skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

मेधासूक्तम्

Medhā Sūktam from the Ṛgveda (Medha Suktam), with svara. IAST

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

मेधासूक्तम् (खिलम्)

मेधां मह्यमङ्गिरसो मेधां सप्त ऋषयो ददुः । मेधामिन्द्रश्चाग्निश्च मेधां धाता ददातु ते ॥ १ ॥

॥१॥

मेधां ते वरुणो राजा मेधां देवी सरस्वती । मेधां ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥ २ ॥

॥२॥

या मेधा अप्सरस्सु गन्धर्वेषु च यन्मनः । दैवी या मानुषी मेधा सा मामा विशतादिमाम् ॥ ३ ॥

॥३॥

यन्मे नोक्तं तद्देवतां शकेयं यदनुब्रुवै । निशामतं निशामहै मयि व्रतं सह व्रतेषु भूयासं ब्रह्मणा सं गमेमहि ॥ ४ ॥

॥४॥

शरीरं मे विचक्षणं वाङ्मे मधुमद्दुहाम् । अवृद्धमहमसौ सूर्यो ब्रह्माणी स्थः श्रुतं मे माप्रहासीः ॥ ५ ॥

॥५॥

मेधां देवीं मनसा रेजमानां गन्धर्वजुष्टां प्रति नो जुषस्व । मह्यं मेधां वद मह्यं श्रियं वद मेधावी भूयासमजराजरिष्णु ॥ ६ ॥

॥६॥

९ मेधातिथिःकाण्वः। १-३ ब्रह्मणस्पतिः, ४ इन्द्रो ब्रह्मणस्पतिः सोमश्च, ५ ब्रह्मणस्पतिः सोम इंद्रो, दक्षिणा च, ६-८ सदसस्पतिः, ९ सदसस्पतिर्नराशंसो वा। गायत्री।

सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒निं मे॒धाम॑यासिषम्1.18.6

sada̍sa̱spati̱madbhu̍taṃ pri̱yamindra̍sya̱ kāmya̍m | sa̱niṃ me̱dhāma̍yāsiṣam

मेधासूक्तम् (खिलम्)

यां मेधां देवगणाः पितरश्चोपासते । तया मामद्य मेधयाऽग्ने मेधाविनं कुरु ॥ ८ ॥

॥८॥

मेधाव्यहं सुमनाः सुप्रतीकः श्रद्धामनाः सत्यमतिः सुशेवः । महायशा धारयिष्णुः प्रवक्ता भूयासमस्मै शर्या प्रयोगे ॥ ९ ॥

॥९॥