मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

निर्गुणमानसपूजा

3

सम्प्रदायतः श्रीशङ्करकृता

शिष्य उवाच

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।

स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥

॥१॥

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।

स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥

॥२॥

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।

अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥

॥३॥

निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।

निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः ॥

॥४॥

निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।

निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥

॥५॥

विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते ।

स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥

॥६॥

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।

प्रदक्षिणमनन्तस्य प्रणामोऽद्वयवस्तुनः ॥

॥७॥

वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।

अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥

॥८॥

गुरुरुवाच

आराधयामि मणिसंनिभमात्मलिङ्गम्

मायापुरीहृदयपङ्कजसंनिविष्टम् ।

श्रद्धानदीविमलचित्तजलाभिषेकै-

र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥

॥९॥

अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् ।

आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥

॥१०॥

पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् ।

पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥

॥११॥

अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।

विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥

॥१२॥

ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।

पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥

॥१३॥

ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।

अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥

॥१४॥

निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् ।

आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥

॥१५॥

त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।

इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥

॥१६॥

अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया ।

नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥

॥१७॥

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।

आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥

॥१८॥

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।

बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥

॥१९॥

समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।

ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥

॥२०॥

नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।

पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥

॥२१॥

अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।

विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥

॥२२॥

रागादिगुणशून्यस्य शिवस्य परमात्मनः ।

सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥

॥२३॥

अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् ।

आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥

॥२४॥

विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् ।

पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥

॥२५॥

परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।

कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥

॥२६॥

विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः ।

इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥

॥२७॥

आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।

नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥

॥२८॥

श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् ।

मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥

॥२९॥

ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।

समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥

॥३०॥

समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।

तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥

॥३१॥

एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।

कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥

॥३२॥

सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।

विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥

॥३३॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः विरचिता निर्गुणमानसपूजा समाप्ता