अध्ययनम्
- अनुक्रमणिका
- अन्यत्र सङ्ग्रहे
- मूलम्
९ कुसीदी काण्व:। इन्द्र: । गायत्री ।
आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥8.81.1॥
ā tū na̍ indra kṣu̱manta̍ṃ ci̱traṃ grā̱bhaṃ saṃ gṛ̍bhāya | ma̱hā̱ha̱stī dakṣi̍ṇena
१ कश्यपो मारीचः। अग्निः, जातवेदा अग्निर्वा। त्रिष्टुप्।
जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेद॑: ।
स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥1.99.1॥
jā̱tave̍dase sunavāma̱ soma̍marātīya̱to ni da̍hāti̱ veda̍: |
sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̍ nā̱veva̱ sindhu̍ṃ duri̱tātya̱gniḥ
८ वामदेवो गौतमः। १-३ क्षेत्रपतिः, ४ शुनः, ५, ८ शुनासीरौ, ६-७ सीता। अनुष्टुप्, ५ पुर उष्णिक्, २, ३, ८ त्रिष्टुप्।
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि ।
गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥4.57.1॥
kṣetra̍sya̱ pati̍nā va̱yaṃ hi̱tene̍va jayāmasi |
gāmaśva̍ṃ poṣayi̱tnvā sa no̍ mṛl̤ātī̱dṛśe̍
८ त्रित आप्त्य: । पवमान: सोम: । उष्णिक् ।
क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् । विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ॥9.102.1॥
krā̱ṇā śiśu̍rma̱hīnā̍ṃ hi̱nvannṛ̱tasya̱ dīdhi̍tim | viśvā̱ pari̍ pri̱yā bhu̍va̱dadha̍ dvi̱tā