पारम्परिकम्
स्कन्द उवाच
योगीश्वरो महासेनः कार्त्तिकेयोऽग्निनन्दनः ।
स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः ॥
॥१॥गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।
तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ॥
॥२॥शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥
॥३॥शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् ।
सर्वागमप्रणेता च वाञ्छितार्थप्रदायकः ॥
॥४॥अष्टाविंशतिनामानि मदीयानीति यः पठेत् ।
प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥
॥५॥महामन्त्रमयानीति मम नामानुकीर्तनम् ।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥
॥६॥पुष्यनक्षत्रम् आरभ्य दशवारं पठेन्नरः
पुष्यनक्षत्र-पर्यन्तेऽश्वत्थमूले दिने दिने
पुरश्चरण-मात्रेण सर्वपापैः प्रमुच्यते ॥
॥७॥इति श्री-रुद्रयामलरहस्ये प्रज्ञाविवर्धन-कार्त्तिकेय-स्तोत्रं सम्पूर्णम्