ॐ आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒भुव॑ना वि॒पश्यन्॑ ॥
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुम्᳚ ॥
येषा॒मीशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म् ।
निष्क्री॑तो॒ऽयं य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥ १ ॥
ॐ अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳरेताꣳ॑सि जिन्वति ॥
स्यो॒ना पृ॑थिवि॒ भवा॑ऽनृक्ष॒रा नि॒वेश॑नी । यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥
क्षेत्र॑स्य॒ पति॑ना व॒यꣳहि॒ते ने॑व जयामसि । गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृडाती॒दृशे᳚ ॥ २ ॥
ॐ प्र वः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वꣳ ह॒व्यं म॒ति चा॒ग्नये॒ सुपू॑तम् ।
यो दैव्या॑नि॒ मानु॑षा ज॒नूꣴष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥
इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम् । न ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पतिः॑ ॥
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥ ३ ॥
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ॥
अ॒प्सुमे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन् ॥ ४ ॥
ॐ उद्बु॑ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते सꣳसृ॑जेथाम॒यं च॑ ।
पुनः॑ कृ॒ण्वꣴस्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वाताꣳ॑सी॒त्त्वयि॒ तन्तु॑मे॒तम् ॥
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्यपाꣳ सु॒रे ॥
विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒श्श्नप्त्रे᳚स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ ५ ॥
ॐ बृह॑स्पते॒ अति॒यद॒र्यो अर्हा᳚द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्छव॑सर्तप्रजात॒ तद॒स्मासु॒ द्रवि॑णन्धेहि चि॒त्रम् ॥
इन्द्र॑मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बस्सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒शर्म॒न्नावि॑वासन्ति क॒वय॑स्सुय॒ज्ञाः ॥
ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
सबु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ ६ ॥
ॐ शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शंयोर॒भिस्र॑वन्तु नः ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣴस्याम॒ पत॑यो रयी॒णाम् ॥
इ॒मं य॑मप्रस्त॒रमाहि सीदाऽङ्गि॑रोभिः पि॒तृभि॑स्संविदा॒नः ।
आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒नारा॑जन् ह॒विषा॑ मादयस्व ॥ ७ ॥
ॐ कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता ॥
आऽयङ्गौः पृश्नि॑रक्रमी॒दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तर॑ञ्च प्र॒यन्त्सुवः॑ ॥
यत्ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विच॒र्त्यम् ।
इ॒दन्ते॒ तद्विष्या॒म्यायु॑षो॒ न मध्या॒दथा॑जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः ॥ ८ ॥
ॐ के॒तुङ्कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ । समु॒षद्भि॑रजायथाः ॥
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नोगृध्रा॑णा॒ꣴ॒स्वधि॑ति॒र्वना॑ना॒गं॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ॥
सचि॑त्र चि॒त्रं चि॒तय᳚न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् ।
च॒न्द्रं र॒यिं पु॑रु॒वीरम्᳚ बृ॒हन्तं॒ चन्द्र॑च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ॥ ९ ॥ (ऋ)