मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सुब्रह्मण्यकरावलम्बस्तोत्रम्

Also spelled: Subrahmanyakaravalambastotram · Subrahmanyakaravalambasthothram

3

परम्परा

हे स्वामिनाथ! करुणाकर दीनबन्धो

श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।

श्रीशादिदेवगणपूजितपादपद्म

वल्लीशनाथ मम देहि करावलम्बम् ॥

॥१॥

देवाधिदेवसुत देवगणाधिनाथ

देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।

देवर्षिनारदमुनीन्द्रसुगीतकीर्ते

वल्लीशनाथ मम देहि करावलम्बम् ॥

॥२॥

नित्यान्नदाननिरताखिलरोगहारिन्

भाग्यप्रदानपरिपूरितभक्तकाम ।

शृत्यागमप्रणववाच्यनिजस्वरूप

वल्लीशनाथ मम देहि करावलम्बम् ॥

॥३॥

क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-

चापादिशस्त्रपरिमण्डितदिव्यपाणे ।

श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह

वल्लीशनाथ मम देहि करावलम्बम् ॥

॥४॥

देवाधिदेवरथमण्डलमध्यवेऽद्य

देवेन्द्रपीठनकरं दृढचापहस्तम् ।

शूरं निहत्य सुरकोटिभिरीड्यमान

वल्लीशनाथ मम देहि करावलम्बम् ॥

॥५॥

हारादिरत्नमणियुक्तकिरीटहार

केयूरकुण्डललसत्कवचाभिरामम् ।

हे वीर तारकजयामरवृन्दवन्द्य

वल्लीशनाथ मम देहि करावलम्बम् ॥

॥६॥

पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः

पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।

पट्टाभिषिक्तहरियुक्त परासनाथ

वल्लीशनाथ मम देहि करावलम्बम् ॥

॥७॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या

कामादिरोगकलुषीकृतदुष्टचित्तम् ।

सिक्त्वा तु मामव कलाधरकान्तिकान्त्या

वल्लीशनाथ मम देहि करावलम्बम् ॥

॥८॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।

ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥

॥९॥

सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।

कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥

॥१०॥

इति श्रीसुब्रह्मण्याष्टकम् अथवा श्रीसुब्रह्मण्यकरावलम्बस्तोत्रं सम्पूर्णम् ।