पारम्परिकम्
ध्यानम्
शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् ।
दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥
॥१॥स्तोत्रम्
स्कन्दो गुहः षण्मुखश्च फालनेत्रसुतः प्रभुः ।
पिङ्गलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥
॥२॥द्विषण्णेत्रः शक्तिधरः पिशिताशप्रभञ्जनः ।
तारकासुरसंहारी रक्षोबलविमर्दनः ॥
॥३॥मत्तः प्रमत्तोन्मत्तश्च सुरसैन्यसुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥
॥४॥उमासुतः शक्तिधरः कुमारः क्रौञ्चदारणः ।
सेनानीरग्निजन्मा च विशाखः शङ्करात्मजः ॥
॥५॥शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनन्तमूर्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥
॥६॥गङ्गासुतः शरोद्भूत आहूतः पावकात्मजः ।
जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसंस्तुतः ॥
॥७॥एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः ।
चतुर्वर्णः पञ्चवर्णः प्रजापतिरहःपतिः ॥
॥८॥अग्निगर्भः शमीगर्भो विश्वरेता सुरारिहा ।
हरिद्वर्णः शुभकरो वटुश्च पटुवेषभृत् ॥
॥९॥पूषा गभस्तिर्गहनश्चन्द्रवर्णः कलाधरः ।
मायाधरो महामायी कैवल्यः शङ्करात्मजः ॥
॥१०॥विश्वयोनिरमेयात्मा तेजोयोनिरनामयः ।
परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः ॥
॥११॥पुलिन्दकन्याभर्ता च महासारस्वतावृतः ।
आश्रिताखिलदाता च चोरघ्नो रोगनाशनः ॥
॥१२॥अनन्तमूर्तिरानन्दः शिखण्डी-कृतकेतनः ।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥
॥१३॥कारणोत्पत्ति-देहश्च कारणातीत-विग्रहः ।
अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः ॥
॥१४॥विरुद्धहन्तो वीरघ्नो रक्तश्यामगलोऽपि च
सुब्रह्मण्यो गुहः प्रीतो ब्रह्मण्यो ब्राह्मणप्रियः
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥
॥१५॥इति श्री-सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्