skipLink.label

रात्रि सूक्तम्

८ कुशिकः सौभरः, रात्रिर्वा भारद्वाजी। रात्रिः। गायत्री।

रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१क्षभि॑: । विश्वा॒ अधि॒ श्रियो॑ऽधित10.127.1

ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१द्वत॑: । ज्योति॑षा बाधते॒ तम॑:10.127.2

निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती । अपेदु॑ हासते॒ तम॑:10.127.3

सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं वय॑:10.127.4

नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिण॑: । नि श्ये॒नास॑श्चिद॒र्थिन॑:10.127.5

या॒वया॑ वृ॒क्यं१ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये । अथा॑ नः सु॒तरा॑ भव10.127.6

उप॑ मा॒ पेपि॑श॒त्तम॑: कृ॒ष्णं व्य॑क्तमस्थित । उष॑ ऋ॒णेव॑ यातय10.127.7

उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑10.127.8

परिशिष्टम्

आ रा᳚त्रि॒ पार्थि॑वं॒ रजः॑ पि॒तरः॑ प्रायु॒ धाम॑भिः । दि॒वः सताम्᳚सि बृह॒ती वि ति॑ष्ठ स॒ आ त्वे॒षं व॑र्तते तमः॑

॥१॥

ये ते᳚ रात्रि नृ॒चक्ष॑सो यु॒क्तासो᳚ न॒वतिर्नव॑ । अशीतिः॑ संत्व॒ष्टा॒ उ॒तो ते᳚ सप्त॒ सप्त॑तीः

॥२॥

रात्रीं॒ प्रप॑त्ये ज॒ननीं᳚ स॒र्वभू᳚तनिवेश॑नीम् । भ॒द्रां भ॒गव॑तीं कृ॒ष्णां॒ वि॒श्वस्य॑ जग॒तो नि॑शाम्

॥३॥

स॒म्वे॒शि॒नीं᳚ सं॒य॒मि॒नीं॒ ग्र॒हन॑क्षत्र॒मालि॑नीम् । प्रप॑न्नो॒ऽहं शि॑वां रा॒त्रीं॒ भ॒द्रे पा᳚रम॒शीम॑हि (भ॒द्रे पारम॒शीम॒ह्यों नमः॑)

॥४॥

स्तो॒ष्या॒मि॒ प्रयतो॒ देवीं᳚ श॒रण्यां᳚ बह्वृ॒चप्रि॑याम् । स॒ह॒स्र॒संहि॑तां दु॒र्गाम् जा॒तवे᳚दसे सुनवाम॒ सोमम्᳚

॥५॥

शा॒न्त्य॒र्थं॒ तद् द्वि॒जा॒तीना᳚ऋ॒षिभिः॑ सोम॒पाश्रि॑ताः । ऋक्वे᳚दे॒ त्वं संमूत्प॒नाऽरा᳚त्रीय॒तो नि द॑हाति॒ वेदः॑

॥६॥

ये त्वां᳚ दे॒वि प्र॒ पत्य᳚न्ति ब्रा॒ह्मणा᳚ हव्य॒वाह॑नीम् । अ॒वि॒त्या॒ बहु॑वित्या॒ वा॒ सनः॑ पर्ष॒दति॑ दुर्गाणि॒ विश्वा᳚

॥७॥

ये अ॒क्निवर्᳚णां शु॑भां सौ॒म्यां की॒र्तयि॑ष्यन्ति॒ ये द्वि॑जाः। ता॒म्स्ता॒र॒य॒ति॒ दुर्गा᳚णि ना॒वेव सिन्धुं᳚ दुरि॒तात्य॒ग्निः

॥८॥

दुर्गे᳚षु विषमे घोरे᳚ सङ्ग्रामे᳚ रिपुसङ्क॑टे । अग्निचोरनि॑पातेषु दुष्ठग्र॑हनिवारिणि दुष्ठग्र॑हनिवारिण्योन्नमः॑

॥९॥

दुर्गेषु॒ विष्॑मेषु॒ त्वं᳚ स॒ङ्ग्रामे᳚षु व॒नेषु॑ च । मो॒ह॒यि॒त्वा 'प्र॑पत्य॒म्न्ते ते॒षां मे᳚ अभ॒यं कु॑रु । ते॒षां मे अभ॒यं कु॑रुवोन्नमः॑

॥१०॥

के॒शि॒नीं᳚ सर्व॑भूता॒नां॒ प॒ञ्चमी᳚ति च॒ नाम॑ च । सा॒ मां॒ स॒मा॒ नि॒शा॒ देवी᳚ स॒र्वतः॑ परि॒ रक्ष॑तु । स॒र्वतः॑ परि॒ रक्ष॒त्वोन्नमः॑

॥११॥

ताम॒ग्निव᳚र्णां॒ तपसा ज्वल॒म्तीं वै᳚रोच॒नीं कर्᳚मफ॒लेषु जुष्टां᳚ । दु॒र्गां॒ दे॒वीं शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः । सु॒तर॑सि तरसे॒ नमः॑

॥१२॥

दुर्गा᳚ दुर्॒गेषु॑ स्थाने॒षु शं॒ नो दे᳚वीर॒भि॑ष्टये । य इ॒मं दु॒र्गास्त॑वं पु॒ण्यं रा॒त्रौरा᳚त्रौ स॒दा प॑ठेत्

॥१३॥

रात्रिः कुशि॑कसो॒भ॒रो॒ रात्रि॒र्वा भा᳚रद्वा॒जी रात्रि॒स्तवो᳚ गाय॒त्री । रातरी᳚सू॒क्तं जपे॑न्नि॒त्यं॒ त॒त्काल॑मुपप॒द्य॑ते

॥१४॥

उलू᳚कयातुं शीशी॒लूक॑यातुं ज॒हि श्वया᳚तुमु॒त कोक॑यातुम् । सु॒प॒र्णया᳚तुमुत गृ॑ध्रयातुं दृ॒षदे᳚व प्रमृ॑ण॒ रक्ष॑ इन्द्र

॥१५॥

पि॒शङ्ग॑भृषटि॒मम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण । सर्वं॒ रक्षो॒ निबर्᳚हय

॥१६॥

हि॒मस्य॑ त्वा ज॒रायु॑णा शाले॒ परि᳚ व्ययामसि । (उत॒ ह्र॒दो हि॑ नो धियो॒ग्निर्द॑दातु भेष॒जम्)

॥१७॥

शीशी᳚तह्र॒दो हि॑ नो धियो॒ग्निर्द॑दातु भेष॒जम् । अन्ति॒काम॒ग्निम॑जनय॑ दूर्वा᳚दः॑ शी॒शीलाग॑मत्

॥१८॥

अ॒जातपुत्रप॒क्षाया᳚ हृ॒दयं॒ मम॑ दूयते । विपु॑लं॒ वनं᳚ ब॒ह्वाका᳚शं चर॑ जातवेदः॒ कामा᳚य

॥१९॥

मां॒ च॒ रक्ष॒ पुत्रां᳚श्च शर॑णमभू॒त् तव॑ । पि॒~ण्गाक्ष॒ लोहि॒तग्री᳚व कृ॒ष्णव᳚र्ण न॒मोस्तु॑ ते

॥२०॥

अ॒स्मान्नि॒बर्ह॑रस्येनां॒ सा॒गर॑स्योर्म॒यो य॑था । इन्द्रः॑ क्ष॒त्रं द॑दातु॒ वरू॑णम॒भि षिम्᳚चतु

॥२१॥

श॒त्र॒वो॒ निध॑नं या॒न्तु॒ ज॒य त्वं᳚ ब्रह्म॒तेज॑सा

॥२२॥

क॒पि॒ल॒ज॒टीं᳚ सर्व॑भक्षं॒ चा॒ग्निं प्र॑त्यक्ष॒ दैव॑तम्

॥२३॥

व॒रु॒णं॒ च॒ व॒शा॒म्यग्रे᳚ म॒म पु॑त्रांश्च॒ रक्ष॑तु (म॒म पु॑त्रांश्च॒ रक्ष॒त्वोन्नमः॑)

॥२४॥

साग्रं᳚ व॒र्षश॒तं जी᳚व पि॒ब खा᳚द च॒ मोद॑ च

॥२५॥

दु॒:खि॒तां॒श्च द्वि॑जांश्चै॒व प्र॒जां च॑ पशु॒ पाल॑य

॥२६॥

याव॑दा॒दित्यस्त॑पति॒ याव॑द्भ्राजति॒ चन्द्र॑माः । या॒व॒द्वा॒युः प्लवा᳚यति॒ ताव॑ज्जीव॒ जया᳚ जय

॥२७॥

येन॑ के॒न प्र॑कारे॒ण को॒ हि ना᳚म नु॒ जीव॑ति । परे᳚षा॒मुप॑कारार्थं य॒ज्जीव॑ति स॒ जीव॑ति । ए॒तां॒ वै॒श्वानरीं᳚ स॒र्वदे᳚वान्न॒मोस्तु॑ ते

॥२८॥

न चो॑र॒भयं॒ न च॑ सर्प॒भयं॒ न च॑ व्याघ्र॒भयं॒ न च॑ मृत्यु॒भयम्᳚ । य॒स्या॒प॒मृ॒त्युर्न च मृ॒त्युः सर्वम्᳚ लभते॒ सर्वं᳚ जयते

॥२९॥