मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कार्त्तिकेय अष्टोत्तरशत नाम स्तोत्रम्

3

पारम्परिकम्

ध्यानम्

सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभिः

दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यप्रदम् ।

अम्भोजाभयशक्तिकुक्कुटधरं रत्नाङ्गरागांशुकं

सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥

॥१॥

स्तोत्रम्

विश्वामित्रस्तु भगवान् कुमारं शरणं गतः ।

स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः ॥

॥२॥

अष्टोत्तरशतनाम्नां शृणु त्वं तानि फाल्गुन ।

जपेन येषां पापानि यान्ति ज्ञानमवाप्नुयात् ॥

॥३॥

त्वं ब्रह्मवादी त्वं ब्रह्मा ब्रह्मब्राह्मणवत्सलः ।

ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसङ्ग्रहः ॥

॥४॥

त्वं परं परमं तेजो मङ्गलानां च मङ्गलम् ।

अप्रमेयगुणश्चैव मन्त्राणां मन्त्रगो भवान् ॥

॥५॥

त्वं सावित्रीमयो देवः सर्वत्रैवापराजितः ।

मन्त्रः सर्वात्मको देवः षडक्षरवतां वरः ॥

॥६॥

गवां पुत्रः सुरारिघ्नः सम्भवो भवभावनः ।

पिनाकी शत्रुहा चैव कूटः स्कन्दः सुराग्रणीः ॥

॥७॥

द्वादशो भूर्भुवो भावी भुवःपुत्रो नमस्कृतः ।

नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः ॥

॥८॥

हेमगर्भो महागर्भो जयश्च विजयेश्वरः ।

त्वं कर्ता त्वं विधाता च नित्योऽनित्योऽरिमर्दनः ॥

॥९॥

महासेनो महातेजा वीरसेनश्चमूपतिः ।

सुरसेनः सुराध्यक्षो भीमसेनो निरामयः ॥

॥१०॥

शौरिर्यदुर्महातेजा वीर्यवान् सत्यविक्रमः ।

तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्जितः ॥

॥११॥

कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः ।

सुव्रतः सूर्यसङ्काशो वह्निगर्भो रणोत्सुकः ॥

॥१२॥

पिप्पली शीघ्रगो रौद्रिर्गाङ्गेयो रिपुदारणः ।

कार्त्तिकेयः प्रभुः क्षान्तो नीलदंष्ट्रो महामनाः ॥

॥१३॥

निग्रहो निग्रहाणां च नेता त्वं दैत्यसूदनः ।

प्रग्रहः परमानन्दः क्रोधघ्नस्तारकोऽच्छिदः ॥

॥१४॥

कुक्कुटी बहुलो वादी कामदो भूरिवर्धनः ।

अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वबोधनः ॥

॥१५॥

अनघो ह्यमरः श्रीमानुन्नतो ह्यग्निसम्भवः ।

पिशाचराजः सूर्याभः शिवात्मा त्वं सनातनः ॥

॥१६॥

एवं स सर्वभूतानां संस्तुतः परमेश्वरः ।

नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा ॥

॥१७॥

प्रसन्नमूर्तिराहेदं मुनीन्द्र व्रियतामिति ।

मम त्वया द्विजश्रेष्ठ स्तुतिरेषा विनिर्मिता ॥

॥१८॥

भविष्यति मनोभीष्टप्राप्तये प्राणिनां भुवि ।

विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम् ॥

॥१९॥

न राक्षसाः पिशाचा वा न भूतानि न चाऽऽपदः ।

विघ्नकारीणि तद्गेहे यत्रैवं संस्तुवन्ति माम् ॥

॥२०॥

दुःस्वप्नं न च पश्येत्स बद्धो मुच्येत बन्धनात् ।

स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत् ॥

॥२१॥

इति श्रीस्कन्दमहापुराणे माहेश्वरखण्डान्तर्गते कुमारिकाखण्डे श्रीकार्त्तिकेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्