अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ ७.४.१८
४५ कि२ꣳ स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि२ꣳ स्वि॑दासीद्बृ॒हद्वयः॑ । कि२ꣳ
स्वि॑दासीत्पिशंगि॒ला कि२ꣳ स्वि॑दासीत्पिलिप्पि॒ला ॥ द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑
आसीद्बृ॒हद्वयः॑ । रात्रि॑रासीत्पिशंगि॒लावि॑रासीत्पिलिप्पि॒ला ॥ कः स्वि॑देका॒की
च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । कि२ꣳ स्वि॑द्धि॒मस्य॑ भेष॒जं कि२ꣳ
स्वि॑दा॒वप॑नं म॒हत् ॥ सूर्य॑ एका॒की च॑रति
४६ च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ॥
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि᳚म्
। पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं
व्यो॑म ॥ वेदि॑माहुः॒ पर॒मन्तं॑ पृथि॒व्या य॒ज्ञमा॑हु॒र्भुव॑नस्य॒ नाभि᳚म् ।
सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मं व्यो॑म ॥ ७। ४। १८॥ सूर्य॑ एका॒की च॑रति॒ षट् च॑त्वारिꣳशच्च ॥TS 7.4.18॥
॥१॥