skipLink.label

आश्वलायन — सायं सन्ध्या

*द्विराचम्य​*
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
श्री गणपति ध्यानं

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

प्राणायाम​:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥

ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

सङ्कल्पम्

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं सन्ध्यां उपासिष्ये ।

इति सङ्कल्प्य​

मार्जनम्

**आपोहिष्ठेति - तृचस्य सिन्धुद्वीप ऋषि: । आपो देवता । गायत्री छन्द​: - अपां प्रोक्षणे विनियोग​:**

आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒स्व॑: ।

इति आत्मानं परिषिच्य​

प्राशनम्

**अग्निश्चेत्यस्य सूर्य​ऋषि: । अग्निर्देवता । देवी गायत्री छन्द​: - अपां प्राशने विनियोग​:**

अक्ऩिश्च मामऩ्युश्च मन्युपतयश्च मन्यु॑क्रुते॒भ्य: । पापेभ्यो॑ रक्षं॒ताम् । यतऩ्हा पाप॑मका॒र्षम् । मऩसावाचा॑ हस्ता॒भ्यां पद्भ्यां उदरे॑णशि॒ष्न । अह॒स्तत॑व लुं॒पतु । यत्किंच॑ दुरि॒तं मयि॑ । इदमहमाममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

इति अप​: प्राश्य​

आचमनं — पुनः
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
पुनर्माजनम्

**दधिक्राव्ण​: इत्यस्य मन्त्रस्य । वामदेव ऋषि: । दधिक्रावा देवता | अनुष्टुप् छन्द​: - अपां प्रोक्षणे विनियोग​:**

द॒धिक्राव्णो॑ अकार्षं जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑कर॒त् प्रण॒ आयूं॑षि तारिषत् ॥

आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धात न । म॒हेरना॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥

इति शिरसि प्रोक्ष्य​

ओं भूर्भुव॒स्व॑: ।

इति आत्मानं परिषिच्य​

अर्घ्य प्रदानं

**अर्घ्यप्रदान मन्त्रस्य विश्वामित्र ऋषि: । सविता देवता । गायत्री छन्द​: - अर्घ्य प्रदाने विनियोग​:**

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

इति अर्घ्यं त्रिवारं समन्त्रकं दद्यात्

प्राणायाम​:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥

ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

प्रायश्चित्त अर्घ्यं

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥

**प्रायश्चित्तार्घ्यप्रदान मन्त्रस्य । नतस्येत्यस्य विश्वमना: ऋषि: । उष्णिक् छन्द​: । अग्निर्देवता - प्रायश्चित्तार्घ्यप्रदाने विनियोग​:**

न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्य॑: । यो अ॒ग्नये॑ त॒दाश॑ ह॒व्यता॑तिभि: ॥

इति एकं अर्घ्यं दत्वा

ओं भूर्भुव॒स्व॑: असावादित्यो ब्रह्मा

इति आत्मानं परिषिच्य​

नवग्रह​ - केशवादि तर्पणं
१. आदित्यं तर्पयामि२.सोमम् तर्पयामि३.अङ्गारकम् तर्पयामि
४.बुधं तर्पयामि५.बृहस्पतिं तर्पयामि६.शुक्रं तर्पयामि
७.शनैश्चरं तर्पयामि८.राहुं तर्पयामि९.केतुं तर्पयामि
१०.केशवं तर्पयामि११.नारायणं तर्पयामि१२.माधवं तर्पयामि
१३.गोविन्दं तर्पयामि१४.विष्णुं तर्पयामि१५.मधुसूदनं तर्पयामि
१६.त्रिविक्रमं तर्पयामि१७.वामनं तर्पयामि१८.श्रीधरं तर्पयामि
१९.हृषीकेशं तर्पयामि२०.पद्मनाभं तर्पयामि२१.दामोदरं तर्पयामि

इति जलेन नव - द्वादश च तर्पणानि कृत्वा

आचमनं — पुनः
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
**आसन मन्त्रस्य । मेरो: पृष्ठ ऋषि: । कूर्मो देवता । सुतलं छन्द​: - आसने विनियोग​:: ।** >पृथ्वि त्वया धृता लोका: देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ *इति अन्जलिं कृत्वा - भूमिं प्रार्थ्य​*
प्राणायाम - न्यासं
  • प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद​:, परमात्मा देवता
  • भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस​ ऋषय:
  • गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
  • अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:
प्राणायाम​:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥

ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा

गायत्री आवाहनम्

**आयात्विति अनुवाकस्य वामदेव ऋषि: । अनुष्टुप् छंद​: । गायत्री देवता - गायत्री आवाहने विनियोग:**

आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥

ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्

  • गायत्रीं आवाहयामि
  • सावित्रीं आवाहयामि
  • सरस्वतीं आवाहयामि

इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य​

**विष्वामित्र ऋषि: । सविता देवता । निचृत् गायत्री छंद​: - प्रात​: सन्ध्या जपे विनियोग​:**

ध्यानम्

मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् । गायत्रीं वरदाभयांकुश - कशा​:शुभ्रम्गपालं गदां शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥

यो देवस्सवितास्माकं धियो धर्मादि गोचराः । प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्य उपास्महे ॥

इति सावित्रीमूर्तिध्यानं कृत्वा​

गायत्री जपम्

ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥

कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्

प्राणायाम​:

ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन​: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥

ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।

गायत्र्युद्वासनम्

**उत्तम इत्यनुवाकस्य वामदेवः ऋषिः । अनुष्टुप् छन्दः । गायत्री देवता । गायत्री उद्वासने विनियोगः**

उ॒त्तमे॑ शिख॑रे दे॒वी॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि ।

ब्रा॒ह्मणेभ्यो ह्य॑नुज्ञा॒नं ग॒च्छ दे॑वि य॒थासु॑खम् ॥

इति गायत्रीं उद्यास्य​

सङ्कल्पम् - उपस्थानं

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं सन्ध्या उपस्थानं करिष्ये ॥

उपस्थानं

**इमं मे - तत्वा - यच्चिद्धि - यत्किन्च - कितवास​: इति मन्त्राणां । शुनश्शेप - वसिष्ठ - अत्रय​: ऋषय​: । गायत्री - त्रिष्टुप् - गायत्री - त्रिष्टुभश्छन्दांसि । वरुण​: - सूर्यो वा देवता । सायं सन्ध्योपस्थाने विनियोग​:**

ॐ इ॒मं मे॑ वरुण श्रुधी॒हव॑ म॒द्या च॑ म्रुळय । त्वाम॑ व॒स्युराच॑के ॥

तत्व॑यामि ब्र॒ह्मणा॒ वंद॑मान॒: तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि: । अहे॑ळमानो वरुणे॒ह पो॒ध्युरु॑शम्स॒ मान॒ आयु॒: प्रमो॑षी: ॥ यच्चि॒द्धिते॒ विशो॑ यथा॒ प्रदे॑व वरुण व्र॒तम् । मि॒नी॒मसि॒ द्यवि॑द्यवि ॥ यत्किंचे॒दं व॑रुण॒ दैव्ये॒ जने॑भि द्रो॒हं म॑नु॒ष्या३॒॑ श्चरामसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपिम॒ मा न॒स्तस्मा॒ देन॑सो देव रीरिष: ॥ कि॒त॒वासो॒ यत् रि॑रि॒पुर्न दी॒वि यद् वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वाऽधा॑ ते स्याम वरुण प्रि॒यास॑: ॥

**जातवेदसे इत्यस्य कश्यप ऋषि: । त्रिष्टुप् छन्द​: । अग्निर्देवता - सन्ध्योपस्थाने विनियोग​:**

जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गानि॒विश्वा॑ ना॒वेव॒ सिंधुं॑ दुरि॒तान्य॒ग्नi:॥

**पिशङ्गभृष्टिमित्यस्य परुच्छेप​: ऋषि: । गायत्री छन्द​: । इन्द्रो देवता - उपस्थाने विनियोग​:**

पि॒शंग॑भ्रुष्टि॒मम् भ्रु॒नम् पि॒शाचि॑मिंद्र॒सं मृ॑न । सर्वं॒ रक्षो॒ निब॑र्हय ॥

**भद्रं कर्णेभि: इत्यस्य गोतम ऋषि: । त्रिष्टुप् छन्द​: । विश्वेदेवा देवता: - उपस्थाने विनियोग​:**

भ॒द्रं कर्णे॑भि: श्रुनुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्रा: । स्थि॒रैरङ्गै॑: तुष्टु॒वाम्स॑: त॒नूभि॒र्व्य॑शेम दे॒वहि॑त॒म् यदायु॑: ॥

**केशीत्यस्य जूति ऋषि: । अनुष्टुप् छन्द​: ।अग्निर्देवता - उपस्थाने विनियोग​:**

के॒श्य १॒॑ ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सि । के॒शी विश्वं॒ स्व॑र्द्रु॒शे के॒शीदं ज्योति॑रुच्यते ॥

इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा

१. सन्ध्यायै नम​:२. सावित्र्यै नम​:
३. गायत्र्यै नम:४. सरस्वत्यै नम​:
५. सर्वाभ्यो देवताभ्यो नम​:६. प्रतीच्यै नम​:
७. उदीच्यै नम​:८. प्राच्यै नम​:
९. दक्षिणायै नम​:१०. ऊर्ध्वाय नम​:
११. अधराय नम​:१२. अन्तरिक्षाय नम​:
१३. भूम्यै नम​:१४. ब्रह्मणे नम​:
१५. विष्णवे नम​:१६. यमाय नम​:

यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ।

औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥

चित्रगुप्ताय वै नमो नम इति ।

ऋतं सत्यं परं ब्रह्म पुरुषं क्रुष्ण पिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपायवै नम: ॥ विश्वरूपायवै नमो नम इति ।

नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥

नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: ।केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥

शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥

आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥

केशवं प्रतिगच्छत्योम् नम इति ।

अभिवाद नमस्कार​:

अभिवादये ___ त्रयार्षेय​/पञ्चार्षेय प्रवरान्वित ___ गोत्र​: ___ आश्वलायन सूत्र​: ___ ऋक्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।

आचमनं — पुनः
आचमनं
ओं अच्युताय नम​:ओं अनन्ताय नम​:ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा
रक्षा धारणम्

**अद्यानो देवेत्यस्य मन्त्रस्य । श्यावाश्व आत्रेय ऋषि: । सविता देवता - रक्षस्वीकरणे विनियोग​:**

अ॒द्यानो देवसवितः प्र॒जाव॑त्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यं सुव ॥

विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव । यद्भ॒द्रं तन्म॒ आसु॑व ॥

जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥