skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

नक्षत्रसूक्तम् (शौनकीय प्रमाणः)

नक्षत्रसूक्तम् (शौनकीय प्रमाणः). Also called nakshatra suktam, nakshatra, Nakṣatrasūktam (Śaunakīya pramāṇaḥ). Svara-marked text on Vaidhika Dharma. IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्

कृत्तिका ॥ अग्निः ॥ विरूप आङ्गिरसः । अग्निः । गायत्री ।

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पां रेतां॑सि जिन्वति8.44.16

a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pṛthi̱vyā a̱yam | a̱pāṃ retā̍ṃsi jinvati

रोहिणी ॥ प्रजापतिः ॥ हिरण्यगर्भः प्राजापत्यः । कः । त्रिष्टुप् ।

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।

यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम्10.121.10

prajā̍pate̱ na tvade̱tānya̱nyo viśvā̍ jā̱tāni̱ pari̱ tā ba̍bhūva |

yatkā̍māste juhu̱mastanno̍ astu va̱yaṃ syā̍ma̱ pata̍yo rayī̱ṇām

मृगशिरः ॥ सोमः ॥ गोतमो राहूगणः । सोमः । गायत्री ।

त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतु॑:1.91.5

tvaṃ so̍māsi̱ satpa̍ti̱stvaṃ rājo̱ta vṛ̍tra̱hā | tvaṃ bha̱dro a̍si̱ kratu̍:

आर्द्रा ॥ रुद्रः ॥ कक्षीवान् दैर्घतमस औशिजः । विश्वे देवाः (रुद्रः) । त्रिष्टुप् ।

प्र व॒: पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ह्लुषे॑ भरध्वम् ।

दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः1.122.1

pra va̱: pānta̍ṃ raghumanya̱vo'ndho̍ ya̱jñaṃ ru̱drāya̍ mī̱hluṣe̍ bharadhvam |

di̱vo a̍sto̱ṣyasu̍rasya vī̱rairi̍ṣu̱dhyeva̍ ma̱ruto̱ roda̍syoḥ

पुनर्वसू ॥ अदितिः ॥ गोतमो राहूगणः । अदितिः । त्रिष्टुप् ।

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।

विश्वे॑ दे॒वा अदि॑ति॒: पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्1.89.10

adi̍ti̱rdyauradi̍tira̱ntari̍kṣa̱madi̍tirmā̱tā sa pi̱tā sa pu̱traḥ |

viśve̍ de̱vā adi̍ti̱: pañca̱ janā̱ adi̍tirjā̱tamadi̍ti̱rjani̍tvam

पुष्यः ॥ बृहस्पतिः ॥ गृत्समदो भार्गवः शौनकः । बृहस्पतिः । त्रिष्टुप् ।

बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।

यद् दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम्2.23.15

bṛha̍spate̱ ati̱ yada̱ryo arhā̍d dyu̱madvi̱bhāti̱ kratu̍ma̱jjane̍ṣu |

yad dī̱daya̱cchava̍sa ṛtaprajāta̱ tada̱smāsu̱ dravi̍ṇaṃ dhehi ci̱tram

आश्लेषा ॥ सर्पः ॥ मधुच्छन्दा वैश्वामित्रः । इन्द्रः (सर्पः) । गायत्री ।

के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑। समु॒षद्भि॑रजायथाः1.6.3

ke̱tuṃ kṛ̱ṇvanna̍ke̱tave̱ peśo̍ maryā ape̱śase̍| samu̱ṣadbhi̍rajāyathāḥ

मघा ॥ पितरः ॥ शङ्खो यामायनः । पितरः । त्रिष्टुप् ।

आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑: ।

ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः10.15.3

āhaṃ pi̱tṝntsu̍vi̱datrā̍m̐ avitsi̱ napā̍taṃ ca vi̱krama̍ṇaṃ ca̱ viṣṇo̍: |

ba̱rhi̱ṣado̱ ye sva̱dhayā̍ su̱tasya̱ bhaja̍nta pi̱tvasta i̱hāga̍miṣṭhāḥ

पूर्वफल्गुनी ॥ अर्यमा ॥ सावित्री सूर्या ऋषिका । अर्यमा । त्रिष्टुप् ।

अ॒नृ॒क्ष॒रा ऋ॒जव॑: सन्तु॒ पन्था॒ येभि॒: सखा॑यो॒ यन्ति॑ नो वरे॒यम् ।

सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः10.85.23

a̱nṛ̱kṣa̱rā ṛ̱java̍: santu̱ panthā̱ yebhi̱: sakhā̍yo̱ yanti̍ no vare̱yam |

sama̍rya̱mā saṃ bhago̍ no ninīyā̱tsaṃ jā̍spa̱tyaṃ su̱yama̍mastu devāḥ

उत्तरफल्गुनी ॥ भगः ॥ मैत्रावरुणिर्वसिष्ठः । विश्वे देवाः (भगः) । त्रिष्टुप् ।

शं नो॒ भग॒: शमु॑ न॒: शंसो॑ अस्तु॒ शं न॒: पुरं॑धि॒: शमु॑ सन्तु॒ राय॑: ।

शं न॑: स॒त्यस्य॑ सु॒यम॑स्य॒ शंस॒: शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु7.35.2

śaṃ no̱ bhaga̱: śamu̍ na̱: śaṃso̍ astu̱ śaṃ na̱: pura̍ṃdhi̱: śamu̍ santu̱ rāya̍: |

śaṃ na̍: sa̱tyasya̍ su̱yama̍sya̱ śaṃsa̱: śaṃ no̍ arya̱mā pu̍rujā̱to a̍stu

हस्तः ॥ सविता ॥ लुशो धानाकः । विश्वे देवाः (सविता) । त्रिष्टुप् ।

स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् ।

स॒वि॒ता न॑: सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑:10.36.14

sa̱vi̱tā pa̱ścātā̍tsavi̱tā pu̱rastā̍tsavi̱totta̱rāttā̍tsavi̱tādha̱rāttā̍t |

sa̱vi̱tā na̍: suvatu sa̱rvatā̍tiṃ savi̱tā no̍ rāsatāṃ dī̱rghamāyu̍:

चित्रा ॥ त्वष्टा ॥ वसुकर्णो वासुक्रः । विश्वे देवाः (त्वष्टा) । जगती ।

त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।

बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे10.65.10

tvaṣṭā̍raṃ vā̱yumṛ̍bhavo̱ ya oha̍te̱ daivyā̱ hotā̍rā u̱ṣasa̍ṃ sva̱staye̍ |

bṛha̱spati̍ṃ vṛtrakhā̱daṃ su̍me̱dhasa̍mindri̱yaṃ soma̍ṃ dhana̱sā u̍ īmahe

स्वाति ॥ वायुः ॥ मधुच्छन्दा वैश्वामित्रः । वायुः । गायत्री ।

वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तार॑:। सु॒तसो॑मा अह॒र्विद॑:1.2.2

vāya̍ u̱kthebhi̍rjarante̱ tvāmacchā̍ jari̱tāra̍:| su̱taso̍mā aha̱rvida̍:

विशाखा ॥ इन्द्राग्नी ॥ मैत्रावरुणिर्वसिष्ठः । इन्द्राग्नी । त्रिष्टुप् ।

गी॒र्भिर्विप्र॒: प्रम॑तिमि॒च्छमा॑न॒ ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाज॑म् ।

इन्द्रा॑ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः7.93.4

gī̱rbhirvipra̱: prama̍timi̱cchamā̍na̱ īṭṭe̍ ra̱yiṃ ya̱śasa̍ṃ pūrva̱bhāja̍m |

indrā̍gnī vṛtrahaṇā suvajrā̱ pra no̱ navye̍bhistirataṃ de̱ṣṇaiḥ

अनूराधा ॥ मित्रः ॥ मेधातिथिः काण्वः । मित्रावरुणौ (मित्रः) । गायत्री ।

मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये । ज॒ज्ञा॒ना पू॒तद॑क्षसा1.23.4

mi̱traṃ va̱yaṃ ha̍vāmahe̱ varu̍ṇa̱ṃ soma̍pītaye | ja̱jñā̱nā pū̱tada̍kṣasā

ज्येष्ठा ॥ इन्द्रः ॥ जय ऐन्द्रः । इन्द्रः । त्रिष्टुप् ।

प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।

इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पति॒: सिन्धू॑नामसि रे॒वती॑नाम्10.180.1

pra sa̍sāhiṣe puruhūta̱ śatrū̱ñjyeṣṭha̍ste̱ śuṣma̍ i̱ha rā̱tira̍stu |

indrā bha̍ra̱ dakṣi̍ṇenā̱ vasū̍ni̱ pati̱: sindhū̍nāmasi re̱vatī̍nām

मूलम् ॥ महापितरः ॥ आङ्गिरसो हिविधानः । अग्निः (महापिता) । जगती ।

उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति ।

विव॑क्ति॒ वह्नि॑: स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती10.11.6

udī̍raya pi̱tarā̍ jā̱ra ā bhaga̱miya̍kṣati harya̱to hṛ̱tta i̍ṣyati |

viva̍kti̱ vahni̍: svapa̱syate̍ ma̱khasta̍vi̱ṣyate̱ asu̍ro̱ vepa̍te ma̱tī

पूर्वाषाढा ॥ आपः ॥ जमदग्निः । विश्वे देवाः (आपः) । अनुष्टुप् ।

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आप॒: सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम्10.137.6

āpa̱ idvā u̍ bheṣa̱jīrāpo̍ amīva̱cāta̍nīḥ | āpa̱: sarva̍sya bheṣa̱jīstāste̍ kṛṇvantu bheṣa̱jam

उत्तराषाढा ॥ विश्वेदेवाः ॥ गृत्समदो भार्गवः शौनकः । विश्वे देवाः । अनुष्टुप् ।

विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म् । एदं ब॒र्हिर्नि षी॑दत2.41.13

viśve̍ devāsa̱ ā ga̍ta śṛṇu̱tā ma̍ i̱maṃ hava̍m | edaṃ ba̱rhirni ṣī̍data

अभिजित् ॥ ब्रह्मा ॥ । ब्रह्मा । ।

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥

॥१॥

श्रवणम् ॥ विष्णुः ॥ मेधातिथिः काण्वः । विष्णुः । गायत्री ।

तद् विप्रा॑सो विप॒न्यवो॑ जागृ॒वांस॒: समि॑न्धते । विष्णो॒र्यत् प॑र॒मं प॒दम्1.22.21

tad viprā̍so vipa̱nyavo̍ jāgṛ̱vāṃsa̱: sami̍ndhate | viṣṇo̱ryat pa̍ra̱maṃ pa̱dam

धनिष्ठा ॥ वसवः ॥ अवत्सारः काश्यपः । पवमानः सोमः (वसुः) । गायत्री ।

उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः । तर॒त्स म॒न्दी धा॑वति9.58.2

u̱srā ve̍da̱ vasū̍nā̱ṃ marta̍sya de̱vyava̍saḥ | tara̱tsa ma̱ndī dhā̍vati

शतभिषक् ॥ वरुणः ॥ शुनःशेपः । वरुणः । गायत्री / त्रिष्टुप् ।

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के1.25.19

i̱maṃ me̍ varuṇa śrudhī̱ hava̍ma̱dyā ca̍ mṛl̤aya | tvāma̍va̱syurā ca̍ke

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स् तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।

अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयु॒: प्र मो॑षीः1.24.11

tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱s tadā śā̍ste̱ yaja̍māno ha̱virbhi̍: |

ahe̍l̤amāno varuṇe̱ha bo̱dhyuru̍śaṃsa̱ mā na̱ āyu̱: pra mo̍ṣīḥ

पूर्वप्रोष्ठपदा ॥ अजैकपात् ॥ मैत्रावरुणिर्वसिष्ठः । विश्वे देवाः (अजैकपात्) । त्रिष्टुप् ।

शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१: शं स॑मु॒द्रः ।

शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं न॒: पृश्नि॑र्भवतु दे॒वगो॑पा7.35.13

śaṃ no̍ a̱ja eka̍pādde̱vo a̍stu̱ śaṃ no'hi̍rbu̱dhnya1: śaṃ sa̍mu̱draḥ |

śaṃ no̍ a̱pāṃ napā̍tpe̱rura̍stu̱ śaṃ na̱: pṛśni̍rbhavatu de̱vago̍pā

उत्तरप्रोष्ठपदा ॥ अहिर्बुध्न्यः ॥ मैत्रावरुणिर्वसिष्ठः । विश्वे देवाः (अहिर्बुध्न्यः) । त्रिष्टुप् ।

शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१: शं स॑मु॒द्रः ।

शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं न॒: पृश्नि॑र्भवतु दे॒वगो॑पा7.35.13

śaṃ no̍ a̱ja eka̍pādde̱vo a̍stu̱ śaṃ no'hi̍rbu̱dhnya1: śaṃ sa̍mu̱draḥ |

śaṃ no̍ a̱pāṃ napā̍tpe̱rura̍stu̱ śaṃ na̱: pṛśni̍rbhavatu de̱vago̍pā

रेवती ॥ पूषा ॥ देवश्रवा यामायनः । पूषा । त्रिष्टुप् ।

पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वा॒: सो अ॒स्माँ अभ॑यतमेन नेषत् ।

स्व॒स्ति॒दा आघृ॑णि॒: सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन्10.17.5

pū̱ṣemā āśā̱ anu̍ veda̱ sarvā̱: so a̱smām̐ abha̍yatamena neṣat |

sva̱sti̱dā āghṛ̍ṇi̱: sarva̍vī̱ro'pra̍yucchanpu̱ra e̍tu prajā̱nan

अश्विनी ॥ अश्विनौ ॥ मधुच्छन्दा वैश्वामित्रः । अश्विनौ । गायत्री ।

अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती। पुरु॑भुजा चन॒स्यत॑म्1.3.1

aśvi̍nā̱ yajva̍rī̱riṣo̱ drava̍tpāṇī̱ śubha̍spatī| puru̍bhujā cana̱syata̍m

भरणी ॥ यमः ॥ वैवस्वतो यमः । यमः । अनुष्टुप् ।

य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वा य॑मद्दी॒र्घमायु॒: प्र जी॒वसे॑10.14.14

ya̱māya̍ ghṛ̱tava̍ddha̱virju̱hota̱ pra ca̍ tiṣṭhata | sa no̍ de̱veṣvā ya̍maddī̱rghamāyu̱: pra jī̱vase̍