अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
मेधासूक्तम् (खिलम्)
मेधां मह्यमङ्गिरसो मेधां सप्त ऋषयो ददुः । मेधामिन्द्रश्चाग्निश्च मेधां धाता ददातु ते ॥ १ ॥
॥१॥मेधां ते वरुणो राजा मेधां देवी सरस्वती । मेधां ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥ २ ॥
॥२॥या मेधा अप्सरस्सु गन्धर्वेषु च यन्मनः । दैवी या मानुषी मेधा सा मामा विशतादिमाम् ॥ ३ ॥
॥३॥यन्मे नोक्तं तद्देवतां शकेयं यदनुब्रुवै । निशामतं निशामहै मयि व्रतं सह व्रतेषु भूयासं ब्रह्मणा सं गमेमहि ॥ ४ ॥
॥४॥शरीरं मे विचक्षणं वाङ्मे मधुमद्दुहाम् । अवृद्धमहमसौ सूर्यो ब्रह्माणी स्थः श्रुतं मे माप्रहासीः ॥ ५ ॥
॥५॥मेधां देवीं मनसा रेजमानां गन्धर्वजुष्टां प्रति नो जुषस्व । मह्यं मेधां वद मह्यं श्रियं वद मेधावी भूयासमजराजरिष्णु ॥ ६ ॥
॥६॥९ मेधातिथिःकाण्वः। १-३ ब्रह्मणस्पतिः, ४ इन्द्रो ब्रह्मणस्पतिः सोमश्च, ५ ब्रह्मणस्पतिः सोम इंद्रो, दक्षिणा च, ६-८ सदसस्पतिः, ९ सदसस्पतिर्नराशंसो वा। गायत्री।
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒निं मे॒धाम॑यासिषम् ॥1.18.6॥
sada̍sa̱spati̱madbhu̍taṃ pri̱yamindra̍sya̱ kāmya̍m | sa̱niṃ me̱dhāma̍yāsiṣam
मेधासूक्तम् (खिलम्)
यां मेधां देवगणाः पितरश्चोपासते । तया मामद्य मेधयाऽग्ने मेधाविनं कुरु ॥ ८ ॥
॥८॥मेधाव्यहं सुमनाः सुप्रतीकः श्रद्धामनाः सत्यमतिः सुशेवः । महायशा धारयिष्णुः प्रवक्ता भूयासमस्मै शर्या प्रयोगे ॥ ९ ॥
॥९॥