skipLink.label

प्रथम काण्ड, प्रपाठक 8

प्रथम काण्ड, प्रपाठक 8

प्रथमकाण्डे अष्टमः प्रपाठकः

प्रथमकाण्डे अष्टमः प्रपाठकः

प्रजापतिः प्रजा असृजत स वा अग्निम् एवाग्रे मूर्धतो ऽसृजत स यतो ऽग्निम् असृजत तत् पर्यमार्ट् ततो लोहितम् अवाहरत् तन् न्यमार्ट् तत उदुम्बरः समभवत् तस्माद् उदुम्बरः प्राजापत्यस् तस्माल् लोहितं फलं पच्यते सो ऽस्मात् सृष्टः पराङ् ऐद् भागधेयम् इछमानः स तद् एव नाविन्दत् प्रजापतिर् यद् अहोष्यत् स स्वं चक्षुर् आदायाजुहोत् ॥ अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति तद् वा अदश् चक्षुर् मन्यन्ते यद् असा आदित्यो ऽमुं वा एतद् अस्मिन् जुह्वतो मन्यन्ते सत्यं वै चक्षुः सत्येनाग्निहोत्रं जुहोति य एवं विद्वान् जुहोति भविष्णुः सत्यं भवति य एवं वेद कस्मै कम् अग्निहोत्रं हूयता इति ब्रह्मवादिनो वदन्त्य् अग्नये वा एतद् धृत्यै गुप्त्यै हूयते यत् सायं जुहोति रात्र्यै तेन दाधार यत् प्रातर् अह्ने तेनाग्नौ सर्वान् यज्ञान्त् संस्थापयन्त्य् अथ कस्माद् एतद् एवाग्निहोत्रम् उच्यता इति ब्रह्मवादिनो वदन्ति होत्रा वै देवेभ्यो ऽपाक्रामन्न् अग्निहोत्रे भागधेयम् इछमाना यत् ॥ अग्निहोत्रम् ॥ इत्य् आह तेन होत्रा आभजति तेनैना भागिनीः करोत्य् एषा वा अग्रे ऽग्ना आहुतिर् अहूयत तद् अग्निहोत्रस्याग्निहोत्रत्वं सो ऽस्मात् सृष्टः पराङ् ऐद् भागधेयम् इछमानः स तद् एव नाविन्दत् प्रजापतिर् यद् अहोष्यत् तं स्वा वाग् अभ्यवदद् जुहुधीति स इत एवोन्मृज्याजुहोत् ॥ स्वाहा ॥ इति स्वा ह्य् एनं वाग् अभ्यवदत् तत् स्वाहाकारस्य जन्म तस्माद् अग्निहोत्रे स्वाहाकारस् तस्माल् ललाटे च पाणौ च लोम नास्त्य् अतो हि स तद् आदायाजुहोत् तस्माद् यस्य दक्षिणतः केशा उन्मृष्टास् तम् आहुर् ज्येष्ठलक्ष्मीति प्रजापतिर् ह्य् एतद् अग्रे ज्येष्ठ उदमृष्टानेन सम्मिता स्रुक् कार्यानेन वा अग्रे ऽग्ना आहुतिर् अहूयत तस्या आहुत्याः पुरुषो ऽसृज्यत द्वितीयाम् अजुहोत् ततो ऽश्वो ऽसृज्यत तस्माद् अश्व उभयादन्न् अनन्तर्हितो हि पुरुषाद् असृज्यत तस्माद् एनं प्रत्यञ्चं तिष्ठन्तं मन्यन्ते ऽश्वो नू पुरुषा इति तृतीयाम् अजुहोत् ततो गौर् असृज्यत चतुर्थीम् अजुहोत् ततो ऽविर् असृज्यत पञ्चमीम् अजुहोत् ततो ऽजासृज्यत षष्ठीम् अजुहोत् ततो यवो ऽसृज्यत सप्तमीम् अजुहोत् ततो व्रीहिर् असृज्यतैते सप्त ग्राम्याः पशवो ऽसृज्यन्त तान् एवावरुन्द्धे य एवं विद्वान् अग्निहोत्रं जुहोति

॥१.८.१॥

अष्टमीम् अजुहोत् ततो वसन्तो ऽसृज्यत नवमीम् अजुहोत् ततो ग्रीष्मो ऽसृज्यत दशमीम् अजुहोत् ततो वर्षा असृज्यन्तैकादशीम् अजुहोत् ततः शरद् असृज्यत द्वादशीम् अजुहोत् ततो हेमन्तो ऽसृज्यतोद्यता त्रयोदश्य् आहुतिर् आसीद् अथ शिशिरम् असृज्यत तस्माद् एतद् ऋतूनाम् अशान्तं क्रूरम् अहुताद् धि समभवद् अहुताद् असृज्यत तद् आहुर् ब्रह्मवादिन ऋतवः पूर्वे ऽसृज्यन्ता३ पशवा३ इत्य् उत ऋतव उत पशवा इति ब्रूयाद् उभये ह्य् एते सहासृज्यन्त स वा एनम् इत एव पुनः प्राविशद् एतद् वा अग्निधानं हस्तस्य यत् पाणिस् तस्माद् एतो हस्तस्याग्निर् नतमां विदहति यद् धन्यमानो हस्तौ प्रतिप्रसारयत्य् अग्नौ वा एतन् न्यञ्चनम् इछते ऽग्निं वै पशवः प्रविशन्त्य् अग्निः पशून् प्र ह वा एनं पशवो विशन्ति प्र स पशून् य एवं वेदैतद् ध स्म वा आह नारदो यत्र गां शयानां निर्जानाति मृताम् एनाम् अविद्वान् मन्यता इत्य् अग्निं ह्य् एवैते प्रविशन्त्य् अग्निर् एतांस् तस्मात् सर्वान् ऋतून् पशवो ऽग्निम् अभिसर्पन्ति न ह्य् एत ऋते ऽग्नेर् यज् जातः पशून् अविन्दत तज् जातवेदसो जातवेदस्त्वं ताम् अप्सु प्रासिञ्चत् सापो ऽन्वदहत् ता अग्नये वज्रो ऽभवंस् तस्माद् धवींषि प्रोक्षताग्निर् अभि न प्रोक्ष्यो यद् अभिप्रोक्षेद् धतेन यज्ञेन यजेत तां वै प्रजापतिर् अन्वैछत् ताम् अप्स्व् अन्वविन्दत् ताम् ओषधीषु न्यमार्ट् तस्माद् ओषधयो ऽनभ्यक्ता रेभन्त ओषधीभ्यः पशवः पशुभ्यो मनुष्या अनभ्यक्तो ह रेभते य एवं वेद तद् यो वसन्ताशिशिरे कक्षः स उपाधेय एतद् वै तद् अग्नेः प्रियं धामैषा वाव साहुतिः श्रायत्य् अग्नेर् एवैतया प्रियं धामोपैत्य् अथो पशुमान् भवत्य् अथो आत्मानम् एवैतया यजमानः पुनीते सह वा एता आस्ताम् अग्निश् च सूर्यश् च समाने योना अयसि लोहिते स आदित्य ऊर्ध्व उदद्रवत् तस्य रेतः परापतत् तद् अग्निर् योनिनोपागृह्णात् तद् एनं व्यदहत् तस्माद् अयो ऽत्रपु प्रतिधुक् क्षीरं विदहति तस्माद् एतज् जुह्वति पशूनां वा एतत् पयो यद् व्रीहियवौ तस्माद् एतज् जुह्वति नातिशृतं कार्यं रेतः शोषयेद् यद् विष्यन्देतोन्मादुको ऽस्य प्रजायाम् आजायेतामुष्य वा एतद् आदित्यस्य रेतो हूयते ऽमेध्यम् अशृतं समुदन्तं होतव्यं तद् धि शृतं मेध्यं मिथुनं प्रजनिष्णु

॥१.८.२॥

इति : फ़्न् एमेन्देद्। एद्।: मन्यते ऽति

स्थाल्या दुहत्य् अनया वा एतद् उपसीदन्ति नहीमाम् इतो नेतः स्कन्दत्य् अस्कन्नत्वायार्यकृती भवत्य् ऊर्ध्वकपाला सदेवत्वाय सा हि सदेवासुर्यं वा एतत् पात्रं यत् कुलालकृतं चक्रवृत्तं यत्र स्कन्देत् तद् अपो निनयेद् आपो वै शान्तिर् आपो निष्कृतिर् आपो भेषजा यत्र वा एता अस्या उपयन्ति तत् प्रशस्ततरा ओषधयो जायन्ते बंहीयसीर् यदि दुह्यमानावभिन्द्याद् अन्यया स्थाल्या निर्णिज्य दोह्या यज्ञो हि यज्ञस्य प्रायश्चित्तिर् यद्य् अधिश्रितं स्कन्देद् यद्य् उद्वास्यमानं यद्य् उद्वासितं यद्य् उन्नीयमानं यद्य् उन्नीतं यदि पुरः पराहृतं होमाय पुनर् अवनीयान्याभिदुह्या यज्ञो हि यज्ञस्य प्रायश्चित्तिर् वारुणीम् ऋचम् अनूच्य वारुण्या होतव्यं वरुणो वा एतद् यज्ञस्य गृह्णाति यद् आर्छति निष्कृतिर् एवैषा प्रायश्चित्तिर् अप्रतिषेक्यं स्यात् तेजस्कामस्य ब्रह्मवर्चसकामस्याथो तुस्तूर्षमाणस्याथो यः कामयेत वीरो मा आजायेतेत्य् अप्रतिषिक्तो वै घर्मस् तेजो ब्रह्मवर्चसं तेजस्वी ब्रह्मवर्चसी भवति स्तृणुते यं तुस्तूर्षत आ हास्य वीरो जायत आज्येन होतव्यं यस्याप्रतिषेक्यं स्याद् एतद् वा अप्रतिषिक्तं न तु स्कन्नस्य प्रायश्चित्तिर् अस्त्य् अथो न पशुमान् इव भवति पशूनां वा एतत् पयः प्रवृज्यते शुचं पशुषु दधाति तेजो ऽशान्तं पशून् निर्दहति तस्मात् प्रतिषेक्यम् एव स्याद् यद् अद्भिः प्रतिषिञ्चेद् धरो विनयेद् गान्दोहसन्नेजनेन प्रतिषिच्यं तद् धि नापो न पयस् तद् आहुः स्कन्दति वा एतद् यर्हि वा एतद् दोहनात् पर्याक्रियते तर्हि स्कन्नम् अन्तर्हिता ह्य् अस्या वनस्पतय इति तद् अद्भिर् एव प्रतिषिच्यं स्तोकेनैकेन न हरो विनयति शुचं पशूनां शमयति पशवो वै तेजो ब्रह्मवर्चसं मिथुनं वा आपश् च पयश् च मिथुनात् खलु वै प्रजाः पशवः प्रजायन्ते तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायत ओदनेन होतव्यं यस्य प्रातषेक्यं स्याद् एष हि प्रतिषिक्तः शान्तो मेध्यो मिथुनः प्रजनिष्णुः

॥१.८.३॥

नहीमाम् : फ़्न् न हि ओर् नहि

आर्छति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

प्रजापतिः प्रजा असृजत ता वै तपसैवासृजत स वै स वाचम् एवायछत् तपो वा एष उपैति यो वाचं यछति सृष्टिः प्रजानाम् अग्निहोत्रम् उभयत एव प्रजाः सृजत इतश् चामुतश् च निम्रुक्ते सूर्ये वाग् यन्तव्याथो दुह्यमानायाम् अथो अधिश्रित उन्नीयमान एव यन्तव्यास् तद् अवकॢप्ततमम् ॥

उद्भवः स्थ ॥ इत्य् अवेक्षेत ॥

उद् अहं प्रजया पशुभिर् भूयासम् ॥ इति प्रजायाः पशूनां सृष्ट्यय् अथो अभ्य् एवैनद् घारयति मेध्यत्वायाग्निहोत्रे वै दम्पती व्यभिचरेते पूर्वो यजमानस्य लोको ऽपरः पत्न्या यत् प्राचीनम् उद्वासयेद् यजमानः प्रमीयेत यत् प्रतीचीनं पत्नी कं घर्मम् अभ्युदवीवसा इति ब्रह्मवादिनो वदन्त्य् उदीचीनम् एवोद्वास्यम् अग्रहणौ सञ्जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतश् चतुर् उन्नयति चतुष्पदस् तेन पशून् अवरुन्द्धे द्विर् जुहोति द्विपदस् तेन यं कामयेतानुज्येष्ठं प्रजया ऋध्नुयाद् इति तस्य पूर्णम् अग्रा उन्नयेद् अथ कनीयो ऽथ कनीयो ऽनुज्येष्ठं प्रजया ऋध्नोति तद् आहुः कनीयांसं वा एष यज्ञक्रतुम् उपैति कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान् भवति सम्मितम् इवाग्रा उन्नयेद् अथ भूयो ऽथ भूयः पूर्णम् उत्तमं यज्ञस्याभिक्रान्त्यै तद् आहुर् ज्यायांसं वा एष यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् अर्धुको ऽस्य पुत्रः कनिष्ठो भवतीति यदि कामयेत सर्वे सदृशाः स्युर् इति सर्वान्त् समावद् उन्नयेत् सर्वे ह सदृशा भवन्ति न पश्चाद् उपसादयेद् अपक्रान्तिः सा यज्ञस्य यत्रैवोन्नयेत् तत् सादयेत् प्रतरं वा यज्ञस्याभिक्रान्त्यय् अनुध्यायिनं वा एतद् अपरं करोति यद् अपरस्मिंस् तपन्ति पूर्वस्मिन् जुह्वति समयाग्निं हरन्ति तेनैवैनं प्रीणात्य् अथो अग्निहोत्रस्य वा एतत् पवित्रम् अपुपोद् एवैनद् अपरस्माद् वै पूर्वं सृष्टं तम् एतावत्य् अरमयंस् तस्मात् पुरो ऽनुद्रुत्य जुहोति ॥

प्रजां : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

भवति : फ़्न् प्रोबब्ल्य् भवतीति। च्फ़्। बेलोw १२०।४

अर्धुको : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

आयुर् मे यछ ॥ इति सादयत्य् आयुर् एवास्मिन् यछति ॥

वर्चो मे यछ ॥ इति सादयति वर्च एवास्मिन् यछत्य् ओषधीर् वा इमा रुद्रा विषेणाञ्जंस् ताः पशवो नालिशन्त ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् अब्रवीद् वार्यं वृणै भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन्त् सो ऽब्रवीन् मद्देवत्यैव समिदसद् इति तस्मात् प्राजापत्या समिद् देवेषु ह्य् अस्यैषा वार्यवृता द्वे समिधौ कार्ये द्वे ह्य् आहुती एकैव कार्यैको हि प्रजापतिर् एकधा खलु वै समिद्ध उत बह्वीर् आहुतयो हूयन्ते ता अग्निनान्ववाकरोत् ता अस्वदयत् ताः पुनर्णवा अजायन्तैतर्हि खलु वा अग्निहोत्रिणे दर्शपूर्णमासिने सर्वा ओषधयः स्वदन्ते यत् समिधम् आदधाति सर्वा एवास्मा ओषधीः स्वधयाम् अकः

॥१.८.४॥

भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेद् एतद् वै ब्रह्मैतत् सत्यम् एतद् ऋतं न वा एतस्माद् ऋते यज्ञो ऽस्ति तस्माद् एवं वदितव्यम् ॥

अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति गर्भिण्या वाचा गर्भं दधाति मिथुनया वाचा मिथुनं प्रजनयति यद् वाचा च जुहोति यजुषा च तन् मिथुनं यत् तूष्णीं च जुहोति मनसा च तन् मिथुनं स्थाणुर् वै पूर्वाहुतिर् अतिहाय पूर्वाम् आहुतिम् उत्तरा होतव्या स्थाणुम् एव छम्बट्करोत्य् उत्तराहुतिर् भूयो होतव्या यज्ञस्याभिक्रान्त्यै पशून् एव पूर्वयाहुत्या स्पृणोति ब्रह्मवर्चसम् उत्तरयाग्नेयी सायम् आहुतिस् तया रेतः सिञ्चति तद् रेतः सिक्तं रात्र्यै गर्भं दधाति तत् सौर्या प्रातः प्रजनयाम् अकर् इयं होतव्याथ पराथ पुनर् अवस्तात् प्रातर् अवस्ताद् धि प्रजानां प्रजातिः प्रजननं हि सौरी तन् न सूर्क्ष्यं परापरैव होतव्या यज्ञस्याभिक्रान्त्यय् उदङ्ङ् उद्दिशति ॥

ज्योतिर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अनाभो मृड धूर्ते नमस् ते अस्तु रुद्र मृड ॥ इत्य् एता वै रुद्रस्य तन्वः क्रूरा एतानि नामान्य् एताभिर् वा एष पशूञ् शमायते ता एवास्य भागधेयेन शमयत्य् अवाचीनं सायम् अवमार्ष्टि तस्मात् सायम् अवाची प्रुष्वैत्य् ऊर्ध्वं दिवोन्मार्ष्टि तस्माद् ऊर्ध्वा दिवैति पराचीनम् इव वा एतद् यद् अग्निहोत्रं यत् पुरस्ताद् याजुषं वदति धृत्या अनिर्मार्गाय यो वा अग्निहोत्रस्य वैश्वदेवं वेदाघातुक एनं पशुपतिर् भवत्य् अघातुको ऽस्य पशुपतिः पशून् प्राङ् आसीनो जुहोति देवांस् तेन प्रीणाति हुत्वोञ्शिंषति पशून् एव यजमानायोञ्शिंषत्य् उदङ्ङ् उद्दिशति रुद्रं तेन निरवदयते दक्षिणतो निमार्ष्ट्य् ओषधीश् च तेन पितॄंश् च प्रीणाति प्राश्नाति मनुष्यांस् तेन प्रीणात्य् अङ्गुल्या प्राश्नाति सदत्त्वाय न दतो गमयेद् यद् दतो गमयेत् सर्पा एनं घातुकाः स्युः सर्पान् एव शमयत्य् अहिंसायै ॥

ते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

सदत्त्वाय : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। एद्।: यदत्त्वाय।

पूषासि ॥ इति यजुर् वदेत् पशवो वै पूषा पशून् एवावरुन्द्धे ऽशान्तो वा एषो ऽप्रीतः पुरुषमेधं वा एष प्रतीक्षते यजमानम् एव हव्यं यद् अग्निहोत्रहवणीं निष्टपत्य् अशान्तस् तेनाग्निहोत्रहवणीं प्रतप्य हस्तो ऽवधेयो हस्तो वा प्रतप्याग्निहोत्रहवण्याम् अवधेयस् तेनैवैनं शमयति तेन प्रीणाति शान्त एनं प्रीतो न हिनस्तीत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तते होतव्यं गार्हपत्या३न् न होतव्या३म् इति मीमांसन्ते ऽनुध्यायी वा एष रूक्षो होतव्यम् एव ॥

अग्ने गृहपते परिषद्य जुषस्व स्वाहा ॥ इति जुहुयात् तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यत् पूर्वाम् आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यत् पूर्वाम् आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यद् एवास्य गृह उपह्रियते यद् एनम् अग्निम् अभिता आसीना याचन्ति तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोति

॥१.८.५॥

द्वे दुहन्त्य् अग्निहोत्राय ज्यायान् वा एकस्यादुग्धाद् अग्निहोत्रिणो लोको यद् द्वे दुहन्ति ज्यायांसं वा एतल् लोकं यजमानो ऽभिजयति मनुश् च वा इदं मनायी च मिथुनेन प्राजनयतां यत् स्थाल्या च दोहनेन च दुहन्ति मिथुनाद् एव प्रजायते ॥

एतल् : फ़्न् एमेन्देद्। एद् (म्२): एतम्। म्१: एतम्। ह्, ब्ब् ब्: एतल्

सजूर् जातवेदो दिवा पृथिव्या जुषाणो अस्य हविषो वीहि स्वाहा ॥ इति जुहुयाद् एषा वा अस्य जातवेदस्या तनूः क्रूरैतया वा एष पशूञ् शमायते ताम् एवास्य भागधेयेन शमयति यदि तद् अति शमायेत ॥ अग्ने दुःशीर्ततनो जुषस्व स्वाहा ॥ इति जुहुयाद् एषा वा अस्य शृणती तनूः क्रूरैतया वा एष पशूञ् शमायते ताम् एवास्य भागधेयेन शमयति यदि तद् अति शमायेत ॥ द्वादश रात्रीः सायंसायं जुहुयाद् द्वादश वै रात्रयः संवत्सरस्य प्रतिमा संवत्सरो वा अग्निर् वैश्वानरस् तम् आहिताग्नयो दर्शपूर्णमासिन इन्धते तेषां वा ऋतव एव दारूणि ये स्थविष्ठा अङ्गारास् ते मासा ये क्षोदिष्ठास् ते ऽर्धमासा अहोरात्राणि मुर्मुरा यत् सधूमं ज्योतिस् तद् वैश्वदेवं यल् लोहितं तद् वारुणं यत् सुवर्णं तद् बार्हस्पत्यं यन् न लोहितं न सुवर्णं तन् मैत्रं यद् अङ्गारेषु व्यवशान्तेषु लेलायद् वीव भाति तद् देवानाम् आस्यम् अथो अमुष्य च वा एतद् आदित्यस्य तेजो मन्यन्ते ऽग्नेश् च तस्मात् तर्हि होतव्यं यद् ध्य् एवासन्न् अपिदधाति तद् धिनोत्य् आविर् वै नामैषाहुतिर् आविर्भूयं देवमनुष्येषु गछति य एवं वेद न समिद् अभि होतवय् अप्रतिष्ठिता साहुतिर् नो यथा वीवावस्रवेद् अयता सा तत् तथैव होतव्यं यथाग्निं व्यवेयात् सा हि यता सा प्रतिष्ठिता तस्मान् महान् अग्निहोत्रस्येध्मः कार्यो यो वै बहु ददिवान् बह्व् ईजानो ऽग्निम् उत्सादयते ऽक्षित् तद् वै तस्य तद् ईजाना वै सुकृतो ऽमुं लोकं नक्षन्ति ते वा एते यन् नक्षत्राणि यद् आहुर् ज्योतिर् अवापादि तारकावापादीति ते वा एते ऽवपद्यन्त आप्त्वा स्थिते त इदं यथालोकं सचन्ते यदामुतः प्रच्यवन्ते ऽथ यो बहु ददिवान् बह्व् ईजानो ऽग्निहोत्रं जुहोति दर्शपूर्णमासौ यजते चातुर्मास्यैर् यजते बहूनि सत्राण्य् उपैति तस्य वा एतद् अक्षय्यम् अपरिमितं तिरो वा ईजानाद् यज्ञो भवति तद् आभ्याम् एवाग्निभ्यां दग्धव्यः स्वं वा एतद् इष्टम् अन्वारोहत्य् अपरेण दग्धव्या३ः पूर्वेणा३ इति मीमांसन्त उभौ समाहृत्यान्तरा दग्धव्यस् तद् अवकॢप्ततमं गृह्णीयान् नक्तम् अग्निम् असुर्या वै रात्रिर् ज्योतिषैव तमस् तरति दिवा ह वा अस्मा अस्मिंल् लोके भवति प्रास्मा असौ लोको भाति य एवं वेद ॥

वीव : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

दग्धव्या३ः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेद् एभ्यो वा एतल् लोकेभ्या इष्टका उपदधाति स्वर्गस्य लोकस्य समष्ट्यै यत् सायं जुहोति सहस्रं तेन कामदुघा अवरुन्द्धे यत् प्रातः सहस्रं तेन यद् अस्याग्निर् आधीयते सहस्रं तेन यमराज्यं वा अग्निष्टोमेनाभिजयति सोमराज्यम् उक्थ्येन सूर्यराज्यं षोडशिना स्वाराज्यम् अतिरात्रेणैतानि वै सर्वाणीन्द्रो ऽभवद् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद हविष्मान् वा एको देवयाज्य् एकः सहस्रयाज्य् एको यो ऽग्निहोत्रं जुहोति स हविष्मान् यो दर्शपूर्णमासौ यजते स देवयाजी यश् चातुर्मास्यैर् यजते स सहस्रयाज्य् अग्निहोत्रे वै सर्वे यज्ञक्रतवः सर्वान् यज्ञक्रतून् अवरुन्द्धे य एवं विद्वान् अग्निहोत्रं जुहोति

॥१.८.६॥

प्रैयमेधा वै सर्वे सह ब्रह्माविदुस् ते ऽग्निहोत्रेण समराधयंस् तेषां त्रिर् एको ऽजुहोद् द्विर् एकः सकृद् एकस् तेषां यस् त्रिर् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीत् त्रेधा वा इदम् अग्नये प्रजापतये सूर्यायेत्य् अथ यो द्विर् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीद् द्वेधा वा इदम् अग्नये च प्रजापतये च सायं सूर्याय च प्रजापतये च प्रातर् इति अथ यः सकृद् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीद् एकधा वा इदं प्रजापतय एवेति तेषां यो द्विर् अजुहोत् स आर्ध्नोत् तस्येतरे साजात्यम् उपायन्न् ऋध्नोति य एवं विद्वान् अग्निहोत्रं जुहोत्य् उपास्य समानाः साजात्यं यन्ति प्रदोषम् अग्निहोत्रं होतव्यं व्युष्टायां प्रातर् वृद्धान् गर्भान् प्रजनयति तद् आहुः परा वा एतस्याग्निहोत्रं पतति यस्य प्रदोषं न जुह्वतीति यदि मन्येत ऋतुम् अत्यनैषम् इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेत् तेनैव सर्वं नान्तरेति ॥

दोषा वस्तोर् नमः स्वाहा ॥ इति जुहुयाद् ऋतुम् एव नात्यनैद् धोतव्या३न् न होतव्या३म् इति मीमांसन्ते यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् धोतव्यम् एवाग्नये वा एतद् धृत्यै गुप्त्यै हूयते प्रजननं तु छम्बट्करोति यदि मन्येत ऋतुम् अत्यनैषम् इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेत् तेनैव सर्वं नान्तरेति ॥

भूर् : फ़्न् एमेन्देद्। एद्।: भू।

प्रातर् वस्तोर् नमः स्वाहा ॥ इति जुहुयाद् ऋतुम् एव नात्यनैत् तद् यथा कारुद्वेषिणो जुह्वत्य् एवम् अस्य हुतं भवति यस्याग्निम् अनुद्धृतं सूर्यो ऽभिनिम्रोचेद् यो ब्राह्मणो बहुवित् स उद्धरेत् सर्वेणैवैनं ब्रह्मणोद्धरत्य् अग्निहोत्रेणानुद्रवेद् भागधेयेनैवैनं प्रणयत्य् अथो भागधेयेनैवैनं समर्धयति वरो दक्षिणा सर्वत एवैनं दिग्भ्यो वरेण च्यावयति यस्योभा अनुगता अभिनिम्रोचेद् यस्य वाभ्युदियात् पुनराधेयम् एव तस्य प्रायश्चित्तिर् यथा वै पथो वर्तनी एवं दर्शपूर्णमासौ यथान्तरैवम् अग्निहोत्रम् एवं वा अग्निहोत्रिणे दर्शपूर्णमासिने स्वर्गो लोको ऽनुभात्य् उपान्यानि हवींषि वसन्त्य् अथ कस्माद् अग्निहोत्रं नोपवसन्तीति ब्रह्मवादिनो वदन्ति प्रततं वा एतद् अपरिमितम् असंस्थितम् अश्नाति मांसम् उप स्त्रियम् एति तस्मान् नोपवसन्ति पशुव्रतेन भवितव्यं तूष्णीम् इव पशवः सम्भवन्ति ते मेध्या यत् तूष्णीं स्त्रियम् उपैति मेध्यतरस् तेन भवति हिङ्कृत्योपेयाद् एवम् इव हि पशव उपयन्ति मेध्यत्वाय संस्थाप्या३न् न संस्थाप्या३म् इति मीमांसन्ते ऽग्निहोत्रं यत् संस्थापयेत् तृणम् अक्त्वानुप्रहरेत् सा ह्य् अग्निहोत्रस्य संस्थितिस् तद् आहुर् यदा वै जीयते यदा प्रमीयते यदार्तिम् आर्छत्य् अथाग्निहोत्रं सन्तिष्ठता इति तन् न संस्थाप्यं मनसा वा इमां प्रजापतिः पर्यगृह्णाद् इयं वा अग्निहोत्रस्य वेदिर् इयम् उपयाम ओषधयो बर्हिः प्रुष्वाः प्रोक्षणीर् दिशः परिधयो यत् किञ्चाभ्याधीयते स इध्मो यजमानो यूप उन्नीयमाने स्थेयम् एवम् इव हि यूपः समृद्ध्यै मध्यतो वा एष यज्ञः प्रततो यद् अग्निहोत्रं तस्माद् अग्निहोत्री दर्शपूर्णमासी सर्वं बर्हिष्यं ददाति मध्यतो ह्य् एतद् यज्ञस्य दीयते यद् अग्निहोत्रे होतव्यं राजन्यस्याग्निहोत्रा३न् न होतव्या३म् इति मीमांसन्त आमाद् इव वा एष यद् राजन्यो बहु वा एषो ऽयज्ञियम् अमेध्यं चरत्य् अत्यनन्नं जिनाति ब्राह्मणं तस्माद् राजन्यस्याग्निहोत्रम् अहोतव्यम् ऋतं वै सत्यम् अग्निहोत्रं ब्राह्मण ऋतं सत्यं तस्माद् ब्राह्मणस्यैव होतव्यम् अथो ब्राह्मणायैवास्याग्रतो गृह आहरेयुस् तद् धुतम् एवास्याग्निहोत्रं भवत्य् अथो य ऋतम् इव सत्यम् इव चरेत् तस्य होतव्यम् अनुसन्तत्यै

॥१.८.७॥

दर्शपूर्णमासौ : फ़्न् एमेन्देद्। एद्।: दर्शपर्णमासौ।

प्रुष्वाः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

प्रोक्षणीर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

याग्निहोत्रायोपसृष्टा निषीदेद् यस्यान्नं नाद्यात् तस्मै तां दद्याद् अवर्तिं वा एषा यजमानस्यानुत्सह्य निषीदति तयैवैनां सह निरवदयते गृहे तु तस्य ततः परो नाश्नीयाद् यद् अश्नीयाद् आर्तिम् आर्छेद् यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछेद् अग्निना च सहाग्निहोत्रेण चोद्द्रवेद् भागधेयेनैवैनं प्रणयत्य् अथो भागधेयेनैवैनं समर्धयत्य् अथाभिमन्त्रयेत ॥

इत एव प्रथमं जज्ञे अग्निर् एभ्यो योनिभ्यो अधि जातवेदाः ।

स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा च देवेभ्यो हव्या वहतु प्रजानन् ॥

इत्य् एते वा एतस्य योनयः स्वेभ्य एवैनं योनिभ्यो ऽधि प्रजनयति ॥

इषे राये रमस्व सहसे द्युम्नायोर्जे ऽपत्याय ॥

इत्य् एतान्य् एवावरुन्द्धे ऽथो रमयत्य् एवैनम् ॥

सम्राड् असि स्वराड् असि सुषदा सीद ॥

इति सुषदैवैनं सादयति ॥

सारस्वतौ त्वोत्सौ प्रावताम् ॥

इत्य् ऋक्सामे वै सारस्वता उत्सौ ताभ्याम् एवैनं प्रावति ताभ्यां समर्धयत्य् अग्नये ज्योतिष्मते ऽष्टाकपालं निर्वपेद् वारुणं यवमयं चरुं यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछेत् तमो वा एतस्य यज्ञं युवते यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछति यद् अग्नये ज्योतिष्मते ज्योतिषैवास्य यज्ञं समर्धयति वारुणी रात्रिर् यद् वारुणो वरुणाद् एवास्याधि यज्ञं स्पृणोति यस्याहुते ऽग्निहोत्रे ऽपरो ऽग्निर् अनुगछेत् तत एव प्राञ्चम् उद्धृत्यान्ववसायाग्निहोत्रं जुहुयाद् अथाभिमन्त्रयेत ॥

भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति समनसा एवैनौ करोति यजमानस्याहिंसायय् एतौ वै तौ या आहुर् ब्रह्मवादिनो नैकः कुब्जिर् द्वौ व्याघ्रौ विव्याचेत्य् अग्नये ऽग्निमते ऽष्टाकपालं निर्वपेद् यस्याग्ना अग्निम् अभ्युद्धरेयुर् देवताभ्यो वा एष समदं करोति यस्याग्ना अग्निम् अभ्युद्धरन्ति यद् अग्नये ऽग्निमते देवता एवास्मै भूयसीर् जनयति वसीयान् भवति

॥१.८.८॥

अन्व् अग्निर् उषसाम् अग्रम् अक्शद् अन्व् अहानि प्रथमो जातवेदाः ।

अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी आततन्थ ॥

इत्य् अभिमन्त्रयेत यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् अनुक्शायैवैनत् पुनर् अवरुन्द्धे तद् आहुर् अमुं वा एष लोकं समारोहयति सह प्रजया पशुभिश् च यजमानस्य तस्माद् उत बहुर् आहिताग्निर् अपशुर् भवतीति तद् उपस्थेयः ॥

इहैव क्षेम्य एधि मा प्रहासीर् माम् अमुम् आमुष्यायणम् ॥ इत्य् अस्मिन् वावैनम् एतं लोके दाधार सह प्रजया पशुभिश् च यजमानो वसीयान् भवति मैत्रं चरुं निर्वपेत् सौर्यम् एककपालं यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियान् मित्रो वा एतस्य यज्ञं युवते यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदेति मित्रम् अहर् यन् मैत्रो मित्राद् एवास्याधि यज्ञं स्पृणोत्य् अथ यत् सौर्यो ऽमुनैवास्यादित्येन पुरस्ताद् यज्ञं समर्धयति यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् अग्निं समाधाय वाचं यत्वा दम्पती सर्वाह्णम् उपासीयातां द्वयोर् गवोः सायम् अग्निहोत्रं जुहुयाद् उभयम् एवास्मै भागधेयं प्रयछति सायन्तनं च प्रातस्तनं च यद् वै पुरुषस्यामयत्य् अश्नाती३ नाश्नाती३ इति वै तम् आहुर् नाश्नातीति चेद् आहुस् तद् वाव सो ऽमृतेति यन् नाश्नीतो न व्याहरतो ऽन्व् एवैनम् अम्रातां तपसैनं पुनर् अवरुन्धाते अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् अग्निर् वै देवानां व्रतपतिस् तम् एव भागधेयेनोपासरत् स एनं व्रतम् आलम्भयति यस्याग्निर् अपक्षायेद् यत्रैवैनम् अनुपरागछेत् तत् समाधायान्ववसायाग्निहोत्रं जुहुयाद् एति वा एतद् अग्निर् यद् अपक्षायति यत्रैवैनम् अनुपरागछति तत एनं पुनर् अवरुन्द्धे ऽग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्याग्निर् अपक्षायेद् बहिष्पथं वा एष एति यस्याग्निर् अपक्षायत्य् अग्निर् वै देवानां पथिकृत् तम् एव भागधेयेनोपासरत् स एनं पन्थाम् अपिनयत्य् अनड्वान् दक्षिणा स हि पन्थाम् अपिवहत्य् अग्नये शुचये ऽष्टाकपालं निर्वपेद् यस्याभ्यादाव्येन संसृज्येताशुचितर इव वा एष यद् अभ्यादाव्यो यद् अग्नये शुचये शुचिम् एवैनं मेध्यं करोत्य् अग्नये क्षामवते ऽष्टाकपालं निर्वपेद् यस्याहिताग्नेः सतो ऽग्निर् गृहान् दहेद् अग्निर् वा एतस्य क्षामो गृहान् अभ्युच्यति स दहत्य् एवापरं यद् अग्नये क्षामवते यैवास्य क्षामा प्रिया तनूस् ताम् एवास्य भागधेयेन शमयत्य् अदाहुको ऽस्यापरम् अग्निर् गृहान् भवति यस्याग्निर् अनुगछेत् तेभ्य एवावक्षाणेभ्यो ऽधि मन्थितव्यस् तद् एनं स्वाद् योनेः प्रजनयति यदि न तादृशानि वावक्षाणानि स्युर् भस्मनारणी संस्पृश्य मन्थितव्यः स्वाद् एवैनं योनेः प्रजनयत्य् अग्नये तपस्वते जनद्वते पावकवते ऽष्टाकपालं निर्वपेद् यस्याग्निर् अनुगछेन् न हि वा एतस्मा अपिधीयते ऽथैषो ऽनुगछत्य् ओषधयो वै पावका ओषधीर् एवास्मै पावका भागधेयम् अपिदधाति प्रजननाय ॥

त्रयस्त्रिंशत् तन्तवो यं वितन्वत इमं च यज्ञं सुधया ददन्ते ।

तेभिश् छिद्रम् अपिदध्मो यद् अत्र स्वाहा यज्ञो अप्येतु देवान् ॥

इति जुहुयाद् यद्य् अनो वा रथो वान्तरा वियायाद् एवावन्तो वै यज्ञस्य तन्तवो देवता वा एतास् तान् वा एतत् समवृक्षत् ताः सन्दधात्य् एतद् ध स्म वा आहुर् दाक्षायणास् तन्तून्त् समवृक्षद् गाम् अन्वत्यावर्तयेति गौर् हि यज्ञिया मेध्येदं विष्णुर् विचक्रमा इति पदं योपयति विष्णोः स्विद् एव यज्ञस्य विक्रान्तम् अकर् अपो ऽन्वतिषिञ्चति शान्त्यै

॥१.८.९॥

रौद्रं गवि सद् वायव्यम् उपावसृष्टम् आश्विनं दुह्यमानं सौम्यं दुग्धं वारुणम् अधिश्रितं मैत्रं शरोगृहीतं मारुतं बिन्दुमत् पौष्णम् उदन्तं सारस्वतं विष्यण्णं वैष्णवं प्रतिनीयमानं स्वर्ग्यम् उद्वासितं त्वष्टुर् उन्नीयमानं धातुर् उन्नीतं वैश्वकर्मणम् उद्यतं सावित्रं प्रणीयमानं द्यावापृथिवीयं प्रह्रियमाणम् ऐन्द्राग्नम् उपसन्नं प्राजापत्यं समिधि वैश्वदेवं हुतम्

॥१.८.१०॥