस् त्वौषधीभ्यो जुष्टं प्रोक्षाम्य् अनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यो ऽनुमानावह देवान् देवायते यजमानायापां पेरुर् असि स्वात्तं सद् धविर् आपो देवीः स्वदन्तु सं ते वायुर् वातेन गछतां सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषा घृतेनाक्तौ पशूंस् त्रायेथाम् ॥

मानुषास् : फ़्न् प्: मानुषः

ये बध्यमानम् अनु बध्यमाना अन्वैक्षन्त मनसा चक्षुषा च ।

अग्निष् टं अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥

टं : फ़्न् प्: तान्।

रेवति प्रेधा यज्ञपतिम् आविशोरो अन्तरिक्ष सजूर् देवेन वातेन ॥

त्मनास्य हविषो यज सम् अस्य तन्वा भव ।

वर्षीयो वर्षीयसो यज्ञं यज्ञपतौ धाः ॥

स्वर्विद् असि स्वर् वित्त्वा स्वर् इहि स्वर् मह्यं स्वः पशुभ्यो लोकविद् असि लोकं वित्त्वा लोकम् इहि लोकं मह्यं लोकं पशुभ्यो नाथविद् असि नाथं वित्त्वा नाथम् इहि नाथं मह्यं नाथं पशुभ्यो गातुविद् असि गातुं वित्त्वा गातुम् इहि गातुं मह्यं गातुं पशुभ्यः ॥

न वा एतन् म्रियसे नोत रिष्यसि देवं इद् एषि पथिभिः शिवेभिः ।

यत्र यन्ति सुकृतो नापि दुष्कृतस् तत्र त्वा देवः सविता दधातु ॥

शमितार उपेतन यज्ञं देवेभिर् अन्वितम् ।

पाशात् पशुं प्रमुञ्चत बन्धाद् यज्ञपतिं परि ॥

अदितिः पाशान् प्रमुमोक्त्व् एतान् पशोः पाशान् पशुपतेर् अधि ।

यो नो द्वेष्ट्य् अधरः स पद्यतां तस्मिन् पाशान् प्रतिमुञ्चाम एतान्

॥१.२.१५॥

एतान् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

नमस् त आतानानर्वा प्रेहि यजमानाय घृतस्य कुल्याम् अनु सह रायस्पोषेण देवीर् आपः शुद्धा यूयं देवान् युयुध्वं शुद्धा वयं सुपरिविष्टाः परिवेष्टारो वो भूयास्म वाचम् अस्य मा हिंसीः प्राणम् अस्य मा हिंसीश् चक्षुर् अस्य मा हिंसीः श्रोत्रम् अस्य मा हिंसीर् यत् ते क्रूरं यद् आस्थितं तद् एतेन शुन्धस्व देवेभ्यः शुम्भस्व गात्राण्य् अस्य मा हिंसीश् चरित्रान् अस्य मा हिंसीर् नाभिम् अस्य मा हिंसीर् मेढ्रम् अस्य मा हिंसीः पायुम् अस्य मा हिंसीः शम् अद्भ्यः ॥

ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।

या ते शिवतमा तनूस् तयैनम् उपस्पृश ॥

पृथिव्यै त्वा रक्षसां भागो ऽसीदम् अहं रक्षो ऽवबाध इदम् अहं रक्षो ऽधमं तमो नयामीषे त्वोर्जे त्वा देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व ॥

घृतेन द्यावापृथिवी प्रोर्णुवाताम् अमुष्मै त्वा जुष्टं नमः सूर्यस्य सन्दृशे ॥

उर्व् अन्तरिक्षं वीहि प्रत्युष्टं रक्षः प्रत्युष्टारातिर् वायोः स्तोकानां प्रयुता द्वेषांसि स्वाहोर्ध्वनभसं मारुतं देवं गछतम्

॥१.२.१६॥

द्वेषांसि : फ़्न् च्फ़्। ३।१०।१:१३१।२

स्वाहोर्ध्वनभसं : फ़्न् च्फ़्। ३।१०।१:१३१।२

जुष्टं देवेभ्यो हव्यं घृतावद् अमुष्मै त्वा जुष्टं रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिण्वन् वातस्य त्वा ध्राज्यै पूष्णो रंह्या ऊष्मणो ऽव्यथिषे ऽपाम् ओषधीनां रसो घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविर् असि स्वाहा त्वा वाताय दिशः प्रदिश आदिशो विदिश उद्दिशो दिश ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यद् ऐन्द्रो ऽपानो अङ्गे अङ्गे निबोभुवद् ऐन्द्रो व्यानो अङ्गे अङ्गे विबोभुवत् ॥

देव त्वष्टर् भूरि ते सत् समेतु सलक्ष्म यद् विषुरूपं बभूव ।

देवत्रा यन्तम् अवसे सखायो अनु त्वा माता पितरो मदन्तु

॥१.२.१७॥

समुद्रं गछ स्वाहान्तरिक्षं गछ स्वाहा देवं सवितारं गछ स्वाहाहोरात्रे गछ स्वाहा मित्रावरुणौ गछ स्वाहा द्यावापृथिवी गछ स्वाहा छन्दांसि गछ स्वाहा सोमं गछ स्वाहा यज्ञं गछ स्वाहा दिव्यं नभो गछ स्वाहाग्निं वैश्वानरं गछ स्वाहा मनो हार्दिं यछौषधीभ्यस् त्वा ॥

धाम्नोधाम्नो राजन्न् इतो वरुण नो मुञ्च यद् आपो अघ्न्या वरुणेति शपामहै ।

ततो वरुण नो मुञ्च ॥

उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय ।

अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥

सुमित्रा ना आपा ओषधयः सन्तु दुर्मित्रास् तस्मै सन्तु ।

यो अस्मान् द्वेष्टि यं च वयं द्विष्मः

॥१.२.१८॥
प्रपाठक 3

प्रथमकाण्डे तृतीयः प्रपाठकः

प्रथमकाण्डे तृतीयः प्रपाठकः

जुष्टो वाचो भूयासं जुष्टो वाचस्पतिर् यद् वाचो मधुमत् तस्मै स्वाहा स्वाहा सरस्वत्यै

॥१.३.१॥

निग्राभ्याः स्थ देवश्रुतस् तर्पयत मायुर् मे तर्पयत तर्पयत मा प्रांअं मे तर्पयत तर्पयत मापानं मे तर्पयत तर्पयत मा व्यानं मे तर्पयत तर्पयत मा चक्षुर् मे तर्पयत तर्पयत मा श्रोत्रं मे तर्पयत तर्पयत मा मनो मे तर्पयत तर्पयत मा वाचम् मे तर्पयत तर्पयत मात्मानं मे तर्पयत तर्पयत मा प्रजां मे तर्पयत तर्पयत मा गृहान् मे तर्पयत तर्पयत मा पशून् मे तर्पयत तर्पयत मा गणैर् मा मा वितीतृषत तर्पयत मा

॥१.३.२॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ग्रावास्य् अध्वरकृद् देवेभ्यो गभीरम् इमम् अध्वरं कृधि ॥

इन्द्राय त्वा सुषुत्तमं मधुमन्तं पयस्वन्तम् ।

इन्द्राय त्वाभिमातिघ्न इन्द्राय त्वा वसुमते रुद्रवत इन्द्राय त्वादित्यवते ॥

अग्नये त्वा रायस्पोषदे विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा ॥

श्वात्राः स्थ वृत्रतुरो राध्वं गूर्ता अमृतस्य पत्नीः ।

ता देवीर् देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबत ॥

यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उरा अन्तरिक्षे तेनास्मै यज्ञपतय उरु राये कृध्य् अधि धात्रे वोचो मा भैर् मा संविक्था ऊर्जं धत्स्वोर्जम् अस्मासु धेहि धिषणे ईडिते ईडेथाम् ऊर्जं दधाथाम् ऊर्जम् अस्मासु धत्तं मा वां हिंसिषं मास्मान् युवं हिंसिष्टम्

॥१.३.३॥

वाचस्पतये पवस्व वृष्णो अंशुभ्यां गभस्तिपूतः ॥

देवो देवानां पवित्रम् असि येषां भागो ऽसि ॥

मधुमतीर् ना इषस् कृधि स्वाङ्कृतो ऽस्य् उर्व् अन्तरिक्षं वीहि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यः प्राणाय त्वा यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा प्राग् अपाग् अधराग् उदग् एतास् त्वा दिशा आधावन्त्व् अम्ब निस्मर सम् अरिर् विदाम्

॥१.३.४॥

त्वाष्टु : फ़्न् ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। ११४

उपयामगृहीतो ऽसि ॥

अन्तर् यछ मघवन् पाहि सोमम् उरुष्य रायः सम् इषो यजस्व ॥

अन्तस् ते द्यावापृथिवी दधाम्य् अन्तर् दधाम्य् उर्व् अन्तरिक्षम् ।

सजोषा देवैर् अवरैः परैश् चान्तर्यामे मघवन् मादयस्व ॥

वाक् त्वाष्टु स्वाहा त्वा सुभव सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यो ऽपानाय त्वा

॥१.३.५॥

आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।

उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥

उपयामगृहीतो ऽसि वायवे त्वा ॥

इन्द्रवायू इमे सुता उप प्रयोभिर् आगतम् ।

इन्दवो वाम् उशन्ति हि ॥

उपयामगृहीतो ऽसि वायव इन्द्रवायुभ्यां त्वैष ते योनिः सजोषोभ्यां त्वा

॥१.३.६॥

अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।

ममेद् इह श्रुतं हवम् ॥

उपयामगृहीतो असि मित्रावरुणाभ्यां त्वैष ते योनिर् ऋतायुभ्यां त्वा

॥१.३.७॥

या वां कशा मधुमत्य् अश्विना सूनृतावती ।

तया यज्ञं मिमिक्षतम् ॥

उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् माध्वीभ्यां त्वा

॥१.३.८॥

उपयामगृहितो ऽसि देवेभ्यस् त्वोपयामगृहीतो ऽसि विश्वदेवेभ्यस् त्वोपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ॥

दितेः पुत्राणाम् अदितेर् अकारिषम् उरुशर्मणां बृहतां वरूथिनाम् ।

येषां नामानि विहितानि धामशश् चित्तैर् यजन्ति भुवनाय जीवसे ॥

उपयामगृहीतो ऽसि विष्णोस् त्वोरुक्रमे गृह्णामि विष्ण उरुक्रमैष ते सोमस् तं रक्षस्व मा त्वा दभन् दुश्चक्षास् ते मावक्शद् अयं वसुः पुरोवसुर् वाक्पा वाचं मे पात्व् अयं वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पात्व् अयं वसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पातु

॥१.३.९॥

अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।

इमम् अपां सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥

उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर् वीरतायै त्वा

॥१.३.१०॥

तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठराजं बर्हिषदं स्वर्दृशम् ।

प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तम् अनु यासु वर्धसे ॥

उपयामगृहीतो ऽसि मर्काय त्वैष ते योनिः प्रजाभ्यस् त्वा

॥१.३.११॥

अपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्मो ऽछिन्नस्य ते देव सोम दक्षस्य रायस्पोषस्य सुवीर्यस्याभिरहीतारः स्याम ॥

तुथो ऽसि जनधाया देवास् त्वा शुक्रपाः प्रणयन्तु तुथो ऽसि जनधाया देवास् त्वा मन्थिपाः प्रणयन्त्व् अनाधृष्टासि सुवीराः प्रजाः प्रजनयन् परीहि सुप्रजाः प्रजाः प्रजनयन्न् अभिपरीहि ॥

इन्द्रेण मन्युना युजावबाधे पृतन्यतः ।

घ्नता वृत्रान्य् अप्रति ॥

सञ्जग्मानौ दिवा पृथिव्या शुक्रौ शुक्रशोचिषौ तौ देवौ शुक्रामन्थिना आयुर् यज्ञे धत्तम् आयुर् यज्ञपतौ पुमांसं गर्भम् आधत्तं गवीण्योः प्राणान् पशुषु यछतं शुक्रस्याधिष्ठानम् असि मन्थिनो ऽधिष्ठानम् असि निरस्तः शण्डो निरस्तो मर्कः सह तेन यं द्विष्मः ॥

या प्रथमा संस्कृतिर् यज्ञे अस्मिन् यः परमो बृहस्पतिश् चिकित्वान् ।

यो मध्यमो वरुणो मित्रो अग्निस् तस्मा इन्द्राय सुतम् आजुहोत तस्मै सूर्याय सुतम् आजुहोत

॥१.३.१२॥

ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ ।

अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥

देवासो : फ़्न् एमेन्देद्। एद्।: दवासो।

उपयामगृहीतो ऽस्य् आग्रायाणो ऽसि स्वाग्रायणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवनानि पाह्य् अतस् त्वा विष्णुः पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः

॥१.३.१३॥

उपयामगृहीतो ऽसि ॥

इन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवम् ।

यत् त इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वा ॥

एष ते योनिर् इन्द्राय त्वोपयामगृहीतो ऽसि देवेभ्यस् त्वा देवायुवं गृह्णामि पुनर्हविर् असि देवेभ्यस् त्वा देवायुवं पृणच्मि यज्ञस्यायुषे

॥१.३.१४॥

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् ।

कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥

उपयामगृहीतो ऽसि वैश्वानराय त्वा ॥

ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तम एष ते योनिर् वैश्वानराय त्वा ॥

ध्रुवं ध्रुवेण हविषा वः सोमं नयामसि ।

यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥

दिवि दिव्यान् दृंहान्तरिक्षे अन्तरिक्ष्यान् पृथिव्यां पार्थिवान्

॥१.३.१५॥

उपयामगृहीतो ऽसि मधवे त्वा माधवाय त्वा शुक्राय त्वा शुचये त्वा नभसे त्वा नभस्याय त्वेषाय त्वोर्जाय त्वा सहसे त्वा सहस्याय त्वा तपसे त्वा तपस्याय त्वा

॥१.३.१६॥

इन्द्राग्नी आगतं सुतं गीर्भिर् नभो वरेण्यम् ।

अस्य पातं धियेषिता ॥

उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वैष ते योनिर् इन्द्राग्निभ्यां त्वा

॥१.३.१७॥

ओमासश् चर्षणीधृतो विश्वे देवासा आगत ।

दाश्वांसो दाशुषः सुतम् ॥

उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्य एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः

॥१.३.१८॥

इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।

तव प्रणीती तव शूर शर्मन्न् आविवासन्ति कवयः सुयज्ञाः ॥

उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते

॥१.३.१९॥

जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः ।

अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र माता यद् वीरं जजनज् जनिष्ठम् ॥

उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते

॥१.३.२०॥

मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् ।

विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवे ॥

उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते

॥१.३.२१॥

मरुत्वं इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधं मदाय ।

आसिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥

उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते

॥१.३.२२॥

सजोसा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।

जहि शत्रूंर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥

उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते

॥१.३.२३॥

महं इन्द्रो य ओजसा पर्जन्यो वृष्टिमं इव ।

स्तोमैर् वत्सस्य वावृधे ॥

उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा

॥१.३.२४॥

महं इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः ।

अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥

उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा

॥१.३.२५॥

कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।

उपोपेन् नु मघवन् भूया इन् नु ते दानं देवस्य पृच्यते ॥

उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा ॥

कदा चन प्रयुछस्य् उभे निपासि जन्मनी ।

तुरीयादित्य सवनं त इन्द्रियम् आतस्था अमृतं दिवि ॥

उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा ॥

यज्ञो देवानां प्रत्येतु सुम्नम् आदित्यासो भवता मृडयन्तः ।

आ वो ऽर्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या वरिवोवित्तरासत् ॥

अहं परस्ताद् अहम् अवस्ताद् अहं विश्वस्य भुवनस्य राजा ।

अहं सूर्यम् उभयतो ददर्श यद् अन्तरिक्षं तद् उ नः पिताभूत् ॥

उन्नम्भय पृथिवीं भिन्ध्य् अदो दिव्यं नभः ।

उद्नो दिव्यस्य नो धातर् ईशानो विष्या दृतिम्

॥१.३.२६॥

अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिर् अद्य परिपाहि नो वृधे ।

हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशम्स ईशत ॥

उपयामगृहीतो ऽसि सावित्रो ऽसि जनधाया जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवनानि पाह्य् अतस् त्वा विष्णुः पातु विशं त्वं पाहीन्द्रियेण

॥१.३.२७॥

उपयामगृहीतो ऽसि ॥

सुशर्मासि सुप्रतिष्ठानो बृहदुक्षे नमः ॥

एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः

॥१.३.२८॥

उपयामगृहीतो ऽसि बृहस्पतिसुतस्य त इन्द इन्द्रियावतः ॥

पत्नीवन्तं ग्रहं राध्यासम् ॥

अग्ना३इ पत्नीवा३न्त् सजूस् त्वष्ट्रा सोमं पिब

॥१.३.२९॥

उपयामगृहीतो ऽसि हरिर् असि हारियोजनो हरिवान् हर्योः स्थाता स्तुतस्तोमस्य ते देव सोम शस्तोक्थस्येष्टयजुषः ॥

हरिवतो हारियोजनस्य हरिवन्तं ग्रहं राध्यासम् ॥

हर्योर् धाना हरिवतीः सहसोमा इन्द्राय रय्यै त्वा पोषाय त्वा

॥१.३.३०॥

अग्ना आयूंषि पवसा आसुवोर्जम् इषं च नः ।

आरे बाधस्व दुछुनाम् ॥

उपयामगृहीतो ऽसि अग्नये त्वायुष्मत एष ते योनिर् अग्नये त्वायुष्मते

॥१.३.३१॥

ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् ।

इन्द्रश् चर्मेव रोदसी ॥

उपयामगृहीतो ऽसीन्द्राय त्वौजस्वत एष ते योनिर् इन्द्राय त्वौजस्वते

॥१.३.३२॥

अदृश्रन्न् अस्य केतवो वि रश्मयो जनं अनु ।

भ्राजन्तो अग्नयो यथा ॥

उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते

॥१.३.३३॥

इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ।

ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ॥

उपयामगृहीतो ऽसीन्द्राय त्वा हरिवत एष ते योनिर् इन्द्राय त्वा हरिवते

॥१.३.३४॥

उपयामगृहीतो ऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि रातं देवेभ्यो दक्षाय दक्षवृधम् अग्निह्वरेभ्यस् त्वा ऋतायुभ्या इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यः पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वाद्भ्यस् त्वौषधीभ्यो वनस्पतिभ्यस् त्वा प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वासते त्वा भूताय त्वा भव्याय त्वा येन प्रजा अछिद्रा अजायन्त तस्मै त्वा प्रजापतये विश्वकर्मणे विश्वव्यचसे विभूदाव्ने विभुं भागं जुहोमि स्वाहा ॥

तिस्रो जिह्वस्य समिधः परिज्मनो ऽग्नेर् अकृण्वन्न् उशिजो अमृत्यवे ।

तासाम् एकाम् अदधुर् मर्त्ये भुजं लोकम् उ द्वे उप जामी ईयतुः

॥१.३.३५॥

अग्निः प्रातः सवनात् पात्व् अस्मान् वैश्वानरो विश्वश्रीर् विश्वशम्भूः ।

स नः पावको द्रविणं दधात्व् आयुष्मन्तः सहभक्षाः स्याम ॥

अग्नये त्वा प्रवृहामि गायत्रेण छन्दसेन्द्राय त्वा प्रवृहामि त्रैष्टुभेन छन्दसादित्येभ्यस् त्वा प्रवृहामि जागतेन छन्दसा रेशीनां त्वा पत्मन्न् आधूनोमि मान्दानां त्वा पत्मन्न् आधूनोमि भन्दनानां त्वा पत्मन्न् आधूनोमि पूतनानां त्वा पत्मन्न् आधूनोमि पस्त्यानां त्वा पत्मन्न् आधूनोमि माध्वीनां त्वा पत्मन्न् आधूनोमि मदुघानां त्वा पत्मन्न् आधूनोमि देवयानीनां त्वा पत्मन्न् आधूनोम्य् उपयामगृहीतो ऽसि शुक्रं त्वा शुक्र शुक्राय गृह्णाम्य् अह्नो रूपे सूर्यस्य रश्मिषु ॥

आ समुद्रा अचुच्यवुर् दिवो धारा असश्चत ॥

ककुभं रूपं वृषभस्य रोचते बृहद् वसूनाम् आधीतौ रुद्राणां कर्मन्न् आदित्यानां चेतसीन्द्राय त्वा विभूवसे जुहोम्य् उशिक् त्वं देव सोम गायत्रेण छन्दसाग्नेर् धामोपेहि वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य धामोपेह्य् अस्मत्सखा देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथा उपेहि

॥१.३.३६॥

उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।

दृशे विश्वाय सूर्यम् ॥

चित्रं देवानाम् उदगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।

आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥

द्यां गछ स्वर् गछ रूपं वो रूपेणाभ्येमि वयसा वयस् तुथो वो विश्ववेदा विभजतु वर्षिष्ठे अधि नाके पृथिव्याः ॥

एतत् ते अग्ने राध एति सोमच्युतं तन् मित्रस्य पथा नय ॥

अयं नो अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर एतु प्रभिन्दन् ।

अयं शत्रून् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥

ऋतस्य पथा प्रेत चन्द्रदक्षिणा ब्राह्मणम् अद्य ऋध्यासं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयं सुधातुदक्षिणम् ॥

वि स्वः पश्य व्यन्तरिक्षं यतस्व सदस्यैर् अस्मद्राता मधुमतीर् देवत्रा गछत प्रदातारम् आविशतानवहायास्मान् देवगानेन पथा सुकृतां लोके सीदत तन् नः संस्कृतम्

॥१.३.३७॥

धाता रातिः सवितेदं जुषन्तां प्रजापतिर् वरुणो मित्रो अग्निः ।

विष्णुस् त्वष्टा प्रजया संरराणो यजमानाय द्रविणं दधातु ॥

सम् इन्द्र नो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्त्या ।

सं ब्रह्मणा देवकृतं यद् अस्ति सं देवानां सुमतौ यज्ञियानाम् ॥

सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सं शिवेन ।

त्वष्टा सुदत्रो विदधातु रायो ऽनु नो मार्ष्टु तन्वो यद् विरिष्टम् ॥

सुगा वो देवाः सदना कृणोमि य आजग्मेदं सवनं जुषाणाः ।

जक्षिवांसः पपिवांसश् च विश्वे ऽस्मे धत्त वसवो वसूनि ॥

यान् आवह उशतो देव देवांस् तान् प्रेरय स्वे अग्ने सधस्थे ।

वहमाना भरमाणा हवींष्य् असुं घर्मं दिवम् आतिष्ठतानु ॥

यद् अद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह ।

ऋधग् अयाड् ऋधग् उताशमिष्ट विद्वान् प्रजानन्न् उपयाहि यज्ञम् ॥

यज्ञ यज्ञं गछ यज्ञपतिं गछ स्वं योनिं गछ स्वाहैष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरस् तेन सम्भव भ्राजं गछ देवा गातुविदो गातुं वित्त्वा गातुम् इत मनसस्पते सुधात्व् इमं यज्ञं दिवि देवेषु वाते धाः स्वाहा

॥१.३.३८॥

उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ ।

अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥

शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु ॥

आरे बाधस्व निरृतिं पराचैः कृतं चिद् एनः प्रमुमुग्ध्य् अस्मत् ॥

अग्नेर् अनीकम् अप आविवेशापां नपात् प्रतिरक्षद् असुर्यान् ॥

दमेदमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच्चरण्यत् ॥

समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।

यज्ञस्य ते यज्ञपते सूक्तोक्तौ नमोवाके विधेम ॥ स्वाहावभृथ निचुङ्कुण निचेरुर् असि निचुङ्कुणो गृहं गृहो ऽव नो देवैर् देवकृतम् एनो यक्ष्य् अव मर्त्यैर् मर्त्यकृतं चिकित्वान् उरोर् आ नो देव रिषस् पाह्य् अप्सु धौतस्य ते देव सोम नृभिः ष्टुतस्य यस् ते गोसनिर् भक्षो यो अश्वसनिस् तस्य ता उपहूता उपहूतस्य भक्षयामि विचृत्तो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशो नमो वरुणस्य पाशायोन्नेतर् वसीयो ना उन्नयाभि ॥

उदुत् ते मधुमत्तमा गिरः स्तोमास ईरते ।

सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥

कण्वा इव भृगवः सूर्या इव विश्वम् इद् धितम् आनशुः ।

उदेत प्रजाम् उत वर्चो दधाना युष्मान् राय उत यज्ञा असश्चत ॥

गायत्रं छन्दो अनु संरभध्वम् अथा स्यात सुरभयो गृहेषु ।

एधो ऽस्य् एधिषीमहि समिद् असि समेधिषीमहि ॥

अपो अद्यान्वचारिषं रसेन समसृक्ष्महि ।

पयस्वान् अग्ना आगमं तं मा संसृज वर्चसा

॥१.३.३९॥
प्रपाठक 4

प्रथमकाण्डे चतुर्थः प्रपाठकः

प्रथमकाण्डे चतुर्थः प्रपाठकः

तस्य मा यज्ञस्येष्टस्य वीतस्य द्रविणेहागम्याद् वसुर् यज्ञो वसुमान् यज्ञस् तस्य मा यज्ञस्य वसोर् वसुमतो वस्व् इहागछत्व् अदो मागछत्व् अदो मागम्यात्

॥१.४.१॥

सं यज्ञपतिर् आशिषा सद् असि सन् मे भूयाः पूर्णम् असि पूर्णं मे भूयाः सर्वम् असि सर्वं मे भूया अक्षितम् अस्य् अक्षितं मे भूयाः प्राच्या दिशा देवा ऋत्विजो मार्जयन्तां दक्षिणया दिशा मासाः पितरो मार्जयन्तां प्रतीच्या दिशा गृहाः पशवो मार्जयन्ताम् उदीच्या दिशापा ओषधयो वनस्पतयो मार्जयन्ताम् ऊर्ध्वया दिशा यज्ञः संवत्सरो मार्जयतां विष्णुः पृथिव्यां व्यक्रंस्त गायत्रेण छन्दसा निर्भक्तः स यं द्विष्मो विष्णुर् अन्तरिक्षे व्यक्रंस्त त्रैष्टुभेन छन्दसा निर्भक्तः स यं द्विष्मो विष्णुर् दिवि व्यक्रंस्त जागतेन छन्दसा निर्भक्तः स यं द्विष्मो ऽगन्म स्वः सं ज्योतिषाभूमेदम् अहम् अमुष्य प्राणं निवेष्टयामि तेजो ऽसि सम् अहं प्रजया सं मया प्रजा सम् अहं पशुभिः सं मया पशवो ऽग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया अस्थूरि णौ गार्हपत्यं दीदायञ् शतं हिमा द्वायू राधांसि सम्प्र्ञ्चाना असम्पृञ्चानौ तन्वो ऽसा अनु मा तन्व् अछिन्नो दिव्यस् तन्तुर् मा मानुषश् छेदि दिव्याद् धाम्नो मा छित्सि मा मानुषाद् ज्योतिषे तन्तवे त्वा

॥१.४.२॥

ये देवा यज्ञहनः पृथिव्याम् अध्य् आसते ।

अग्निर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

ये देवा यज्ञमुषः पृथिव्याम् अध्य् आसते ।

अग्निर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

यास् ते रात्रयः सवितर् देवयानीः सहस्रयज्ञम् अभि सम्बभूवुः ।

गृहैश् च सर्वैः प्रजया न्व् अग्रे स्वो रुहाणास् तरता रजांसि ॥

ये देवा यज्ञहनो अन्तरिक्षे अध्य् आसते ।

वायुर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

ये देवा यज्ञमुषो अन्तरिक्षे अध्य् आसते ।

वायुर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

आगन्म मित्रावरुणा वरेण रात्रीणां भागो युवयोर् यो अस्ति ।

नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥

ये देवा यज्ञहनो दिव्य् अध्य् आसते सूर्यो नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

ये देवा यज्ञमुषो दिव्य् अध्य् आसते ।

सूर्यो नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

येनेन्द्राय समभरन् पयांस्य् उत्तमेन हविषा जातवेदः ।

तेनाग्ने त्वम् उत वर्धया मां सजातानां मध्ये श्रैष्ठ्या आ धेहि मा ॥

वेदो ऽसि वेदो मा आभर तृप्तो ऽहं तृप्तस् त्वम् ॥

घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणम् ।

वेदो वाजं ददातु मे ॥

निर् द्विषन्तं निर् अरातिं दह रुद्रास् त्वायछन्न् आदित्यास् त्वास्तृणन् ॥

गोमं अग्ने ऽविमं अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः ।

इडावान् एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥

सं पत्नी पत्या सुकृतेषु गछतां यज्ञस्य युक्तौ धुर्या अभूताम् ।

आप्रीणानौ विजहता अरातिं दिवि ज्योतिर् उत्तमम् आरभेथां स्वाहा ॥

अभूताम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

पत्नि पत्न्य् एष ते लोको नमस् ते अस्तु मा मा हिंसीर् या सरस्वती वेशयमनी तस्यै स्वाहा ॥

या सरस्वती वेशभगीना तस्यास् ते भक्तिवानो भूयास्म ॥

अयाश् चाग्ने ऽस्य् अनभिशस्तिश् च सत्यम् इत् त्वम् अया असि ।

अयाः सन् मनसा कृत्तो ऽयाः सन् हव्यम् ऊहिषे ऽया नो धेहि भेषजं स्वाहा

॥१.४.३॥

देवान् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु पितॄन् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु मनुष्यान् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछत्व् अप ओषधीर् वनस्पतीन् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु पञ्चजनं जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु पञ्चानां त्वा वातानां धर्त्राय गृह्णामि पञ्चानां त्वा दिशां धर्त्राय गृह्णामि पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि पञ्चानां त्वा पञ्चजनानां धर्त्राय गृह्णामि चरोस् त्वा पञ्चबिलस्य धर्त्राय गृह्णामि ॥

धामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् ।

देववीत्यै त्वा गृह्णामि ॥

भूर् अस्माकं हव्यं देवानाम् आशिषो यजमानस्य देवताभ्यस् त्वा देवताभिर् गृह्णामि

॥१.४.४॥

समृतयज्ञो वा एष यद् दर्शपूर्णमासौ कस्य वाह यक्ष्यमाणस्य देवता यज्ञम् आगछन्ति कस्य वा न बहूनां समानम् अहर् यजमानानां यः पूर्वेद्युर् अग्निं गृह्णाति स श्वो भूते देवता अभियजते ममाग्ने वर्चो विहवेष्व् अस्त्व् इति पूर्वम् अग्निं गृह्णाति देवता वा एतत् पूर्वेद्युर् अग्रहीत् ताः श्वो भूते ऽभियजते बर्हिषा वै पूर्णमासे व्रतम् उपयन्ति वत्सैर् अमावास्यायां पुरा वत्सानाम् अपाकर्तोर् दम्पती अश्नीयातां हस्ता अवनिज्य दक्षिणतो ऽग्निम् उपतिष्ठेताग्ने व्रतपते व्रतम् आलप्स्य इत्य् अग्निर् वै देवानां व्रतपतिर् ब्राह्मणो व्रतभृद् व्रतपतय एव प्रोच्य व्रतम् आलभते ऽग्निं होतारम् उप तं हुव इति येन हविर् निर्वप्स्यन्त् स्यात् तद् अभिमृशेद् देवतानां वा एष ग्रहो देवता वा एतद् अग्रहीद् युनज्मि त्वा ब्रह्मणा दैव्येनेति परिधिषु परिधीयमाणेषु वदेद् अग्नेर् वा एष योगो ऽग्निम् एतद् युनक्ति युनक्तो ऽस्मै हव्यं वहत्य् अस्मास्व् इन्द्र इन्द्रियं दधात्व् इतीडायाम् उपहूयमानायां वदेद् इडाया वा एष दोहा इडां वा एतद् दुहे ऽथो इन्द्रियं वा इडेन्द्रियम् एवात्मन् धत्त आम् आशिषो दोहकामा इत्य् आशिषो वै दोहकामा यजमानम् अभिसर्पन्ति ता दक्षिणतो यजमानलोकम् उपतिष्ठते ता यथा धेनवो ऽदुग्धा अपक्रामन्त्य् एवम् अस्माद् आशिषो ऽदुग्धा अपक्रामन्ति य एवं न वेदाथ य एवं वेदाशिष एव दुहे सा मे सत्याशीर् देवान् गम्याद् इति प्रस्तरे प्रह्रियमाणे वदेत् सत्यां वा एतद् आशिषं देवान् गमयित्वाथ वरं वृणीत एतद् ध स्म वा आहौपाविर् जानश्रुतेयः सहस्रेणेष्ट्वा कम् उ ष्विद् अतो ऽधि वरं वरिष्यामह इति सहस्रेण यक्षीयेति ह स्म वाव ततः पुराह वि ते मुञ्चामि रशनां वि रश्मीन् इति परिधिषु प्रह्रियमाणेषु वदेद् देवता वा एतत् स्वर्गं लोकं गमयित्वा प्रतिष्ठाप्य व्यमौग् इष्टो यज्ञो भृगुभिर् इति यज्ञस्य वा एष दोहो यज्ञम् एतद् दुह एतद् ध स्म वा आह कपिवनो भौवायनः किम् उ स यज्ञेन यजेत यो गाम् इव यज्ञं न दुहीत सुदोहतरो हि गोर् इति

॥१.४.५॥

सं यज्ञपतिर् आशिषेति यजमानो यजमानभागं प्राश्नाति यजमानो वै यज्ञपतिर् यज्ञो यजमानभागो यद् यजमानो यजमानभागं प्राश्नाति यज्ञपता एव यज्ञं प्रतिष्ठापयति यदि प्रवसेत् समिष्टयजुषा सह जुहुयाद् अग्ना एव यज्ञं प्रतिष्ठापयति यद् धविर् निर्वप्स्यन्न् अग्नौ निष्टपत्य् अग्नेर् एव यज्ञं निर्मिमीते ऽथ यद् धविर् निर्वप्स्यन् यजमानाय प्राह यज्ञपतेर् एवाधि यज्ञं निर्मिमीते ऽग्निर् वै भूयांसं प्रदहत्य् एतं वै लोकं यजमानो न्व् अतिमुच्यते यद् एता आपो ऽतिसृज्यन्ते ऽछिन्नं स्रावायितव्या अद्भिर् वा एतद् यजमानो ऽग्नेर् आत्मानम् अन्तर्धत्ते द्वया वै देवा यजमानस्य गृहम् आगछन्ति सोमपा अन्ये ऽसोमपा अन्ये हुतादो ऽन्ये ऽहुतादो ऽन्य एते वै देवा अहुतादो यद् ब्राह्मणा एतद्देवत्य एष यः पुरानीजान एते वा एतस्य प्रजायाः पशूनाम् ईशते ते ऽस्याप्रीता इषम् ऊर्जम् आदायापक्रामन्ति यद् अन्वाहार्यम् अन्वाहरति तान् एव तेन प्रीणाति दक्षिणतःसद्भ्यः परिहर्तवा आह दक्षिणावतैव यज्ञेन यजत आहुतिभिर् एव देवान् हुतादः प्रीणाति ते ऽस्मै प्रीता इषम् ऊर्जं नियछन्ति

॥१.४.६॥

सद् असि सन् मे भूया इत्य् आशिषो वा एतास् ता एवावरुन्द्धे पूर्णम् असि पूर्णं मे भूया इति पूर्णो ह वा अमुत्राङ्गैः सम्भवति सर्वम् असि सर्वं मे भूया इति सर्वो ह वा अमुत्राङ्गैः सम्भवत्य् अक्षितम् अस्य् अक्षितं मे भूया इत्य् अक्षितो ह वा अमुत्राङ्गैः सम्भवति प्राच्या दिशा देवा ऋत्विजो मार्जयन्ताम् इत्य् एता वै यज्ञस्य मृष्टय एताः शान्तयस् ता बैजवापयो विदाम् अक्रंस् तेषां मृष्टो यज्ञः शान्तो ऽभूद् अघातुकः पशुपतिः पशूंस् तद् य एवं वेद मृष्ट एवास्य यज्ञः शान्तो भवत्य् अघातुकः पशुपतिः पशून् विष्णुः पृथिव्यां व्यक्रंस्त गायत्रेण छन्दसेति विष्णुमुखा वै देवा असुरान् एभ्यो लोकेभ्यः प्रणुद्य स्वर्गं लोकम् आयंस् तद् विष्णुमुखो वा एतद् यजमानो भ्रातृव्यम् एभ्यो लोकेभ्यः प्रणुद्य स्वर्गं लोकम् एत्य् अगन्म स्वर् इति स्वर्गम् एव लोकम् एति सं ज्योतिषाभूमेति ज्योतिर् हि स्वर्गो लोक इदम् अहम् अमुष्य प्राणं निवेष्टयामीति प्राणम् एवास्य निवेष्टयतीत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तते तेजो ऽसीत्य् आह तेजो ह्य् अग्निः स वै हित्वा प्रजां च पशूंश् च स्वर् एति यद् आह सम् अहं प्रजया सं मया प्रजा सम् अहं पशुभिः सं मया पशव इति प्रजायां चैव पशुषु च प्रतितिष्ठत्य् अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया इत्य् अग्रहणौ सञ्जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतः पुत्रस्य नाम गृह्णाति प्रजाम् एवानु समतानीत् स वै मानुषम् एवाभ्य् उपावर्तते मनुष्यस्य हि नाम गृह्णाति यद् आहाछिन्नो दिव्यस् तन्तुर् मा मानुषश् छेदीति दिव्यं चैव मानुषं च समतानीद् दिव्याद् धाम्नो मा छित्सि मा मानुषाद् इत्य् उभा इमं लोकं जयतः सह स्वर्गे लोके भवतः

॥१.४.७॥

ऽभूद् : फ़्न् फ़्रोम् अभूद्। एद्।: भूद्

इति य एव देवा यज्ञहनश् च यज्ञमुषश् च पृथिव्यां तांस् तीर्त्वान्तरिक्षम् आरुहद् य एव देवा यज्ञहनश् च यज्ञमुषश् चान्तरिक्षे तांस् तीर्त्वा दिवम् अगन् य एव देवा यज्ञहनश् च यज्ञमुषश् च दिवि तांस् तीर्त्वा सजातानां मध्ये श्रैष्ठ्या आधाद् एनं शिरो वा एतद् यज्ञस्य यत् पुरोडाशः केशा वेदो यद् वेदेन पुरोडाशं सम्मार्ष्टि यज्ञस्य सर्वत्वायाथो मेध्यत्वाय यज्ञो वै देवेभ्यस् तिरो ऽभवत् तं देवा वेदेनाविन्दंस् तद् वेदस्य वेदत्वं यद् वेदेन वेद्याम् आस्ते यज्ञम् एवास्मै विन्दति पत्न्यै वेदं प्रयछति दुरनुवेदो वा अमुत्र यज्ञो यज्ञम् एवास्मै विन्दति त्रिः प्रयछति त्रिषत्या हि देवा उपस्था आस्यते पुमांसं जानुका भवति पशवो वै वेद ओषधयो ह्य् एष एष खलु वै पशूनां लोको यद् अन्तराग्नी स्वे वा एतल् लोके यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते ऽर्धमासेऽर्धमासे वै यज्ञो विछिद्यते सन्ततम् आहवनीयात् स्तृणन्न् एति यज्ञस्य सन्तत्यै तं सन्ततम् उत्तरे ऽर्धमासे ऽभियजते गोमं अग्ने ऽविमं अश्वी यज्ञ इति गोमन्तम् एवाविमन्तम् अश्विनं यज्ञम् अकर् इडावान् एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् इत्य् आशिषम् एवाशास्ते सं पत्नी पत्या सुकृतेषु गछताम् इत्य् एष वै पत्न्या यज्ञस्यान्वारम्भः सह स्वर्गे लोके भवतो या वा एतस्य पत्नी सैतं सम्प्रति पश्चाद् अन्वास्ते यत् सम्प्रति पश्चाद् अन्वासीत प्रजाम् अस्या निर्दहेद् यद् आह पत्नि पत्न्य् एष ते लोक इति लोकम् एवास्या अकर् अनिर्दाहुको ऽस्याः प्रजां भवति या सरस्वती वेशयमनीति वेशयमनं वेशान् एवास्मै तेन यछत्य् उतास्याजीवन्तः सजाता उपासते वाचम् इन् न्व् अस्य ब्राह्मणस्य वा राजन्यस्य वोपास्मह इति मांसं तु न पचेयुस् तस्मिन्न् अग्नौ यत् पचेयुः क्रव्यादं कुर्युर् न हि तस्मिन्न् अग्नौ मांसं पचन्ति यस्मिन्न् आहुतीर् जुह्वत्य् अयाश् चाग्ने ऽस्य् अनभिशस्तिश् चेत्य् अया वै नामैषाग्नेः प्रिया तनूर् अया मर्याधैर् येणेति खलु वा आहुर् यच् चैवात्र यज्ञे क्रियते यच् च न यां चैवात्र यज्ञस्य प्रायश्चित्तिं विद्म यां च न तस्यैषोभयस्य प्रायश्चित्तिः

॥१.४.८॥

अस्य : फ़्न् मित्त्wएदे। एद्।: वाचमिन्वस्य

देवान् जनम् अगन् यज्ञ इति स्कन्नम् अभिमन्त्रयेत जनं वा एतद् यज्ञस्य गछति यत् स्कन्दति जनो हीयम् अस्मद् अधि यज्ञस्य वा एतज् जनं गतस्याशिषम् अवरुन्द्धे पञ्चानां त्वा वातानां धर्त्राय गृह्णामीति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धायं वाव यः पवत एष यज्ञस् तम् एवाग्रहीत् पञ्चानां त्वा दिशां धर्त्राय गृह्णामीतीमा एव पञ्च दिशो ऽग्रहीत् पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामीति पशवो वै सलिलं पशून् एवाग्रहीत् पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामीति पृष्ठान्य् एवाग्रहीत् तेनास्य पृष्ठवन्तौ दर्शपूर्णमासौ सन्तता अविछिन्नौ भवतः पञ्चानां त्वा पञ्चजनानां धर्त्राय गृह्णामीति छन्दांसि वै पञ्च पञ्चजनाश् छन्दांस्य् एवाग्रहीच् चरोस् त्वा पञ्चबिलस्य धर्त्राय गृह्णामीतीमे वै लोकाश् चरुः पञ्चबिल इमान् एव लोकान् अग्रहीत् ॥

धामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् ।

देववीत्यै त्वा गृह्णामि ॥

इति प्रज्ञात आज्यग्रहः पथागाद् भूर् अस्माकं हव्यं देवानाम् आशिषो यजमानस्येति भूतिम् एवात्मन आशास्ते हव्यं देवेभ्य आशिषो यजमानाय देवताभ्यस् त्वा देवताभिर् गृह्णामीति देवताभ्य एवैनं देवताभिर् अग्रहीत्

॥१.४.९॥

देवतानां वा एतद् आयतनं यद् आहवनीयो यद् अन्तराग्नी तत् पशूनां मनुष्याणां गार्हपत्यः पित्πणाम् ओदनपचनः सर्वा ह वा अस्य यक्ष्यमाणस्य देवता यज्ञम् आगछन्ति य एवं वेद पूर्वं चाग्निम् अपरं च परिस्तरीतवा आह मनुष्याणां वै नवावसानं प्रियं नवावसानम् एवाकर् मेध्यत्वायाग्नेर् जिह्वासि वाचो विसर्जनम् इति पुरोडाश्यान् आवपति देवतानां वा एष ग्रहो देवता वा एतद् अग्रहीद् एतद् ध स्म वा आहारुण औपवेशिर् अहुतासु वा अहम् आहुतिषु देवता हव्यं गमयामि संस्थितेन यज्ञेन संस्थां गछानीति तद् य एवं वेदाहुतास्व् एवास्याहुतिषु देवता हव्यं गछति संस्थितेन यज्ञेन संस्थां गछत्य् औलूखलाभ्यां वै दृषदा हविष्कृद् एहि ॥ इति देवा यज्ञाद् रक्षांस्य् अपाघ्नत यद् औलूखला उद्वादयन्ति दृषदौ समाघ्नन्ति ॥ हविष्कृद् एहि ॥ इत्य् आह रक्षसाम् अपहत्यय् अपः प्रणीय वाचं यछति मनसा वै प्रजापतिर् यज्ञम् अतनुतौलूखलयोर् उद्वदितोर् अध्वर्युश् च यजमानश् च वाचं यछेतां प्रजापतिर् एव भूत्वा मनसा यज्ञं तन्वाते न सर्वाणि सह यज्ञायुधानि प्रहृत्यानि मानुषं तत् क्रियते नैकमेकं पितृदेवत्यं तद् द्वेद्वे सह प्रहृत्ये याज्यानुवाक्ययो रूपम् उपवसत्य् उभयांस् तेन पशून् अवरुन्द्धे ग्राम्यांस् चारण्यांश् च यद् ग्राम्यस्य नाश्नाति तेन ग्राम्यान् अवरुन्द्धे ऽथ यद् आरण्यस्याश्नाति तेनारण्यान् अथो इन्द्रियं वा आरण्यम् इन्द्रियम् एवात्मन् धत्ते न माषाणाम् अश्नीयाद् अयज्ञिया वै माषा न तस्य सायम् अश्नीयाद् यस्य प्रातर् यक्ष्यमाणः स्याद् अप्रतिजग्धेन वै देवा हव्येन वसीयोभूयम् अगछन् प्रतिजग्धेनासुराः पराभवंस् तद् अप्रतिजग्धेन वा एतद् धव्येन यजमानो वसीयोभूयं गछति परास्य भ्रातृव्यो भवति यो वै श्रद्धाम् अनालभ्य यजते पापीयान् भवत्य् आपो वै श्रद्धा न वाचा गृह्यन्ते न यजुषाति वा एता वाचं नेदन्त्य् अति वर्त्रं मनस् तु नातिनेदन्ति यर्ह्य् अपो गृह्णीयाद् इमां तर्हि मनसा ध्यायेद् इयं वा एतासां पात्रम् अनयैवैना अग्रहीच् छ्रद्धाम् आलभ्य यजते न पापीयान् भवति

॥१.४.१०॥

ब्रह्मवादिनो वदन्ति प्रेध्मम् उक्षन्ति प्र हविर् इध्मः प्रथम आहुतीनां कस्माद् अन्येषां हविषां याज्यानुवाक्याः सन्ति कस्माद् इध्मस्य नेति ॥

अग्नये समिध्यमानायानुब्रूहि ॥ इति पुरोनुवाक्या सामिधेनीर् याज्योपवाको वषट्कारो यत्र वै यज्ञस्यातिरिक्तं क्रियते तद् यजमानस्यातिरिक्तम् आत्मन् जायते यद् अनाप्तं वि यज्ञश् छिद्यते क्षोधुको यजमानो भवति परिधानीयया सामिधेनीनाम् उत्तमम् इध्मस्य समर्धयत्य् अक्षोधुको यजमानो भवति नास्यातिरिक्तम् आत्मन् जायते यो वै प्रजापतिं सप्तदशं यज्ञे ऽन्वायत्तं वेद नास्य यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठति ॥

ओ श्रावय ॥ इति चतुरक्षरम् ॥

अस्तु श्रौषट् ॥ इति चतुरक्षरम् ॥

ये यजामहे ॥ इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै प्रजापतिः सप्तदशो यज्ञे ऽन्वायत्तो यद्य् अनुवाक्याया एति यदि याज्याया अतश् चेद् एव नैति नास्य यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठति न वै तद् विद्म यदि ब्राह्मणा वा स्मो ऽब्राह्मणा वा यदि तस्य वा ऋषेः स्मो ऽन्यस्य वा यस्य ब्रूमहे यस्य ह त्व् एव ब्रुवाणो यजते तं तद् इष्टम् आगछति नेतरम् उपनमति तत् प्रवरे प्रवर्यमाणे ब्रूयात् ॥

देवाः पितरः पितरो देवा यो ऽस्मि स सन् यजे यो ऽस्मि स सन् करोमि शुनं म इष्टं शुनं शान्तं शुनं कृतं भूयात् ॥ इति तद् य एव कश् च स सन् यजते तं तद् इष्टम् आगछति नेतरम् उपनमति ॥

यज्ञस्य त्वा प्रमयाभिमया परिमयोन्मया परिगृह्णामि ॥ इति गायत्री वै यज्ञस्य प्रमा त्रिष्टुब् अभिमा जगती परिमानुष्टुब् उन्मैतानि वै छन्दांसि यज्ञं वहन्ति तैर् एवैनं परिगृह्णाति

॥१.४.११॥

केशिनं वै दार्भ्यं गन्धर्वाप्सरसो ऽपृछन् कथा यजमानो यजमानेन भ्रातृव्येण सदृङ्ङ् असीत्य् अहं वेदा इत्य् अब्रवीत् ते ऽब्रुवन्न् अङ्ग नो यज्ञं व्याचक्ष्वा इति तेभ्यो यज्ञं व्याचष्ट ते ऽब्रुवन्न् उतैतेन यजमानो यजमानाद् भ्रातृव्यात् पापीयान्त् स्याद् इति ते ऽब्रुवंस् तथा वै ते यज्ञं विधास्यामो यथा यजमानो यजमानं भ्रातृव्यम् अभिभविष्यसीति तस्मा आहुतीर् यज्ञं व्यदधुस् ततः केशी षण्डिकम् औद्भारिम् अभ्यभवद् अभि भ्रातृव्यं यज्ञेन भवति य एवं वेद प्राणो वा आघारः पूर्वार्धे होतव्यो मुखत एवास्य प्राणं दधाति प्राणो वा आघारो मध्यतो होतव्यो मध्यत एवास्य प्राणं दधात्य् आघारं भूयिष्ठम् आहुतीनां जुहुयात् प्राणो वा आघारः प्राणम् एवास्य भूयिष्ठं करोति सन्ततम् आघारम् आघारयेत् प्राणो वा आघारः प्राणस्य सन्तत्यय् ऊर्ध्वम् आघारम् आघारयेत् स्वर्गकामस्य यजमानो वा आघारो यजमानम् एव स्वर्गं लोकं गमयति यं द्विष्यात् तस्य न्यञ्चम् आघारयेत् पापीयान् भवत्य् अभिक्रामन्ती वा एकाहुतिर् अपक्रामन्त्य् एका प्रतिष्ठितैका याम् अभिक्रामं जुहोति साभिक्रामन्ती याम् अपक्रामं जुहोति सापक्रामन्ती यां समानत्र तिष्ठन् जुहोति सा प्रतिष्ठिता यं कामयेताभितरं वसीयाञ् श्रेयान्त् स्याद् इति तस्याभिक्रामं जुहुयात् तेन सो ऽभितरं वसीयाञ् श्रेयान् भवत्य् अथ यं कामयेतापतरं पापीयान्त् स्याद् इति तस्यापक्रामं जुहुयात् तेन सो ऽपतरं पापीयान् भवत्य् अथ यं कामयेत न वसीयान्त् स्यान् न पापीयान् इति तस्य समानत्र तिष्ठन् जुहुयात् तेन स न वसीयान् न पापीयान् भवत्य् ऋतवो वै प्रयाजाः समानत्र होतव्या ऋतूनां प्रतिष्ठित्यै याग्नेर् आज्यभागस्य सोत्तरार्धे होतव्या ततो योत्तरा सा रक्षोदेवत्या या सोमस्याज्यभागस्य सा दक्षिणार्धे होतव्या ततो या दक्षिणा सा पितृदेवत्यैतद् वा अन्तराहुतीनां लोकः कॢप्ता अस्याहुतयो यथापूर्वं हूयन्ते य एवं वेद धूमे जुहोति तां तमसि जुहोति ततो यजमानो ऽरोचुको भवति याम् अङ्गारेषु जुहोति सान्धाहुतिस् ततो यजमानस्य चक्षुः प्रमायुकं भवत्य् उभे ज्योतिष्मति होतव्ये रोचुको यजमानो भवति नास्य चक्षुः प्रमीयते याम् अब्राह्मणः प्राश्नाति सा स्कन्नाहुतिस् तस्या वसिष्ठ एव प्रायश्चित्तिं विदाञ्चकार ॥

ब्रध्न पाहि ॥ इति पुरोडाशम् अभिमृशेद् भजतां भागी माभागो भक्त ब्राह्मणानाम् इदं हविः सोम्यानां सोमपानां नेहाब्राह्मणस्याप्य् अस्ति कुर्वतो मे मा क्षेष्ट ददतो मे मोपदसत् ॥ इति दक्षिणीयेष्व् एव यज्ञं प्रतिष्ठापयत्य् अस्कन्नम् अविक्षुब्धम् उत याम् अब्राह्मणः प्राश्नाति सास्य हुतैव भवति

॥१.४.१२॥

यस्याज्यम् अनुत्पूतं स्कन्दति सा वै चित्रा नामाहुतिस् ततो यजमानस्य चित्रं प्रमायुकं भवति चित्रं देयं सैव तस्य प्रायश्चित्तिर् अथ यस्योत्पूतं स्कन्दति सा वै स्कन्ना नामाहुतिस् ततो यजमानः प्रमायुको भवति वरो देयः सैव तस्य प्रायश्चित्तिर् अथ यस्य पुरोडाशौ दुःशृतौ भवतस् तद् धविर् यमदेवत्यं यदा तद् धविः सन्तिष्ठेताथ चतुःशरावम् ओदनं पक्त्वा ब्राहमणेभ्यो जीवतण्डुलम् इवोपहरेत् सैव तस्य प्रायश्चित्तिर् अथ यस्य पुरोडाशौ क्षायतस् तं यज्ञं वरुणो गृह्णाति यदा तद् धविः सन्तिष्ठेताथ तद् एव हविर् निर्वपेद् यज्ञो हि यज्ञस्य प्रायश्चित्तिर् अथ यो ऽदक्षिणेन यज्ञेन यजते तं यजमानं विद्याद् अदक्षिणेन हि वा अयं यज्ञेन यजते ऽथ न वसीयान् भवतीत्य् उर्वरा समृद्धा देया सैव तस्य प्रायश्चित्तिर् अथ यस्य कपालं भिद्येत तत् सन्दध्याद् गायत्र्या त्वा शताक्षरया सन्दधामि ॥ इति वाग् वै गायत्री शताक्षरा वाचैवैनत् सन्दधात्य् अथ यस्य कपालं नश्यति तं वा इयं स्वर्गाल् लोकाद् अन्तर्दधाति यदा तद् धविः सन्तिष्ठेताथाग्नये वैश्वानराय द्वादशकपालं निर्वपेद् अयं वा अग्निर् वैश्वानर इमाम् एव भागधेयेनोपासरत् स्वर्गस्य लोकस्यानन्तर्हित्यय् अथ यस्याहुतिर् बहिष्परिधि स्कन्दति सा वै जीवनड् आहुतिर् अग्नीधं ब्रूयात् ॥

यज्ञेन : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

एतां सङ्कष्य जुहुधि ॥ इत्य् अग्निर् वै सर्वा देवताः सर्वाभिर् एवास्य देवताभिर् हुतं भवति पूर्णपात्रम् अग्नीधे देयं सैव तस्य प्रायश्चित्तिर् यजमानो वै जुहूर् भ्रातृव्य उपभृन् न प्रक्षिणतेव होतव्यं यत् प्रक्षिणीयाद् यजमानं प्रक्षिणीयाद् व्यृषतेव होतव्यं देवेषवो वा एता यद् आहुतयो यं द्विष्यात् तं तर्हि मनसा ध्यायेद् देवेषुभिर् एवैनं व्यृषति स्तृणुत एव पशवो वा आहुतयो रुद्रो ऽग्निः स्विष्टकृन् न सह होतव्यं यत् सह जुहुयाद् रुद्रायास्य पशून् अपिदध्याद् उत्तरार्धपूर्वार्धे होतव्यम् आहुतीनाम् असंसृष्ट्यय् अथो एवम् अस्य रुद्रः पशून् अनभिमानुको भवति

॥१.४.१३॥

आग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासा आलप्स्यमानो ऽग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालभ्य दर्शपूर्णमासा आलभते जयान् उ त्वो जुह्वति देवाश् च वा असुराश् चास्पर्धन्त स प्रजापतिर् एतान् जयान् अपश्यत् तान् इन्द्राय प्रायछत् तैः संस्तम्भंसंस्तम्भम् असुरान् अजयत् संस्तम्भंसंस्तम्भं भ्रातृव्यं जयति यस्यैते हूयन्ते ॥

आकूतं चाकूतिश् च ॥ इति यज्ञो वा आकूतं दक्षिणाकूतिः ॥

चित्तं च चित्तिश् च ॥ इति मनो वै चित्तं वाक् चित्तिः ॥

आधीतं चाधीतिश् च ॥ इति प्रजा वा आधीतं पशवा आधीतिः ॥

विज्ञातं च विज्ञातिश् च ॥ इत्य् ऋग् वै विज्ञातं साम विज्ञातिः ॥

भगश् च क्रतुश् च ॥ इति प्रजापतिर् वै भगो यज्ञः क्रतुः ॥

दर्शश् च पूर्णमासश् च ॥ इति दर्शपूर्णमासा एव तद् द्वादश द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे प्रजापतिः प्रायच्छज् जयान् इन्द्राय वृष्ण उग्रः पृतनासु जिष्णुः ॥

द्वादश : फ़्न् च्फ़्। ४।५।७:७४।८

तेभिर् वाजं वाजयन्तो जयेम तेभिर् विश्वाः पृतना अभिष्याम ॥ इति त्रयोदशीम् आहुतिं जुहुयाद् अस्ति मासस् त्रयोदशस् तम् एवैतयाप्त्वावरुन्द्धे ॥

अग्ने बलद सहा ओजः क्रममाणाय मे दा अभिशस्तिकृते ऽनभिशस्तेन्याय ॥

अस्या जनतायाः श्रैष्ठ्याय स्वाहा ॥ इति जुहुयाद् यत्र कामयेत चित्रम् अस्यां जनतायां स्याम् इति चित्रम् अह तस्यां जनतायां भवति शबलं त्व् अस्यात्मन् जायते

॥१.४.१४॥

अग्नये भगिने ऽष्टाकपालं निर्वपेद् यः कामयेत भग्य् अन्नादः स्याम् इति प्रजापतिर् वै भगो यज्ञः क्रतुः तस्मात् सर्वो मन्यते मां भगो ऽरिष्यति मां भगो ऽरिष्यतीति यद् अग्नये भगिने भगम् एव साक्षाद् आप्त्वावरुन्द्धे भग्य् अन्नादो भवत्य् उभौ सह दर्शपूर्णमासा आलभ्यऊद् वा अन्यशृङ्गे सितो मुच्यते दर्शो वा एतयोः पूर्वः पूर्णमासा उत्तरो ऽथ पूर्णमासं पूर्वम् आलभन्ते तद् अयथापूर्वं क्रियते तत् पूर्णमासम् आलभमानः सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती पूर्णमासः सरस्वान् उभा एवैनौ यथापूर्वं कल्पयित्वालभत ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय

॥१.४.१५॥
प्रपाठक 5

प्रथमकाण्डे पञ्चमः प्रपाठकः

प्रथमकाण्डे पञ्चमः प्रपाठकः

मा मा तितीर्षन् तारीत्

॥१.५.१॥

त्वम् अग्ने सूर्यवर्चा असि सं माम् आयुषा वर्चसा सृज सं त्वम् अग्ने सूर्यस्य ज्योतिषागथाः ॥

सम् ऋषीणां स्तुतेन सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीय ॥

इन्धानास् त्वा शतं हिमा द्युमन्तः समिधीमहि ।

वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतम् ।

अग्ने सपत्नदम्भनं सुवीरासो अदाभ्यम् ॥

अग्नेः समिद् अस्य् अभिशस्त्या मा पाहि सोमस्य समिद् असि परस्पा म एधि यमस्य समिद् असि मृत्योर् मा पाह्य् आयुर्धा अग्ने ऽस्य् आयुर् मे धेहि वर्चोधा अग्ने ऽसि वर्चो मे धेहि चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहि श्रोत्रपा अग्ने ऽसि श्रोत्रं मे पाहि तनूपा अग्ने ऽसि तन्वं मे पाहि यन् मे अग्न ऊनं तन्वस् तन् मा आपृणाग्ने यत् ते तपस् तेन तं प्रतितप यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते शोचिस् तेन तं प्रतिशोच यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते अर्चिस् तेन तं प्रत्यर्च यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते हरस् तेन तं प्रतिहर यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते तेजस् तेन तं प्रतितितिग्धि यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने रुचां पते नमस् ते रुचे मयि रुचं धाश् चित्रावसो स्वस्ति ते पारम् अशीयार्वाग्वसो स्वस्ति ते पारम् अशीयाम्भः स्थाम्भो वो भक्षीय महः स्थ महो वो भक्षीयोर्जः स्थोर्जं वो भक्षीय रायस्पोषः स्थ रायस्पोषं वो भक्षीय ॥

रेवती रमध्वम् अस्मिन् योना अस्मिन् गोष्ठे ऽयं वो बन्धुर् इतो मापगात बह्वीर् भवत मा मा हासिष्ट ॥

संहितासि विश्वरूपा मोर्जा विशा गौपत्येना प्रजया रायस्पोषेण ॥

मयि वो रायः श्रयन्तां सहस्रपोषं वो ऽशीय

॥१.५.२॥

उप त्वाग्ने दिवेदिवे दोषावस्तर् धिया वयम् ।

नमो भरन्त एमसि ॥

राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।

वर्धमानं स्वे दमे ॥

स नः पितेव सूनवे ऽग्ने सूपायनो भव ।

सचस्वा नः स्वतये ॥

अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ।

तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥

वसुर् अग्निर् वसुश्रवा अछा नक्षि द्युतत्तमं रयिं दाः ।

स नो बोधि श्रुधी हवम् उरुष्या नो अघायतः समस्मात् ॥

अभ्यस्थां विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह ।

बृहस्पतिः सवितेन्द्रस् तद् आह पूषा ना आधात् सुकृतस्य लोके ॥

ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत ।

रय्या वः पश्यामि रय्या मा पश्यत ॥

सम्पश्यामि प्रजा अहम् इडप्रजसो मानवीः ।

सर्वा भवन्तु नो गृहे ॥

इडाः स्थ मधुकृतः स्योना माविशतेरम्मदः ।

सहस्रपोषं वो ऽशीय ॥

भुवनम् असि सहस्रपोषपुषि तस्य नो रास्व तस्य ते भक्तिवानो भूयास्मेडासि व्रतभृत् त्वयि व्रतं व्रतभृद् असि

॥१.५.३॥

महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः ।

दुराधर्षं वरुणस्य ॥

नहि तेषाम् अमा सतां नाध्वसु वारणेषु च ।

ईशे रिपुर् अघशंसः ॥

ते हि पुत्रासो अदितेश् छर्दिर् यछन्त्य् अजस्रम् ।

प्र दाशुषे वार्याणि ॥

सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।

कक्षीवन्तं य औशिजः ॥

यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः ।

स नः सिषक्तु यः शिवः ॥

मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।

द्युम्नं चित्रश्रवस्तमम् ॥

कदा चन स्तरीर् असि कदा चन प्रयुछसि ॥

परि ते दूडभो रथो ऽस्मं अश्नोतु विश्वतः ।

येन रक्षसि दाशुषः ॥

निम्रदो ऽसि न्य् अहं तं मृद्यासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽभिभूर् अस्य् अभ्य् अहं तं भूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मः प्रभूर् असि प्राहं तम् अतिभूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

पूषा मा पथिपाः पातु पूषा मा पशुपाः पातु पूषा माधिपाः पातु प्राची दिग् अग्निर् देवता यो मैतस्या दिशो अभिदासाद् अग्निं सा ऋछतु दक्सिणा दिग् इन्द्रो देवता यो मैतस्या दिशो अभिदासाद् इन्द्रं सा ऋछतु प्रतीची दिङ् मरुतो देवता यो मैतस्या दिशो अभिदासान् मरुतः सा ऋछतूदीची दिङ् मित्रावरुणौ देवता यो मैतस्या दिशो अभिदासान् मित्रावरुणौ सा ऋछतूर्ध्वा दिक् सोमो देवता यो मैतस्या दिशो अभिदासात् सोमं सा ऋछतु धर्मो मा धर्मणः पातु विधर्मो मा विधर्मणः पात्व् आयुश् च प्रायुश् च चक्षश् च विचक्षश् च प्राङ् चापाङ् चोरुक उरुकस्य ते वाचा वयं सं भक्तेन गमेमह्य् अग्ने गृहपते

॥१.५.४॥

यस्य वा अग्निहोत्रे स्तोमो युज्यते स्वर्गम् अस्मै भवति अयज्ञो वा एष यत्र स्तोमो न युज्यत उपप्रयन्तो अध्वरम् इतीयं वा उपोतिर् इत एव सोमं युनक्त्य् अथो इमाम् एव स्तोमम् उपयुनक्त्य् अथो या एव प्रजा भूता नामन्वतीस् ता एव स्तोमम् उपयुनक्त्य् अस्य प्रत्नाम् अनु द्युतम् इत्य् असौ वै लोकः प्रत्नम् अमुत एव स्तोमं युनक्त्य् अथो देवा वै प्रत्नं तान् एव स्तोमम् उपयुनक्त्य् उभयत एव स्तोमं युनक्तीतस् चामुतश् च देवान् वा एष प्रयुज्य स्वर्गं लोकम् एति यद् आहोपोपेन् नु मघवन् भूया इन् नु ता इतीयं वा उपोतिर् अस्याम् एव प्रतितिष्ठत्य् अथ यद् उपवत् पदम् आह या एव प्रजा आभविष्यन्तीस् ता एव स्तोमम् उपयुनक्ति परि ते दूडभो रथा इत्य् उभयत एवैतया स्तोमं युक्तं परिगृह्णातीतस् चामुतश् चाग्निर् मूर्धेति स्वर्गा तेन दिवः ककुद् इति स्वर्गा तेन पतिः पृथिव्या अयम् इति मिथुना तेनापां रेतांसि जिन्वतीति रेतस्वती पशव्या सर्वसमृद्धा गायत्र्योपास्थित गायत्रो ह्य् अग्निर् गायत्रछन्दाः स्वेनैवैनं छन्दसोपास्थितोभा वाम् इन्द्राग्नी आहुवध्या इत्य् उभौ ह्य् एतौ सहामुं वा अयं दिवा भूते प्रविशति तस्माद् असौ दिवा रोचत इमाम् असौ नक्तं तस्माद् अयं नक्तं यद् उभा वाम् इत्य् आहोभा एवैना अछम्बट्कारम् उपतिष्ठत उभयोर् लोकयो रोचते ऽस्मिंश् चामुष्मिंश् च त्रिष्टुभोपास्थितायम् इह प्रथमो धायि धातृभिर् इत्य् अग्निर् ह्य् अस्यां प्रथमो ऽधीयत होता यजिष्ठो अध्वरेष्व् ईड्या इत्य् एष हि होता यजिष्ठो अध्वरेष्व् ईड्यो यम् अप्नवानो भृगवो विरुरुचुर् इत्य् अप्नवानो ह्य् एतं भृगवो व्यरोचयन् वनेषु चित्रं विभ्वं विशेविशा इत्य् एष हीदं सर्वं विभूर् जगत्योपास्थितास्य प्रत्नाम् अनु द्युतम् इति स्वर्गो वै लोकः प्रत्नं स्वर्ग एव लोके प्रतितिष्ठत्य् अयं ते योनिर् ऋत्विया इत्य् एष ह्य् एतस्य योनिर् ऋत्वियो ऽग्निः सूर्यस्यानुष्टुभोपास्थित

॥१.५.५॥

उपप्रयन्तो अध्वरम् इति प्रवापयत्य् एवैतयान्गिर् मूर्धेति प्रवापित एवैतया रेतो दधात्य् उभा वाम् इन्द्राग्नी आहुवध्या इति प्राणापानौ वा इन्द्राग्नी प्राणापानौ वा एतन् मुखतो यज्ञस्य धीयेते ॥

अयम् इह प्रथमो धायि धातृभिर् इति गर्भम् एवाधाद् अस्य प्रत्नाम् अनु द्युतम् इत्य् उधर् एवाकर् अयं ते योनिर् ऋत्विया इत्य् अजीजनच् चैवावीवृधच् च षड्भिर् उपतिष्ठते षड् वै पृष्ठानि पृष्ठान्य् एवाचीकॢपद् दधिक्राव्णो अकारिषम् इति दधिक्रावत्योपतिष्ठत एषा वा अग्नेर् दधिक्रावती प्रिया तनूः पशव्या सर्वसमृद्धाग्नेर् एवैतया प्रियं धामोपैत्य् अथो पशुमान् भवत्य् अथो आत्मानम् एवैतया यजमानः पुनीते सप्तभिर् उपतिष्ठते सप्तपदा शक्वरी शाक्वराः पशवः पशून् एवावरुन्द्धे जीर्यति वा एष आहितः पशुर् ह्य् अग्निस् तद् एतान्य् एवाग्न्याधेयस्य हवींषि संवत्सरेसंवत्सरे निर्वपेत् तेन वा एष न जीर्यति तेनैनं पुनर्णवं करोति तन् न सूर्क्ष्यम् एताभिर् एवाग्नेयपावमानीभिर् अग्न्याधेयस्य याज्यानुवाक्याभिर् उपस्थेयस् तेन वा एष न जीर्यति तेनैनं पुनर्णवं करोति द्वादशभिर् उपतिष्ठते द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे ऽग्नीषोमीयया त्रयोदश्योपस्थेयो ऽस्ति मासस् त्रयोदशस् तम् एवैतयाप्त्वावरुन्द्धे

॥१.५.६॥

ब्रह्मवादिनो वदन्ति कस्मात् सायम् अग्निम् उपतिष्ठन्ते कस्मात् प्रातर् नेत्य् असौ वा आदित्यः सायम् आसुवति तस्मात् सायम् उपतिष्ठन्त एष प्रातः प्रसुवति तस्मात् प्रातर् नोपतिष्ठन्ते तस्मात् सायम् अहुते ऽग्निहोत्रे ऽग्निहोत्रिणा नाशितव्यं तस्माद् उ प्रातर् अहुते नाशितव्यं तस्मात् सायम् अतिथये प्रत्येनसः पुण्यत्वात् तु प्रातर् ददति प्रातरवनेगेन प्रातर् उपस्थेयो ऽधिश्रित उन्नीयमाने वा हस्ता अवनेनिजीत तत्र विहव्यस्य चतस्रा ऋचो वदेत् प्रातरवनेगे चतस्रः प्रातरवनेगेन वा अनाप्तम् आप्नोत्य् अनवरुद्धम् अवरुन्द्धे तद् अनाप्तम् एवैतेनाप्नोत्य् अनवरुद्धम् अवरुन्द्धे ऽबिभेद् वा एष उद्धृतस् तं देवाश् छन्दोभिः पर्यस्तृणन् यद् उपतिष्ठते छन्दोभिर् एवैनं परिस्तृणात्य् उभयम् अस्मा अकर् अग्नीषोमीयया पूर्वपक्ष उपस्थेयो ऽग्नीषोमीयो वै पूर्वपक्षो ऽपरपक्षायैवैनं परिददात्य् ऐन्द्राग्न्यापरपक्ष उपस्थेय ऐन्द्राग्नो वा अपरपक्षः पूर्वपक्षायैवैनं परिददाति सर्वा ह वा एनं देवताः सम्प्रदायम् अनपेक्षं गोपायन्ति य एवं विद्वान् अग्निम् उपतिष्ठते

॥१.५.७॥

त्वम् अग्ने सूर्यवर्चा असीति वसीयसे श्रेयस आशिषम् आशास्ते सं माम् आयुषा वर्चसा सृजेत्य् आत्मना आशास्ते सं त्वम् अग्ने सूर्यस्य ज्योतिषागथा इति सह ह्य् एते तर्हि ज्योतिषी भवतः सम् ऋषीणां स्तुतेनेति छन्दांसि वा ऋषीणां स्तुतं छन्दोभिर् एवैनं समर्धयति सं प्रियेण धाम्नेत्य् आहुतयो वा अग्नेः प्रियं धामाहुतिभिर् एवैनं समर्धयति ॥

सम् अहम् आयुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीयेत्य् आशिषम् एवाशास्त इन्धानास् त्वा शतं हिमा इति पृतनाजिद् ध्य् आहूतिस् तया राजन्या उपतिष्ठेत यदा हि राजन्यः पृतना जयत्य् अथो भवत्य् उताराजन्या उपतिष्ठेत सर्वो हि पृतना जिगीषति सर्वो बुभूषति मनोर् वै दश जाया आसन् दशपुत्रा नवपुत्राष्टपुत्रा सप्तपुत्रा षट्पुत्रा पञ्चपुत्रा चतुष्पुत्रा त्रिपुत्रा द्विपुत्रैकपुत्रा ये नवासंस् तान् एक उपसमक्रामद् ये ऽष्टौ तान् द्वौ ये सप्त तांस् त्रयो ये षट् तांश् चत्वारो ऽथ वै पञ्चैव पञ्चासंस् ता इमाः पञ्च दशत इमान् पञ्च निरभजन् यद् एव किञ्च मनोः स्वम् आसीत् तस्मात् ते वै मनुम् एवोपाधावन् मना अनाथन्त तेभ्य एताः समिधः प्रायछत् ताभिर् वै ते तान् निरदहंस् ताभिर् एनान् पराभावयन् परा पाप्मानं भ्रातृव्यं भावयति य एवं विद्वान् एताः समिध आदधात्य् अग्नेः समिद् अस्य् अभिशस्त्या मा पाहीत्य् अभिशस्त्या एनं पाति सोमस्य समिद् असि परस्पा म एधीति परस्पा अस्य भवति यमस्य समिद् असि मृत्योर् मा पाहीति मृत्योर् एनं पात्य् एतद् ध स्म वा आह नारद इदं वावाग्न्युपस्थानम् आसेत्य् अभिशस्त्या एनं पाति परस्पा अस्य भवति मृत्योर् एनं पाति

॥१.५.८॥

आयुर्धा अग्ने ऽस्य् आयुर् मे धेहीत्य् आयुर् एवास्मिन् दधाति वर्चोधा अग्ने ऽसि वर्चो मे धेहीति वर्च एवास्मिन् दधाति चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहीति चक्षुर् एवास्य पाति श्रोत्रपा अग्ने ऽसि श्रोत्रं मे पाहीति श्रोत्रम् एवास्य पाति तनूपा अग्ने ऽसि तन्वं मे पाहीति तन्वम् एवास्य पाति यन् मे अग्न ऊनं तन्वस् तन् मा आपृणेति यद् एवास्यात्मन ऊनं यत् प्रजाया यत् पशूनां तद् एवैतेनापूरयति तद् आप्याययत्य् अग्ने यत् ते तपा इत्य् एता वा अग्नेस् तन्वो ज्योतिष्मतीर् एतद् ध स्म वा आहारुण औपवेशिर् यान् वसीयसः श्रेयस आत्मनो भ्रातृव्यान् अभिप्राजानीम् आभिष् टान् अग्नेस् तनूभिर् ज्योतिष्मतीभिः पराभावयामेति परा पाप्मानं भ्रातृव्यं भावयति य एवं विद्वान् अग्निम् उपतिष्ठते ऽग्ने रुचां पते नमस् ते रुचे मयि रुचं धा इति शान्तम् एव रुचम् आत्मन् धत्ते तेजस्वी ब्रह्मवर्चसी भवति चित्रावसो स्वस्ति ते पारम् अशीयेति रात्रिर् वै चित्रावसुर् अहर् अर्वाग्वसुर् अग्निर् वै रात्रिर् असा आदित्यो ऽहर् एते वै भङ्गे ते ईट्टे त्रिर् आह त्रिषत्या हि देवा रोचते ह वा अस्य यज्ञो वा ब्रह्म वा य एवं वेदाम्भः स्थाभो वो भक्षीयेत्य् अम्भो ह्य् एता महः स्थ महो वो भक्षीयेति महो ह्य् एता ऊर्जः स्थोर्जं वो भक्षीयेत्य् ऊर्जो ह्य् एता रायस्पोषः स्थ रायस्पोषं वो भक्षीयेति रायस्पोषो ह्य् एता रेवती रमध्वम् अस्मिन् योना अस्मिन् गोष्ठ इति स्व एवैना योनौ स्वे गोष्ठे संवेशयत्य् अयं वो बन्धुर् इतो मापगात बह्वीर् भवत मा मा हासिष्टेत्य् आशिषम् आशास्ते वत्सम् आलभते वत्सनिकान्ता हि पशव एष वै सहस्रपोषस्येशे पुष्यति सहस्रं न सहस्राद् अवपद्यते य एवं वेद संहितासि विश्वरूपेति रूपेणरूपेण ह्य् एषा संहिता रूपैर् एवैनां समर्धयति नामासाम् अग्रहीन् मित्रम् आभिर् अकृतोत हि यदा मित्रस्य नाम गृह्णाति मित्रम् एवैनेन कुरुते

॥१.५.९॥

सप्त वै बन्धुमतीर् इष्टका अग्नौ चित्या उपधीयन्ते ता वै ता अमुष्मा एव लोकाय सप्त ग्राम्या इष्टकास् ता अत्रोपधेया गौश् चाश्वश् चाश्वतरश् च गर्दभो ऽजा चाविश् च पुरुषो यद् गाम् आलभते गवैव चिता भवन्त्य् अथो आलब्ध एवोपधीयन्ते पराङ् वा एष छन्दोभिः स्वर्गं लोकम् एत्य् अन्यदन्यच् छन्दः समारोहम् उप त्वाग्ने दिवेदिवा इति यद् एतेन गायत्रेण तृचेनोपतिष्ठत इयं वै गायत्र्य् अस्याम् एव प्रतितिष्ठत्य् अग्ने त्वं नो अन्तमा इत्य् एषा वा अग्नेर् अस्तर्या प्रिया तनूर् वरूथ्या ताम् एव प्रैति नैनम् अभिदासन्त् स्तृणुते चतसृभिर् द्विपदाभिर् उपतिष्ठते चतुष्पादो वै पशवो द्विपाद् यजमानो गृहा गार्हपत्यो गृहेषु चैव पशुषु च प्रतितिष्ठत्य् ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यतेत्य् ऊर्जैनाः पश्यत्य् ऊर्जैनं पश्यन्ति रय्या वः पश्यामि रय्या मा पश्यतेति रय्यैनाः पश्यति रय्यैनं पश्यन्ति ॥

सम्पश्यामि प्रजा अहम् इडप्रजसो मानवीः ।

सर्वा भवन्तु नो गृहे ॥ इत्य् ऐडीश् च वा इमाः प्रजा मानवीश् च ता एवावारुद्ध ता आद्या अकृतेडाः स्थ मधुकृता इतीडा ह्य् एता मधुकृतः स्योना माविशतेरम्मदा इतीरम्मदो ह्य् एता भुवनम् असि सहस्रपोषपुषीति भुवनं ह्य् एतत् सहस्रपोषपुषि तस्य नो रास्व तस्य ते भक्तिवानो भूयास्मेत्य् आशिषम् एवाशास्त इडासि व्रतभृद् इतीडा ह्य् एषा व्रतभृत् त्वयि व्रतं व्रतभृद् असीति व्रतभृद् ध्य् एषा

॥१.५.१०॥

एवावारुद्ध : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

महि त्रीणाम् अवो ऽस्त्व् इति प्राजापत्येन तृचेनोपतिष्ठते प्राजापत्या वा इमाः प्रजास् ता एवावारुद्ध ता आद्या अकृताथो प्रजापतिम् एवोपैति प्रजापता एव देवतासु प्रतितिष्ठति सोमानं स्वरणम् इति ब्राह्मणस्पत्ययोपतिष्ठते ब्रह्मणि प्रतितिष्ठत्य् अथो ब्रह्मवर्चसम् एवावरुन्द्धे यो वै ब्रह्मणि प्रतिष्ठितेन स्पर्धते पूर्वो ऽस्मात् पद्यत उभयीर् वा अग्निहोत्रिणि देवता आशंसन्ते याभ्यश् च जुहोति याभ्यश् च न मित्रस्य चर्षणीधृता इति मैत्र्योपतिष्ठत उभयत एवैतया मित्रम् अकृतेतश् चामुतश् च कदा चन स्तरीर् असीत्य् ऐन्द्रीभ्यां बृहतीभ्याम् उपतिष्ठत ऐन्द्रा वै पशवस् तान् एवावारुद्ध तान् आद्यान् अकृत परि ते दूडभो रथा इत्य् असौ वा आदित्यो दूडभो रथ एष वा इमा उभौ लोकौ समीयते सर्वम् एवैतया परिगृह्णाति निम्रदो ऽसि न्य् अहं तं मृद्यासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति पार्ष्ण्यावगृह्णीयाद् यदि पापीयसा स्पर्धेताभिभूर् अस्य् अभ्य् अहं तं भूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदो ऽवगृह्णीयाद् यदि सदृशेन स्पर्धेत प्रभूर् असि प्राहं तम् अतिभूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति प्रपदेनावगृह्णीयाद् यदि श्रेयसा स्पर्धेत सर्वान् एवैनान् अभिभवति सर्वान् अतिभवति सर्वान् अतिक्रामति पूषा मा पथिपाः पात्व् इतीयम् एव पूषा मा पशुपाः पात्व् इत्य् अन्तरिक्षम् एव पूषा माधिपाः पात्व् इत्य् असा एवेमान् एव लोकान् उपासरद् एभ्यो लोकेभ्य आत्मानं परिधत्ते ऽहिंसायै प्राची दिग् अग्निर् देवतेति तनूपानाम् एव दिक्षु निधत्ते ऽथ येन स्पर्धते येन वा व्यभिचरते स एता एव देवता ऋत्वा पूर्वः पराभवति सप्त वै पुरुषे महिमानस् ते वा एनेनेड्यास् ते वै ते सप्तऋषय एव प्राणा वै सप्तऋषयः प्राणान् वा एतद् ईट्ट ईट्टे ह वै स्वान् प्राणान् वृङ्क्ते भ्रातृव्यस्य प्राणान् नैनम् अभिदासन्त् स्तृणुते य एवं वेद धर्मो मा धर्मणः पातु विधर्मो मा विधर्मणः पात्व् आयुश् च प्रायुश् च चक्षश् च विचक्षश् च प्राङ् चापाङ् चोरुक इत्य् अयं वा उरुक एष विभजति तद् यद् एष भजति तद् एतस्मिन्न् एव पुनर् आभजत्य् अग्ने गृहपते ऽग्निं समिन्धे यजमान एतद् वै यजमानस्य स्वं यद् अग्निर् एतद् अग्नेर् यद् यजमान आयतनम् इव वा एतत् क्रियते ज्योतिषे तन्तवे त्वेत्य् अन्तराग्नी उपविश्य वदेद् याम् एव पुर आशिषम् आशास्ते यां पश्चात् ताम् आत्मन् धत्ते

॥१.५.११॥

एवावारुद्ध : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

एवावारुद्ध : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

भ्रातृव्यस्य : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

ददन् मा इति वै दीयते सददि वा एष ददाति यो ऽग्निहोत्रं जुहोति यद्यत् कामयेत तत्तद् अघिहोत्र्य् अग्निं याचेद् उप हैनं तन् नमति तद् आहुर् ऋछति वा एष देवान् य एनान्त् सददि याचतीति तस्मात् तर्हि नोपस्थेयो यमो वा अम्रियत ते देवा यम्या यमम् अपाब्रुवंस् तां यद् अपृछन्त् साब्रवीद् अद्यामृतेति ते ऽब्रुवन् न वा इयम् इमम् इत्थं मृष्यते रात्रीं सृजामहा इत्य् अहर् वाव तर्ह्य् आसीन् न रात्रिस् ते देवा रात्रिम् असृजन्त ततः श्वस्तनम् अभवत् ततः सा तम् अमृष्यत तस्माद् आहुर् अहोरात्राणि वावाघं मर्षयन्तीति सा वै रात्रिः सृष्टा पशून् अभिसममीलत् ते देवाश् छन्दोभिर् एव पशून् अन्वपश्यंश् छन्दोभिर् एनान् पुनर् उपाह्वयन्त यद् उपतिष्ठते छन्दोभिर् वा एतत् पशून् अनुपश्यति छन्दोभिर् एनान् पुनर् उपह्वयते ऽथो आहुर् वरुणो वै स तद् रात्रिर् भूत्वा पशून् अग्रसतेति ते देवाश् छन्दोभिर् एव वरुणात् प्रामुञ्चंश् छन्दोभिर् एनान् पुनर् उपाह्वयन्त यद् उपतिष्ठते छन्दोभिर् वा एतद् वरुणात् पशून् प्रमुञ्चति छन्दोभिर् एनान् पुनर् उपह्वयते यज्ञोयज्ञो वै समृछते ऽथाकस्यविदो मन्यन्ते सोम एव समृछता इत्य् अग्नीषोमीयायाः पुरस्ताद् विहव्यस्य चतस्रा ऋचो वदेद् आग्नेयस्य पुरोडाशस्य द्वे याज्यानुवाक्ये कुर्याद् एतेनैव हवींष्य् आसन्नान्य् अभिमृशेद् वृङ्क्ते ऽन्यस्य यज्ञं नास्यान्यो यज्ञं वृङ्क्ते सयज्ञो भवत्य् अयज्ञा इतरः

॥१.५.१२॥

सृजामहा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अभिसममीलत् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

प्रामुञ्चंश् : ⟨ प्रामुञ्चन्

अग्निं वा एते चित्यं चिन्वते य आहिताग्नयो दर्शपूर्णमासिनस् तेषां वा अहोरात्राण्य् एवेष्टका उपधीयन्ते यत्र पञ्च रात्रीः संहिता वसेत् तज् जुहुयात् पञ्च रात्रयः पञ्चाहानि सा दशत् सम्पद्यते तन् नैवं कर्तवय् अयतं तद् दशस्व् एव रात्रिष्व् अन्तमं होतव्यं तथा यतं क्रियते न सर्वेषु युक्तेषु होतव्यं वास्तौ जुहुयान् नायुक्तेष्व् अयतं क्रियते सर्वाण्य् अन्यानि युक्तानि स्युर् अग्निष्ठस्य दक्षिणो युक्तः स्यात् सव्यस्य योक्त्रं परिहृतम् अथ जुहुयान् न वास्तौ जुहोति यतम् उत्क्रियते तन् न सूर्क्ष्यं सर्वेष्व् एव युक्तेषु होतव्यं वास्तोष्पत्यं ह्य् एतन् न हीनम् अन्वाहर्तवै रुद्राय हि तद् धीयते यद् धीनम् अन्वाहरेयू रुद्रं भूतम् अन्वाहरेयुर् यद्य् अनुवाहः स्यात् पूर्वं तं प्रवहेयुर् अप वोद्धरेयुर् यद् धीयेत हीयेतैव तद् अथ जुहुयात् ॥

हीयेतैव : फ़्न् एमेन्देद्। एद्।: हीयेतैव

अमीवहा वास्तोष्पते विश्वा रूपाण्य् आविशन् ।

सखा सुशेव एधि नः ॥

वास्तोष्पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो भवा नः ।

यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे

॥१.५.१३॥

पशून् मे शंस्य पाहि तान् मे गोपायास्माकं पुनर् आगमात् ॥

अग्ने सहस्राक्ष शतमूर्धञ् शतं ते प्राणाः सहस्रम् अपानास् त्वं साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय ॥

प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनर् आगमाद् अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया अन्नं मे बुध्य पाहि तन् मे गोपायास्माकं पुनर् आगमात् ॥

इमान् मे मित्रावरुणौ गृहान् गोपायतं युवम् ।

अविनष्टान् अविह्रुतान् पूषैनान् अभिरक्षत्व् आस्माकं पुनर् आगमात् ॥

पशून् मे शंस्य पाहि तान् मे गोपायास्माकं पुनर् आगमाद् इत्य् आहवनीयम् उपतिष्ठत आहवनीयायैव पशून् परिदाय प्रैत्य् अग्ने सहस्राक्ष शतमूर्धन्न् इति सहस्राक्षो ह्य् एष शतमूर्धा शतं ते प्राणाः सहस्रम् अपाना इति शतं ह्य् एतस्य प्राणाः सहस्रम् अपानास् त्वं साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजायेत्य् आशिषम् एवाशास्ते ॥

प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनर् आगमाद् इति गार्हपत्यम् उपतिष्ठते गार्हपत्यायैव प्रजां परिदाय प्रैत्य् अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया इत्य् अग्रहणौ सञ्जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतो ऽन्नं मे बुध्य पाहि तन् मे गोपायास्माकं पुनर् आगमाद् इति दक्षिणाग्निम् उपतिष्ठते दक्षिणाग्नय एवान्नं परिदाय प्रैति ॥

इमान् मे मित्रावरुणौ गृहान् गोपायतं युवम् ।

अविनष्टान् अविह्रुतान् पूषैनान् अभिरक्षत्व् आस्माकं पुनर् आगमात् ॥ इत्य् अहोरात्रे वै मित्रावरुणौ पशवः पूषाहोरात्राभ्यां चैव मित्रावरुणाभ्यां च गृहान् परिदाय प्रति ॥

अग्निं समाधेहि ॥ इत्य् आह भस्म त्वा उपतिष्ठते ॥

पशून् मे शंस्याजुगुपस् तान् मे पुनर् देहि ॥ इत्य् आहवनीयं पुनर् एत्योपतिष्ठत आहवनीयेनैव पशून् गुप्तान् आत्मन् धत्ते ॥

अग्ने सहस्राक्ष शतमूर्धञ् शतं ते प्राणाः सहस्रम् अपानास् त्वं साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय ॥

प्रजां मे नर्याजुगुपस् तां मे पुनर् देहि ॥ इति गार्हपत्यं पुनर् एत्योपतिष्ठते गार्हपत्येनैव प्रजां गुप्ताम् आत्मन् धत्ते ॥

अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया अन्नं मे बुध्याजुगुपस् तन् मे पुनर् देहि ॥ इति दक्षिणाग्निं पुनर् एत्योपतिष्ठते दक्षिणाग्निनैवान्नं गुप्तम् आत्मन् धत्ते ॥

इमान् मे मित्रावरुणौ गृहान् जुगुपतं युवम् ।

अविनष्टान् अविह्रुतान् पूषैनान् अभ्यरक्षीद् आस्माकं पुनर् आगमात् ॥ इत्य् अहोरात्रे वै मित्रावरुणौ पशवः पूषाहोरात्राभ्यां चैव मित्रावरुणाभ्यां च गृहान् गुप्तान् आत्मन् धत्ते

॥१.५.१४॥
प्रपाठक 6

प्रथमकाण्डे षष्ठः प्रपाठकः

प्रथमकाण्डे षष्ठः प्रपाठकः

अग्ना आयूंषि पवसे ऽग्निर् ऋषिर् अग्ने पवस्व

॥१.६.१॥

या वाजिन्न् अग्नेः पवमाना प्रिया तनूस् ताम् आवह या वाजिन्न् अग्नेः पावका प्रिया तनूस् ताम् आवह या वाजिन्न् अग्नेः शुचिः प्रिया तनूस् ताम् आवह ॥

यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् ।

श्येना ते पक्षा हरिणोत बाहू उपस्तुत्यं जनिम तत् ते अर्वन् ॥

ओजसे बलाय त्वोद्यच्छे वृष्णे शुष्माय सपत्नतूर् असि वृत्रतूः ॥

प्राचीम् अनु प्रदिशं प्रेहि विद्वान् अग्नेर् अग्ने पुरो अग्निर् भवेह ।

विश्वा आशा दीद्यद् विभाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

अभ्यस्थां विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह ।

बृहस्पतिः सवितेन्द्रस् तद् आह पूषा ना आधात् सुकृतस्य लोके ॥

भुवः स्वर् अङ्गिरसां त्वा देवानां व्रतेनादधे ऽग्नेष् ट्वा देवस्य व्रतेनादध इन्द्रस्य त्वा मरुत्वतो व्रतेनादधे मनोष् ट्वा ग्रामण्यो व्रतेनादधे ॥

आछदि त्वा छन्दो दधे द्यौर् मह्नासि भूमिर् भूना ।

तस्यास् ते देव्य् अदित उपस्थे ऽन्नादम् अग्निम् अन्नपत्यायादधे ॥

यत् ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादधे ॥

इडायास् त्वा पदे वयं नाभा पृथिव्या अधि ।

जातवेदो निधीमह्य् अग्ने हव्याय वोढवे ॥

सम्राट् च स्वराट् चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यछ विराट् च प्रभूश् चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यछ विभूश् च परिभूश् चाग्ने ये ते तन्वौ ताभ्यां मा ऊज्रं यछ ॥

समुद्राद् ऊर्मिर् मधुमं उदारद् उपांशुना सम् अमृतत्वम् आनट् ।

घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥

वयं नाम प्रब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।

उप ब्रह्मा शृणवञ् शस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥

चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।

त्रेधा बद्धो वृषभो रोरवीति महो देवो मर्त्यं आततान ॥

ये अग्नयः समनसा ओषधीषु वनस्पतिषु प्रविष्ठाः ।

ते विराजम् अभिसंयन्तु सर्वा ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि ।

सप्त ऋत्विजः सप्तधा त्वा यजन्ति सप्त होत्रा ऋतुथा नु विद्वान्त् सप्त योनीर् आपृणस्व घृतेन स्वाहा ॥

ये अग्नयो दिवो ये पृथिव्याः समागछन्तीषम् ऊर्जं वसानाः ।

ते अस्मा अग्नये द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनर् अस्तं परेत स्वाहा ॥

निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।

साम्राज्याय सुक्रतुः ॥

उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः ।

स्तुता मन्त्राः कविशस्ता अवन्तु न एना राजन् हविषा मादयस्व ॥

प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् ।

यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥

घर्मः शिरस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यछा तोकाय तनयाय शं योर् अर्को ज्योतिस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यछा तोकाय तनयाय शं योर् वातः प्राणस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यछा तोकाय तनयाय शं योः ॥

अविषं नः पितुं पच ॥

कल्पेतां द्यावापृथिवी कल्पन्ताम् आपा ओषधयः ।

कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥

ये अग्नयः समनसा ओषधीषु वनस्पतिषु प्रविष्टाः ।

ते विराजम् अभिसंयन्तु सर्वा ऊर्जं नो धत्त द्विपदे चतुष्पदे

॥१.६.२॥

प्रजापतिर् वा इदम् अग्र आसीत् तं वीरुधो ऽभ्यरोहन्न् असुर्यो वा एता यद् ओषधयस् ता अतितिष्टिघिषन्न् अतिष्टिघं नाशक्नोत् सो ऽशोचत् सो ऽतप्यत ततो ऽग्निर् असृज्यत तम् अग्निं सृष्टं वीरुधां तेजो ऽगछत् ता अशुष्यन् न ततः पुराशुश्यन् स प्रजापतिर् अग्निम् आधत्तेमा एवासहा इति ता असहत तत् साढ्यै वावैष आधीयते तद् यथादो वसन्ताशिशिरे ऽग्निर् वीरुधः सहत एवं सपत्नं भ्रातृव्यम् अवर्तिं सहते य एवं विद्वान् अग्निम् आधत्त एतावद् वा अस्या अनभिमृतं यावद् वेदिः परिगृहीता ताम् उद्धत्याप उपसृज्याग्निम् आधत्ते यज्ञियाम् एवैनां मेध्यां कृत्वाधत्ते ऽग्नेर् वा इयं सृष्टाद् अबिभेद् अति मा धक्ष्यतीति यद् अप उपसृज्याग्निम् आधत्ते ऽस्या अनतिदाहायैषा वै प्रजापतेः सर्वता तनूर् यद् आपः सर्वत एनं प्रजाः सर्वतः पशवो ऽभि पुण्येन भवन्ति य एवं विद्वान् अप उपसृज्याग्निम् आधत्ते यावद् वै वराहस्य चषालं तावतीयम् अग्र आसीद् यद् वराहविहतम् उपास्याग्निम् आधत्त इमाम् एव तन् नापाराड् अस्या एनं मात्रायाम् अध्याधत्ते तस्माद् एषा वराहाय विम्रदत एष ह्य् अस्या मात्रां बिभर्ति देवपाणयो वै नामासुरा आसंस् ते देवगवीर् अपाजंस् ता अन्वगछंस् ता अभ्याजंस् तासां पयो ऽहीयत ते ऽब्रुवन् यद् वा आसां वरम् अभूत् तद् अहास्तेति तद् वराहो भूत्वासुरेभ्यो ऽधि देवान् आगछत् तस्माद् वराहं गावो ऽनुधावन्ति स्वं पयो जानानास् तद् यावत्प्रियम् एव पशूनां द्विपदां चतुष्पदां पयस् तावत्प्रियः पशूनां द्विपदां चतुष्पदां भवति य एवं विद्वान् वराहविहतम् उपास्याग्निम् आधत्त एतद् वा अस्या अनभिमृतं यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते ऽस्या एवैनम् अनभिमृते ऽध्याधत्ते रसो वा एषो ऽस्या उदैषद् यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते ऽस्या एवैनं रसे ऽध्याधत्त ऊर्ग् वा एषो ऽस्या उदैषद् यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते ऽस्या एवैनम् ऊर्ज् अध्याधत्ते प्रजापतेर् वा एष स्तनो यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते प्रजापतिर् एवास्मै स्तनम् अपिदधात्य् अन्नाद्यम् अस्मा अवरुन्द्धे ऽक्षुध्यतां स्वानां पुरःस्थाता भवति य एवं वेदैतावद् वा अमुष्या इह यज्ञियं यद् ऊषा यद् ऊषान् उपकीर्याग्निम् आधत्ते ऽमुष्या एवैनं यज्ञिये ऽध्याधत्ते न वा अनूषरिहः पशवो रेतो दधत्ते यद् ऊषान् उपकीर्याग्निम् आधत्ते रेत एवैतद् दधाति पशूनां पुष्ट्यै प्रजात्यय् एष वा अग्निर् वैश्वानरो यद् असा आदित्यः स यद् इहासीत् तस्यैतद् भस्म यत् सिकता यत् सिकता उपकीर्याग्निम् आधत्ते स्व एवैनं योनौ स्वे भस्मन्न् आधत्ते शिथिरा वा इयम् अग्र आसीत् तां प्रजापतिः शर्कराभिर् अदृंहद् यञ् शर्करा उपकीर्याग्निम् आधत्त इमाम् एव तद् दृंहति धृत्यै तद् यथेमां प्रजापतिः शर्कराभिर् अदृंहद् एवम् अस्मिन् पशवो दृंहन्ते य एवं विद्वाञ् शर्करा उपकीर्याग्निम् आधत्त इन्द्रो वै वृत्राय वज्रं प्राहरत् तस्य या विप्रुषा आसंस् ताः शर्करा अभवन् यञ् शर्करा उपकीर्याग्निम् आधत्ते वज्रम् एव सपत्नाय भ्रातृव्याय प्रहरति यं द्विष्यात् तम् तर्हि मनसा ध्यायेद् वज्रम् एवास्मै प्रहरति स्तृणुत एव पुरीषीति वै गृहमेधिनम् आहुः पुरीषस्य खलु वा एतन् निरूपं यद् आखुकिरिर् यद् आखुकिरिम् उपकीर्याग्निम् आधत्ते पुरीषी गृहमेधी भवति

॥१.६.३॥

आधत्ते : फ़्न् म्२। एद् (म्१, ह्, ब्ब्): आधत्ते

अग्निं वै देवा विभाजं नाशक्नुवन् यत् प्राञ्चम् अहरन्त् सर्वः पुरो ऽभवद् यत् प्रत्यञ्चम् अहरन्त् सर्वः पश्चाभवत् तम् अश्वेन पूर्ववाहोदवहंस् तद् अश्वस्य पूर्ववाहः पूर्ववाट्त्वम् अग्नेर् वै विभक्त्या अश्वो ऽग्न्याधेये दीयते ऽविभक्तो वा एतस्याग्निर् अनाहितो यो ऽश्वम् अग्न्याधेये न ददात्य् अथ यो ऽश्वम् अग्न्याधेये ददाति विभक्त्यै विभाज्यैवैनम् आधत्ते स्तोमपुरोगवा वै देवा असुरान् अभ्यजयन्न् एष खलु स्तोमो यद् अश्वो यद् अश्वं पुरस्तान् नयन्त्य् अभिजित्वय् अभिजित्यैवैनम् आधत्ते प्रजापतेर् वै चक्षुर् अश्वयत् तस्य यः श्वयथा आसीत् सो ऽश्वो ऽभवद् यद् अश्वं पुरस्तान् नयन्ति यजमानायैव चक्षुर् दधाति न पराङ् अवसृज्यो यत् पराञ्चम् अवसृजेद् यजमानं चक्षुर् जह्याद् अन्धः स्यात् प्रत्यवगृह्याधेयो यजमानायैव चक्षुः प्रत्यवाग्रहीन् न पद आधेयो वास्तव्यं कुर्याद् रुद्रो ऽस्य पशून् अभिमानुकः स्यात् पार्श्वत इतो वेतो वाधेयो न वास्तव्यं करोत्य् अघातुको ऽस्य पशुपतिः पशून् भवति गायत्रीं वै देवा यज्ञम् अछ प्राहिण्वन् सा रिक्तागछत् तस्या अग्निस् तेजः प्रायछत् सो ऽजो ऽभवद् यद् अजम् अग्न्याधेये ददाति तेज एवावरुन्द्धे ऽग्नीधे देयो यज्ञमुखं वा अग्नीद् यज्ञमुखेनैव यज्ञमुखं समर्धयति धेनुं चानड्वाहं च ददाति तत् सर्वं वयो ऽवरुन्द्ध एतद् वै सर्वं वयो यद् धेनुश् चानड्वांश् चैतौ वै यज्ञस्य माता च पिता च यद् धेनुश् चानड्वांश् चाज्यं च पयश् च धेन्वाः पुरोडाशश् च चरुश् चानडुहस् तद् आहुः कामदुघां वा एषो ऽवरुन्द्धे यो ऽग्न्याधेये धेनुं चानड्वाहं च ददातीति तद् येषां पशूनां भूयिष्ठं पुष्टिं कामयेत तेषां दित्यौहीं वयसो दद्याद् दित्यवाहं च मुष्करं तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यै वाग् वै सोमक्रयणी दित्यौही वयसः सोमक्रयणी यद् दित्यौहीं वयसो ददाति वाचम् एवावरुन्द्धे चारु वदति य एवं वेदोपबर्हणं सर्वसूत्रं देयं छन्दसां वा एतन् निरूपं यद् उपबर्हणं सर्वसूत्रं यद् उपबर्हणं सर्वसूत्रं ददाति छन्दांस्य् एवावरुन्द्धे पशवो वै छन्दांसि पशून् एवावरुन्द्धे ऽयज्ञियो वै अमेध्य आहनस्याज् जायते पुरुषक्षीरं धयति हिरण्यं ददात्य् आत्मानम् एव तेन पुनीते शतमानं भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति पूर्वयोर् हविषोर् द्वे त्रिंशन्माने देये उत्तरस्मिंश् चत्वारिंशन्मानं तद् एनम् उदग्रहीत् तेन स उत्तरं वसीयाञ् श्रेयान् भवत्य् अजातो वै तावत् पुरुषो यावद् अग्निं नाधत्ते स तर्ह्य् एव जायते यर्ह्य् अग्निम् आधत्ते क्षौमे वसाना अग्निम् आदधीयातां ते अध्वर्यवे देये उल्बस्य वा एतन् निरूपं यत् क्षौमम् उल्बम् एवापलुम्पेते हिरण्यं सुवर्णम् उपास्याग्निर् आधेयो हिरण्यं वा अग्नेस् तेजः सतेजसम् एवैनम् आधत्ते तन् न निरस्तवै यथानुहितं निरस्येद् एवं तद् यन् निरस्येद् अनुध्यायी क्षोधुकः स्यात् तन् न निरस्तवय् अननुध्याय्य् अक्षोधुको भवति

॥१.६.४॥

करोति : फ़्न् ह्, ब्ब्। एद् (म्१, म्२): करोति। च्फ़्। १।६।४:९२।८

यो वा अस्यायं मनुष्यो ऽग्निर् एतम् उपासीनो ऽन्नम् अत्त्य् एतम् उपासीनः प्रजां विन्दत एतम् उपासीनं पशवा उपतिष्ठन्ते यद् एतम् अभागधेयम् उत्सादयेत तस्मा आवृश्चेतानुध्यायी क्षोधुकः स्यात् तद् ये वनस्पतय आरण्या आद्यं फलं भूयिष्ठं पच्यन्ते तस्य पर्णाभ्यां यवमयश् चापूपो व्रीहिमयश् च सङ्गृह्योपास्याधेयस् तद् एनं द्वयं भागधेयम् अभ्युत्सादयाम् अकर् ग्राम्यं चारण्यं च तेन तस्मै नावृश्चते ऽननुध्याय्य् अक्षोधुको भवति यवो वै पूर्व ऋतुमुखे पच्यत इतः खलु वा एतं प्राञ्चम् उद्धरन्ति तस्माद् यवमयः पश्चोपास्यो व्रीहिमयः पुरस् तद् यस्येर्त्सेद् यवमयम् एव तस्य पश्चोपास्येद् व्रीहिमयं पुरः प्रजापतेर् वा एतौ स्तनौ यज्ञम् अस्य देवा उपजीवन्ति वर्षं मनुष्या अन्नाद्यम् अस्मा अवरुन्द्धे ऽक्षुध्यतां स्वानां पुरःस्थाता भवति य एवं वेदैतद् ध स्म वा आह केशी सात्यकामिः केशिनं दार्भ्यम् अन्नादं जनतायय् एवम् इव वयम् एतस्मा अग्न्याधेये ऽन्नम् अवारुध्म यथैषो ऽन्नम् अत्ति तद् आहुः सर्वं वावैतस्येदम् अन्नं यजमानं त्व् एवास्यैतद् आसन्न् अपिदधाति तद् एवं वेदितोर् न त्व् एवं कर्तवा इति त्रिर् वा इदं प्रजापतिः सत्यं व्याहरत् ॥

मनुष्यो : फ़्न् एमेन्देद्। एद्।: मनुषो

अत्ति : फ़्न् एमेन्देद्। एद्।: उपासीतोन्नमति। म्२: उपासीनोन्न- । म्१: उपासीनोन्न-। ब्ब्: उपासीतोन्न-। अमनो, प्।२२३, न्।४७७

भूर् भुवः स्वः ॥ इतीदं वाव भूर् इदं भुवो ऽदः स्वस् तद् यो ब्राह्मण आङ्गिरसः स्यात् तस्यादध्याद् भूर् भुवो ऽङ्गिरसां त्वा देवानां व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् अथ यो ब्राह्मणो वैश्वानरः स्यात् तस्यादध्याद् भूर् भुवो ऽग्नेष् ट्वा देवस्य व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् अथ राजन्यस्यादध्याद् भूर् भुव इन्द्रस्य त्वा मरुत्वतो व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् ऐन्द्रो वै राजन्यो देवतया मारुती विड् विशा खलु वै राजन्यो भद्रो भवति विशम् अस्मा अवरुन्द्धे ऽथ वैश्यस्यादध्याद् भूर् भुवो मनोष् ट्वा ग्रामण्यो व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् ग्रामणीथ्येन खलु वै वैश्यो भद्रो भवति ग्रामणीथ्यम् अस्मा अवरुन्द्धे ऽग्निर् वै सृष्ट उल्बम् अपलुम्पं नाशक्नोत् तस्य प्रजापतिर् आग्नेयपावमानीभिर् उल्बम् अपालुम्पद् यद् आग्नेयपावमानीभिर् आश्वत्थीः समिध आदधात्य् उल्बम् एवास्यापलुम्पति पुनात्य् एनं यथा शिशुं माता रेढि वत्सं वा गौर् एवम् एनं रेढ्य् अग्नेर् वै सृष्टस्य तेजा उददीप्यत तद् अश्वत्थं प्राविशद् यद् आश्वत्थीः समिध आदधाति तेज एवावरुन्द्धे ऽग्निर् वै सृष्टो बिबिबाभवन्न् अतिष्ठद् असमिध्यमानः स प्रजापतिर् अबिभेन् मां वावायं हिंसिष्यतीति तं शम्या समैन्धत् तम् अशमयत् तञ् शम्याः शमीत्वं यञ् छमीमयीः समिध आदधाति सम् एनम् इन्द्धे शमयत्य् एव स शं यजमानाय भवति शं पशुभ्यो देवा यत्रोर्जं व्यभजन्त तत उदुम्बरा उदतिष्ठद् यद् औदुम्बरीं समिधम् आदधात्य् ऊर्जम् एवावरुन्द्धे

॥१.६.५॥

विप्रियो वा एष पशुभिर् आधीयत एष हि रुद्रो यद् अग्निस् तद् वाचयेद् घर्मः शिरस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असीति तद् एनं सम्प्रियं पशुभिः पुरीषिणम् अकर् यत् ते शुक्र शुक्रं ज्योतिस् तेन रुचा रुचम् अशीथा इति रुचम् एवैनम् अजीगमद् एष वा अग्निर् वैश्वानरो यद् असा आदित्यो यद् उत्तरतो हरेद् एषो ऽतः स्याद् अयम् इतो जीवन्तम् एवैनं प्रदहेत् स दक्षिणत एव हार्यः स यदा समयाध्वं गछेद् अथ यजमानो वरं दद्यात् तद् विराजं मध्यतो ऽधित विराड् एवास्याग्नीन् विदधते पशवो वै विराट् पशून् वा एतन् मध्यतो ऽधितासृष्टो वा अग्निर् आसीद् अथ प्रजापतिः प्रजा असृजत ता अन्धे तमसीमांल् लोकान् अनुव्यनश्यन् सो ऽशोचत् सो ऽतप्यत ततो ऽग्निर् असृज्यत तम् अग्निं सृष्टम् अधो व्यदधात् तं या अस्मिंल् लोक आसंस् ता अभिसमावर्तन्त तं कुल्फदघ्नम् उदगृह्णात् तं या उत्तरस्मिंल् लोक आसंस् ता अभिसमावर्तन्त तं जानुदघ्नं तं नाभिदघ्नं तम् अंसदघ्नं तं कर्णदघ्नम् उदगृह्णात् तं या उत्तरस्मिंल् लोक आसंस् ता अभिसमावर्तन्त तं कर्णदघ्नं नात्युद्गृह्यो यत् कर्णदघ्नम् अत्युद्गृह्णीयाद् यजमानो वर्षिष्ठः पशूनां यजमानम् उपरिष्टाद् अग्निर् अभ्यवदहेत् तद् आहुः कथम् अद्यैतम् ब्रह्मणाहितं प्रच्यावयेयुः शिथिरं वावैनम् एतद् अकः परैनं वपतीति तम् अनिधायैवाथ जानुदघ्नम् उद्गृह्णीयाद् अथ नाभिदघ्नम् अथांसदघ्नं तद् यथैव प्रजापतिं प्रजा एभ्यो लोकेभ्यो ऽभिसमावर्तन्तैवम् एव यजमानं पशव एभ्यो लोकेभ्यो ऽभिसमावर्तन्ते य एवं विद्वान् अग्निम् आधत्ते ऽग्निना वै देवतया विष्णुना यज्ञेन देवा असुरान् प्रव्लीय वज्रेणान्ववासृजन् यः सपत्नवान् भ्रातृव्यवान् वा स्यात् तस्य रथचक्रं त्रिर् अनुपरिवर्तयेयुस् तद् यथैव देवा असुरान् अग्निना देवतया विष्णुना यज्ञेन प्रव्लीय वज्रेणान्ववासृजन्न् एवम् एव यजमानः सपत्नं भ्रातृव्यम् अग्निना देवतया विष्णुना यज्ञेन प्रव्लीय वज्रेणान्ववसृजति य एवं विद्वान् अग्निम् आधत्ते

॥१.६.६॥

एष वै प्रजापती रूपेण यत् पूर्णा स्रुग् यत् पूर्णां स्रुचं जुहोति प्रजापतिम् एवाप्नोति सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् एतावतीर् वा अग्नेस् तन्वः षोढा सप्तसप्त यो वा अस्यैता अग्निम् आदधानो वितर्षयति वि ह तृष्यति ता एवास्य तर्पयति शमीमयीस् तिस्रः समिधा आदधाति घृतान्वक्ता घृतस्तोम्याभिः सम् एनम् इन्द्धे शमयत्य् एव स शं यजमानाय भवति सं पशुभ्यो ये वा एषु त्रिषु लोकेष्व् अग्नयस् ते समागच्छन्त्य् अस्य द्रविणम् आददामहे ऽति नो ऽक्रमीद् धव्यवाड् भवतीति तज् जुहुयात् ॥

आददामहे : फ़्न् आददामहै इस् अल्सो पोस्सिब्ले

ये अग्नयो दिवो ये पृथिव्याः समागछन्तीषम् ऊर्जं वसानाः ।

ते अस्मा अग्नये द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनर् अस्तं परेत ॥ स्वाहेति तद् इमम् एव द्रविणवन्तं कृत्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनर् अस्तं परायन्ति तद् वाचयेद् घर्मः शिरस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असीति तद् एनं सम्प्रियं पशुभिः पुरीषिणम् अकर् यत् ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादधा इति सतेजसम् एवैनम् आधत्ते ॥

इडायास् त्वा पदे वयं नाभा पृथिव्या अधि ।

जातवेदो निधीमह्य् अग्ने हव्याय वोढवे ॥

इति हव्यावाहम् एवैनम् अकर् अग्नेर् वै सृष्टस्य पशवो ऽक्ष्या अवक्शाय प्रापतन् स प्रजापतिर् वारवन्तीयम् असृजत तान् अवारयतैतर्हि खलु वा एष सृज्यते यर्ह्य् आधीयते तद् यथैतस्मात् सृष्टात् पशवः प्रापतन्न् एवम् अस्माद् आहितात्पशवः प्रपतन्त्य् एष हि रुद्रो यद् अग्निस् तद् य एवं विद्वान् वारवन्तीयं गायते पशून् एव वारयते वारवन्तीयं वै सृष्ट्वा प्रजापतिर् यं कामम् अकामयत तम् आर्ध्नोत् तम् एव कामम् ऋध्नोति यजमानो यं कामं कमयमानो ऽग्निम् आधत्ते य एवं विद्वान् वारवन्तीयं गायते ऽग्निर् वै क्रव्याद् विश्वदाव्य इमांल् लोकान् अदहत् तं प्रजापतिर् वारवन्तीयं गायमानो वरणं बिभ्रत् प्रत्यैत् तम् अशमयद् यद् एवास्य क्रव्याद् यद् विश्वदाव्यं तञ् शमयति य एवं विद्वान् वारवन्तीयं गायते तस्माद् वरणो यज्ञावचरः स्यान् न त्व् एनेन जुहुयाद् यद् वा इदं सद् यद् भूतं यद् भवद् यद् भविष्यद् यद् इमे अन्तरा द्यावापृथिवी तद् वामदेव्यं तद् एवावरुन्द्धे य एवं विद्वान् वामदेव्यं गायते ब्रह्मणो वा एष रसो यद् यज्ञायज्ञियं यद् यज्ञायज्ञियं गायते ब्रह्मण्य् एव रसं दधाति

॥१.६.७॥

अग्निं वै सृष्टं प्रजापतिः पवमानेनाग्रा उपाधमद् यत् पवमानाय निर्वपत्य् उपैवैनं तद् धमति यत् पावकाय पुनात्य् एनं यञ् शुचये यद् एवास्यापूतं तद् एतेन पुनाति यत् पवमानाय निर्वपति पशवो वै पवंअनः पशून् एवावरुन्द्धे यत् पावकायान्नं वै पावकम् अन्नम् एवावरुन्द्धे यञ् शुचये पूत एवास्मिन् रुचं दधाति यं कामयेतापतरं पापीयान्त् स्याद् इति तस्यैकमेकं हवींसि निर्वपेत् तद् एनम् अपाग्रहीत् तेन सो ऽपतरं पापीयान् भवत्य् अथ यं कामयेत न वसीयान्त् स्यान् न पापीयान् इति तस्य सर्वाणि साकं हवींषि निर्वपेत् तद् एनं संरुणद्धि तेन स न वसीयान् न पापीयान् भवत्य् अथ यं कामयेद् उत्तरं वसीयाञ् श्रेयान्त् स्याद् इति तस्याग्नये पवमानाय निरुप्याथ पावकाय च शुचये चोत्तरे हविषी समानबर्हिषि निर्वपेत् तद् एनम् उदग्रहीत् तेन स उत्तरं वसीयाञ् श्रेयान् भवत्य् अथ यस्य त्रिष्टुभौ वानुष्टुभौ वा जगती वा संयाज्ये स्याताम् अति गायत्रं क्रामेद् अर्वाक् छन्दोभ्यो ऽवपद्येत तद् यस्येर्त्सेद् गायत्र्या एव तस्य संयाज्ये कुर्याद् गायत्रो ह्य् अग्निर् गायत्रछन्दाः स्व एवैनं योनौ स्वे छन्दसि प्रतिष्ठापयत्य् आग्नावैष्णवम् एकादशकपालं निर्वपेद् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्ध विष्णवे शिपिविष्टाय त्र्युद्धौ घृते चरुं निर्वपेद् यद् विष्णवे विष्णुर् वै यज्ञो यज्ञम् एवालब्ध यञ् शिपिविष्टं पशवो वै शिपिविष्टं पशून् एवावरुन्द्धे यत् त्र्युद्धौ त्रयो वा इमे लोका इमान् एव लोकान् आप्नोति यद् घृते तेजो वै घृतं तेज एवावरुन्द्ध आदित्यं घृते चरुं निर्वपेत् पशुकामो धेन्वा वै घृतं पयो ऽनडुहस् तण्डुलास् तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यय् अग्नीषोमीयं पुरोडाशं द्वितीयम् अनुनिर्वपेत् तद् भूयो हव्यम् उपागान् नो अस्यान्य ईशे यर्हि वा एतं पुरा ब्राह्मणा निरवपंस् तर्ह्य् एषां न कश् चनैश न हि वा एतम् इदानीं निर्वपन्त्य् अथैषां सर्व ईशे यद् आग्नेयस् तेजो वा अग्निस् तेज एवावरुन्द्धे यत् सौम्यः सोमो वै शुक्रो ब्रह्मवर्चसं ब्रह्मवर्चसम् एवावरुन्द्धे तद् यो ऽसा आदित्यो घृते चरुस् तं ब्रह्मणे परिहरेयुस् तं चत्वारः प्राश्नीयुस् तेभ्यः समानो वरो देयश् चतुर् वा इदम् अग्रे मिथुनम् औद्यतैकश् चैका च द्वौ च द्वे च त्रयश् च तिस्रश् च चत्वारश् च चतस्रश् च तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यै

॥१.६.८॥

फल्गुनीपूर्णमासे ब्राह्मणस्यादध्यात् फल्गुनीपूर्णमासो वा ऋतूनां मुखम् अग्निर् देवतानां ब्राह्मणो मनुष्याणां ग्रीष्मे राजन्यस्यादध्याद् ग्रीष्मे वा इन्द्रो वृत्रम् अहन् वृत्रं खलु वै राजन्यो बुभूषन् जिघांसति शरदि वैश्यस्यादध्याद् अन्नं वै शरद् अन्नेन वैश्यो भद्रो भवत्य् अन्नाद्यम् अस्मा अवरुन्द्धे यद्य् अन्यस्मिन्न् ऋता आदधीत यदि वा अस्मै स एक ऋतुः शिवः स्याद् अथास्मा इतरे ऽशिवा दुर्योणा भवेयुस् तद् यस्येर्त्सेत् फल्गुनीपूर्णमास एव तस्यादध्यात् तद् अस्मै सर्व ऋतवः शिवा भवन्ति सर्व एनम् ऋतवो जिन्वन्ति संवत्सरस्य वा एतद् आस्यं यत् फल्गुनीपूर्णमास्यम् अहर् यत् फल्गुनीपूर्णमास्यम् अहर् आदध्यात् संवत्सरस्यैनम् आसन्न् अपिदध्याद् द्व्यहे वा पुरैकाहे वाधेयस् तद् द्वितीयस्य ऋतोर् अभिगृह्णाति नैनं संवत्सरस्यासन्न् अपिदधाति तद् यद् द्वितीयस्य ऋतोर् अभिगृह्णाति द्वितीयम् एव सपत्नस्य भ्रातृव्यस्येन्द्रियं पशून् क्षेत्रं वृञ्जान एति कृत्तिकासु ब्राह्मणस्यादध्याद् आग्नेयीः कृत्तिका आग्नेयो ब्राह्मणः स्व एवैनं योनौ स्वे ऽहन्न् आधत्ते प्रजापतेर् वा एतञ् शिरो यत् कृत्तिका अग्निर् आस्यं शीर्ष्णान्नम् अद्यते ऽन्नाद्यम् अस्मा अवरुन्द्धे सप्त कृत्तिकाः सप्त शीर्षन् प्राणाः प्राणान् अस्मिन् दधाति रोहिण्यां पशुकामस्यादध्यात् सोमस्य वा एतन् नक्षत्रं यद् रोहिणी सोमो रेतोधा रेतो ऽस्मिन् दधात्य् ऋक्षा वा इयम् अग्र आसीत् तस्यां देवा रोहिण्यां वीरुधो ऽरोहयंस् तद् यथेमा अस्यां वीरुधो रूढा एवम् अस्मिन् पशवो रोहन्ति य एवं विद्वान् रोहिण्याम् अग्निम् आधत्ते रोहिण्यां स्वर्गकामस्यादध्याद् रोहिण्यां वै देवाः स्वर् आयन् स्वर् एवैति कालकाञ्जा वा असुरा इष्टका अचिन्वत दिवम् आरोक्ष्यामा इति तान् इन्द्रो ब्राह्मणो ब्रुवाण उपैत् स एताम् इष्टकाम् अप्य् उपाधत्त प्रथमा इव दिवम् आक्रमन्ताथ स ताम् आबृहत् ते ऽसुराः पापीयांसो भवन्तो ऽपाभ्रंशन्त या उत्तमा आस्तां तौ यमश्वा अभवतां ये ऽधरे त ऊर्णावाभयो यां ताम् इष्टकाम् आबृहत् सा चित्राभवद् यः सपत्नवान् भ्रातृव्यवान् वा स्यात् स चित्रायाम् अग्निम् आदधीत तद् यथैतस्याम् आवृढायाम् असुराः पापीयांसो भवन्तो ऽपाभ्रंशन्तैवम् अस्य सपत्नो भ्रातृव्यः पापीयान् भवन्न् अपभ्रंशते य एवं विद्वांश् चित्रायाम् अग्निम् आधत्ते यः कामयेत भग्य् अन्नादः स्याम् इति स पूर्वासु फल्गुनीष्व् अग्निम् आदधीत भगस्य वा एतद् अहर् यत् पूर्वाः फल्गुनीर् भग्य् अन्नादो भवत्य् अथ यः कामयेत दनकामा मे प्रजाः स्युर् इति स उत्तरासु फल्गुनीष्व् अग्निम् आदधीतार्यम्णो वा एतद् अहर् यद् उत्तराः फल्गुनीर् दानम् अर्यमा दानकामा अस्मै प्रजा भवन्ति तासु राजन्यस्यादध्याद् दानं ह्य् एष प्रजानाम् उपजीवति दानम् अर्यमा दानकामा अस्मै प्रजा भवन्ति प्रजापतेर् वा एतौ स्तनौ यत् पौर्णमासी चामावास्या च यत् पौर्णमास्यां वामावास्यायां वाग्निम् आधत्ते प्रजापतिम् एव प्रत्तं दुहे देवानां वा एते सदोहविर्धाने यत् पौर्णमासी चामावास्या च यत् पौर्णमास्यां वामावास्यायां वाग्निम् आधत्त उभे पुण्याहे उभे यज्ञिये

॥१.६.९॥

न पुरा सूर्यस्योदेतोर् मन्थितवय् असुर्यो विदेवा आधीयत उद्यत्सु रश्मिषु मथ्यस् तत् सदेवः सेन्द्र उभयोर् अह्नो रूप आधीयते चतुर्विंशत्यां प्रक्रमेष्व् आधेयश् चतुर्विंशत्यक्षरा वै गायत्री गायत्रम् अग्नेश् छन्दः स्व एवैनं योनौ स्वे छन्दस्य् आधत्ते तद् यस्येर्त्सेद् अपरिमित एव तस्यादध्यात् क्षेष्णु वै परिमितम् अपरिमितम् एवास्मै जीवनम् अवरुन्द्धे अग्निर् वै सृष्टः प्रजापतेर् अध्य् उदक्रामत् स प्रजापतिर् अबिभेद् अद एवासा अभूद् इदम् अहम् इति तस्मिन्न् अनुनिष्क्रम्याजुहोद् एतर्हि खलु वा एष सृज्यते यर्ह्य् आधीयते तद् आहुर् अम्ण एवानुद्रुत्याथाग्निहोत्रं होतव्यम् इति तन् नैवं कर्तवय् अयतं तत् कुण्ड्याग्रीयं तद् यज्ञस्य क्रियते यद् योनेः परम् अवरं कुर्याद् अप्रजनिष्णुः स्याद् धवींष्य् एव पूर्वाणि निरुप्याथ सायम् अग्निहोत्रं जुहुयात् ॥

अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति तत् सायं ज्योतिषा रेतो मध्यतो दधाति ॥

सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा ॥ इति प्रातस् ॥

तत् सायं ज्योतिषा रेतो मध्यतो हितं ॥ प्रातः प्रजनयाम् अकर् देवाश् च वा असुराश् च संयत्ता आसन्न् अथेन्द्रो ऽग्निम् आधत्त ते देवा अबिभयुर् अद एवासा अग्निं गोपायमानो ऽग्निहोत्रं गोपायमानो भविष्यति न ना उपैष्यत्य् अभि नो जेष्यन्तीति ते ऽब्रुवन् यद् एव त्वं किञ्च करवो यद् धना यज् जिना यद् विन्दासै तत् ते ऽग्निहोत्रं कुर्मो ऽथेहीति स वा ऐत् तस्माद् राजन्यस्याग्निहोत्रम् अहोतव्यं यद् ध्य् एवैष किञ्च करोति यद् धन्ति यज् जिनाति यद् विन्दते यद् एनं विश उपतिष्ठन्ते तद् राजन्यस्याग्निहोत्रं होतव्यं राजन्यस्याग्निहोत्रा३न् न होतव्या३म् इति मीमांसन्ते यद् धुत्वा न जुहुयाद् वि यज्ञं छिन्द्याज् जीयेत वा प्र वा मीयेत पौर्णमासीम् अमावास्यां वा प्रति होतव्यम् अथो अग्न्युपस्थानं वा चयितव्यस् तेनास्य दर्शपूर्णमासौ सन्तता अविछिन्नौ भवतः

॥१.६.१०॥

यं कामयेत पशुमान्त् स्याद् इति यो बहुपुष्टस् तस्य गृहाद् अग्निम् आहरेयुर् यथा वा एतं सृज्यमानं पशवो ऽन्वसृज्यन्तैवम् एनम् आह्रियमाणं पशवो ऽन्वायन्त्य् एष हि रुद्रो यद् अग्निर् अथ यं कामयेतान्नादः स्याद् इति तस्य भ्रष्ट्राद् दक्षिणाग्निम् आहरेयुर् एष वा अग्नीनाम् अन्नादो ऽन्नकरणं भ्रष्ट्रम् अन्नाद्यम् अस्मा अवरुन्द्धे तद् आहुर् यथा वृषलो निजः पुक्लकश् चिकित्सेद् एवं स इति स मथ्य एव स शं यजमानाय भवति शं पशुभ्यो यः सोमेनायक्ष्यमाणो ऽग्निम् आदधीत न पुरा संवत्सराद् धवींषि निर्वपेद् रुद्रो ऽस्य पशून् अभिमानुकः स्याद् एते वै पशवो यद् व्रीहयश् च यवाश् च तेषां चतुःशरावम् ओदनं पक्त्वा ब्राह्मणेभ्यो जीवतण्डुलम् इवोपहरेत् तद् याभ्यो देवताभ्यो ऽग्निम् आधत्ते यत् ताभ्यो न जुहुयात् ताभ्या आवृश्चेतानुध्यायी क्षोधुकः स्यात् ताभ्या आज्यस्य होतव्यं तेन ताभ्यो नावृश्चते ऽननुध्याय्य् अक्षोधुको भवति संवत्सरे हवींषि निर्वपति तद् अस्य संवत्सरान्तर्हितो रुद्रः पशून् न हिनस्ति संवत्सरम् अग्निहोत्रम् अहौषीत् तत् तपो ऽविदत् स सर्वेण साकं स्वर्गं लोकं समारुक्षत् त्रिर् वा इदं विराड् व्यक्रमत गार्हपत्यम् आहवनीयं सभ्यं तद् विराजम् आपद् अन्नं वै विराड् अन्नं वावैतद् आपन् मध्याधिदेवने राजन्यस्य जुहुयाद् वारुण्य ऋचा वरुणो वै देवानां राजा राज्यम् अस्मा अवरुन्द्धे हिरण्यं निधाय जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाच् छतम् अस्मा अक्षान् प्रयच्छेत् तान् विचिनुयाच् छतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति गाम् अस्य तद् अहः सभायां दीव्येयुस् तस्याः परूंषि न हिंस्युस् तां सभासद्भ्या उपहरेत् तया यद् गृह्णीयात् तद् ब्राह्मणेभ्यो देयं तत् सभ्यम् अन्नम् अवरुन्द्धे

॥१.६.११॥

यस्या रात्र्याः प्रातर् अग्निम् आधास्यमानः स्यात् तां रात्रीं चतुःशरावम् ओदनं पक्त्वा ब्राह्मणेभ्यो जीवतण्डुलम् इवोपहरेद् अदितिर् वै प्रजाकामौदनम् अपचत् सोञ्शिष्टम् आश्नात् तस्या धाता चार्यमा चाजायेतां सापरम् अपचत् सोञ्शिष्टम् आश्नात् तस्या मित्रश् च वरुणश् चाजायेतां सापरम् अपचत् सोञ्शिष्टम् आश्नात् तस्या अंशश् च भगश् चाजायेतां सापरम् अपचत् सैक्षतोञ्शिष्टं मे ऽश्नत्या द्वौद्वौ जायेते इतो नूनं मे श्रेयः स्याद् यत् पुरस्ताद् अश्नीयाम् इति सा पुरस्ताद् अशित्वोपाहरत् ता अन्तर् एव गर्भः सन्ता अवदताम् आवम् इदं भविष्यावो यद् आदित्या इति तयोर् आदित्या निर्हन्तारम् ऐछंस् ता अंशश् च भगश् च निरहतां तस्माद् एतौ यज्ञेन यजन्ते ऽंशप्रासो ऽंशस्य भागधेयं जनं भगो ऽगछत् तस्माद् आहुर् जनो गन्तव्यस् तत्र भगेन सङ्गछता इति स वा इन्द्र ऊर्ध्व एव प्राणमं उदश्रयत मृतम् इतरम् आण्डम् अवापद्यत स वाव मार्ताण्डो यस्येमे मनुष्याः प्रजा सा वा अदितिर् आदित्यान् उपाधावद् अस्त्व् एव म इदं मा म इदं मोघे परापप्तद् इति ते ऽब्रुवन्न् अथैषो ऽस्माकम् एव ब्रवातै न नो ऽतिमन्याता इति स वाव विवस्वान् आदित्यो यस्य मनुश् च वैवस्वतो यमश् च मनुर् एवास्मिंल् लोके यमो ऽमुष्मिन्न् एते वै देवयानान् पथो गोपायन्ति यद् आदित्यास् त इयक्षमाणं प्रतिनुदन्ते यो वा एतेभ्यो ऽप्रोच्याग्निम् आधत्ते तम् एते स्वर्गाल् लोकात् प्रतिनुदन्त उञ्शिष्टभागा वा आदित्या यद् उञ्शिष्टे विवर्तयित्वा समिध आदधाति तद् आदित्येभ्यो ऽग्न्याधेयं प्राह नैनं स्वर्गाल् लोकात् प्रतिनुदन्ते संवत्सरम् उत्सृजेताग्निम् आधास्यमानो नास्याग्निं गृहाद् धरेयुर् नान्यता आहरेयुः संवत्सरे वृद्धा गर्भाः प्रजायन्ते प्रजातम् एनं वृद्धम् आधत्ते द्वादश रात्रीर् उत्सृजेत द्वादश वै रात्रयः संवत्सरस्य प्रतिमा संवत्सरे वृद्धा गर्भाः प्रजायन्ते प्रजातम् एनं वृद्धम् आधत्ते तिस्र उत्सृजेत त्रयो वा इमे लोका इमान् एव लोकान् आप्नोत्य् एकाम् उत्सृजेतैको वै प्रजापतिः प्रजापतिम् एवाप्नोति पुरूरवा वा ऐड उर्वशीम् अविन्दत देवीं तस्या आयुर् अजायत स देवान्त् स्वर्गं लोकं यत्तो ऽनूदैत् ते ऽब्रुवंस् तद् वयं देवा इमः क्वायं मनुष्यो गमिष्यतीति सो ऽब्रवीद् बहवो वै मे समानास् ते मा वक्ष्यन्ति किम् अयं देव्याः पुत्रो देवेभ्यो मातुर्भ्रात्रेभ्या आहार्षीद् अस्त्व् एव मे किञ्चिद् इति तस्मा अग्निर् यज्ञियां तन्वं प्रायछत् ताम् उत्सङ्गे ऽवधायाहरत् ताम् उखायाम् अवादधात् सो ऽश्वत्थ आरोहो ऽभवद् योखा सा शमी तस्माद् एतौ यज्ञावचरौ पुण्यजन्मानौ ह्य् अग्निर् वै वरुणं ब्रह्मचर्यम् आगछत् प्रवसन्तं तस्य जायां समभवत् तं पुरस्ताद् आयन्तं प्रतिक्शाय प्रत्यङ् निरद्रवत् सो ऽवेत् सर्वं वा इन्द्रियं नृम्णं रेतो निर्लुप्य हरतीति तद् अनुपराहाय निरलुम्पद् यद् रेता आसीत् सो ऽश्वत्थ आरोहो ऽभवद् यद् उल्बं सा शमी तस्माद् एतौ यज्ञावचरौ पुण्यजन्मानौ हि प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत सो ऽश्वो भूत्वा संवत्सरं न्यङ् भूम्यां शिरः प्रतिनिधायातिष्ठत् तस्याश्वत्थो मूर्ध्न उदभिनत् तद् अश्वत्थस्याश्वत्थत्वं तस्माद् एष यज्ञावचरः प्राजापत्यो हि

॥१.६.१२॥

प्राणमं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्: प्राणमान्।

मातुर्भ्रात्रेभ्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

मनुर् वै प्रजाकामो ऽग्निम् आधास्यमानो देवतायैदेवताया अजुहोत् ततो मित्रावरुणयोर् आहुत्या प्रफर्व्य् उदतिष्ठत् तस्या घृतं पदोर् अक्षरत् सा मित्रावरुणा ऐत् ता अब्रूताम् आहुत्या वै त्वम् आवयोर् अजनिष्ठा मनोस् त्वै त्वम् असि तं परेहीति सा मनुम् ऐत् सो ऽब्रवीद् असुरा वा इमे पुण्यमन्या अग्निम् आदधते तान् परेहीति सा परैत् ते ऽमुम् अग्रा आदधताथेमम् अथेमं सा पुनर् ऐत् ताम् अपृछत् किम् अभ्यगन्न् इति साब्रवीद् अमुम् एवाग्रा आधिषताथेमम् अथेमम् इति सो ऽब्रवीत् सकृद् वावासुराः श्रियो ऽन्तम् अगुः परा तु भविष्यन्तीति सो ऽब्रवीद् देवा वा इमे पुण्यमन्या अग्निम् आदधते तान् परेहीति सा परैत् त इमम् अग्रा आदधताथामुम् अथेमं सा पुनर् ऐत् ताम् अपृछत् किम् अभ्यगन्न् इति साब्रवीद् इमम् एवाग्रा आधिषताथामुम् अथेमम् इति सो ऽब्रवीत् सकृद् वाव देवाः सर्वेण साकं स्वर्गं लोकं समारुक्षन्न् इतःप्रदानात् तु यज्ञम् उपजीविष्यन्तीति यः सर्ववेदसं दास्यन्त् स्यात् स इमम् अग्रा आदधीताथामुम् अथेमं तद् यथैव देवाः सर्वेण साकं स्वर्गं लोकं समारोहन्न् एवम् एव यजमानः सर्वेण साकं स्वर्गं लोकं समारोहति य एवं विद्वान् अग्निम् आधत्ते सो ऽब्रवीद् ऋषयो वा इमे पुण्यमन्या अग्निम् आदधते तान् परेहीति सा परैत् त इमम् अग्रा आदधताथेमम् अथामुं सा पुनर् ऐत् ताम् अपृछत् किम् अभ्यगन्न् इति साब्रवीद् इमम् एवाग्रा आधिषताथेमम् अथामुम् इति सो ऽब्रवीद् अहं वावाग्न्याधेयं विदाञ्चकार सर्वेषु वा एषु लोकेष्व् ऋषयः प्रत्यष्ठुर् इति प्रति प्रजया च पशुभिश् च तिष्ठति य एवं विद्वान् अग्निम् आधत्ते यद् अमुम् आधायेमम् आदध्याद् अप तद् आदध्याद् यद् वावेमम् आधायामुम् आदध्याद् अप तद् आदध्यात् तद् इमम् एवाधायाथेमम् अथामुं तथा समृद्धा आधीयते प्राचीनप्रवण आधेयस् तथा समृद्धा आधीयते प्राचीनं मध्यमाद् वंशाद् आधेयस् तथा समृद्धा आधीयते या वै सा प्रफर्व्य् आसीत् सा गौर् अभवत् सेडा सा मानवी घृतपदी मैत्रावरुणी

॥१.६.१३॥
प्रपाठक 7

प्रथमकाण्डे सप्तमः प्रपाठकः

प्रथमकाण्डे सप्तमः प्रपाठकः

सलिलः सलिगः सगरस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा केतः सुकेतः सकेतस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा देवजूते विवस्वन्न् आदित्य ते नो देवाः सत्यां देवहूतिं देवेष्व् आसुवध्वम् आदित्येभ्यः स्वाहा

॥१.७.१॥

अग्नेर् वै भागः पुनराधेयम् एतं वै भागं प्रेप्सन् व्यर्धयति यद्य् आदधानो मन्येत वि स्या ऋध्यता इत्य् उत्साद्य पुनर् आदधीत यम् एव भागं प्रेप्सन् व्यर्धयति तं प्राप्यार्धयत्य् एव सर्वम् एवाग्नेयं क्रियते यत् किञ्च सर्वम् एवाग्नये भागं प्रदाय सर्वाम् ऋद्धिम् ऋध्नोति न सम्भाराः सम्भृत्या न यजुः कर्तवा इत्य् आहुः सम्भृतसम्भारो ह्य् एष कृतयजुस् तद् आहुः सम्भृत्या एव सम्भाराः कार्यं यजुर् इति पुनरुत्स्यूतं वासो देयं पुनर्णवो रथः पुनरुत्सृष्टो ऽनड्वान् एतानि वै पुनराधेयस्य रूपाणि रूपाण्य् एवास्याप्त्वावरुन्द्धे ऽग्निर् वा उत्सीदन्न् अप ओषधीर् अभ्युत्सीदति दर्भा वा आपा ओषधयो यद् दर्भा उपोलपा भवन्त्य् अद्भ्य एवैनम् ओषधीभ्यो ऽध्य् आप्त्वावरुन्द्धे देवा असुरैर् विजयम् उपयन्तो ऽग्नौ प्रियास् तन्वः सन्न्यदधत यन् नो जयेयुर् इमा अभ्युपधावेम यद्य् उ जयेमेमा अभ्युपावर्तेमहीति ता देवा जित्वान्वैछन् सर्वेषां नः सहेति सो ऽग्निर् अब्रवीद् य एव मां मद्देवत्य आदधातै स एताभिस् तनूभिः सम्भवाद् इति तं देवा आदधत त एताभिस् तनूभिः समभवत् पशवो वै देवानां प्रियास् तन्वः पशुभिर् एव समभवंस् तद् य एवं विद्वान् पुनराधेयम् आधत्त एताभिर् एवाग्नेस् तनूभिः सम्भवति पशवो वै देवानां प्रियास् तन्वः पशुभिर् एव सम्भवति मनुः पुष्टिकामा आधत्त स इमान् पोषान् अपुष्यत् तेन ऋद्धं त्वष्टा पशुकामा आधत्त त इमे त्वाष्ट्राः पशवः प्राजायन्त तेन ऋद्धं प्रजापतिः प्रजाकामा आधत्त ता इमाः प्रजाः प्राजापत्याः प्राजायन्त तेन ऋद्धं यो वै तम् अग्रा आधत्त स तेन वसुना समभवत् तत् पुनर्वसोः पुनर्वसुत्वं तस्मात् पुनर्वसा आधेयः पुनर् हि स तेन वसुना समभवद् यो वै तम् आधत्तार्ध्नोत् स तस्माद् अनुराधास्व् आधेय ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय

॥१.७.२॥

अग्निर् वा उत्सीदन्त् संवत्सरम् अभ्युत्सीदति सप्तदश सामिधेनीः कार्याः पञ्च ऋतवो द्वादश मासा एष संवत्सरः संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे तद् आहुः पञ्चदश सामिधेनीः कार्या न सप्तदशेत्य् एतद् वै संवत्सरस्य सङ्क्रमणतमम् एतेनाशिष्टम् आप्यते पञ्चदश सामिधेनीः पञ्चदशार्धमासस्य रात्रयस् ताभिर् एव ता आप्यन्ते यावन्ति वै सामिधेनीनाम् अक्षराणि तावन्ति संवत्सरस्याहानि तैर् एव तान्य् आप्यन्ते ऽग्निर् वा उत्सीदन्त् संवत्सरम् अभ्युत्सीदति षड् वा ऋतवः संवत्सरस् तस्मात् षड् विभक्तयः संवत्सरो वा अग्निर् वैश्वानरो यत् षड् विभक्तयः संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे ऽथ यद् अग्निर् बहुधा विह्रियत इमान् पोषान् पुपोष तस्माद् अग्निर् एतावतीर् विभक्तीर् आनशे नान्या देवताथ यद् द्व्यक्षराः सतीश् चतुरक्षराः क्रियन्त आचतुरं हि पशवो द्वन्द्वं मिथुना ऋतवो वै प्रयाजा अन्नम् ऋतवो यत् प्रयाजान् अन्तरियाद् अन्नम् अन्तरियाद् यज्ञमुखं वै प्रयाजा यत् प्रयाजान् अन्तरियाद् यज्ञमुखम् अन्तरियात् तद् यस्येर्त्सेत् तस्योपरिष्टात् प्रयाजानां विभक्तीः कुर्याद् वीर्यं वै प्रयाजा वीर्यं विभक्तयो वीर्याद् एवाधि वषट्करोति ताजग् ऋद्धिम् अभिक्रामति नानाग्नेयं क्रियते ऽथ कस्मात् सह विभक्तयः प्रयाजैर् इति संवत्सरं वै प्रयाजाः परीज्यन्ते कस्माद् आग्नेयं क्रियते तस्मान् नानाग्नेयं

॥१.७.३॥

पुनर् ऊर्जा निवर्तस्व पुनर् अग्न इषायुषा ।

पुनर् नः पाह्य् अंहसः ॥

इति पुरस्तात् प्रयाजानां जुहुयात् ॥

सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया ।

विश्वपन्या विश्वतस् परि ॥

इत्य् उपरिष्टाद् अनुयाजानां जुहुयाद् ऊर्जा वा एष पशुभिर् उत्सीदन्त् सहोत्सीदति पुनर् ऊर्जा निवर्तस्वेति तद् ऊर्जम् एव पशून् पुनर् अवरुन्द्धे ऽथो तान् एव भागिनः करोत्य् अथो उभयत एष यज्ञस्याशिष ऋध्नोति नानाग्नेयं क्रियते ऽथ कस्माद् आज्यभागा इज्येते इति चक्षुषी वा एते यज्ञस्य यद् आज्यभागौ यद् आज्यभागा अन्तरियाच् चक्षुषी यज्ञस्यान्तरियाद् अग्ना आयूंषि पवसा इति सोमस्य लोके कुर्याद् यद् आग्नेयी तेनाग्नेयी यत् पावमानी तेन सौमी नानाग्नेयं क्रियते न सोमम् अन्तर्यन्त्य् अग्निर् मूर्धा दिवः ककुद् इति प्रजाकामो वा पशुकामो वा सोमस्य लोके कुर्याद् यन् मिथुना तेन प्रजननवती यद् रेतस्वती तेन सौमी यज्ञेन वा एष व्यृध्यते यो ऽग्निम् उत्सादयते पाङ्क्तो यज्ञो यत् पञ्चकपालो यज्ञम् एव पुनर् आलभते ऽष्टाकपालः कार्यो गायत्रो ह्य् अग्निर् गायत्रछन्दा आग्नेयं वा एतत् क्रियते यत् पुनराधेयं तस्माद् अष्टाकपालस् तन् न सूर्क्ष्यं पञ्चकपाल एव कर्यः पञ्चमाद् वा अध्य् ऋतोः षष्ठ ऋतुर् अभवत् समानम् एतद् यत् पञ्चमश् च ऋतुः षष्ठश् च यत् पञ्चकपालः संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे प्रजननं वा ऋतवो ऽग्निः प्रजनयिता यत् पञ्चकपालः प्रजननाद् एवैनं प्रजनयिता प्रजनयति

॥१.७.४॥

वा : फ़्न् एमेन्देद्। एद्।: वा

वीरहा वा एष देवानां यो ऽग्निम् उत्सादयते शतदायो वीरो यद् एताः शताक्षराः पङ्क्तयो भवन्ति वीरं वावैतद् देवानाम् अवदयते ऽन्यस्मै वै कम् आधेयम् अन्यस्मै पुनराधेयं न वै तद् आधेयेन स्पृणोति यस्मै कं पुनराधेयं पुनराधेयेन वाव तत् स्पृणोति जरा वै देवहितम् आयुर् एतावतीर् हि समा एति यद् एताः शताक्षराः पङ्क्तयो भवन्ति यावद् एवायुर् वीर्यं तद् आप्नोति तत् स्पृणोति तद् अवरुन्द्ध आयुषा वा एष वीर्येण व्यृध्यते यो ऽग्निम् उत्सादयत आयुर् वीर्यं हिरण्यं यद् धिरण्यं ददात्य् आयुषैवैनं वीर्येण समर्धयति शतमानं भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोत्य् आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् ते व्यतृष्यन्न् इतःप्रदानाद् धि देवा यज्ञम् उपजीवन्ति ते वा एतं पुनर् आदधत त आर्ध्नुवन्न् आदित्या वा अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन् पशवो ऽस्मिन्न् ऋतवो ऽमुष्मिंस् तद् य एवं विद्वान् पुनराधेयम् आधत्त उभयोर् एव लोकयोर् ऋध्नोत्य् अस्मिंश् चामुष्मिंश् च सलिलः सलिगः सगरस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा केतः सुकेतः सकेतस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा देवजूते विवस्वन्न् आदित्य ते नो देवाः सत्यां देवहूतिं देवेष्व् आसुवध्वम् आदित्येभ्यः स्वाहेत्य् एतैर् वै ते तं पुनर् आदधत त आर्ध्नुवंस् तद् यद् एतैः पुनर् आधत्ते ऽथ ऋध्नोत्य् आदित्या हि पुनराधेयम्

॥१.७.५॥
प्रपाठक 8

प्रथमकाण्डे अष्टमः प्रपाठकः

प्रथमकाण्डे अष्टमः प्रपाठकः

प्रजापतिः प्रजा असृजत स वा अग्निम् एवाग्रे मूर्धतो ऽसृजत स यतो ऽग्निम् असृजत तत् पर्यमार्ट् ततो लोहितम् अवाहरत् तन् न्यमार्ट् तत उदुम्बरः समभवत् तस्माद् उदुम्बरः प्राजापत्यस् तस्माल् लोहितं फलं पच्यते सो ऽस्मात् सृष्टः पराङ् ऐद् भागधेयम् इछमानः स तद् एव नाविन्दत् प्रजापतिर् यद् अहोष्यत् स स्वं चक्षुर् आदायाजुहोत् ॥ अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति तद् वा अदश् चक्षुर् मन्यन्ते यद् असा आदित्यो ऽमुं वा एतद् अस्मिन् जुह्वतो मन्यन्ते सत्यं वै चक्षुः सत्येनाग्निहोत्रं जुहोति य एवं विद्वान् जुहोति भविष्णुः सत्यं भवति य एवं वेद कस्मै कम् अग्निहोत्रं हूयता इति ब्रह्मवादिनो वदन्त्य् अग्नये वा एतद् धृत्यै गुप्त्यै हूयते यत् सायं जुहोति रात्र्यै तेन दाधार यत् प्रातर् अह्ने तेनाग्नौ सर्वान् यज्ञान्त् संस्थापयन्त्य् अथ कस्माद् एतद् एवाग्निहोत्रम् उच्यता इति ब्रह्मवादिनो वदन्ति होत्रा वै देवेभ्यो ऽपाक्रामन्न् अग्निहोत्रे भागधेयम् इछमाना यत् ॥ अग्निहोत्रम् ॥ इत्य् आह तेन होत्रा आभजति तेनैना भागिनीः करोत्य् एषा वा अग्रे ऽग्ना आहुतिर् अहूयत तद् अग्निहोत्रस्याग्निहोत्रत्वं सो ऽस्मात् सृष्टः पराङ् ऐद् भागधेयम् इछमानः स तद् एव नाविन्दत् प्रजापतिर् यद् अहोष्यत् तं स्वा वाग् अभ्यवदद् जुहुधीति स इत एवोन्मृज्याजुहोत् ॥ स्वाहा ॥ इति स्वा ह्य् एनं वाग् अभ्यवदत् तत् स्वाहाकारस्य जन्म तस्माद् अग्निहोत्रे स्वाहाकारस् तस्माल् ललाटे च पाणौ च लोम नास्त्य् अतो हि स तद् आदायाजुहोत् तस्माद् यस्य दक्षिणतः केशा उन्मृष्टास् तम् आहुर् ज्येष्ठलक्ष्मीति प्रजापतिर् ह्य् एतद् अग्रे ज्येष्ठ उदमृष्टानेन सम्मिता स्रुक् कार्यानेन वा अग्रे ऽग्ना आहुतिर् अहूयत तस्या आहुत्याः पुरुषो ऽसृज्यत द्वितीयाम् अजुहोत् ततो ऽश्वो ऽसृज्यत तस्माद् अश्व उभयादन्न् अनन्तर्हितो हि पुरुषाद् असृज्यत तस्माद् एनं प्रत्यञ्चं तिष्ठन्तं मन्यन्ते ऽश्वो नू पुरुषा इति तृतीयाम् अजुहोत् ततो गौर् असृज्यत चतुर्थीम् अजुहोत् ततो ऽविर् असृज्यत पञ्चमीम् अजुहोत् ततो ऽजासृज्यत षष्ठीम् अजुहोत् ततो यवो ऽसृज्यत सप्तमीम् अजुहोत् ततो व्रीहिर् असृज्यतैते सप्त ग्राम्याः पशवो ऽसृज्यन्त तान् एवावरुन्द्धे य एवं विद्वान् अग्निहोत्रं जुहोति

॥१.८.१॥

अष्टमीम् अजुहोत् ततो वसन्तो ऽसृज्यत नवमीम् अजुहोत् ततो ग्रीष्मो ऽसृज्यत दशमीम् अजुहोत् ततो वर्षा असृज्यन्तैकादशीम् अजुहोत् ततः शरद् असृज्यत द्वादशीम् अजुहोत् ततो हेमन्तो ऽसृज्यतोद्यता त्रयोदश्य् आहुतिर् आसीद् अथ शिशिरम् असृज्यत तस्माद् एतद् ऋतूनाम् अशान्तं क्रूरम् अहुताद् धि समभवद् अहुताद् असृज्यत तद् आहुर् ब्रह्मवादिन ऋतवः पूर्वे ऽसृज्यन्ता३ पशवा३ इत्य् उत ऋतव उत पशवा इति ब्रूयाद् उभये ह्य् एते सहासृज्यन्त स वा एनम् इत एव पुनः प्राविशद् एतद् वा अग्निधानं हस्तस्य यत् पाणिस् तस्माद् एतो हस्तस्याग्निर् नतमां विदहति यद् धन्यमानो हस्तौ प्रतिप्रसारयत्य् अग्नौ वा एतन् न्यञ्चनम् इछते ऽग्निं वै पशवः प्रविशन्त्य् अग्निः पशून् प्र ह वा एनं पशवो विशन्ति प्र स पशून् य एवं वेदैतद् ध स्म वा आह नारदो यत्र गां शयानां निर्जानाति मृताम् एनाम् अविद्वान् मन्यता इत्य् अग्निं ह्य् एवैते प्रविशन्त्य् अग्निर् एतांस् तस्मात् सर्वान् ऋतून् पशवो ऽग्निम् अभिसर्पन्ति न ह्य् एत ऋते ऽग्नेर् यज् जातः पशून् अविन्दत तज् जातवेदसो जातवेदस्त्वं ताम् अप्सु प्रासिञ्चत् सापो ऽन्वदहत् ता अग्नये वज्रो ऽभवंस् तस्माद् धवींषि प्रोक्षताग्निर् अभि न प्रोक्ष्यो यद् अभिप्रोक्षेद् धतेन यज्ञेन यजेत तां वै प्रजापतिर् अन्वैछत् ताम् अप्स्व् अन्वविन्दत् ताम् ओषधीषु न्यमार्ट् तस्माद् ओषधयो ऽनभ्यक्ता रेभन्त ओषधीभ्यः पशवः पशुभ्यो मनुष्या अनभ्यक्तो ह रेभते य एवं वेद तद् यो वसन्ताशिशिरे कक्षः स उपाधेय एतद् वै तद् अग्नेः प्रियं धामैषा वाव साहुतिः श्रायत्य् अग्नेर् एवैतया प्रियं धामोपैत्य् अथो पशुमान् भवत्य् अथो आत्मानम् एवैतया यजमानः पुनीते सह वा एता आस्ताम् अग्निश् च सूर्यश् च समाने योना अयसि लोहिते स आदित्य ऊर्ध्व उदद्रवत् तस्य रेतः परापतत् तद् अग्निर् योनिनोपागृह्णात् तद् एनं व्यदहत् तस्माद् अयो ऽत्रपु प्रतिधुक् क्षीरं विदहति तस्माद् एतज् जुह्वति पशूनां वा एतत् पयो यद् व्रीहियवौ तस्माद् एतज् जुह्वति नातिशृतं कार्यं रेतः शोषयेद् यद् विष्यन्देतोन्मादुको ऽस्य प्रजायाम् आजायेतामुष्य वा एतद् आदित्यस्य रेतो हूयते ऽमेध्यम् अशृतं समुदन्तं होतव्यं तद् धि शृतं मेध्यं मिथुनं प्रजनिष्णु

॥१.८.२॥

इति : फ़्न् एमेन्देद्। एद्।: मन्यते ऽति

स्थाल्या दुहत्य् अनया वा एतद् उपसीदन्ति नहीमाम् इतो नेतः स्कन्दत्य् अस्कन्नत्वायार्यकृती भवत्य् ऊर्ध्वकपाला सदेवत्वाय सा हि सदेवासुर्यं वा एतत् पात्रं यत् कुलालकृतं चक्रवृत्तं यत्र स्कन्देत् तद् अपो निनयेद् आपो वै शान्तिर् आपो निष्कृतिर् आपो भेषजा यत्र वा एता अस्या उपयन्ति तत् प्रशस्ततरा ओषधयो जायन्ते बंहीयसीर् यदि दुह्यमानावभिन्द्याद् अन्यया स्थाल्या निर्णिज्य दोह्या यज्ञो हि यज्ञस्य प्रायश्चित्तिर् यद्य् अधिश्रितं स्कन्देद् यद्य् उद्वास्यमानं यद्य् उद्वासितं यद्य् उन्नीयमानं यद्य् उन्नीतं यदि पुरः पराहृतं होमाय पुनर् अवनीयान्याभिदुह्या यज्ञो हि यज्ञस्य प्रायश्चित्तिर् वारुणीम् ऋचम् अनूच्य वारुण्या होतव्यं वरुणो वा एतद् यज्ञस्य गृह्णाति यद् आर्छति निष्कृतिर् एवैषा प्रायश्चित्तिर् अप्रतिषेक्यं स्यात् तेजस्कामस्य ब्रह्मवर्चसकामस्याथो तुस्तूर्षमाणस्याथो यः कामयेत वीरो मा आजायेतेत्य् अप्रतिषिक्तो वै घर्मस् तेजो ब्रह्मवर्चसं तेजस्वी ब्रह्मवर्चसी भवति स्तृणुते यं तुस्तूर्षत आ हास्य वीरो जायत आज्येन होतव्यं यस्याप्रतिषेक्यं स्याद् एतद् वा अप्रतिषिक्तं न तु स्कन्नस्य प्रायश्चित्तिर् अस्त्य् अथो न पशुमान् इव भवति पशूनां वा एतत् पयः प्रवृज्यते शुचं पशुषु दधाति तेजो ऽशान्तं पशून् निर्दहति तस्मात् प्रतिषेक्यम् एव स्याद् यद् अद्भिः प्रतिषिञ्चेद् धरो विनयेद् गान्दोहसन्नेजनेन प्रतिषिच्यं तद् धि नापो न पयस् तद् आहुः स्कन्दति वा एतद् यर्हि वा एतद् दोहनात् पर्याक्रियते तर्हि स्कन्नम् अन्तर्हिता ह्य् अस्या वनस्पतय इति तद् अद्भिर् एव प्रतिषिच्यं स्तोकेनैकेन न हरो विनयति शुचं पशूनां शमयति पशवो वै तेजो ब्रह्मवर्चसं मिथुनं वा आपश् च पयश् च मिथुनात् खलु वै प्रजाः पशवः प्रजायन्ते तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायत ओदनेन होतव्यं यस्य प्रातषेक्यं स्याद् एष हि प्रतिषिक्तः शान्तो मेध्यो मिथुनः प्रजनिष्णुः

॥१.८.३॥

नहीमाम् : फ़्न् न हि ओर् नहि

आर्छति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

प्रजापतिः प्रजा असृजत ता वै तपसैवासृजत स वै स वाचम् एवायछत् तपो वा एष उपैति यो वाचं यछति सृष्टिः प्रजानाम् अग्निहोत्रम् उभयत एव प्रजाः सृजत इतश् चामुतश् च निम्रुक्ते सूर्ये वाग् यन्तव्याथो दुह्यमानायाम् अथो अधिश्रित उन्नीयमान एव यन्तव्यास् तद् अवकॢप्ततमम् ॥

उद्भवः स्थ ॥ इत्य् अवेक्षेत ॥

उद् अहं प्रजया पशुभिर् भूयासम् ॥ इति प्रजायाः पशूनां सृष्ट्यय् अथो अभ्य् एवैनद् घारयति मेध्यत्वायाग्निहोत्रे वै दम्पती व्यभिचरेते पूर्वो यजमानस्य लोको ऽपरः पत्न्या यत् प्राचीनम् उद्वासयेद् यजमानः प्रमीयेत यत् प्रतीचीनं पत्नी कं घर्मम् अभ्युदवीवसा इति ब्रह्मवादिनो वदन्त्य् उदीचीनम् एवोद्वास्यम् अग्रहणौ सञ्जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतश् चतुर् उन्नयति चतुष्पदस् तेन पशून् अवरुन्द्धे द्विर् जुहोति द्विपदस् तेन यं कामयेतानुज्येष्ठं प्रजया ऋध्नुयाद् इति तस्य पूर्णम् अग्रा उन्नयेद् अथ कनीयो ऽथ कनीयो ऽनुज्येष्ठं प्रजया ऋध्नोति तद् आहुः कनीयांसं वा एष यज्ञक्रतुम् उपैति कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान् भवति सम्मितम् इवाग्रा उन्नयेद् अथ भूयो ऽथ भूयः पूर्णम् उत्तमं यज्ञस्याभिक्रान्त्यै तद् आहुर् ज्यायांसं वा एष यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् अर्धुको ऽस्य पुत्रः कनिष्ठो भवतीति यदि कामयेत सर्वे सदृशाः स्युर् इति सर्वान्त् समावद् उन्नयेत् सर्वे ह सदृशा भवन्ति न पश्चाद् उपसादयेद् अपक्रान्तिः सा यज्ञस्य यत्रैवोन्नयेत् तत् सादयेत् प्रतरं वा यज्ञस्याभिक्रान्त्यय् अनुध्यायिनं वा एतद् अपरं करोति यद् अपरस्मिंस् तपन्ति पूर्वस्मिन् जुह्वति समयाग्निं हरन्ति तेनैवैनं प्रीणात्य् अथो अग्निहोत्रस्य वा एतत् पवित्रम् अपुपोद् एवैनद् अपरस्माद् वै पूर्वं सृष्टं तम् एतावत्य् अरमयंस् तस्मात् पुरो ऽनुद्रुत्य जुहोति ॥

प्रजां : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

भवति : फ़्न् प्रोबब्ल्य् भवतीति। च्फ़्। बेलोw १२०।४

अर्धुको : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

आयुर् मे यछ ॥ इति सादयत्य् आयुर् एवास्मिन् यछति ॥

वर्चो मे यछ ॥ इति सादयति वर्च एवास्मिन् यछत्य् ओषधीर् वा इमा रुद्रा विषेणाञ्जंस् ताः पशवो नालिशन्त ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् अब्रवीद् वार्यं वृणै भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन्त् सो ऽब्रवीन् मद्देवत्यैव समिदसद् इति तस्मात् प्राजापत्या समिद् देवेषु ह्य् अस्यैषा वार्यवृता द्वे समिधौ कार्ये द्वे ह्य् आहुती एकैव कार्यैको हि प्रजापतिर् एकधा खलु वै समिद्ध उत बह्वीर् आहुतयो हूयन्ते ता अग्निनान्ववाकरोत् ता अस्वदयत् ताः पुनर्णवा अजायन्तैतर्हि खलु वा अग्निहोत्रिणे दर्शपूर्णमासिने सर्वा ओषधयः स्वदन्ते यत् समिधम् आदधाति सर्वा एवास्मा ओषधीः स्वधयाम् अकः

॥१.८.४॥

भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेद् एतद् वै ब्रह्मैतत् सत्यम् एतद् ऋतं न वा एतस्माद् ऋते यज्ञो ऽस्ति तस्माद् एवं वदितव्यम् ॥

अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति गर्भिण्या वाचा गर्भं दधाति मिथुनया वाचा मिथुनं प्रजनयति यद् वाचा च जुहोति यजुषा च तन् मिथुनं यत् तूष्णीं च जुहोति मनसा च तन् मिथुनं स्थाणुर् वै पूर्वाहुतिर् अतिहाय पूर्वाम् आहुतिम् उत्तरा होतव्या स्थाणुम् एव छम्बट्करोत्य् उत्तराहुतिर् भूयो होतव्या यज्ञस्याभिक्रान्त्यै पशून् एव पूर्वयाहुत्या स्पृणोति ब्रह्मवर्चसम् उत्तरयाग्नेयी सायम् आहुतिस् तया रेतः सिञ्चति तद् रेतः सिक्तं रात्र्यै गर्भं दधाति तत् सौर्या प्रातः प्रजनयाम् अकर् इयं होतव्याथ पराथ पुनर् अवस्तात् प्रातर् अवस्ताद् धि प्रजानां प्रजातिः प्रजननं हि सौरी तन् न सूर्क्ष्यं परापरैव होतव्या यज्ञस्याभिक्रान्त्यय् उदङ्ङ् उद्दिशति ॥

ज्योतिर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अनाभो मृड धूर्ते नमस् ते अस्तु रुद्र मृड ॥ इत्य् एता वै रुद्रस्य तन्वः क्रूरा एतानि नामान्य् एताभिर् वा एष पशूञ् शमायते ता एवास्य भागधेयेन शमयत्य् अवाचीनं सायम् अवमार्ष्टि तस्मात् सायम् अवाची प्रुष्वैत्य् ऊर्ध्वं दिवोन्मार्ष्टि तस्माद् ऊर्ध्वा दिवैति पराचीनम् इव वा एतद् यद् अग्निहोत्रं यत् पुरस्ताद् याजुषं वदति धृत्या अनिर्मार्गाय यो वा अग्निहोत्रस्य वैश्वदेवं वेदाघातुक एनं पशुपतिर् भवत्य् अघातुको ऽस्य पशुपतिः पशून् प्राङ् आसीनो जुहोति देवांस् तेन प्रीणाति हुत्वोञ्शिंषति पशून् एव यजमानायोञ्शिंषत्य् उदङ्ङ् उद्दिशति रुद्रं तेन निरवदयते दक्षिणतो निमार्ष्ट्य् ओषधीश् च तेन पितॄंश् च प्रीणाति प्राश्नाति मनुष्यांस् तेन प्रीणात्य् अङ्गुल्या प्राश्नाति सदत्त्वाय न दतो गमयेद् यद् दतो गमयेत् सर्पा एनं घातुकाः स्युः सर्पान् एव शमयत्य् अहिंसायै ॥

ते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

सदत्त्वाय : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। एद्।: यदत्त्वाय।

पूषासि ॥ इति यजुर् वदेत् पशवो वै पूषा पशून् एवावरुन्द्धे ऽशान्तो वा एषो ऽप्रीतः पुरुषमेधं वा एष प्रतीक्षते यजमानम् एव हव्यं यद् अग्निहोत्रहवणीं निष्टपत्य् अशान्तस् तेनाग्निहोत्रहवणीं प्रतप्य हस्तो ऽवधेयो हस्तो वा प्रतप्याग्निहोत्रहवण्याम् अवधेयस् तेनैवैनं शमयति तेन प्रीणाति शान्त एनं प्रीतो न हिनस्तीत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तते होतव्यं गार्हपत्या३न् न होतव्या३म् इति मीमांसन्ते ऽनुध्यायी वा एष रूक्षो होतव्यम् एव ॥

अग्ने गृहपते परिषद्य जुषस्व स्वाहा ॥ इति जुहुयात् तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यत् पूर्वाम् आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यत् पूर्वाम् आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यद् एवास्य गृह उपह्रियते यद् एनम् अग्निम् अभिता आसीना याचन्ति तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोति

॥१.८.५॥

द्वे दुहन्त्य् अग्निहोत्राय ज्यायान् वा एकस्यादुग्धाद् अग्निहोत्रिणो लोको यद् द्वे दुहन्ति ज्यायांसं वा एतल् लोकं यजमानो ऽभिजयति मनुश् च वा इदं मनायी च मिथुनेन प्राजनयतां यत् स्थाल्या च दोहनेन च दुहन्ति मिथुनाद् एव प्रजायते ॥

एतल् : फ़्न् एमेन्देद्। एद् (म्२): एतम्। म्१: एतम्। ह्, ब्ब् ब्: एतल्

सजूर् जातवेदो दिवा पृथिव्या जुषाणो अस्य हविषो वीहि स्वाहा ॥ इति जुहुयाद् एषा वा अस्य जातवेदस्या तनूः क्रूरैतया वा एष पशूञ् शमायते ताम् एवास्य भागधेयेन शमयति यदि तद् अति शमायेत ॥ अग्ने दुःशीर्ततनो जुषस्व स्वाहा ॥ इति जुहुयाद् एषा वा अस्य शृणती तनूः क्रूरैतया वा एष पशूञ् शमायते ताम् एवास्य भागधेयेन शमयति यदि तद् अति शमायेत ॥ द्वादश रात्रीः सायंसायं जुहुयाद् द्वादश वै रात्रयः संवत्सरस्य प्रतिमा संवत्सरो वा अग्निर् वैश्वानरस् तम् आहिताग्नयो दर्शपूर्णमासिन इन्धते तेषां वा ऋतव एव दारूणि ये स्थविष्ठा अङ्गारास् ते मासा ये क्षोदिष्ठास् ते ऽर्धमासा अहोरात्राणि मुर्मुरा यत् सधूमं ज्योतिस् तद् वैश्वदेवं यल् लोहितं तद् वारुणं यत् सुवर्णं तद् बार्हस्पत्यं यन् न लोहितं न सुवर्णं तन् मैत्रं यद् अङ्गारेषु व्यवशान्तेषु लेलायद् वीव भाति तद् देवानाम् आस्यम् अथो अमुष्य च वा एतद् आदित्यस्य तेजो मन्यन्ते ऽग्नेश् च तस्मात् तर्हि होतव्यं यद् ध्य् एवासन्न् अपिदधाति तद् धिनोत्य् आविर् वै नामैषाहुतिर् आविर्भूयं देवमनुष्येषु गछति य एवं वेद न समिद् अभि होतवय् अप्रतिष्ठिता साहुतिर् नो यथा वीवावस्रवेद् अयता सा तत् तथैव होतव्यं यथाग्निं व्यवेयात् सा हि यता सा प्रतिष्ठिता तस्मान् महान् अग्निहोत्रस्येध्मः कार्यो यो वै बहु ददिवान् बह्व् ईजानो ऽग्निम् उत्सादयते ऽक्षित् तद् वै तस्य तद् ईजाना वै सुकृतो ऽमुं लोकं नक्षन्ति ते वा एते यन् नक्षत्राणि यद् आहुर् ज्योतिर् अवापादि तारकावापादीति ते वा एते ऽवपद्यन्त आप्त्वा स्थिते त इदं यथालोकं सचन्ते यदामुतः प्रच्यवन्ते ऽथ यो बहु ददिवान् बह्व् ईजानो ऽग्निहोत्रं जुहोति दर्शपूर्णमासौ यजते चातुर्मास्यैर् यजते बहूनि सत्राण्य् उपैति तस्य वा एतद् अक्षय्यम् अपरिमितं तिरो वा ईजानाद् यज्ञो भवति तद् आभ्याम् एवाग्निभ्यां दग्धव्यः स्वं वा एतद् इष्टम् अन्वारोहत्य् अपरेण दग्धव्या३ः पूर्वेणा३ इति मीमांसन्त उभौ समाहृत्यान्तरा दग्धव्यस् तद् अवकॢप्ततमं गृह्णीयान् नक्तम् अग्निम् असुर्या वै रात्रिर् ज्योतिषैव तमस् तरति दिवा ह वा अस्मा अस्मिंल् लोके भवति प्रास्मा असौ लोको भाति य एवं वेद ॥

वीव : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

दग्धव्या३ः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेद् एभ्यो वा एतल् लोकेभ्या इष्टका उपदधाति स्वर्गस्य लोकस्य समष्ट्यै यत् सायं जुहोति सहस्रं तेन कामदुघा अवरुन्द्धे यत् प्रातः सहस्रं तेन यद् अस्याग्निर् आधीयते सहस्रं तेन यमराज्यं वा अग्निष्टोमेनाभिजयति सोमराज्यम् उक्थ्येन सूर्यराज्यं षोडशिना स्वाराज्यम् अतिरात्रेणैतानि वै सर्वाणीन्द्रो ऽभवद् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद हविष्मान् वा एको देवयाज्य् एकः सहस्रयाज्य् एको यो ऽग्निहोत्रं जुहोति स हविष्मान् यो दर्शपूर्णमासौ यजते स देवयाजी यश् चातुर्मास्यैर् यजते स सहस्रयाज्य् अग्निहोत्रे वै सर्वे यज्ञक्रतवः सर्वान् यज्ञक्रतून् अवरुन्द्धे य एवं विद्वान् अग्निहोत्रं जुहोति

॥१.८.६॥

प्रैयमेधा वै सर्वे सह ब्रह्माविदुस् ते ऽग्निहोत्रेण समराधयंस् तेषां त्रिर् एको ऽजुहोद् द्विर् एकः सकृद् एकस् तेषां यस् त्रिर् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीत् त्रेधा वा इदम् अग्नये प्रजापतये सूर्यायेत्य् अथ यो द्विर् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीद् द्वेधा वा इदम् अग्नये च प्रजापतये च सायं सूर्याय च प्रजापतये च प्रातर् इति अथ यः सकृद् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीद् एकधा वा इदं प्रजापतय एवेति तेषां यो द्विर् अजुहोत् स आर्ध्नोत् तस्येतरे साजात्यम् उपायन्न् ऋध्नोति य एवं विद्वान् अग्निहोत्रं जुहोत्य् उपास्य समानाः साजात्यं यन्ति प्रदोषम् अग्निहोत्रं होतव्यं व्युष्टायां प्रातर् वृद्धान् गर्भान् प्रजनयति तद् आहुः परा वा एतस्याग्निहोत्रं पतति यस्य प्रदोषं न जुह्वतीति यदि मन्येत ऋतुम् अत्यनैषम् इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेत् तेनैव सर्वं नान्तरेति ॥

दोषा वस्तोर् नमः स्वाहा ॥ इति जुहुयाद् ऋतुम् एव नात्यनैद् धोतव्या३न् न होतव्या३म् इति मीमांसन्ते यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् धोतव्यम् एवाग्नये वा एतद् धृत्यै गुप्त्यै हूयते प्रजननं तु छम्बट्करोति यदि मन्येत ऋतुम् अत्यनैषम् इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेत् तेनैव सर्वं नान्तरेति ॥

भूर् : फ़्न् एमेन्देद्। एद्।: भू।

प्रातर् वस्तोर् नमः स्वाहा ॥ इति जुहुयाद् ऋतुम् एव नात्यनैत् तद् यथा कारुद्वेषिणो जुह्वत्य् एवम् अस्य हुतं भवति यस्याग्निम् अनुद्धृतं सूर्यो ऽभिनिम्रोचेद् यो ब्राह्मणो बहुवित् स उद्धरेत् सर्वेणैवैनं ब्रह्मणोद्धरत्य् अग्निहोत्रेणानुद्रवेद् भागधेयेनैवैनं प्रणयत्य् अथो भागधेयेनैवैनं समर्धयति वरो दक्षिणा सर्वत एवैनं दिग्भ्यो वरेण च्यावयति यस्योभा अनुगता अभिनिम्रोचेद् यस्य वाभ्युदियात् पुनराधेयम् एव तस्य प्रायश्चित्तिर् यथा वै पथो वर्तनी एवं दर्शपूर्णमासौ यथान्तरैवम् अग्निहोत्रम् एवं वा अग्निहोत्रिणे दर्शपूर्णमासिने स्वर्गो लोको ऽनुभात्य् उपान्यानि हवींषि वसन्त्य् अथ कस्माद् अग्निहोत्रं नोपवसन्तीति ब्रह्मवादिनो वदन्ति प्रततं वा एतद् अपरिमितम् असंस्थितम् अश्नाति मांसम् उप स्त्रियम् एति तस्मान् नोपवसन्ति पशुव्रतेन भवितव्यं तूष्णीम् इव पशवः सम्भवन्ति ते मेध्या यत् तूष्णीं स्त्रियम् उपैति मेध्यतरस् तेन भवति हिङ्कृत्योपेयाद् एवम् इव हि पशव उपयन्ति मेध्यत्वाय संस्थाप्या३न् न संस्थाप्या३म् इति मीमांसन्ते ऽग्निहोत्रं यत् संस्थापयेत् तृणम् अक्त्वानुप्रहरेत् सा ह्य् अग्निहोत्रस्य संस्थितिस् तद् आहुर् यदा वै जीयते यदा प्रमीयते यदार्तिम् आर्छत्य् अथाग्निहोत्रं सन्तिष्ठता इति तन् न संस्थाप्यं मनसा वा इमां प्रजापतिः पर्यगृह्णाद् इयं वा अग्निहोत्रस्य वेदिर् इयम् उपयाम ओषधयो बर्हिः प्रुष्वाः प्रोक्षणीर् दिशः परिधयो यत् किञ्चाभ्याधीयते स इध्मो यजमानो यूप उन्नीयमाने स्थेयम् एवम् इव हि यूपः समृद्ध्यै मध्यतो वा एष यज्ञः प्रततो यद् अग्निहोत्रं तस्माद् अग्निहोत्री दर्शपूर्णमासी सर्वं बर्हिष्यं ददाति मध्यतो ह्य् एतद् यज्ञस्य दीयते यद् अग्निहोत्रे होतव्यं राजन्यस्याग्निहोत्रा३न् न होतव्या३म् इति मीमांसन्त आमाद् इव वा एष यद् राजन्यो बहु वा एषो ऽयज्ञियम् अमेध्यं चरत्य् अत्यनन्नं जिनाति ब्राह्मणं तस्माद् राजन्यस्याग्निहोत्रम् अहोतव्यम् ऋतं वै सत्यम् अग्निहोत्रं ब्राह्मण ऋतं सत्यं तस्माद् ब्राह्मणस्यैव होतव्यम् अथो ब्राह्मणायैवास्याग्रतो गृह आहरेयुस् तद् धुतम् एवास्याग्निहोत्रं भवत्य् अथो य ऋतम् इव सत्यम् इव चरेत् तस्य होतव्यम् अनुसन्तत्यै

॥१.८.७॥

दर्शपूर्णमासौ : फ़्न् एमेन्देद्। एद्।: दर्शपर्णमासौ।

प्रुष्वाः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

प्रोक्षणीर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

याग्निहोत्रायोपसृष्टा निषीदेद् यस्यान्नं नाद्यात् तस्मै तां दद्याद् अवर्तिं वा एषा यजमानस्यानुत्सह्य निषीदति तयैवैनां सह निरवदयते गृहे तु तस्य ततः परो नाश्नीयाद् यद् अश्नीयाद् आर्तिम् आर्छेद् यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछेद् अग्निना च सहाग्निहोत्रेण चोद्द्रवेद् भागधेयेनैवैनं प्रणयत्य् अथो भागधेयेनैवैनं समर्धयत्य् अथाभिमन्त्रयेत ॥

इत एव प्रथमं जज्ञे अग्निर् एभ्यो योनिभ्यो अधि जातवेदाः ।

स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा च देवेभ्यो हव्या वहतु प्रजानन् ॥

इत्य् एते वा एतस्य योनयः स्वेभ्य एवैनं योनिभ्यो ऽधि प्रजनयति ॥

इषे राये रमस्व सहसे द्युम्नायोर्जे ऽपत्याय ॥

इत्य् एतान्य् एवावरुन्द्धे ऽथो रमयत्य् एवैनम् ॥

सम्राड् असि स्वराड् असि सुषदा सीद ॥

इति सुषदैवैनं सादयति ॥

सारस्वतौ त्वोत्सौ प्रावताम् ॥

इत्य् ऋक्सामे वै सारस्वता उत्सौ ताभ्याम् एवैनं प्रावति ताभ्यां समर्धयत्य् अग्नये ज्योतिष्मते ऽष्टाकपालं निर्वपेद् वारुणं यवमयं चरुं यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछेत् तमो वा एतस्य यज्ञं युवते यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछति यद् अग्नये ज्योतिष्मते ज्योतिषैवास्य यज्ञं समर्धयति वारुणी रात्रिर् यद् वारुणो वरुणाद् एवास्याधि यज्ञं स्पृणोति यस्याहुते ऽग्निहोत्रे ऽपरो ऽग्निर् अनुगछेत् तत एव प्राञ्चम् उद्धृत्यान्ववसायाग्निहोत्रं जुहुयाद् अथाभिमन्त्रयेत ॥

भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति समनसा एवैनौ करोति यजमानस्याहिंसायय् एतौ वै तौ या आहुर् ब्रह्मवादिनो नैकः कुब्जिर् द्वौ व्याघ्रौ विव्याचेत्य् अग्नये ऽग्निमते ऽष्टाकपालं निर्वपेद् यस्याग्ना अग्निम् अभ्युद्धरेयुर् देवताभ्यो वा एष समदं करोति यस्याग्ना अग्निम् अभ्युद्धरन्ति यद् अग्नये ऽग्निमते देवता एवास्मै भूयसीर् जनयति वसीयान् भवति

॥१.८.८॥

अन्व् अग्निर् उषसाम् अग्रम् अक्शद् अन्व् अहानि प्रथमो जातवेदाः ।

अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी आततन्थ ॥

इत्य् अभिमन्त्रयेत यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् अनुक्शायैवैनत् पुनर् अवरुन्द्धे तद् आहुर् अमुं वा एष लोकं समारोहयति सह प्रजया पशुभिश् च यजमानस्य तस्माद् उत बहुर् आहिताग्निर् अपशुर् भवतीति तद् उपस्थेयः ॥

इहैव क्षेम्य एधि मा प्रहासीर् माम् अमुम् आमुष्यायणम् ॥ इत्य् अस्मिन् वावैनम् एतं लोके दाधार सह प्रजया पशुभिश् च यजमानो वसीयान् भवति मैत्रं चरुं निर्वपेत् सौर्यम् एककपालं यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियान् मित्रो वा एतस्य यज्ञं युवते यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदेति मित्रम् अहर् यन् मैत्रो मित्राद् एवास्याधि यज्ञं स्पृणोत्य् अथ यत् सौर्यो ऽमुनैवास्यादित्येन पुरस्ताद् यज्ञं समर्धयति यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् अग्निं समाधाय वाचं यत्वा दम्पती सर्वाह्णम् उपासीयातां द्वयोर् गवोः सायम् अग्निहोत्रं जुहुयाद् उभयम् एवास्मै भागधेयं प्रयछति सायन्तनं च प्रातस्तनं च यद् वै पुरुषस्यामयत्य् अश्नाती३ नाश्नाती३ इति वै तम् आहुर् नाश्नातीति चेद् आहुस् तद् वाव सो ऽमृतेति यन् नाश्नीतो न व्याहरतो ऽन्व् एवैनम् अम्रातां तपसैनं पुनर् अवरुन्धाते अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् अग्निर् वै देवानां व्रतपतिस् तम् एव भागधेयेनोपासरत् स एनं व्रतम् आलम्भयति यस्याग्निर् अपक्षायेद् यत्रैवैनम् अनुपरागछेत् तत् समाधायान्ववसायाग्निहोत्रं जुहुयाद् एति वा एतद् अग्निर् यद् अपक्षायति यत्रैवैनम् अनुपरागछति तत एनं पुनर् अवरुन्द्धे ऽग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्याग्निर् अपक्षायेद् बहिष्पथं वा एष एति यस्याग्निर् अपक्षायत्य् अग्निर् वै देवानां पथिकृत् तम् एव भागधेयेनोपासरत् स एनं पन्थाम् अपिनयत्य् अनड्वान् दक्षिणा स हि पन्थाम् अपिवहत्य् अग्नये शुचये ऽष्टाकपालं निर्वपेद् यस्याभ्यादाव्येन संसृज्येताशुचितर इव वा एष यद् अभ्यादाव्यो यद् अग्नये शुचये शुचिम् एवैनं मेध्यं करोत्य् अग्नये क्षामवते ऽष्टाकपालं निर्वपेद् यस्याहिताग्नेः सतो ऽग्निर् गृहान् दहेद् अग्निर् वा एतस्य क्षामो गृहान् अभ्युच्यति स दहत्य् एवापरं यद् अग्नये क्षामवते यैवास्य क्षामा प्रिया तनूस् ताम् एवास्य भागधेयेन शमयत्य् अदाहुको ऽस्यापरम् अग्निर् गृहान् भवति यस्याग्निर् अनुगछेत् तेभ्य एवावक्षाणेभ्यो ऽधि मन्थितव्यस् तद् एनं स्वाद् योनेः प्रजनयति यदि न तादृशानि वावक्षाणानि स्युर् भस्मनारणी संस्पृश्य मन्थितव्यः स्वाद् एवैनं योनेः प्रजनयत्य् अग्नये तपस्वते जनद्वते पावकवते ऽष्टाकपालं निर्वपेद् यस्याग्निर् अनुगछेन् न हि वा एतस्मा अपिधीयते ऽथैषो ऽनुगछत्य् ओषधयो वै पावका ओषधीर् एवास्मै पावका भागधेयम् अपिदधाति प्रजननाय ॥

त्रयस्त्रिंशत् तन्तवो यं वितन्वत इमं च यज्ञं सुधया ददन्ते ।

तेभिश् छिद्रम् अपिदध्मो यद् अत्र स्वाहा यज्ञो अप्येतु देवान् ॥

इति जुहुयाद् यद्य् अनो वा रथो वान्तरा वियायाद् एवावन्तो वै यज्ञस्य तन्तवो देवता वा एतास् तान् वा एतत् समवृक्षत् ताः सन्दधात्य् एतद् ध स्म वा आहुर् दाक्षायणास् तन्तून्त् समवृक्षद् गाम् अन्वत्यावर्तयेति गौर् हि यज्ञिया मेध्येदं विष्णुर् विचक्रमा इति पदं योपयति विष्णोः स्विद् एव यज्ञस्य विक्रान्तम् अकर् अपो ऽन्वतिषिञ्चति शान्त्यै

॥१.८.९॥

रौद्रं गवि सद् वायव्यम् उपावसृष्टम् आश्विनं दुह्यमानं सौम्यं दुग्धं वारुणम् अधिश्रितं मैत्रं शरोगृहीतं मारुतं बिन्दुमत् पौष्णम् उदन्तं सारस्वतं विष्यण्णं वैष्णवं प्रतिनीयमानं स्वर्ग्यम् उद्वासितं त्वष्टुर् उन्नीयमानं धातुर् उन्नीतं वैश्वकर्मणम् उद्यतं सावित्रं प्रणीयमानं द्यावापृथिवीयं प्रह्रियमाणम् ऐन्द्राग्नम् उपसन्नं प्राजापत्यं समिधि वैश्वदेवं हुतम्

॥१.८.१०॥
प्रपाठक 9

प्रथमकाण्डे नवमः प्रपाठकः

प्रथमकाण्डे नवमः प्रपाठकः

चित्तिः स्रुक् चित्तम् आज्यं वाग् वेदिर् आधीतं बर्हिः केतो अग्निर् विज्ञातम् अग्नीद् वाचस्पतिर् होता मन उपवक्ता प्राणो हविः सामाध्वर्युर् इन्द्रं गछ स्वाहा पृथिवी होता द्यौर् अध्वर्युस् त्वष्टाग्नीन् मित्र उपवक्ता वाचस्पते वाचो वीर्येण सम्भृततमेनायक्षसे यज्ञपतये वार्यमा स्वस् कर् वाचस्पतिः सोमम् अपाद् जजनद् इन्द्रम् इन्द्रियाय सोमः सोमस्य पिबतु शुक्रः शुक्रस्य पिबतु श्रातास् त इन्द्र सोमा वातापयो हवनश्रुतो ऽग्निर् होताश्विनाध्वर्यू रुद्रो अग्नीद् बृहस्पतिर् उपवक्ता वाचस्पते हिन्विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नाम वाचस्पतिः सोमम् अपाद् आस्मासु नृम्णं धात् सोमः सोमस्य पिबतु शुक्रः शुक्रस्य पिबतु श्रातास् त इन्द्र सोमा वातापयो हवनश्रुतो महाहविर् होता सत्यहविर् अध्वर्युस् अचित्तपाजा अग्नीद् अचित्तमना उपवक्तानाधृष्यश् चाप्रतिधृष्यश् चाभिगरव् अयास्य उद्गाता विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नाम मा देवानां तन्तुश् छेदि मा मनुष्याणां नमो मात्रे पृथिव्यै

॥१.९.१॥

अग्निर् यजुर्भिः सविता स्तोमैर् इन्द्र उक्थामदैर् बृहस्पतिश् छन्दोभिर् अदितिर् अपश् च बर्हिश् चादित्या आज्यैर् मरुतः सदोहविर्धानैर् विष्णुर् दीक्षातपोभ्यां मित्रावरुणौ धिष्ण्यैर् अश्विन आशिरा त्वष्टा समिधा पूषा स्वाहाकारैर् वाग् वायोः पत्नी पथ्या पूष्णः पृथिव्य् अग्नेः सेनेन्द्रस्य धेना बृहस्पतेर् गायत्री वसूणां त्रिष्टुब् रुद्राणां जगत्य् आदित्यानाम् अनुष्टुब् मित्रस्य विराड् वरुणस्य पङ्क्तिर् विष्णोर् दीक्षा सोमस्य

॥१.९.२॥

प्रजापतिर् वा एक आसीत् सो ऽकामयत यज्ञो भूत्वा प्रजाः सृजेयेति स दशहोतारं यज्ञम् आत्मानं व्यधत्त स चित्तिं स्रुचम् अकुरुत चित्तम् आज्यं वाचं वेदिम् आधीतं बर्हिः स दशधात्मानं विधाय मिथुनं कृत्वायतनम् ऐछत् स वै त्रिवृत एव प्राणान् आयतनम् अचायत् तैः प्रजा असृजतोर्ध्वम् उदतृणत् पूर्वपक्षः पञ्चदशस् तेन देवान् असृजत ते देवा ऊर्ध्वा आप्यायन्तोर्ध्व आप्यायते य एवं वेदावाङ् अवातृणद् अपरपक्षः पञ्चदशस् तेनासुरान् असृजत ते ऽसुरा अवाञ्चः प्राध्वंसन्त प्रास्य भ्रातृव्यो ध्वंसते य एवं वेद दिवा देवान् असृजत नक्तम् असुरांस् ते देवाः शुक्ला अभवन् कृष्णा असुराः सत्येन देवान् असृजतानृतेनासुरांस् ते देवाः सत्यम् अभवन्न् अनृतम् असुरा दक्षिणेन हस्तेन देवान् असृजत सव्येनासुरांस् ते देवा वीर्यवन्तो ऽभवन् मृद्धा असुरास् ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति सो ऽमन्यत क्व होष्यामीति स तद् एव नाविन्दत् प्रजापतिर् यत्राहोष्यन् नो अस्यान्यद् धोत्वम् आसीत् प्राणात् स वा इन्द्रम् एवान्तर् आत्मनायतनम् अचायत् स इन्द्रं गछ स्वाहेत्य् अपानद् वीर्यं वै प्राणो वीर्यम् इन्द्रो वीर्य एव वीर्यम् अजुहोत्

॥१.९.३॥

भवति : फ़्न् एमेन्देद्। एद्।: ऽभवति।

ते वै चतुर्होतारो व्यसीदन्त् सोमगृहपतया इन्द्रं जनियिष्यामा इति पृथिवी होतासीद् द्यौर् अध्वर्युस् त्वष्टाग्नीन् मित्र उपवक्ता ते वा एतौ ग्रहा अगृह्णत वाचस्पते वाचो वीर्येण सम्भृततमेनायक्षसे यज्ञपतये वार्यम् आ स्वस् कर् इति त एकविंशम् आयतनम् अचायंस् तेनेन्द्रम् अजनयंस् त इन्द्रं जनयित्वाब्रुवन् स्वर् अयामेति ते वै पञ्चहोतारो न्यसीदन् वरुणगृहपतयो ऽग्निर् होतासीद् अश्विनाध्वर्यू रुद्रो अग्नीद् बृहस्पतिर् उपवक्ता यद् अश्विनेति तेन पञ्चहोता ते वा एतौ ग्रहा अगृह्णत वाचस्पते हिन्विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नामेति ते त्रिणवम् आयतनम् अचायंस् तं सेतुं कृत्वा स्वरायंस् तेन पशून् असृजन्त तान् देवताभ्यो ऽनयन् यमायाश्वम् अनयंस् तस्यार्धम् इन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि यमाय त्वा मह्यं वरुणो ददाति सो ऽमृतत्वम् अशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥ इति सो ऽर्धम् इन्द्रियस्योपाधत्तार्धम् इन्द्रियस्योपधत्ते य एवं विद्वान् अश्वं प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णात्य् अर्धम् अस्येन्द्रियस्यापक्रामति रुद्राय गाम् अनयंस् तस्य तृतीयमिन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

रुद्राय त्वा मह्यं वरुणो ददाति सो ऽमृतत्वम् अशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स तृतीयम् इन्द्रियस्योपाधत्त तृतीयम् इन्द्रियस्योपधत्ते य एवं विद्वान् गां प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति तृतीयम् अस्येन्द्रियस्यापक्रामत्य् अग्नये हिरण्यम् अनयंस् तस्य चतुर्थम् इन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

इन्द्रियस्यापाक्रामत् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अग्नये त्वा मह्यं वरुणो ददाति सो ऽमृतत्वम् अशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स चतुर्थम् इन्द्रियस्योपाधत्त चतुर्थम् इन्द्रियस्योपधत्ते य एवं विद्वान् हिरण्यं प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति चतुर्थम् अस्येन्द्रियस्यापक्रामति बृहस्पतये वासो ऽनयंस् तस्य पञ्चमम् इन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

ग्नास् त्वाकृन्तन्न् अपसो ऽतन्वत धियो ऽवयन् बृहस्पतये त्वा मह्यं वरुणो ददाति सो ऽमृतत्वमशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स पञ्चमम् इन्द्रियस्योपाधत्त पञ्चमम् इन्द्रियस्योपधत्ते य एवं विद्वान् वासः प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति पञ्चमम् अस्येन्द्रियस्यापक्रान्त्य् उत्तानायाङ्गिरसायाप्राणद् अनयंस् तस्य षष्ठमिन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

उत्तानाय त्वाङ्गिरसाय मह्यं वरुणो ददाति सो ऽमृतत्वमशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स षष्ठम् इन्द्रियस्योपाधत्त षष्ठम् इन्द्रियस्योपधत्ते य एवं विद्वान् अप्राणत् प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति षष्ठम् अस्येन्द्रियस्यापक्रामति ॥

क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामाय त्वा प्रतिगृह्णामि कामैतत् ते ॥

इति समुद्रो वै कामो दक्षिणा कामो दक्षिणयैव दक्षिणां प्रतिगृह्णाति यो वै तां देवतां वेद याग्रे दक्षिणाम् अनयद् दक्षिणीयो ह भवति नयति दक्षिणाम्

॥१.९.४॥

ते वै स्वर्यन्तो ऽब्रुवन्न् अतो नो यूपं प्रयछत केनायतनेनात्रैव वेत्स्यथेत्य् अब्रुवंस् ते वै सप्तहोतारो न्यसीदन्न् अर्यमगृहपतयो महाहविर् होतासीत् सत्यहविर् अध्वर्युर् अचित्तपाजा अग्नीद् अचित्तमना उपवक्तानाधृष्यश् चाप्रतिधृष्यश् चाभिगरा अयास्य उद्गाता ते वा एतं ग्रहम् अगृह्णत विधे नामन्विधेम ते नाम विधेस् त्वम् अस्माकं नामेति ते त्रयस्त्रिंशम् आयतनम् अचायंस् तेनेदं समतन्वन् सप्तहोत्रा च वा इदं सन्ततं त्रयस्त्रिंशेन च यद् इदं देवमनुष्या अन्यो ऽन्यस्मै सम्प्रयच्छते प्राणो वै दशहोता चक्षुश् चतुर्होता श्रोत्रं पञ्चहोता वाक् चात्मा च सप्तहोताग्निहोत्रं वै दशहोता दर्शपूर्णमासौ चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्यो ऽध्वरः सप्तहोतायुषे कम् अग्निहोत्रं हूयते सर्वम् आयुर् एति य एवं वेद चक्षुषे कं दर्शपूर्णमासा इज्येते न चक्षुषो गृहे य एवं वेद श्रोत्राय कं चातुर्मास्यानीज्यन्ते न श्रोत्रस्य गृहे य एवं वेद वाचे चात्मने च कं सौम्यो ऽध्वर इज्यते न वाचो नात्मनो गृहे य एवं वेद प्रजापतिर् वै दशहोतैकः सन् भूयिष्ठभाग् व्याहृतीनाम् एकः सन् भूयिष्ठो भवति य एवं वेद तेजसे कं पूर्णमा इज्यते सौम्यो वै ब्राह्मणो देवतया गायत्रछन्दा गायत्रो ऽग्निः स्वे वावास्मा एतद् देवते सप्रस्थे अकर् नास्यान्यो योगक्षेमस्येश आयुषे कम् अमावास्येज्यते समीव वा एष आभ्रियते सर्वम् आयुर् एति य एवं वेद स्वर्गाय लोकाय कं सौम्यो ऽध्वर इज्यत एति स्वर्गं लोकं य एवं वेद दशहोत्राग्निहोत्रम् उन्नीतम् अभिमृशेद् दशहोत्रा वै देवा अग्निहोत्रम् असृजन्त प्रजातम् एनत् सृष्टम् आलब्ध चतुर्होत्रा दर्शपूर्णमासा अभिमृशेच् चतुर्होत्रा वै देवा दर्शपूर्णमासा असृजन्त प्रजाता एनौ सृष्टा आलब्ध पञ्चहोत्रा चातुर्मास्यान्य् अभिमृशेत् पञ्चहोत्रा वै देवाश् चातुर्मास्यान्य् असृजन्त प्रजातान्य् एनानि सृष्टान्य् आलब्ध सप्तहोत्रा सौम्यम् अध्वरम् अभिमृशेत् सप्तहोत्रा वै देवाः सौम्यम् अध्वरम् असृजन्त प्रजातम् एनं सृष्टम् आलब्ध दशहोतारं वदेत् पुरस्तात् सामिधेनीनां प्रजापतिर् वै दशहोता यज्ञमुखं सामिधेन्यस् मिथुनं वावास्यैतद् यज्ञमुखे दधाति चतुर्होतारं वदेत् पुरस्तात् प्रयाजानां चतुर्होत्रा वै देवा इन्द्रम् अजनयन्न् इन्द्रं वावास्यैतद् यज्ञे ऽजीजनत् सेन्द्रेण यज्ञेन यजते पञ्चहोतारं वदेत् पुरस्ताद् धविषां पञ्चहोत्रा वै देवाः पशून् असृजन्त परासुरान् अभावयन् पशून् एव सृजते परा भ्रातृव्यं भावयति सप्तहोतारं वदेत् पुरस्ताद् अनुयाजानां सप्तहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति दशहोतारं वदेत् पुरस्ताद् बहिष्पवमानस्य प्रजापतिर् वै दशहोता यज्ञमुखं बहिष्पवमानं मिथुनं वावास्यैतद् यज्ञमुखे दधाति चतुर्होतारं वदेत् पुरस्ताद् आज्यानां पञ्चहोतारं वदेत् पुरस्तान् माध्यन्दिनस्य पवमानस्य सप्तहोतारं वदेत् पुरस्ताद् आर्भवस्य पवमानस्य सप्तहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति यो वै चतुर्होत्πन् अनुसवनं तर्पयितव्यान् वेद तृप्यति प्रजया च पशुभिश् चैते वै चतुर्होतारो ऽनुसवनं तर्पयितव्या यद् ब्राह्मणा बहुविदस् तान् एव तर्पयति त एनं तृप्ताः प्रजया च पशुभिश् च तर्पयन्ति

॥१.९.५॥

अचित्तपाजा : फ़्न् एमेन्देद्। एद्।: अचित्तपाजा। च्फ़्। १।९।१:१३१।११।

गृहे : फ़्न् एमेन्देद्। एद्।: गृहे।

सप्तहोतारं : फ़्न् एमेन्देद्। एद्।: सप्तहोतरम्।

यः प्रजया पशुभिर् न प्रजायेत स द्वादशाहानि बरासीं परिधाय तप्तं पिबन्न् अधः शयीत तपो वै तप्त्वा प्रजापतिर् विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश् च प्राजायताविहितो हि वा एषो ऽमिथुनो ऽथैष न प्रजायते तत् तप एव तप्त्वा विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश् च प्रजायते प्रजापतिर् वै दशहोता ज्यायान् वै प्रजापतिर् होमात् तस्मात् तन् न जुह्वति प्राण्यापानेद् अपानम् एव प्राणं जुहोति सङ्ग्रामिणं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं चतुर्होत्रा वै देवा इन्द्रम् अजनयन् यतरस्मिन् खलु वै सङ्ग्राम इन्द्रो भवति स जयतीन्द्रं वावास्यैतत् सङ्ग्रामे ऽजीजनद् जयति सङ्ग्रामं प्रजाकामं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं चतुर्होत्रा वै देवा इन्द्रम् अजनयन् प्रजाम् अस्मै जनयति नेव त्व् अपरो ऽनुजायते तेजस्वीव तु भवति सर्वेण ह्य् एनम् इन्द्रियेण जनयति पशुकामं पञ्चहोत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवाः पशून् असृजन्त पशून् एव सृजते भ्रातृव्यवन्तं पञ्चहोत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवा असुरान् पराभावयन् परा पाप्मानं भ्रातृव्यं भावयति स्वर्गकामं पञ्चहोत्रा याजयेच् चतुर्गृथीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति यो यज्ञस्य संस्थाम् अनु पापीयान् मन्येत तं सप्तहोत्रा याजयेत् सप्तहोत्रा वै देवा इदं समतन्वन् समतत ताजक् तादृङ् पुनर् भवति यादृक् सन् यजते

॥१.९.६॥

ब्रह्मवादिनो वदन्ति यद् एको यज्ञश् चतुर्होताथ कस्मात् सर्वे चतुर्होतार उच्यन्ता इति चत्वारो वा एते यज्ञास् तेषां चत्वारो होतारस् तच् चतुर्होतृणां चतुर्होतृत्वं चतुर्णाम् एकः संवत्सरं नाश्नीयात् तद् व्रतम् अन्नं वै चतुर्होतारो ऽन्नवान् भवति य एवं वेदाथ यम् अनूचानं सन्तं नोपनमेत् सो ऽरण्यं परेत्य ब्राह्मणम् उपद्रष्टारं कृत्वा चतुर्होत्πन् व्याचक्षीत ब्रह्मणो वा एतद् उदरणं यच् चतुर्होत्रारो ब्राह्मण उपद्रष्टोपद्रष्टुर् एवान्ते ब्रह्माविर् अकस् तद् एनम् आविर्भूतम् आविदं गमयत्य् अथ यौ विशपेयाताम् अहं भूयो वेदाहं भूयो वेदेत्य् एष वाव भूयो वेद यश् चतुर्होत्πन् वेद चतुर्होतारो वै यज्ञस्य योनिश् चतुर्होतृभ्यो ऽधि यज्ञो निर्मितो नैनं विशप्तं हिनस्ति चतुर्होतारं वदेद् दशमे ऽहन्न् अन्नकामो ऽन्नं वै चतुर्होतारो ऽन्तो दशमम् अहर् अन्तम् एव गत्वान्नाद्यम् अवरुन्द्ध एतद् वा अस्यैतर्ह्य् अप्रयुक्तम् एतद् अनवरुद्धं तद् एव प्रयुङ्क्ते तद् अवरुन्द्ध इयं वै सर्पराज्ञी तस्या वा एतद् उक्थं यच् चतुर्होतारो होता वदति स्तुतं वा एतद् अनुशंसति न हि स्तुतम् अननुशस्तम् अस्ति

॥१.९.७॥

देवाश् च वा असुराश् चास्पर्धन्त ते वै समावद् एव यज्ञे कुर्वाणा आयन् यद् एव देवा अकुर्वत तद् असुरा अकुर्वत तेन व्यावृतम् अगछंस् ते देवा अब्रुवन्न् एतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामहा इति तम् एतावञ्श आदायोदक्रामन्न् अग्निर् यजुर्भिः सविता स्तोमैर् इन्द्र उक्थामदैर् बृहस्पतिश् छन्दोभिर् इति तं तिर उपर्य् असुरेभ्यो ऽतन्वत तम् एषां यज्ञम् असुरा नान्ववायंस् तेन वा एनान् अपानुदन्त ततो देवा अभवन् परासुरास् तद् य एवं वेद तिर उपरि भ्रातृव्याद् यज्ञं तनुते भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश्चतुर्भिर् अन्वाक्शायं पुरस्तात् प्रातरनुवाकस्यैतावान् वै यज्ञो यावान् एव यज्ञस् तं वृङ्क्ते सयज्ञो भवत्य् अयज्ञा इतर एतैर् एव जुहुयात् पुरस्ताद् दीक्षाया एषा वै प्रत्यक्षं दीक्षा ताम् एवालब्धैतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्यैष वै प्रत्यक्षं द्वादशाहस् तम् एवालब्धैतैर् एवातिथ्यम् अभिमृशेद् यज्ञेनैव यज्ञम् आलब्ध दक्षिणतो वै देवान् असुरा यज्ञम् अजयंस् त उदञ्चः पत्नीभिः सहाग्नीध्रं प्राविशंस् तान् पत्नीभिः सह प्रक्शाय जिह्रियतो ऽसुरा अपावर्तन्त तांस् तत एवानूत्थायाजयंस् ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति नास्य भ्रातृव्यो गृहान् न पशून् अभ्यारोहत्य् अभि भ्रातृव्यस्य गृहान् अभि पशून् आरोहति य एवं वेदैतान्य् एवाग्नीधे ऽनुब्रूयाद् अग्नीद् वै पात्नीवतस्य यजति तृप्ता पत्नी रेतो धत्ते प्र प्रजया च पशुभिश् च प्रजायत एतैर् एव जुहुयाद् अन्तरा त्वष्टारं च पत्नीश् च संवत्सरं प्रजाकामो मिथुनं वै त्वष्टा च पत्नीश् च त्वष्टारं वा एतन् मिथुने ऽप्यस्राट् प्रजननाय तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते विन्दते प्रजाम् आस्य वीरो जायते यदि संवत्सरं जुह्वन् न विन्देन् नादृत्यम्

॥१.९.८॥
प्रपाठक 10

प्रथमकाण्डे दशमः प्रपाठकः

प्रथमकाण्डे दशमः प्रपाठकः

आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो द्वादशकपालः सारस्वतश् चरुः पौष्णश् चरुर् मारुतः सप्तकपालो वैश्वदेव्य् आमिक्षा द्यावापृथिवीया एककपालो वाजिनां वाजिनम् आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् ऐन्द्राग्नो द्वादशकपालो मारुत्य् आमिक्षा वारुण्य् आमिक्षा काय एककपालो वाजिनां वाजिनम् अग्नये ऽनीकवते प्रातर् अष्टाकपालो मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने चरुर् मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्धे सायम् ओदनम् इन्द्रस्य निष्काषो मरुद्भ्यः क्रीडिभ्यः साकं रश्मिभिः सप्तकपाल आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् ऐन्द्राग्नो द्वादशकपाल इन्द्राय वृत्रघ्ने चरुर् वैश्वकर्मण एककपाल आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् वायव्या यवागूः प्रतिधुग् वेन्द्राय शुनासीराय द्वादशकपालः सौर्य एककपालः षट्कपालः पुरोडाशो धाना मन्थः प्रतिपुरुषं पुरोडाशा एकश् चाध्य् आदित्यश् चरुः

॥१.१०.१॥

अग्ने वेर् होत्रं वेर् दूत्यम् ऊर्ध्वो अध्वरो अस्थाद् अवतां नो द्यावापृथिवी स्विष्टकृद् इन्द्राय देवेभ्यो भवास्य घृतस्य हविषो जुषाणो वीहि स्वाहा ॥

प्रघास्यान् हवामहे मरुतो यज्ञवाहसः ।

करम्भेण सजोषसः ॥

मो षू ण इन्द्रात्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवयाः ।

मही चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥

यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।

यद् एनश् चकृमा वयं यद् अप्सश् चकृमा वयम् ।

तद् एकस्यापि चेतसि तद् एकस्यापि धर्मणि ।

तस्य सर्वस्यांहसो ऽवयजनम् असि ॥

अक्रन् कर्म कर्मकृतः सह वाचा मयोभ्वा ।

देवेभ्यः कम्र कृत्वास्तं प्रेत सुदानवः ॥

पूर्णा दर्वे परा पत सुपूर्णा पुनर् आपत ।

वस्नेव विक्रीणावहा इषम् ऊर्जं शतक्रतो ॥

देहि मे ददामि ते नि मे धेहि नि ते दधौ ।

अपामित्यम् इव सम्भर को अम्बाददते ददत्

॥१.१०.२॥

अत्र पितरो मादयध्वम् ॥

सुसन्दृशं त्वा वयं वसो मघवन् मन्दिषीमहि ॥

प्र नूनं पूर्णवन्धुरः स्तुतो यासि वशं अनु योजा न्व् इन्द्र ते हरी ॥

यद् अन्तरिक्षं पृथिवीम् उत द्यां यन् मातरं पितरं वा जिहिंसिम ।

अग्निर् नस् तस्माद् एनसो गार्हपत्या उन्निनेतु दुष्कृताज् जातवेदाः ॥

अमीमदन्त पितरो नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो रसाय नमो वः पितरो यज् जीवं तस्मै नमो वः पितरो यद् घोरं तस्मै स्वधा वः पितरो नमो नमो वः पितरः ॥

एषा युष्माकं पितर इमा अस्माकं जीवा वो जीवन्तः इह सन्तः स्याम ॥

परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्वेभिः ।

दधथ नो द्रविणं यच् च भद्रं रयिं च नः सर्ववीरं नियछत ॥

अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः ।

स प्रत्यङ्ङ् ऐद् धरुणो मध्वो अग्रं स्वां यत् तनूं तन्वाम् ऐरयत ॥

प्रत्यङ्ङ् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत ।

अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ॥

मनो व्याहुवामहे नाराशंसेन स्तोमेन ।

पितृणां च मन्मभिः ॥

आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।

ज्योक् च सूर्यं दृशे ॥

पुनर् नः पितरो मनो ददातु दैव्यो जनः ।

जीवं व्रातं सचेमहि ॥

अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।

ऋध्यामा ता ओहैः

॥१.१०.३॥

आखुं ते रुद्र पशुं करोम्य् एष ते रुद्र भागस् तं जुषस्व सह स्वस्राम्बिकया स्वाहा ॥

अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् ।

यथा नो वस्यसस् करद् यथा नः श्रेयसस् करत् ।

यथा नो भूयसस् करद् यथा नः प्रतरं तिराद् यथा नो व्यवसाययात् ॥

भेषजं गवे अश्वाय पुरुषाय भेषजम् ।

अथो अस्मभ्यं भेषजं सुभेषजं यथासति सुगं मेषाय मेष्यै ॥

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥

रुद्रैष ते भागस् तेनावसेन परो मूजवतो ऽतीहि ॥

पिनाकहस्तः कृत्तिवासा अवततधन्वा

॥१.१०.४॥

देवाश् च वा असुराश् चास्मिंल् लोक आसन्त् स प्रजापतिर् अकामयत प्रासुरान् नुदेय प्रजाः सृजेयेति स चातुर्मास्यान्य् अपश्यच् चातुर्मास्यैर् वै सो ऽसुरान् प्रानुदत चातुर्मास्यैः प्रजा असृजत तद् य एवं विद्वांश् चातुर्मास्यैर् यजते प्र भ्रातृव्यं नुदते प्र प्रजया च पशुभिश् च जायते ऽग्निष्टोमाद् वैश्वदेवं यज्ञक्रतुं निर्माय प्रजापतिः प्रजा असृजतोक्थ्याद् वरुणप्रघासान् यज्ञक्रतुं निर्मायेमाः प्रजा वरुणेनाग्राहयद् अतिरात्रात् साकमेधान् यज्ञक्रतुं निर्मायेन्द्रो वृत्रम् अहन् सृष्टा वा अन्याः प्रजा आसन्न् असृष्टा अन्या अथ प्रजापतिर् अकामयत प्रजाः सृजेयेति संवत्सरो वै यज्ञो यज्ञः प्रजापतिः स एते मिथुने पयसी आत्मन्न् अधत्तोधन्यं च वह्यं चाथैताभ्यो देवताभ्य एतानि हवींषि भागं निरवपत् तैः प्रजा असृजत ऋतुभ्यो वै ताः प्रजाः प्राजायन्त ऋतवो वा एतानि पञ्च हवींषि पञ्च ह्य् ऋतवस् ततः प्रजायते ऽग्निर् एव प्रावापयत् सोमो वै रेतो ऽदधान् मिथुनं वा अग्निश् च सोमश् च सविता प्रासुवत् प्रजननाय संवत्सरो वै सविता द्वादश मासाः संवत्सरस् तस्माद् द्वादशकपालो ऽथो वैश्वदेवत्वायैव द्वादशकपाल उपांशु यजत्य् अनिरुक्तो हि संवत्सरः सरस्वत्य् एव सृष्टासु वाचम् अदधात् पूषणं प्रतिष्ठाम् अभ्यसृज्यन्त वाग् वै सरस्वती पशवः पूषा मिथुनं वाक् च पशवश् च मध्यतः प्रजापतिनासृज्यन्तान्ततो मिथुनाद् विषूचीः प्राजायन्त तन् मध्यत एवैतत् प्रजापतिना सृज्यन्ते ऽथादो ऽन्ततो मिथुनाद् विषूचीः प्रजायन्ते वार्त्रघ्नानि वा एतानि हवींष्य् अग्निना वा अनीकेनेन्द्रो वृत्रम् अहन् सोमेन राज्ञा सवितृप्रसूतः सरस्वत्या चेत्रा पूषैनं वीर्येणान्वतिष्ठत विजितिर् वा एतानि हवींषीन्द्रो वै वृत्रम् अहन् स विष्वङ् वीर्येण व्यार्छत् तद् इदं सर्वं प्राविशद् अप ओषधीर् वनस्पतींस् तेन देवा अश्राम्यंस् तत् समनयंस् तत् सान्नाय्यस्य सान्नाय्यत्वं तद् य एवं विद्वान्त् सान्नाय्येन यजत ऋध्नोति

॥१.१०.५॥

मिथुनं वै दधि च शृतं चाथ यत् संसृष्टम् आण्डम् इव मस्त्व् इव परीव ददृशे गर्भ एव स तपसो वै प्रजाः प्राजायन्त तपस्त्वं वा एतद् गछति यञ् शृतत्वं गछति ततः प्रजायते ऽथैषा वैश्वदेव्य् आमिक्षा प्रजापतिः प्रजा असृजत ता वैश्वदेवेनैवासृजत तस्माद् इमा वैश्वदेवीः प्रजा विश्वान् देवान् यजति स्तोका वै विश्वे देवास् तान् वा एतद् यजत्य् अथो अमुतःप्रदानाद् धि मनुष्या यज्ञम् उपजीवन्ति योनिर् वा एष प्रजानां तं मरुतो ऽभ्यकामयन्त ततो ऽंहोगृहीता असृज्यन्त यत् स्वतवद्भ्यः स्वत्वायैव निष्कृत्यै प्रजननो वा एष पशूनां यन् मारुतः सप्तकपालो भवति सप्त हि मरुतो विण् मरुतो ऽथो निरवत्त्या एव मारुतो ऽथो ग्राम्यम् एवैतेनान्नाद्यम् अवरुन्द्धे

॥१.१०.६॥

ता वैश्वदेवेन सृष्टा विषूचीर् व्युदायंस् ताः प्रजापतिर् द्यावापृथिवीयेन पर्यगृह्णाद् यद् द्यावापृथिवीयः प्रजानां सृष्टानां परिगृहीत्यै यद् एककपालस् तेन प्राजापत्यः प्रजापता एव देवतासु प्रतितिष्ठति यजमानो वा एककपाल आहवनीयः स्वर्गो लोको यत् सर्वहुतं करोति हविर्भूतम् एवैनं स्वर्गं लोकं गमयति यजमानं वै हूर्छन्तं प्रजा अनुहूर्छन्ति यजमानं प्रतितिष्ठन्तं प्रजा अनुप्रतितिष्ठन्त्य् ऋजुर् होतव्यः प्रतिष्ठित्यै सर्वहुतं करोति प्रतिष्ठित्यै यजमानो वा एककपालः पशवो घृतं तद् अभिपूर्यः पशुभिर् एवैनं समर्धयति यद् अभिपूरयेद् अधरम् एनं पशुभ्यः कुर्याद् अभुञ्जन्त एनं पशवा उपतिष्ठेयुर् आविःपृष्ठः कार्यः पशुभ्य एवैनम् उत्तरम् अकर् भुञ्जन्त एनं पशवा उपतिष्ठते तन् न सूर्क्ष्यम् अभिपूर्य एव न हि पशवो न भुञ्जन्ति यत् प्राङ् पद्येत यजमानः प्रमीयेत यद् दक्षिणा प्रजाम् अस्य निर्दहेद् यत् प्रत्यङ् पत्नी प्रमीयेत यद् उदङ् पशून् अस्य निर्दहेद् यद् उत्तानः पतेत् पर्जन्यो ऽवर्षुकः स्यात् पुनरादायाभिघार्य होतव्यो यजमानस्य प्रतिष्ठित्यै वरो दक्षिणा वरेनैव वरं स्पृणोत्य् आत्मा हि वरस् त्रेधासन्नद्धं बर्हिर् भवति त्रेधासन्नद्ध इध्मस् त्रेधाविहितानि चातुर्मास्यानि संवत्सरं वै चातुर्मास्यानि संवत्सरेणाग्निं मन्थन्त्य् अग्निं वै प्रजा अनुप्रजायन्ते प्रजननो वा एष मथ्यते ऽथो वृषाणं वा एतद् यजमानाय जनयन्ति वसन्ता यष्टव्यं प्रजननाय प्रवणे यष्टव्यं प्रजननाय नोत्तरवेदिम् उपवपन्ति प्रजननाय प्रस्वो भवन्ति प्र मा जनयानीति पशवो वै पृषदाज्यं नानारूपा वै पशवस् तस्मान् नानारूपम् आग्नेयं घृतम् ऐन्द्रं दध्य् ऐन्द्राग्नं पृषदाज्यं देवतया प्राणापानौ वा इन्द्राग्नी मिथुनं प्राणापानौ मिथुनयोनयः प्रजा मिथुनात् खलु वै प्रजाः पशवः प्रजायन्ते तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते यदि वसन्ता यजेत द्विर् उपस्तृणीयात् सकृद् अभिघारयेद् ओषधयो वै पशव ओषधीष्व् एव पशून् प्रतिष्ठापयति यदि प्रावृषि यजेत सकृद् उपस्तृणीयाद् द्विर् अभिघारयेद् वृष्ट्यैव पशून् अभिजिघर्ति

॥१.१०.७॥

प्राणेभ्यो वै ताः प्रजाः प्राजायन्त प्राणा वा एतानि नव हवींषि नव हि प्राणा आत्मा देवता ततः प्रजायते नव प्रयाजा नवानुयाजा द्वा आज्यभागव् अष्टौ हवींष्य् अग्नये समवद्यति वाजिनो यजति तत् त्रिंशस् त्रिंशदक्षरा विराड् विराज्य् एव प्रतितिष्ठति विराजो वै योनेः प्रजापतिः प्रजा असृजत विराजो वा एतद् योनेर् यजमानः प्रजायते त्रिंशत्त्रिंशद् वै रात्रयो मासो यो मासः स संवत्सरः संवत्सरः प्रजापतिस् तत् प्रजापतेश् च वा एतद् विराजश् च योनेर् मिथुनाद् यजमानः प्रजायत एकैकया वा आहुत्या द्वादशद्वादश रात्रीर् अयुवत ता यावतीः सङ्ख्याने तावतीः संवत्सरस्य रात्रयः संवत्सरम् एव भ्रातृव्याद् युवते वैश्वदेवेन चतुरो मासो ऽयुवत वरुणप्रघासैः परांश् चतुरः साकमेधैः परांश् चतुरस् तान् एव भ्रातृव्याद् युवत ऋतुयाजी वा अन्यश् चातुर्मास्ययाज्य् अन्यो यो वसन्तो ऽभूत् प्रावृड् अभूञ् शरद् अभूद् इति यजते स ऋतुयाज्य् अथ यस् त्रयोदशं मासं सम्पादयति त्रयोदशं मासम् अभियजते स चातुर्मास्ययाज्य् ऋजूंस् त्रीन् इष्ट्वा चतुर्थम् उत्सृजेत ऋजू द्वौ परा इष्ट्वा तृतीयम् उत्सृजेत ये वै त्रयः संवत्सरास् तेषां षट्त्रिंशत् पूर्णमासा यौ द्वौ तयोश् चतुर्विंशतिस् तद् ये ऽमी षट् त्रिंशत्य् अधि तान् अस्यां चतुर्विंशत्याम् उपसम्पादयत्य् एष वाव स त्रयोदशो मासस् तम् एवैतत् सम्पादयति तम् अभियजते वैश्वदेवेन यजेत पशुकामो न वरुणप्रघासैर् न साकमेधैः सर्वो वै पुरुषः साहस्रो जायते यावत्तरसं त्व् एवैति प्रजननं वा एतद् धविर् यद् वैश्वदेवं यद् वैश्वदेवेन यजते प्रजननाय वा एतद् यजते स्वां मात्रां गछानीति स यदा सहस्रं पशून् गछेद् अथ वरुणप्रघासैर् यजेत यद् एवादः सहस्रम् अगंस् तस्यैतद् अंहो ऽवयजति

॥१.१०.८॥

विराड् : फ़्न् ⟨ विराज्

एव : फ़्न् एमेन्देद्। एद्।: विराजेव

यजेत : फ़्न् एमेन्देद्। एद्।: यजते

यद् बर्हिः प्रयाजेषु यजत्य् ओषधीस् तद् यजति यद् बर्हिर् अनुयाजेषु फलं तद् यद् बर्हिर् वारितीनां यद् एवादः फलात् प्रजायते तद् एतद् यजति यद् दुर उपस्थं तद् यद् उषासानक्ता व्युष्टिं चैव निम्रुक्तिं च यज् जोष्ट्री यद् एव जातं च जनिष्यमाणं च यद् ऊर्जाहुती यद् एवात्ति च पिबति च यद् दैव्या होतारेमे एव यत् तिस्रो देवीर् वाग् वै तिस्रो देवीर् वाचं वा एतद् यजत्य् अथो छन्दांसि वै वाक् छन्दांसि वा एतद् यजति तनूनपाद् वै यज्ञो ऽप्रसृतो नराशंसः प्रसृतस् तस्मात् तनूनपातं प्रयाजेषु यजत्य् अप्रसृतो हि तर्हि यज्ञस् तस्माद् उ नराशंसम् अनुयाजेषु यजति प्रसृतो हि तर्हि यज्ञो वनस्पतिं यजति सोमो वै वनस्पतिः सौमीर् इमाः प्रजाः प्रजास्व् एव रसं दधाति त्वष्टारं यजति त्वष्टा हि रूपाणि विकरोति वाजिनो यजति पशवो वै वाजिनस् तान् वा एतद् यजत्य् अथो छन्दांसि वै वाजिनश् छन्दांसि वा एतद् यजति पशवो वै वाजिनस् तन् न संस्थाप्यं यत् संस्थापयेत् तान् एव संस्थापयेद् असंस्थिता ह्य् एते सददि प्रजायन्ते न वा एष सुयज्ञ इव संस्थिते हि प्रहृतेषु परिधिषु जुहोति यद् अव्यवानन् यजति तेन यज्ञः क्रियते ऽनुयजति समिष्ट्या एव प्रतिष्ठित्यै बर्हिर् अनुषिञ्चन् गृह्णात्य् ऋषभेष्व् एव रेतो दधात्य् ऊर्ध्वज्ञुर् आसीनो यजत्य् ऊर्ध्वज्ञवो हि पशवः पशुषु रेतो दधत्य् अथो जूर्ध्वज्ञुर् हि प्रजापतिः प्रजा असृजत दिग्भ्यो जुहोतीमा एव दिशो रसेन व्युनत्ति प्राचीम् उत्तमां जुहोति प्राचीम् एव दिशं पुनर् उपावर्तन्ते समुपह्वयन्ते सोमपीथ इव ह्य् एष ऋत्विजः प्राश्नन्ति ॥

वाजिनो मे यज्ञं वहान् ॥ इति समावञ्शो भक्षयन्ति समावञ्श एव वाजं विभजन्त आत्मना प्राश्नात्य् आत्मन्न् एव वाजं धत्ते

॥१.१०.९॥

ता वैश्वदेवेन सृष्टास् तस्मिंस् तरुणिमनि वरुणो ऽगृह्णात् तद् आहुर् अति वै ताः प्रजापतिम् अचरंस् ता अतिचरन्तीर् वरुणेनाग्राहयत् तस्मात् पिता नातिचरितवा इति वैश्वदेवेन वै प्रजापतिः प्रजा असृजत तस्य मरुतो हव्यं व्यमथ्नत ततो ऽंहोगृहीता असृज्यन्त ताभ्यो भेषजम् ऐछत् तद् वा आत्मन्न् एवैछत् स एतत् पय आत्मनो ऽधि निरमिमीत तेनाभ्यो ऽंहो ऽवायजत् तद् अंहसो वा एषावेष्टिर् यद् वरुणप्रघासा यद् वरुणप्रघासैर् यजते सर्वस्यांहसो ऽवेष्ट्यै जग्धाद् वै ताः प्रजा वरुणो ऽगृह्णात् तस्माद् वरुणप्रघासा यावत् कुमारे ऽम्णो जात एनस् तावद् अस्मिन्न् एनो भवति यो वरुणप्रघासैर् यजते सावित्रो ऽष्टाकपालो भवति गायत्रो वै देवानां सविता द्वादशकपाल ऐन्द्राग्नो देवतया यद् वै तद् वरुणगृहीता अवेव्लीयन्तेव तद् आस्व् इन्द्राग्नी बलम् अधत्तां शिथिरा वै ताः प्रजा वरुणो ऽगृह्णात् तास्व् इन्द्राग्नी बलम् अधत्तम् ओजो वै वीर्यम् इन्द्राग्नी ओजो वा एतद् वीर्यं मध्यतः प्रजानां धीयते न वै ताः प्राणंस् ता अप्राणतीर् वरुणो ऽगृह्णात् प्राणापानौ वा इन्द्राग्नी प्राणापानौ वा एतन् मुखतः प्रजानां धीयते अथैतानि पञ्च हवींषि सन्तत्यै निरवत्त्यै मारुती निर्वरुणत्वाय वारुणी कन्त्वाय कायो यद् वै तद् वरुणगृहीताभ्यः कम् अभवत् तस्मात् कायः प्रजापतिर् वै कः प्रजापतिर् वै ताः प्रजा वरुणेनाग्राहयद् यत् काय आत्मन एवैना वरुणान् मुञ्चति

॥१.१०.१०॥

यजते : फ़्न् एमेन्देद्। एद्।: यजेत

ऋतं वै सत्यं यज्ञो ऽनृतं स्त्र्य् अनृतं वा एषा करोति या पत्युः क्रीता सत्य् अथान्यैश् चरत्य् अनृतम् एव निरवदाय ऋतं सत्यम् उपैति यन् मिथुया प्रतिब्रूयात् प्रियतमेन याजयेद् अथ यद् वाचयति मेध्याम् एवैनां करोत्य् आमपेषा भवन्ति सर्वस्यांहसो ऽवेष्ट्यै यद् भृज्येयुर् अनवेष्टम् अंहः स्यात् पात्रेभ्यो वै ताः प्रजा वरुणो ऽगृह्णाद् यत् पात्राणि पात्रेभ्य एवैना वरुणान् मुञ्चति प्रतिपुरुषं भवन्ति प्रतिपुरुषम् एवांहो ऽवयजत्य् एकम् अधि भवति गर्भेभ्यस् तेन निरवदयते ऽन्नाद् वै ताः प्रजा वरुणो ऽगृह्णाच् छूर्पेणान्नं बिभ्रति तस्माञ् शूर्पेण जुहुतः स्त्रीपुंसौ जुहुतो मिथुना एव प्रजा वरुणान् मुञ्चतः पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ जुहुतः पुरस्ताद् एवांहो ऽवयजतो यत् प्रात्राणि य एव द्विपादः पशवो मिथुनास् तेषाम् एतत् पुरस्ताद् अंहो ऽवयजतो ऽथ यन् मेषश् च मेषी च य एव चतुष्पादः पशवो मिथुनास् तेषाम् एतद् उपरिष्टाद् अंहो ऽवयजत उभयत एवांहो ऽवयजतः पुरस्ताच् चोपरिष्टाच् च

॥१.१०.११॥

यद् वै प्रजा वरुणो गृह्णाति शम्यं चैव यवं चापि न गृह्णाति हेमन्तो हि वरुणो या एवावरुणगृहीतौ ताभ्याम् एवैना वरुणान् मुञ्चति वरुणो वै यवो वरुणदेवत्यः स्वेनैवैना भागधेयेन वरुणान् मुञ्चत्य् अनृताद् वै ताः प्रजा वरुणो ऽगृह्णाद् यद् एता अनृतपशू अनृताद् एवैना वरुणान् मुञ्चतो मिथुनौ भवतो मिथुना एव प्रजा वरुणान् मुञ्चतो लोमशौ भवतो मेध्यत्वाय ये हि पशवो लोम जगृहुस् ते मेधं प्रापुः शमीपर्णानि भवन्ति शन्त्वाय भूर्जो वै नामैष वृक्षः कार्या एतस्य स्रुचः प्रजापतिर् वा अन्नाद्यम् अवरुन्धं नाशक्नोत् तञ् शतेध्मेनावारुन्द्ध परःशतानि कार्याण्य् अन्नाद्यस्यावरुद्ध्यै सहस्रेध्मो ह त्व् एवांहसो ऽवेष्टिं विव्याच परःसहस्राणि कार्याणि सर्वस्यांहसो ऽवेष्ट्यै यदा पात्राणि जुह्वत्य् अथाग्निं सम्मार्ष्टि यस्मिन्न् एवांहो ऽवायाक्षुस् तस्मिन्न् उत्पूते देवता यजा इतीन्द्रो वै यतीन्त् सालावृकेयेभ्यः प्रायछत् तेषां वा एतानि शीर्षाणि यत् खर्जूराः सोमपीथो वा एषो ऽस्या उदैषद् यत् करीराणि सौम्यानि वै करीराणि सौमी ह त्व् एवाहुतिर् अमुतो वृष्टिं च्यावयति यत् करीराणि भवन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यै

॥१.१०.१२॥

एवांहसो : फ़्न् क्स्।३६।६:७४।१: ह त्वा अंहसो

प्रजापतेर् वा एतज् ज्येष्ठं तोकं यत् पर्वतास् ते पक्षिण आसंस् ते परापातम् आसत यत्रयत्राकामयन्ताथ वा इयं तर्हि शिथिरासीत् तेषाम् इन्द्रः पक्षान् अछिनत् तैर् इमाम् अदृंहद् ये पक्षा आसंस् ते जीमूता अभवंस् तस्माद् एते सददि पर्वतम् उपप्लवन्ते योनिर् ह्य् एषाम् एष ततो यः प्रथमो रसः प्राक्षरत् तानि करीराण्य् अभवंस् तद् एतद् उत् प्रावृषि जीमूताः प्लवन्ते यजन्ते वरुणप्रघासैः करीराणि भवन्ति वृष्टिं तैः सन्तनोति तस्मात् तर्हि भूयिष्ठं वर्षति वृष्टिं हि सन्तनोति न वै वैश्वदेव उत्तरवेदिम् उपवपन्त्य् उपात्र वपन्ति प्रजाताः प्रजाः प्रतिगृभ्णाद् इति येयम् उत्तरा वेदिर् या अत्रीः प्रजास् तासाम् एषा योनिस् ता एताम् अनुप्रजायन्ते येयं दक्षिणा वेदिर् या आद्याः प्रजास् तासाम् एषा योनिस् ता एताम् अनुप्रजायन्त उभयीर् एव प्रजाः प्रजनयत्य् अत्रीश् चाद्याश् चायं वाव हस्ता आसीन् नायं तद् येयं दक्षिणा वेदिस् तयेमम् अविन्दंस् तस्माद् एष एतस्य परिवेष्टा कनीयान् हि तस्मात् कनीयान् ज्यायांसं परिवेवेष्टि समे प्राची भवतः समौ हीमौ प्राञ्चौ हस्ता असम्भिन्ने भवतः सर्वस्यांहसो ऽवेष्ट्यै यत् सम्भिन्द्युर् अनवेष्टम् अंहः स्याद् एकस्यां पश्चात् सम्भिनत्त्य् अनुसन्तत्यय् उपेमां वपति नेमाम् अन्वभ्यारोहाय क्षत्रं वा इन्द्रो विण् मरुतो नाना यजतः पापवसीयसस्य व्यावृत्त्यै यद् एवाध्वर्युः करोति तत् प्रतिप्रस्थाता करोति तस्माद् यद् राजा करोति तद् विट् करोति न वै वैश्वदेवे त्रिंशद् आहुतयः सन्ति न साकमेधेषु वरुणप्रघासेषु वाव त्रिंशद् आहुतयो वैराजो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा यत् तर्ह्य् अवभृथम् अभ्यवयन्ति यजमानस्य निर्वरुणत्वाय यद् वै यज्ञस्य स्वगाकृतिं न प्राप्नोति तद् वरुणो गृह्णाति यन् निष्काषेणावभृथम् अभ्यवयन्ति यद् एवात्र वरुणय्स्य न्यक्तं तस्यैषा निरवत्तिर् अनपेक्षमाणा आयन्ति वरुणस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव वरुणं निरवदयन्त एधो ऽस्य् एधिसीमहीति निर्वरुणा एव भूत्वैधितुम् उपयन्ति समिद् असि समेधिषीमहीति समिद्ध्या एव

॥१.१०.१३॥

सम्भिन्द्युर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अन्वभ्यारोहाय : फ़्न् एमेन्देद्। एद्।: अन्वभ्यारोहयत्। क्स्।३६।७:७४।१९: अनभ्यारोहाय

प्रजाः सृष्ट्वांहो ऽवयज्य सो ऽकामयत वृत्रं हन्याम् इति स एताभिर् देवताभिः सयुग् भूत्वा मरुद्भिर् विशाग्निनानीकेनोपप्लायत स वृत्रम् एत्य वृत्रं दृष्ट्वोरुस्कम्भगृहीतो ऽनभिधृष्णुवन्न् अतिष्ठत् तं मरुतो ऽध्यैयन्त ते ऽत्यैषंस् तस्य यदा मर्मागछन्न् अथाचेष्टत् सं वा एनं तद् अतपंस् तस्मात् सान्तपनास् अग्निना वा अनीकेनेन्द्रो वृत्रम् अहंस् तद् अनीकत्वायैवैषो ऽथो अग्निर् वै देवानां सेनानीस् तत् सेनोत्थापनीयम् एवैतद् इन्द्रो वै वृत्राय वज्रम् उद्यमं नाशक्नोत् स एतं मरुद्भ्यो भागं निरवपत् तं वीर्याय समतपंस् तं तेन वीर्येणोदयछन् सं वा एनं तद् अतपंस् तस्मात् सान्तपना मध्यन्दिने चरुर् निरुप्यस् तर्ह्य् उभा अन्तौ तपति चरुः स्यात् तं हि सर्वतस् तपति देवा वै वृत्रस्य मर्म नाविन्दन् तं मरुतः क्षुरपविना व्ययुः सं वा एनं तद् अतपंस् तस्मात् सान्तपनाः

॥१.१०.१४॥

सेनोत्थापनीयम् : फ़्न् एमेन्देद्। एद्।: सेनोत्थापनीयम्

ते वै श्वो भूते वृत्रं हनिष्यन्ता उपावसंस् ते ऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति त एतम् ओदनम् अपचंस् तेन पशून् अचिकयुस् ते ऽविदुर् यतरान् वा इम उपावर्त्स्यन्ति त इदं भविष्यन्तीति तेभ्यो वा एतेन प्रातिष्ठंस् तान् एतेनायछंस् तत् पशूनां वावैषा यतिस् ते वै श्वोविजयिनो ऽवसंस् ते ऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति त एतम् ओदनम् अपचंस् ते ऽब्रुवन् माहुतम् अशिष्मेति तं मरुद्भ्यो गृहमेधेभ्यो ऽजुहवुः पशवो वै मरुतो गृहमेधाः पशुभ्यो वै ते तम् अजुहवुस् ते वै संयत्ता आसंस् ते ऽसुरा देवेभ्यः क्षुधं प्राहिण्वंस् तां देवाः प्रतिश्रुत्यैतम् ओदनम् अपचन् सा देवेषु लोकम् अवित्त्वा पुनर् असुरान् प्राविशत् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतम् ओदनं पचति भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् अपि प्रतिवेशं पचेद् भ्रातृव्यायैव क्षुधं प्रहिणोति यद् वै चातुर्मास्यानां पाकयज्ञस्यैव तद् एषां पशव्यं पशव्यो गृहमेधो न प्रयाजान् यजति नानुयाजान् न सामिधेनीर् अन्वाहाज्यभागौ यजति यज्ञतायय् अग्नये समवद्यत्य् अग्निर् वै समिष्टिर् अग्निः प्रतिष्ठितिः समिष्ट्या एव प्रतिष्ठियईडाम् उपह्वयन्ते पशवो वा इडा पशव्यो गृहमेधस् तस्माद् इडाम् उपह्वयन्ते निष्काषं निदधात्य् अनुसन्तत्यै

॥१.१०.१५॥

ते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अवित्त्वा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

तेषां वा उभयेषाम् इन्द्रः प्रावसत् ते देवा एतम् इन्द्राय भागं न्यदधुर् अस्माञ् श्वो निहितभागो वृणता इत्य् ऋषभम् आह्वयन्तीन्द्रं वा एतं निह्वयन्ते रुवथो वषट्कारो ऽथो असुराणां वा एतद् ऋषभम् अत्याह्वयन्त्य् अस्मान् प्रजनयाद् इति सवत्सा गावो वसन्ति साकमेधत्वाय स्त्र्य् अश्नाति साकमेधत्वाय यत् स्त्री नाश्नीयाद् असाकमेधाः स्युर् अथ यत् स्त्र्य् अश्नाति साकमेधत्वाय निरृतिर् वा एतद् यज्ञस्य गृह्णाति यत् स्त्र्य् अश्नाति निरृतिर् हि स्त्री निरृतिगृहीता वै दर्विस् तप्तं ह्य् अवचरत्य् एष खलु वै स्त्रिया हस्तो यद् दर्विर् यद् दर्व्या जुहोति निरृतिगृहीतयैव निरृतिं निरवदयते स वै श्वो भूते वृत्रं हन्तुम् उपप्लायत तं मरुतः परिक्रीडन्त आसंस् ते ऽस्याप्त्वा व्यनयंस् ते ऽभ्यधर्षयंस् तस्मात् क्रीडयस् ते वै संयत्ता आसंस् ते देवा असुराणां परम् अन्तं न परापश्यंस् ते मरुतः क्रीडीन् क्रीडतो ऽपापश्यंस् तज् जितमनसो वा इम इति तेभ्यो वा एतं भागं निरवपंस् ततो वा अजयंस् तज् जित्वा एवैषो ऽसौ वा आदित्य इन्द्रो रश्मयः क्रीडयः साकं रश्मिभिः प्रचरति विजित्यै देवा वै वृत्रं हतं न व्यजानंस् तं मरुतः क्रीडयो ऽध्यक्रीडंस् तस्मात् क्रीडयो ऽथैतानि पञ्च हवींषि सन्तत्यय् अथैष ऐन्द्राग्न इन्द्राग्नी एवास्मै वज्रम् अन्वबिभृताम् इन्द्राग्नी अस्मै वज्रम् अभ्यवहताम् अथैष ऐन्द्र उद्धारं वा एतम् इन्द्रा उदहरत् वृत्रं हत्वा तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजते ऽथैष वैश्वकर्मणो विश्वानि मे कर्माणि कृतान्य् आसन्न् इति विश्वकर्मा हि सो ऽभवद् वृत्रं हत्वाथैष आघार आहुतीनां सन्तत्यै त्रिंशत्वाय

॥१.१०.१६॥

क्रीडतो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

प्रजाः सृष्ट्वांहो ऽवयज्य वृत्रं हत्वा ते देवा अमृतत्वम् एवाकामयन्त स्वर्गो वै लोको ऽमृतत्वं संवत्सरः स्वर्गो लोको यद् द्वादशाहुतयो ऽमृतत्वम् एव तेन स्पृणोत्य् आपद् वा एतत् संवत्सरम् अति वा एतत् संवत्सरम् अक्रमीद् यद् द्वादशाहुतयः संवत्सरम् एव पुनर् अभिपर्यावर्तत आपद् वा एतत् संवत्सरं सं वा एतत् संवत्सरम् अकृक्षद् यत् षट्षट् सम्पादयति षड् वा ऋतवस् तान् वा एतत् सम्पादयति तान् अपिपादयति तान् अपिपद्यमानान् अन्वपिपद्यत आपद् वा एतत् संवत्सरं पितरो वा ऋतवस् तान् वा एतत् प्रजनयति तान् प्रजायमानान् अनु प्रजायते ततः प्रजायत एतद् वा अस्य संवत्सरो ऽभीष्टो ऽभूद् अभीष्टा ऋतवो ऽथ वा अस्य पितरो ऽनभीष्टा यद् एष पितृयज्ञस् तेनैवास्य पितरो ऽभीष्टाः प्रीता भवन्ति दक्षिणतो निरुप्यं दक्षिणा हि पितृणाम् अथो आहुर् उभयत एव निरुप्यम् इत्य् उभये हीज्यन्ते तन् न सूर्क्ष्यं दक्षिणत एव निरुप्यं दक्षिणा हि पितृणां षट्कपालः पुरोडाशो भवति षड् वा ऋतवस् त एवास्यैतेनाभीष्टाः प्रीता भवन्ति न वै धानाभिर् न मन्थेन यज्ञो यद् एष पुरोडाशस् तेन यज्ञो ऽथैता धानाः स्वधा वा एता अमुष्मिंल् लोके ऽथो अपरिमिता वै संवत्सरस्य रात्रयस् ता एवास्यैताभिर् अभीष्टाः प्रीता भवन्ति न वै धानाभिर् न पुरोडाशेन पितृयज्ञो यद् एष मन्थस् तेन पितृयज्ञो ऽभिवान्याया गोर् दुग्धे स्यात् सा हि पितृणां नेदिष्ठं दक्षिणासीना उपमन्थति दक्षिणा हि पितृणाम् एकयोपमन्थत्य् एका हि पितृणाम् इक्षुशलाकयोपमन्थति सा हि पितृणां न प्राच्य् उद्धत्या पितृयज्ञो हि न दक्षिणा यज्ञो ह्य् उभे दिशा अन्तरोद्धन्त्य् उभये हीज्यन्त उपमूलं बर्हिर् दाति तेन पितृणां यद् ऋतेमूलं तेन देवानाम् उभये हीज्यन्ते परिश्रयन्त्य् अन्तर्हिता वा अमुष्माद् आदित्यात् पितरो ऽथो अन्तर्हिता हि देवेभ्यश् च मनुष्येभ्यश् च पितरस् तस्मात् परिश्रयन्ति समन्तं बर्हिः परिस्तृणाति समन्तं हीम ऋतवः परिविष्टा अथो समन्तान् मा पितरो ऽभिसमागछान् इत्य् अमुष्मिन् वै पूर्वस्मिन्न् इतरा देवता इज्यन्ते यत् तत्र जुहुयाद् आहुतीः संसृजेत् समदं कुर्याद् गार्हपत्ये शृतं कुर्वन्ति यज्ञतायय् ओदनपचनाद् अग्निम् आहरन्ति तत् स्विन् नान्यता आहरन्ति

॥१.१०.१७॥

पितृयज्ञस् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

उशन्तस् त्वा हवामह उशन्तः समिधीमहि ।

उशन्न् उशत आवह पितॄन् हविषे अत्तवे ॥

इत्य् अन्वाहोशन्तो हि पितरो ऽनुष्टुभम् अन्वाहान्तो वा अनुष्टुब् अन्तः पितरस् तस्माद् अनुष्टुभम् अन्वाहैकाम् अन्वाहैकलोका हि पितरस् त्रिर् अन्वाह तृतीये हि लोके पितरो यद् एकाम् अन्वाह तेन पितृणां यत् त्रिस् तेन देवानाम् उभये हीज्यन्ते न होतारं वृणीते नार्षेयं मृत्योर् एवैना उत्सृजत्य् अपबर्हिषः प्रयाजान् यजति प्रजा वै बर्हिः प्रजा एव मृत्योर् उत्सृजति संव्ययते वै मनुष्येभ्यः करिष्यन् दक्षिणतो देवेभ्या उपव्ययते ऽथात्र प्राचीनावीतेन भव्यं व्यावृत्त्यै दक्षिणतो ऽवदायोदङ्ङ् अतिक्रम्य दक्षिणा तिष्ठन् जुहोति दक्षिणा हि प्तृणां सोमम् अग्रे यजति सोमो वै पितृणां देवता पितृदेवत्यः सोमो यत् सोमं पितृमन्तं यजति सोमपांस् तत् पित्πन् यजति यद् बर्हिषदो यज्वनस् तद् यद् अग्निष्वात्तान् गृहमेधिनस् तद् यद् अग्निं कव्यवाहनं द्वे वा अग्नेस् तन्वौ हव्यवाहन्या देवेभ्यो हव्यं वहति कव्यवाहन्या पितृभ्यः समिष्ट्या एव प्रतिष्ठित्यै द्वे वै देवानां याज्यानुवाक्ये प्राण्यया यछति गमयत्य् अन्ययाथात्र तिस्रः कार्याः परे हि देवेभ्यः पितरस् तद् यैषा तृतीयात्य् एवैतया प्रादात् पञ्च कृत्वो ऽवद्यति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध ॥

प्राचीनावीतेन : फ़्न् एमेन्देद्। एद्।: प्राचीनाववीतेन

स्वधा नमः ॥ इति वषट्करोति स्वधाकारः पितृणां नमस्कारो देवानाम् उभये हीज्यन्ते स्रक्तिषु निदधाति देवान् वै पितॄन् मनुष्या अनुप्रपिबन्ते देवान् एव पितॄन् अयाट् त्रिर् निदधाति त्रीन् हीदं पुरुषान् अभिस्मस् त्रीन् परान् अन्वाचष्टे त्रयो हि परे पिता पुत्रः पौत्रो ऽनुसन्तत्यै सर्वासु स्रक्तिषु निदधाति सर्वासु हि दिक्षु पितरः सर्वा एवैनं दिशो गमयति नामुष्यां निदधाति यद् अमुष्यां निदध्यान् मृत्युनैनाः परिवेशयेत् ताम् एवानूद्यन्त्य् अथ यत् तस्यां निमार्ष्टि ताम् एव तेन प्रीणाति

॥१.१०.१८॥

अभिस्मस् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अत्र पितरो मादयध्वम् इत्य् उक्त्वा परायन्ति त आहवनीयम् उपतिष्ठन्ते सुसन्दृशं त्वा वयम् इत्य् आ तमितोस् तिष्ठन्त्य् अग्निम् एवोपद्रष्टारं कृत्वान्तं प्राणस्य गछन्त्य् अमीमदन्त पितरा इत्य् उक्त्वा प्रपद्यन्ते त ऊर्णां दशां वा न्यस्यन्ति यद् एवात्र निगछन्ति तस्यैषा निरवत्तिः परेतन पितरः सोम्यासा इत्य् आहानुषक्ता वा एतान् पितरः स्युर् व्यावृत्त्यै समन्तम् अपः परिषिञ्चन् पर्येति मार्जनम् एवैषां तद् अपरिषिञ्चन् पुनः पर्येत्य् अमुं वा एते लोकं निगछन्ति ये पितृयज्ञेन चरन्ति प्रजापतिस् त्व् एवैनांस् तता उन्नेतुम् अर्हति यत् प्राजापत्याम् ऋचम् अन्वाह प्रजापतिर् एवैनांस् तता उन्नयत्य् अथ यद् अपरिषिञ्चन् पुनः पर्येत्य् अमुं वा एतं लोकं पुनर् उपावर्तन्ते पितॄन् वा एतद् यज्ञो ऽगन् पाङ्क्तो यज्ञो यत् पङ्क्त्या पुनर् आयन्ति सहैव यज्ञेनायन्ति मनस्वतीभिर् आयन्ति मन एव पुनर् उपह्वयन्ते

॥१.१०.१९॥

एतद् वा अस्य संवत्सरो ऽभीष्टो ऽभूद् अभीष्टा ऋतवो ऽथ वा अस्य रुद्रा अनभीष्टा यद् एते त्र्यम्बकास् तेनैवास्य रुद्रा अभीष्टाः प्रीता भवन्त्य् एककपाला भवन्ति न वै पुरुषः कपालैर् आप्य एकधैवैनम् आप्नोत्य् अथो एका वा इयम् अस्याम् एव प्रतितिष्ठत्य् अभिघार्या३ नाभिघार्या३ इति मीमांसन्ते यद् अभिघारयेद् रुद्रायास्य पशून् अपिदध्यात् तन् न सूर्क्ष्यम् अभिघार्या एव न हि हविर् अनभिघृतम् अस्त्य् एकोल्मुकं हरन्त्य् एकोल्मुकं हि रुद्राणां धूपायद् धरन्ति धूपायद् धि रुद्राणाम् एतां दिशं हरन्त्य् एषा हि रुद्राणां दिक् पराचीनं हरन्ति पराञ्चम् एव रुद्रं हरन्त्य् आखुं ते रुद्र पशुं करोमीत्य् आखुकिरा एकम् उपवपति पशुभ्यस् तेन निरवदयते तस्मात् तान् पशुपतिर् घातुकश् चतुष्पथे याजयेच् चतुष्पथे वै रुद्राणां गृहा गृहेष्व् एव रुद्रं निरवदयत एष ते रुद्र भागस् तं जुषस्व सह स्वस्राम्बिकया स्वाहेति शरद् वै रुद्रस्य योनिः स्वसाम्बिकैतां वा एषो ऽन्वभ्यवचरति तस्माञ् शरदि भूयीष्ठं हन्ति तयैवैनं सह निरवदयते मध्यमपर्णेन जुहोति तद् ध्य् अरक्षोहतम् आरण्येन जुहोत्य् अरण्य एव रुद्रं निरवदयते यत् पात्रेण जुहुयाद् रुद्रं प्रजास्व् अन्ववनयेत् तस्माद् आरण्येन जुहोत्य् अवाम्ब रुद्रम् अदिमहीत्य् अनृणा एवाभूवन् भेषजं गवे अश्वाय पुरुषाय भेषजम् इत्य् अनृणा एव भूत्वा भेषजम् अक्रत त्र्यम्बकं यजामहा इति परियन्ति तत्रापि पतिकामा पर्येति पतिवेदनम् एवास्यास् तत् तान् ऊर्ध्वान् उदस्य प्रतिलभन्ते भगम् एव प्रतिलभन्ते तान् यजमानाय समावपन्ति भगम् एवास्मै समावपन्ति या पतिकामा स्यात् तस्यै समावपेयुर् भगम् एवास्यै समावपन्ति तान् मूते कृत्वा वृक्ष आसञ्चति ॥

अरक्षोहतम् : फ़्न् एमेन्देद्। एद्।: अरक्षोहतम्

एवाभूवन् : फ़्न् एमेन्देद्। एद्।: एवाभुवन्

रुद्रैष ते भागस् तेनावसेन परो मूजवतो ऽतीहि पिनाकहस्तः कृत्तिवासा अवततधन्वा ॥ इति गिरिर् वै रुद्रस्य योनिर् अतो वा एषो ऽन्वभ्यवचारं प्रजाः शमायते स्वेनैवैनं भागधेयेन स्वं योनिं गमयत्य् अनपेक्षमाणा आयन्ति रुद्रस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव रुद्रं निरवदयन्ते ऽम्बी वै स्त्री भगनाम्नी तस्मात् त्र्यम्बका यस्य वै हविर् अप्रतिष्ठितम् अप्रतिष्ठितः सो ऽप्रतिष्ठिता अस्य त्र्यम्बका आदित्यं घृते चरुं निर्वपेत् पुनर् एत्य गृहेष्व् इयं वा अदितिर् इयं प्रतिष्ठा यद् आदित्यो ऽस्याम् एव प्रतितिष्ठति

॥१.१०.२०॥
प्रपाठक 11

प्रथमकाण्डे एकादशः प्रपाठकः

प्रथमकाण्डे एकादशः प्रपाठकः

देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर् वाजिनो वाजजितो वाजं जेष्म

॥१.११.१॥

वाजं वाजिनो जयताध्वानं स्कभ्नुवन्तो योजना मिमानाः ॥

काष्ठां गछत ॥

शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।

जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥

वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।

अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥

ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।

सहस्रसा मेधसाता सनिष्यवो महो ये धना समिथेषु जभ्रिरे ॥

एष स्य वाजि क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिपक्ष आसन् ।

क्रतुं दधिक्राम् अनु संसनिष्यदत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ॥

उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः ।

श्येनस्येव द्रवतो अङ्कसं परि दधिक्राव्णः सहोर्ज तरित्रतः

॥१.११.२॥

आ मा वाजस्य प्रसवो जगम्याद् आ मा द्यावापृथिवि विश्वशम्भू ।

आ मा गन्त पितरो विश्वरूपा आ मा सोमो अमृतत्वेन गम्यात् ॥

इन्द्राय वाचं वदतेन्द्राय वाचं संवदतेन्द्रं वाजं जापयतेन्द्र वाजं जयेयं वः सा सत्या संवाग् अभूद् याम् इन्द्रेण समदद्भ्वम् अजीजपत वनस्पतय इन्द्राय वाचं विमुच्यध्वं वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागम् अवजिघ्रतं वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागे निमृज्येथां स्वो रोहावेहि स्वो रोहावेहि स्वो रोहावायुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पते चक्षुर् यज्ञेन कल्पते श्रोत्रं यज्ञेन कल्पते मनो यज्ञेन कल्पते वाग् यज्ञेन कल्पते ब्रह्मा यज्ञेन कल्पते पृष्ठं यज्ञेन कल्पते स्वर् यज्ञेन कल्पते यज्ञो यज्ञेन कल्पते वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहाहर्पतये स्वाहा वाक्पतये स्वाहा वसवे स्वाहा स्वर् मूर्धा वैयशनो व्यश्यन्न् आन्त्यो ऽन्त्यो भौवनो भुवनस्य पतये ऽधिपतये स्वाहान्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा स्वर् देवा अगामामृता अभूम प्रजापतेः प्रजा अभूम

॥१.११.३॥

वैयशनो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अग्ने अछा वदेह नः प्रत्यङ् नः सुमना भव ।

प्र नो यछ विशस्पते धनदा असि नस् त्वम् ॥

प्र नो यछत्व् अर्यमा प्र भगः प्र बृहस्पतिः ।

प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥

अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय ।

वाचं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥

सोमं राजानं वरुणम् अग्निम् अन्वारभामहे ।

आदित्यान् विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥

इन्द्रवायू सुसन्दृशा सुहवेह हवामहे ।

यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥

वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमं राजानम् ओषधीष्व् अप्सु ।

स विराजं पर्येतु प्रजानन् प्रजां पुष्टिं वर्धयमानो अस्मे ॥

वाजस्येमां प्रसवः शिश्रिये दिवं स ओषधीः समनक्तु घृतेन ।

ता अस्मभ्यं मधुमतीर् भवन्तु वयं राष्ट्रे जागृयामा पुरोहिताः वाजस्येदं प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः ।

अदित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नियछतु ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण बृहस्पतिं साम्राज्यायाभिषिञ्चामीन्द्रं साम्राज्यायाभिषिञ्चाम्य् उपयामगृहीतो ऽसि द्रुषदं त्वा नृषदम् आयुषदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽसि पृथिवीषदं त्वान्तरिक्षसदं नाकसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽस्य् अप्सुषदं त्वा घृतसदं भूतसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽसि ग्रह विश्वजनीन नियन्तर् विप्रायाम ते ॥

यास् तिस्रः प्रथमजा दिव्यः कोशः समुक्षितः ।

तासां विशिश्नानाम् इषम् ऊर्जं समग्रभम् ॥

इन्द्राय त्वा जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वोपयामगृहीतो ऽसि ॥

अपां रसम् उद्वयसं सूर्याञ् शुक्रं समाभृतम् ।

अपां रसस्य यो रसस् तं ते गृभ्णाम्य् उत्तमम् ॥

इन्द्राय त्वा जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ॥

कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।

इहेहैषां कृणुत भोजनानि ये बर्हिषा नमौक्तिं न जग्मुः ॥

उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ॥

अया विष्ठा प्रजापतये त्वा

॥१.११.४॥

देवा वै नाना यज्ञान् अपश्यन्न् अथ वा एतं सर्वे ऽपश्यंस् तस्मिन् वा अयतन्त तस्मिन्न् आजिम् अयुस् तं बृहस्पतिर् उदजयद् बृहस्पतिर् वै देवानां पुरोहितो यद् वै पुरोहितो ब्राह्मणं शृणोति तद् राज्ञे तेनेन्द्रम् अयाजयत् स स्वाराज्यम् अगच्छत् स एष स्वाराज्यो यज्ञः स्वाराज्यं गछति य एतेन यजते यद् बृहस्पतिर् उदजयत् तस्माद् ब्राह्मणो यजेत यद् इन्द्रम् अयाजयंस् तस्माद् राजन्यो देवा वै नाना यज्ञान् आहरन्न् इमम् अहम् इमं त्वम् इत्य् अथ वा एतं प्रजापतिर् आहरत् तस्मिन् वा अपित्वम् ऐछन्त तेभ्यश् छन्दांस्य् उज्जितीः प्रायछद् अथ वा एतेन प्रजापतिर् अयजत स स्वाराज्यम् अगछत् स एष स्वारज्यो यज्ञः स्वाराज्यम् गछति य एतेन यजते ऽन्नं वै वाजस् तद् य एवं विद्वान् अन्नम् अत्ति वाजयति ह वा एनम् अन्नम् अद्यमानं सोमो वै वाजपेयस् तद् य एवं विद्वान्त् सोमं पिबति वाजं ह गछति यावन्तो हि देवाः सोमम् अपिबंस् ते वाजम् अगछंस् तस्मात् सर्वः सोमं पिपासति वाजं ह गछति वाग् घि वाजस्य प्रसवः सा वै वाक् सृष्टा चतुर्धा व्यभवद् एषु लोकेषु त्रीणि तुरीयाणि पशुषु तुरीयं या पृथिव्यां साग्नौ सा रथन्तरे यान्तरिक्षे सा वाते सा वामदेव्ये या दिवि सा बृहति सा स्तनयित्नव् अथ पशुषु ततो या वाग् अत्यरिच्यत तां ब्राह्मणे न्य् अदधुस् तस्माद् ब्राह्मण उभयीं वाचं वदति यश् च वेद यश् च न या बृहद्रथन्तरयोर् यज्ञाद् एनं तयागछति या पशुषु तय ऋतेयज्ञं तद् य एवं वेदा ह वा एनम् अप्रतिक्शातं गछति यावती वाक् तां हि वेद वाचा हि दीयन्ते वाचा प्रदीयये यो गाथानाराशंसीभ्यां सनोति न तस्य प्रतिगृह्यम् अनृतेन हि स तत् सनोति न मत्तस्य यदा हि तस्य मदो व्येत्य् अथ तं तत् तपति

॥१.११.५॥

सप्तदश वा एते द्वया ग्रहाः प्राजापत्याः सप्तदशः पुरुषाः प्राजापत्यश् चत्वार्य् अङ्गानि शिरोग्रीवम् आत्मा वाक् सप्तमी दश प्राणा अङ्गेऽङ्गे वै पुरुषस्य पाप्मोपश्लिष्टो यद् व्यतिषजन् ग्रहान् गृह्णात्य् अङ्गादङ्गाद् एवैनं पाप्मनो मुञ्चति श्रीर् वै सोमः पाप्मा सुरोपयामा आगते काले प्राञ्चः सोमैर् उत्क्रामन्ति प्रत्यञ्चः सुरोपयामैः पापमनैवैनं विपुनन्ति तस्माद् आहुर् वाजपेययाज्य् एव पूत इति पापमना ह्य् एनं विपुनन्ति देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति परुषिपरुषि जुहोत्य् उत्सन्नयज्ञो वा एष को ह तद् वेद यद् एतस्य क्रियते यन् न सर्वत्वायैव प्रसवाय वाजस्य नु प्रसवे मातरं महीम् इति रथम् उपावहरतीयं वा अदितिर् अनयैवैनं प्रसूतं सवित्रा चोपावहरति वाजस्योज्जित्यय् अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् इत्य् अश्वान्त् स्नपयन्त्य् अप्सुजा वा अश्वाः स्वाद् एवैनान् योनेर् जनयन्ति वायुर् वा त्वा मनुर् वा त्वेति युनक्ति न वा एतन् मनुष्या योक्तुम् अर्हन्ति देवताभिर् एवैनान् युनक्त्य् अपां नपाद् आशुहेमन्न् इति रराटानि प्रतिमार्ष्टि पूर्वम् एव यजुर् उदितम् अनु वदति दुन्दुभीन् निह्रादयन्ति वाग् वा एषैकारण्यं प्राविशत् ताम् एवोज्जयत्य् अथो या वनस्पतिषु वाक् ताम् एवावरुन्द्धे सप्तदशः सर्वो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोत्य् उत्सन्नयज्ञो वा एष संवत्सराद् वा अध्य् उत्सन्नयज्ञो ऽवरुध्यते संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे

॥१.११.६॥

देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकं रुहेयम् इति ब्रह्मा रथचक्रं सर्पति सवितृप्रसूत एव वज्रं सर्पति वाजस्योज्जित्यय् अथो प्रजापतिर् वै ब्रह्मा यज्ञस्य प्रजापतिर् एवैनं वज्राद् अधि प्रसुवति वाजस्योज्जित्यै साम गायते सत्यं वै साम सत्येनैवोज्जयत्य् उज्जितिर् वाजयत्य् अन्नं वै वाजो ऽन्नाद्यस्योज्जित्यै देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर् वाजिनो वाजजितो वाजं जेष्मेति रथम् अभ्यातिष्ठति सवितृप्रसूत एव रथम् अभ्यातिष्ठति वाजस्योज्जित्यै वाजिनाम् ऋचो ऽन्वाह वाजस्योज्जित्यय् आजिं धावन्ति वाजस्योज्जित्यय् अनुदिष्टै रथैर् धावन्ति दक्षिणयैव स्वर्गं लोकम् एति यद् अनुदिष्टै रथैर् धावन्ति दक्षिणया वा एतद् यजमानः सह स्वर्गं लोकम् एत्य् अथैष नैवारः सप्तदशशरावो देवा ओषधीषु पक्वास्व् आजिम् अयुस् ता बृहस्पतिर् उदजयत् स एतान् निवारान् न्यवृणीत तन् निवाराणां निवारत्वं बृहस्पतिर् वै ता उदजयत् तम् एव भागिनं करोत्य् अहिंसायै तम् अधश् चात्वालं हरन्तीह वा असा आदित्य आसीत् तम् इतो ऽध्य् अमुं लोकम् अहरंस् तद् यतो ऽध्य् अमुं लोकम् अहरन् यच् चात्वाले ऽवदधति यजमानम् एव स्वर्गं लोकं हरन्त्य् आ मा वाजस्य प्रसवो जगम्याद् इति रथेषु पुनरासृतेषु जुहोति यम् एव वाजम् उदजैषुस् तम् आत्मन् धत्ते ऽजीजपत वनस्पतया इन्द्राय वाचं विमुच्यध्वम् इति रथविमोचनीयं जुहोति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागम् अवजिघ्रतम् इति भागिना एवैना अकर् वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागे निमृज्येथाम् इति सर्वान् एवैनान् प्रीणात्य् अर्धवशां च सुरोपयामांश् च हरन्ति य आजिं धावन्ति तेभ्यो यम् एव वाजम् उदजैषुस् तं परिक्रीणीते मधुष्ठालं ब्रह्मणे ब्रह्मण एव तेन परिक्रीणीते ककुभो राजपुत्रः प्राश्नाति वीर्यं वै ककुब् वीर्यम् एवात्मन् धत्ते

॥१.११.७॥

वाजयति : फ़्न् क्स्।१४।७:२०६।१४: उज्जितीर् वाचयति

स्वो रोहावेहि स्वो रोहावेहि स्वो रोहावेति स्वर् वा एतद् रोक्ष्यन् पत्न्या संवदते ऽथो अन्वारम्भो वा एष यज्ञस्य पत्न्या सह स्वर्गे लोके भवत आयुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पता इत्य् एतावान् वै पुरुषो यावान् एव पुरुषस् तम् आप्नोति स सर्वो भूत्वा स्वर्गं लोकम् एति दर्भमयं वासो भवति पवित्रत्वाय गौधूमं चषालं प्राजापत्या वै गोधूमा अर्धं प्रत्य् आसाम् ओषधीनां सहैवान्नाद्येनामुं लोकम् एति वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदश वा एता आहुतयस् त्रयोदश मासाः संवतसरः संवत्सरं वावास्मा एतद् उपदधाति स्वर्गे लोके तस्मिन्न् एव प्रतितिष्ठत्य् अन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेत्य् ऊषपुटैर् अर्पयन्ति प्राजापत्या वा ऊषाः श्वःश्वो भूयांसो भवन्त्य् अन्नाद्येनैवैनम् अर्पयन्त्य् एति वा एषो ऽस्माल् लोकाद् यो ऽमुं लोकम् एति यद् ऊषपुटैर् अर्पयन्ति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृतो हिरण्यम् अभ्यवरोहति तेजो वै हिरण्यं तेजस्य् एव प्रतितिष्ठति बस्ताजिनम् अभ्यवरोहति पशवो वै बस्ताजिनं पशुष्व् एव प्रतितिष्ठत्य् अन्नस्यान्नस्य जुहोति वाजप्रसव्याभिर् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यय् उभयं ग्राम्यं चारण्यं च जुहोत्य् उभयस्यान्नाद्यस्यावरुद्ध्यय् औदुम्बरेण स्रुवेण जुहोत्य् ऊर्ग् वा उदुम्बर ऊर्जो ऽवरुद्ध्यै सप्तभिर् जुहोति सप्त वै छन्दांसि छन्दोभिर् एवास्मा अन्नाद्यम् अवरुन्द्धे ऽथो वाग् वै छन्दांसि वाचैवास्मा अन्नाद्यं प्रयछति

॥१.११.८॥

अथो : फ़्न् एमेन्देद्। एद्।: अथ

अथैते ऽतिग्राह्या यद् एवादः परमन्नाद्यम् अनवरुद्धं तस्यैते ऽवरुद्ध्यै गृह्यन्ते ऽथैते पशवा आलभ्यन्ते यज्ञक्रतूनाम् अवरुद्ध्यै यद् आगेयो ऽग्निष्टोमं तेनावरुन्द्धे यद् ऐन्द्राग्न उक्थ्यं तेन यद् ऐन्द्रो वृष्णिः षोडशिनं तेन यत् सारस्वती मेषी यद् एवादः सप्तदशं स्तोत्रम् अनाप्तम् अनवरुद्धं तद् एवैतयाप्नोति तद् अवरुन्द्धे ऽथैषा वशा देवाश् च वा असुराश् चास्पर्धन्त नेमे देवा आसन् नेमे ऽसुरास् ते देवा एतां वशाम् अपश्यंस् तया लोकं द्वितीयम् अवृञ्जतासुरलोकं यस्यावद्यति स देवलोको यस्य नावद्यति सो ऽसुरलोकस् तं लोकम् एवैतया द्वितीयं यजमानो वृङ्क्ते भ्रातृव्यलोकम् एव सारस्वत्य् अन्येषाम् उत्तमा भवति सारस्वत्य् अन्येषां प्रतहमा वाग् वै सरस्वती वाचा यज्ञः सन्ततो वाचैव यज्ञं सन्तनोति यद् वै यज्ञस्य विद्वान् न करोति यच् चाविद्वान् अन्तरेति तच् छिद्रं तद् वाचैव सरस्वत्या कल्पयत्य् अनिरुक्तः प्रातःसवः प्रजापतिम् एव तेनाप्नोति वियोनिर् वै वाजपेयः प्राजापत्यः सन् निरुक्तसामा यद् अनिरुक्तः प्रातःसवस् तेन सयोनि रथन्तरं साम भवत्य् आशीया उज्जित्यय् अथो इयं वै रथन्तरम् अस्याम् एव सूयते वाजवतीर् माध्यन्दिने पवमाने भवन्त्य् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यै चित्रवतीर् आर्भवे पवमाने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै शिपिविष्टवतीषु स्तुवत एषा वै प्रजापतेः पशुष्ठास् तनूर् यञ् शिपिविष्टं तस्माञ् शिपिविष्टवतीषु स्तुवत आष्टादंष्ट्रम् उत्तमम् उक्थानां भवत्य् उत्तरे एव स्तोत्रे अभिसन्तनोति यद् वै यज्ञस्यातिरिच्यते ऽमुं तं लोकम् अभ्यतिरिच्यते बृहत् त्व् एवामुं लोकम् आप्तुम् अर्हतीन्द्रियं वै वीर्यं बृहद् यद् बृहता स्तुवते इन्द्रिये वा एतद् वीर्ये ततो यज्ञस्य यजमानः प्रतितिष्ठति

॥१.११.९॥

सन् : फ़्न् एमेन्देद्। एद्।: स। च्फ़्। क्स्।१४।१०:२०९।१

स्तुवते : फ़्न् सिच्

अग्निर् एकाक्षराम् उदजयद् अश्विनौ द्व्यक्षरां विष्णुस् त्र्यक्षरां सोमश् चतुरक्षरां सविता पञ्चाक्षरां पूषा षडक्षरां मरुतः सप्ताक्षरां बृहस्पतिर् अष्टाक्षरां मित्रो नवाक्षरां वरुणो दशाक्षराम् इन्द्रा एकादशाक्षरां विश्वे देवा द्वादशाक्षरां वसवस् त्रयोदशाक्षरां रुद्राश् चतुर्दशाक्षराम् आदित्याः पञ्चदशाक्षराम् अदितिः षोडशाक्षरां प्रजापतिः सप्तदशो ऽग्निर् एकाक्षरया वाचम् उदजयद् अश्विनौ द्व्यक्षरया प्राणापाना उदजयतां विष्णुस् त्र्यक्षरया त्रीण् इमांल् लोकान् उदजयत् सोमश् चतुरक्षरया चतुष्यदः पशून् उदजयत् सविता पञ्चाक्षरया पञ्च दिशा उदजयत् पूषा षडक्षरया षड् ऋतून् उदजयन् मरुतः सप्ताक्षरया सप्तपदां शक्वरीम् उदजयन् बृहस्पतिर् अष्टाक्षरयाष्टौ दिशा उदजयच् चतस्रो दिशस् चतस्रो ऽकुशलीर् मित्रो नवाक्षरया नव प्राणान् उदजयद् वरुणो दशाक्षरया विराजम् उदजयद् इन्द्रा एकादशाक्षरया त्रिष्टुभम् उदजयद् विश्वे देवा द्वादशाक्षरया जगतीम् उदजयन् वसवस् त्रयोदशाक्षरया त्रयोदशं मासम् उदजयन् रुद्राश् चतुर्दशाक्षरया चतुर्दशं मासम् उदजयन्न् आदित्याः पञ्चदशाक्षरया पञ्चदशं मासम् उदजयन्न् अदितिः षोडशाक्षरया षोडशं मासम् उदजयत् प्रजापतिः सप्तदशो ऽग्निर् एकाक्षरयोदजयन् माम् इमां पृथिवीम् अश्विनौ द्व्यक्षरया प्रमाम् अन्तरिक्षं विष्णुस् त्र्यक्षरया प्रतिमां स्वर्गं लोकं सोमश् चतुरक्षरयाश्रीवीर् नक्षत्राणि सविता पञ्चाक्षरयाक्षरपङ्क्तिम् उदजयद् या ह्य् अक्षरपङ्क्तिः सा पङ्क्तिश् चतुर्धा ह्य् एतस्याः पञ्च पञ्चाक्षराणि पूषा षडक्षरया गायत्रीम् उदजयच् चतुर्धा ह्य् एतस्याः षट् षडक्षराणि मरुतः सप्ताक्षरयोष्णिहम् उदजयंश् चतुर्धा ह्य् एतस्याः स्प्त सप्ताक्षराणि बृहस्पतिर् अष्टाक्षरयानुष्टुभम् उदजयच् चतुर्धा ह्य् एतस्या अष्टाष्टा अक्षराणि मित्रो नवाक्षरया बृहतीम् उदजयच् चतुर्धा ह्य् एतस्या नव नवाक्षराणि वरुणो दशाक्षरया विराजम् उदजयच् चतुर्धा ह्य् एतस्या दश दशाक्षराणीन्द्रा एकादशाक्षरया त्रिष्टुभम् उदजयच् चतुर्धा ह्य् एतस्य एकादशैकादशाक्षराणि विश्वे देवा द्वादशाक्षरया जगतीम् उदजयंश् चतुर्धा ह्य् एतस्या द्वादश द्वादशाक्षराणि वसवस् त्रयोदशाक्षरया त्रयोदशं मासम् उदजयन् रुद्राश् चतुर्दशाक्षरया चतुर्दशं मासम् उदजयन्न् आदित्याः पञ्चदशाक्षरया पञ्चदशं मासम् उदजयन्न् अदितिः षोडशाक्षरया षोडशं मासम् उदजयत् प्रजापतिः सप्तदशो ऽग्नया एकाक्षरया छन्दसे स्वाहाश्विभ्यां द्व्यक्षराय छन्दसे स्वाहा विष्णवे त्र्यक्षराय छन्दसे स्वाहा सोमाय चतुरक्षराय छन्दसे स्वाहा सवित्रे पञ्चाक्षराय छन्दसे स्वाहा पूष्णे षडक्षराय छन्दसे स्वाहा मरुद्भ्यः सप्ताक्षराय छन्दसे स्वाहा बृहस्पतये ऽष्टाक्षराय छन्दसे स्वाहा मित्राय नवाक्षराय छन्दसे स्वाहा वरुणाय दशाक्षराय छन्दसे स्वाहेन्द्रायैकादशाक्षराय छन्दसे स्वाहा विश्वेभ्यो देवेभ्यो द्वादशाक्षराय छन्दसे स्वाहा वसुभ्यस् त्रयोदशाक्षराय छन्दसे स्वाहा रुद्रेभ्यश् चतुर्दशाक्षराय छन्दसे स्वाहादित्येभ्यः पञ्चदशाक्षराय छन्दसे स्वाहादित्यै षोडशाक्षराय छन्दसे स्वाहा प्रजापतिः सप्तदशः

॥१.११.१०॥