मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अद्वैतपञ्चरत्नम्

3

सम्प्रदायतः श्रीशङ्करकृता

नाहं देहो नेन्द्रियाण्यन्तरङ्गो

नाहङ्कारः प्राणवर्गो न बुद्धिः ।

दारापत्यक्षेत्रवित्तादिदूरः

साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥

॥१॥

रज्ज्वज्ञानाद्भाति रज्जौ यथाहिः

स्वात्माज्ञानादात्मनो जीवभावः ।

आप्तोक्त्याऽहिभ्रान्तिनाशे स रज्जु-

र्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥

॥२॥

आभातीदं विश्वमात्मन्यसत्यम्

सत्यज्ञानानन्दरूपे विमोहात् ।

निद्रामोहात्स्वप्नवत्तन्न सत्यम्

शुद्धः पूर्णो नित्य एकः शिवोऽहम् ॥

॥३॥

नाहं जातो न प्रवृद्धो न नष्टो

देहस्योक्ताः प्राकृताः सर्वधर्माः ।

कर्तृत्वादिश्चिन्मयस्यास्ति नाहं-

कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥

॥४॥

मत्तो नान्यत्किञ्चिदत्रास्ति विश्वं

सत्यं बाह्यं वस्तु मायोपक्लृप्तम् ।

आदर्शान्तर्भासमानस्य तुल्यं

मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥

॥५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ अद्वैत पञ्चरत्नं अथवा आत्मपङ्चकं सम्पूर्णम्