skipLink.label

स्वस्ति सूक्तम्

स्वस्त्यात्रेयः ॥ विश्वे देवाः ॥ ११-१३ जगती त्रिष्टुब्वा:, १४-१५ अनुष्टुप् ॥

स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भग॑: स्व॒स्ति दे॒व्यदि॑तिरन॒र्वण॑: ।

स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ 5.51.11

स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पति॑: ।

बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवन्तु नः 5.51.12

विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ ।

दे॒वा अ॑वन्त्वृ॒भव॑: स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः 5.51.13

स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति ।

स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि 5.51.14

स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा॑विव ।

पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि 5.51.15

खिल सूक्तानि

स्व॒स्त्यय॑नं॒ तार्क्ष्य॒मरि॑ष्टनेमिं म॒हद्भू᳚तं वाय॒सं दे॒वता᳚नाम् ।

अ॒सु॒र॒घ्नमिन्द्र॑सखं स॒मत्सु॑ बृ॒हद्यशो॒ नाव॑मि॒वा रु॑हेम

॥१॥

अं॒हो॒मुच॑मा॒ङ्गि॑रसं॒ गयं᳚ च स्व॒स्त्या᳚त्रे॒यं मन॑सा च॒ तार्क्ष्य᳚म् ।

प्रय॑तपाणिः श॒रणं प्रप॑द्ये स्व॒स्ति सं᳚बा॒धेष्वभ॑यं नो अस्तु

॥२॥