अध्ययनम्
- अनुक्रमणिका
- अन्यत्र सङ्ग्रहे
- मूलम्
१३ प्रस्कण्वः काण्वः। सूर्यः (११-१३ रोगघ्न्य उपनिषदः, १३ अन्त्योऽर्धर्चः द्विषद् घ्नश्च)। गायत्री, १०-१३ अनुष्टुप्।
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥1.50.1॥
udu̱ tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: | dṛ̱śe viśvā̍ya̱ sūrya̍m
२३ गोतमो राहूगणः। सोमः। त्रिष्टुप्, ५-१६ गायत्री, १७ उष्णिक्।
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य संग॒थे ॥1.91.16॥
ā pyā̍yasva̱ same̍tu te vi̱śvata̍: soma̱ vṛṣṇya̍m | bhavā̱ vāja̍sya saṃga̱the
३० विरूप आङ्गिरस: । अग्नि: । गायत्री ।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पां रेतां॑सि जिन्वति ॥8.44.16॥
a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pṛthi̱vyā a̱yam | a̱pāṃ retā̍ṃsi jinvati
११ गाथिनो विश्वामित्रः। इन्द्रः। त्रिष्टुप्।
ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू ।
स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न् प्रजा॒नन् वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥3.35.4॥
brahma̍ṇā te brahma̱yujā̍ yunajmi̱ harī̱ sakhā̍yā sadha̱māda̍ ā̱śū |
sthi̱raṃ ratha̍ṃ su̱khami̍ndrādhi̱tiṣṭha̍n prajā̱nan vi̱dvām̐ upa̍ yāhi̱ soma̍m
१९ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। बृहस्पतिः, १, ५, ९, ११, १७, १९, ब्रह्मणस्पतिः। जगती, १५, १९ त्रिष्टुप्।
बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद् दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥2.23.15॥
bṛha̍spate̱ ati̱ yada̱ryo arhā̍d dyu̱madvi̱bhāti̱ kratu̍ma̱jjane̍ṣu |
yad dī̱daya̱cchava̍sa ṛtaprajāta̱ tada̱smāsu̱ dravi̍ṇaṃ dhehi ci̱tram
४ बार्हस्पत्यो भरद्वाज: । पूषा ।त्रिष्टुप् , २ जगती ।
शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥6.58.1॥
śu̱kraṃ te̍ a̱nyadya̍ja̱taṃ te̍ a̱nyadviṣu̍rūpe̱ aha̍nī̱ dyauri̍vāsi |
viśvā̱ hi mā̱yā ava̍si svadhāvo bha̱drā te̍ pūṣanni̱ha rā̱tira̍stu
२२ इरिम्बिष्ठिः काण्व: ।आदित्या: ;४,६,७, अदिति:; ८ अश्विनौ; ९ अग्निसूर्यानिला : । उष्णिक् ।
शम॒ग्निर॒ग्निभि॑: कर॒च्छं न॑स्तपतु॒ सूर्य॑: । शं वातो॑ वात्वर॒पा अप॒ स्रिध॑: ॥8.18.9॥
śama̱gnira̱gnibhi̍: kara̱cchaṃ na̍stapatu̱ sūrya̍: | śaṃ vāto̍ vātvara̱pā apa̱ sridha̍:
(२३) इन्द्रः, ७,१३,२३ ऐन्द्रो वृषाकपिः, २-६,९-१०,१५-१८ इन्द्राणी। इन्द्रः। पंक्तिः।
इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम् ।
न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥10.86.11॥
i̱ndrā̱ṇīmā̱su nāri̍ṣu su̱bhagā̍ma̱hama̍śravam |
na̱hya̍syā apa̱raṃ ca̱na ja̱rasā̱ mara̍te̱ pati̱rviśva̍smā̱dindra̱ utta̍raḥ
१० हिरण्यगर्भः प्राजापत्य:। कः(प्रजापतिः)। त्रिष्टुप्।
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥10.121.10॥
prajā̍pate̱ na tvade̱tānya̱nyo viśvā̍ jā̱tāni̱ pari̱ tā ba̍bhūva |
yatkā̍māste juhu̱mastanno̍ astu va̱yaṃ syā̍ma̱ pata̍yo rayī̱ṇām