skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्वस्ति ऋचः

स्वस्ति ऋचः. Also called svasti richah, Svasti ṛcaḥ. Svara-marked text on Vaidhika Dharma. IAST

MD
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

९ गोतमो राहूगणः। विश्वेदेवाः,। गायत्री, ९ अनुष्टुप्।

शं नो॑ मि॒त्रः शं वरु॑ण॒: शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पति॒: शं नो॒ विष्णु॑रुरुक्र॒मः1.90.9

śaṃ no̍ mi̱traḥ śaṃ varu̍ṇa̱: śaṃ no̍ bhavatvarya̱mā | śaṃ na̱ indro̱ bṛha̱spati̱: śaṃ no̱ viṣṇu̍rurukra̱maḥ

१० गोतमो राहूगणः। विश्वेदेवाः, (१-२, ८-९ देवाः, १० अदितिः)। जगती, ६ विराट्-स्थाना, ८-१० त्रिष्टुप्।

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु1.89.6

sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |

sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ sva̱sti no̱ bṛha̱spati̍rdadhātu

१३ बार्हस्पत्यो भरद्वाज: । इन्द्र: । त्रिष्टुप् , ७ विराट् ।

प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।

प्राव॒न्नमीं॑ सा॒प्यं स॒सन्तं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति6.20.6

pra śye̱no na ma̍di̱rama̱ṃśuma̍smai̱ śiro̍ dā̱sasya̱ namu̍cermathā̱yan |

prāva̱nnamī̍ṃ sā̱pyaṃ sa̱santa̍ṃ pṛ̱ṇagrā̱yā sami̱ṣā saṃ sva̱sti

१० बन्धु श्रुतबन्धुर्विप्रबन्धुर्गौपायनाः।१-३ निर्ऋतिः,४ निर्ऋतिः सोमश्च, ५-६असुनीतिः, ७ पृथिवी-द्वयन्तरिक्ष-सोम-पूष-पथ्या-स्वस्तयः,८-१० द्यावापृथिवी, १० (पूर्वार्धस्य) इन्द्र- द्यावापृथिव्यः। त्रिष्टुप् , ८ पंक्तिः,९ महापंक्तिः, १० पंक्त्युत्तरा।

असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म् ।

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति10.59.6

asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱: puna̍: prā̱ṇami̱ha no̍ dhehi̱ bhoga̍m |

jyokpa̍śyema̱ sūrya̍mu̱ccara̍nta̱manu̍mate mṛ̱l̤ayā̍ naḥ sva̱sti