- १ॐ श्रीवेङ्कटेशाय नमः
- २ॐ श्रीनिवासाय नमः
- ३ॐ लक्ष्मीपतये नमः
- ४ॐ अनामयाय नमः
- ५ॐ अमृताशाय नमः
- ६ॐ जगद्वन्द्याय नमः
- ७ॐ गोविन्दाय नमः
- ८ॐ शाश्वताय नमः
- ९ॐ प्रभवे नमः
- १०ॐ शेषाद्रिनिलयाय नमः
- ११ॐ देवाय नमः
- १२ॐ केशवाय नमः
- १३ॐ मधुसूदनाय नमः
- १४ॐ अमृताय नमः
- १५ॐ माधवाय नमः
- १६ॐ कृष्णाय नमः
- १७ॐ श्रीहरये नमः
- १८ॐ ज्ञानपञ्जराय नमः
- १९ॐ श्रीवत्सवक्षसे नमः
- २०ॐ सर्वेशाय नमः
- २१ॐ गोपालाय नमः
- २२ॐ पुरुषोत्तमाय नमः
- २३ॐ गोपीश्वराय नमः
- २४ॐ परस्मै ज्योतिषे नमः
- २५ॐ वैकुण्ठपतये नमः
- २६ॐ अव्ययाय नमः
- २७ॐ सुधातनवे नमः
- २८ॐ यादवेन्द्राय नमः
- २९ॐ नित्ययौवनरूपवते नमः
- ३०ॐ चतुर्वेदात्मकाय नमः
- ३१ॐ विष्णवे नमः
- ३२ॐ अच्युताय नमः
- ३३ॐ पद्मिनीप्रियाय नमः
- ३४ॐ धरापतये नमः
- ३५ॐ सुरपतये नमः
- ३६ॐ निर्मलाय नमः
- ३७ॐ देवपूजिताय नमः
- ३८ॐ चतुर्भुजाय नमः
- ३९ॐ चक्रधराय नमः
- ४०ॐ त्रिधाम्ने नमः
- ४१ॐ त्रिगुणाश्रयाय नमः
- ४२ॐ निर्विकल्पाय नमः
- ४३ॐ निष्कलङ्काय नमः
- ४४ॐ निरातङ्काय नमः
- ४५ॐ निरञ्जनाय नमः
- ४६ॐ निराभासाय नमः
- ४७ॐ नित्यतृप्ताय नमः
- ४८ॐ निर्गुणाय नमः
- ४९ॐ निरुपद्रवाय नमः
- ५०ॐ गदाधराय नमः
- ५१ॐ शार्ङ्गपाणये नमः
- ५२ॐ नन्दकिने नमः
- ५३ॐ शङ्खधारकाय नमः
- ५४ॐ अनेकमूर्तये नमः
- ५५ॐ अव्यक्ताय नमः
- ५६ॐ कटिहस्ताय नमः
- ५७ॐ वरप्रदाय नमः
- ५८ॐ अनेकात्मने नमः
- ५९ॐ दीनबन्धवे नमः
- ६०ॐ आर्तलोकाभयप्रदाय नमः
- ६१ॐ आकाशराजवरदाय नमः
- ६२ॐ योगिहृत्पद्ममन्दिराय नमः
- ६३ॐ दामोदराय नमः
- ६४ॐ जगत्पालाय नमः
- ६५ॐ पापघ्नाय नमः
- ६६ॐ भक्तवत्सलाय नमः
- ६७ॐ त्रिविक्रमाय नमः
- ६८ॐ शिंशुमाराय नमः
- ६९ॐ जटामकुटशोभिताय नमः
- ७०ॐ शङ्खमध्योल्लसन्मञ्जुकिङ्किण्याढ्यकरण्डकाय नमः
- ७१ॐ नीलमेघश्यामतनवे नमः
- ७२ॐ बिल्वपत्रार्चनप्रियाय नमः
- ७३ॐ जगद्व्यापिने नमः
- ७४ॐ जगत्कर्त्रे नमः
- ७५ॐ जगत्साक्षिणे नमः
- ७६ॐ जगत्पतये नमः
- ७७ॐ चिन्तितार्थप्रदाय नमः
- ७८ॐ जिष्णवे नमः
- ७९ॐ दाशार्हाय नमः
- ८०ॐ दशरूपवते नमः
- ८१ॐ देवकीनन्दनाय नमः
- ८२ॐ शौरये नमः
- ८३ॐ हयग्रीवाय नमः
- ८४ॐ जनार्दनाय नमः
- ८५ॐ कन्याश्रवणतारेज्याय नमः
- ८६ॐ पीताम्बरधराय नमः
- ८७ॐ अनघाय नमः
- ८८ॐ वनमालिने नमः
- ८९ॐ पद्मनाभाय नमः
- ९०ॐ मृगयासक्तमानसाय नमः
- ९१ॐ अश्वारूढाय नमः
- ९२ॐ खड्गधारिणे नमः
- ९३ॐ धनार्जनसमुत्सुकाय नमः
- ९४ॐ घनसारलसन्मध्यकस्तूरीतिलकोज्ज्वलाय नमः
- ९५ॐ सच्चिदानन्दरूपाय नमः
- ९६ॐ जगन्मङ्गलदायकाय नमः
- ९७ॐ यज्ञरूपाय नमः
- ९८ॐ यज्ञभोक्त्रे नमः
- ९९ॐ चिन्मयाय नमः
- १००ॐ परमेश्वराय नमः
- १०१ॐ परमार्थप्रदायकाय नमः
- १०२ॐ शान्ताय नमः
- १०३ॐ श्रीमते नमः
- १०४ॐ दोर्दण्डविक्रमाय नमः
- १०५ॐ परात्पराय नमः
- १०६ॐ परस्मै ब्रह्मणे नमः
- १०७ॐ श्रीविभवे नमः
- १०८ॐ जगदीश्वराय नमः
इति श्रीवेङ्कटेश्वराष्टोत्तरशतनामावलिः सम्पूर्णा