मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सुब्रह्मण्यभुजङ्गम्

3

श्रीशङ्करभगवत्पादकृतम्

सदा बालरूपाऽपि विघ्नाद्रिहन्त्री

महादन्तिवक्त्राऽपि पञ्चास्यमान्या ।

विधीन्द्रादिमृग्या गणेशाभिधा मे

विधत्तां श्रियं काऽपि कल्याणमूर्तिः ॥

॥१॥

न जानामि शब्दं न जानामि चार्थं

न जानामि पद्यं न जानामि गद्यम् ।

चिदेका षडास्या हृदि द्योतते मे

मुखान्निस्सरन्ते गिरश्चापि चित्रम् ॥

॥२॥

मयूराधिरूढं महावाक्यगूढं

मनोहारिदेहं महच्चित्तगेहम् ।

महीदेवदेवं महावेदभावं

महादेवबालं भजे लोकपालम् ॥

॥३॥

यदा सन्निधानं गता मानवा मे

भवाम्भोधिपारं गतास्ते तदैव ।

इति व्यञ्जयन् सिन्धुतीरे य आस्ते

तमीडे पवित्रं पराशक्तिपुत्रम् ॥

॥४॥

यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गास्-

तथैवापदः सन्निधौ सेवतां मे ।

इतीवोर्मिपङ्क्तीर्नृणां दर्शयन्तं

सदा भावये हृत्सरोजे गुहं तम् ॥

॥५॥

गिरौ मन्निवासे नरा येऽधिरूढास्-

तदा पर्वते राजते तेऽधिरूढाः ।

इतीव ब्रुवन् गन्धशैलाधिरूढः

स देवो मुदे मे सदा षण्मुखोऽस्तु ॥

॥६॥

महाम्भोधितीरे महापापचोरे

मुनीन्द्रानुकूले सुगन्धाख्यशैले ।

गुहायां वसन्तं स्वभासा लसन्तं

जनार्तिं हरन्तं श्रयामो गुहं तम् ॥

॥७॥

लसत्स्वर्णगेहे नृणां कामदोहे

सुमस्तोमसञ्छन्नमाणिक्यमञ्चे ।

समुद्यत्सहस्रार्कतुल्यप्रकाशं

सदा भावये कार्त्तिकेयं सुरेशम् ॥

॥८॥

रणद्धंसके मञ्जुलेऽत्यन्तशोणे

मनोहारिलावण्यपीयूषपूर्णे ।

मनःषट्पदो मे भवक्लेशतप्तः

सदा मोदतां स्कन्द ते पादपद्मे ॥

॥९॥

सुवर्णाभदिव्याम्बरैर्भासमानां

क्वणत्किङ्किणीमेखलाशोभमानाम् ।

लसद्धेमपट्टेन विद्योतमानां

कटिं भावये स्कन्द ते दीप्यमानाम् ॥

॥१०॥

पुलिन्देशकन्याघनाभोगतुङ्ग-

स्तनालिङ्गनासक्तकाश्मीररागम् ।

नमस्याम्यहं तारकारे तवोरः

स्वभक्तावने सर्वदा सानुरागम् ॥

॥११॥

विधौ कॢप्तदण्डान् स्वलीलाधृताण्डान्

निरस्तेभशुण्डान् द्विषत्कालदण्डान् ।

हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डान्

सदा ते प्रचण्डान् श्रये बाहुदण्डान् ॥

॥१२॥

सदा शारदाः षण्मृगाङ्का यदि स्युः

समुद्यन्त एव स्थिताश्चेत् समन्तात् ।

सदा पूर्णबिम्बाः कलङ्कैश्च हीनास्-

तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥

॥१३॥

स्फुरन्मन्दहासैः सहंसानि चञ्चत्

कटाक्षावलीभृङ्गसङ्घोज्ज्वलानि ।

सुधास्यन्दिबिम्बाधराणीशसूनो

तवाऽऽलोकये षण्मुखाम्भोरुहाणि ॥

॥१४॥

विशालेषु कर्णान्तदीर्घेष्वजस्रं

दयास्यन्दिषु द्वादशस्वीक्षणेषु ।

मयीषत् कटाक्षः सकृत् पातितश्चेद्

भवेत् ते दयाशील का नाम हानिः ॥

॥१५॥

सुताङ्गोद्भवो मेऽसि जीवेति षड्धा

जपन् मन्त्रमीशो मुदा जिघ्रते यान् ।

जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः

किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥

॥१६॥

स्फुरद्रत्नकेयूरहाराभिरामश्-

चलत्कुण्डलश्रीलसद्गण्डभागः ।

कटौ पीतवासाः करे चारुशक्तिः

पुरस्तान्ममास्तां पुरारेस्तनूजः ॥

॥१७॥

इहाऽऽयाहि वत्सेति हस्तान् प्रसार्या-

ऽऽह्वयत्यादराच्छङ्करे मातुरङ्कात् ।

समुत्पत्य तातं श्रयन्तं कुमारं

हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥

॥१८॥

कुमारेशसूनो गुह स्कन्द सेना-

पते शक्तिपाणे मयूराधिरूढ ।

पुलिन्दात्मजाकान्त भक्तार्तिहारिन्

प्रभो तारकारे सदा रक्ष मां त्वम् ॥

॥१९॥

प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे

कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे ।

प्रयाणोन्मुखे मय्यनाथे तदानीं

द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥

॥२०॥

कृतान्तस्य दूतेषु चण्डेषु कोपाद्

दहच्छिन्धि भिन्धीति मां तर्जयत्सु ।

मयूरं समारुह्य मा भीरिति त्वं

पुरः शक्तिपाणिर्ममाऽऽयाहि शीघ्रम् ॥

॥२१॥

प्रणम्यासकृत् पादयोस्ते पतित्वा

प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।

न वक्तुं क्षमोऽहं तदानीं कृपाब्धे

न कार्याऽन्तकाले मनागप्युपेक्षा ॥

॥२२॥

सहस्राण्डभोक्ता त्वया शूरनामा

हतस्तारकः सिंहवक्त्रश्च दैत्यः ।

ममान्तर्हृदिस्थं मनःक्लेशमेकं

न हंसि प्रभो किं करोमि क्व यामि ॥

॥२३॥

अहं सर्वदा दुःखभारावसन्नो

भवान् दीनबन्धुस्त्वदन्यं न याचे ।

भवद्भक्तिरोधं सदा कॢप्तबाधं

ममाधिं द्रुतं नाशयोमासुत त्वम् ॥

॥२४॥

अपस्मारकुष्ठक्षयार्शःप्रमेह-

ज्वरोन्मादगुल्मादिरोगा महान्तः ।

पिशाचाश्च सर्वे भवत्पत्रभूतिं

विलोक्य क्षणात् तारकारे द्रवन्ते ॥

॥२५॥

दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्तिर्-

मुखे मे पवित्रं सदा तच्चरित्रम् ।

करे तस्य कृत्यं वपुस्तस्य भृत्यं

गुहे सन्तु लीना ममाशेषभावाः ॥

॥२६॥

मुनीनामुताहो नृणां भक्तिभाजाम्

अभीष्टप्रदाः सन्ति सर्वत्र देवाः ।

नृणामन्त्यजानामपि स्वार्थदाने

गुहाद् देवमन्यं न जाने न जाने ॥

॥२७॥

कलत्रं सुता बन्धुवर्गः पशुर्वा

नरो वाऽथ नारी गृहे ये मदीयाः ।

यजन्तो नमन्तः स्तुवन्तो भवन्तं

स्मरन्तश्च ते सन्तु सर्वे कुमार ॥

॥२८॥

मृगाः पक्षिणो दंशका ये च दुष्टास्-

तथा व्याधयो बाधका ये मदङ्गे ।

भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे

विनश्यन्तु ते चूर्णितक्रौञ्चशैल ॥

॥२९॥

जनित्री पिता च स्वपुत्रापराधं

सहेते न किं देवसेनाधिनाथ ।

अहं चातिबालो भवाँल्लोकतातः

क्षमस्वापराधं समस्तं महेश ॥

॥३०॥

नमः केकिने शक्तये चापि तुभ्यं

नमश्छाग तुभ्यं नमः कुक्कुटाय ।

नमः सिन्धवे सिन्धुदेशाय तुभ्यं

पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥

॥३१॥

जयाऽऽनन्दभूमन् जयापारधामन्

जयामोघकीर्ते जयाऽऽनन्दमूर्ते ।

जयाऽऽनन्दसिन्धो जयाशेषबन्धो

जय त्वं सदा मुक्तिदानेशसूनो ॥

॥३२॥

भुजङ्गाख्यवृत्तेन कॢप्तं स्तवं यः

पठेद् भक्तियुक्तो गुहं सम्प्रणम्य ।

स पुत्रान् कलत्रं धनं दीर्घमायुर्-

लभेत् स्कन्दसायुज्यमन्ते नरः सः ॥

॥३३॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-सुब्रह्मण्यभुजङ्गं सम्पूर्णम्