अध्ययनम्
- अनुक्रमणिका
- मूलम्
फलश्रुतिः (पावमानी)
पावमानीः स्वस्त्ययनीर्याभिर्गच्छति नान्दनम् । पृथिव्यां यानि पुण्यानि तानि प्राप्नोति मानवः ॥ १६ ॥
॥१॥पावमानीः पितॄन् देवान् ध्यायेद्यश्च सरस्वतीम् । तस्य क्षीरं सर्पिर्मधूदकं च न दुर्लभम् ॥ १७ ॥
॥२॥पावमानं परं ब्रह्म शुक्रं ज्योतिः सनातनम् । तस्य क्षीरं सर्पिर्मधूदकं च न दुर्लभम् ॥ १८ ॥
॥३॥पावमानं परं ब्रह्म ये पठन्ति मनीषिणः । सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥ १९ ॥
॥४॥दशोत्तराण्यृचांश्चैव पावमानीः शतानि षट् । एतज्जुह्वन् जपेन्मन्त्रं घोरमृत्युभयं हरेत् ॥ २० ॥
॥५॥एतत् पुण्यं पापहरं रोगमृत्युभयापहम् । पठतां शृण्वतां चैव ददाति परमां गतिम् ॥ २१ ॥
॥६॥