मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सामवेद कौथुम संहिता — महानाम्न्यार्चिकः (10 मन्त्राः)

3
महानाम्न्यार्चिकः

SV 1.641–650

वि꣣दा꣡ म꣢घवन् वि꣣दा꣢ गा꣣तु꣡मनु꣢꣯शꣳसिषो꣣ दि꣡शः꣢ ।

शि꣡क्षा꣢ शचीनां पते पूर्वी꣣णां꣡ पुरू꣢वसो

॥६४१॥

आ꣣भि꣢꣫ष्ट्वम꣣भि꣡ष्टि꣢भिः꣣ स्वा꣢ऽ३र्न्ना꣢ꣳशुः ।

प्र꣡चे꣢तन꣣ प्र꣡चे꣢त꣣ये꣡न्द्र꣢ द्यु꣣म्ना꣡य꣢ न इ꣣षे꣢

॥६४२॥

ए꣣वा꣢꣫ हि श꣣क्रो꣢ रा꣣ये꣡ वाजा꣢꣯य वज्रिवः ।

श꣡वि꣢ष्ठ वज्रिन्नृ꣡ञ्ज꣢से꣣ म꣡ꣳहि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢स꣣ ।

आ꣡ या꣢हि꣣ पि꣢ब꣣ म꣡त्स्व꣢

॥६४३॥

वि꣣दा꣢ रा꣣ये꣢ सु꣣वी꣢र्यं꣣ भ꣢वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣र्व꣢शा꣣ꣳ अ꣡नु꣢ ।

म꣡ꣳहि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢से꣣ यः꣡ शवि꣢꣯ष्ठः꣣ शू꣡रा꣢णाम्

॥६४४॥

यो꣡ मꣳहि꣢꣯ष्ठो मघोनाम्ꣳशु꣢꣯र्न्न शो꣣चिः꣢ ।

चि꣡कि꣢त्वो अ꣣भि꣡ नो꣢ न꣣ये꣡न्द्रो꣢ विदे꣣ तमु꣢꣯ स्तुहि

॥६४५॥

ई꣢शे꣣ हि꣢ श꣣क्र꣢꣫स्तमू꣣त꣡ये꣢ हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् ।

स꣡ नः꣢ स्व꣣र्ष꣢द꣣ति द्वि꣢षः꣣ क्र꣢तु꣣श्छ꣡न्द꣢ ऋ꣣तं꣢ बृ꣣ह꣢त्

॥६४६॥

इ꣢न्द्रं꣣ ध꣡न꣢स्य꣣ सा꣡त꣢ये हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् ।

स꣡ नः꣢ स्व꣣र्ष꣢द꣣ति द्वि꣢षः꣣ स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣡षः꣢

॥६४७॥

पू꣡र्व꣢स्य꣣ य꣡त्ते꣢ अद्रिवो꣣ꣳऽशु꣡र्मदा꣢꣯य ।

सु꣣म्न꣡ आ धे꣢꣯हि नो वसो पू꣣र्तिः꣡ शवि꣢ष्ठ शस्यते ।

व꣣शी꣢꣫ हि श꣣क्रो꣢ नू꣣नं꣡ तन्नव्य꣢꣯ꣳ सं꣣न्य꣡से꣢

॥६४८॥

प्र꣣भो꣡ जन꣢꣯स्य वृत्रह꣣न्त्स꣡मर्ये꣢षु ब्रवावहै ।

शू꣢रो꣣ यो꣢꣫ गोषु꣣ ग꣡च्छ꣢ति꣣ स꣡खा꣢ सु꣣शे꣢वो꣣ अ꣡द्व꣢युः

॥६४९॥

अथ पञ्च पुरीषपदानि

ए꣣वा꣢ह्योऽ३ऽ३ऽ३वा꣡ । ए꣣वा꣡ ह्य꣢ग्ने । ए꣣वा꣡ही꣢न्द्र ।

ए꣣वा꣡ हि पू꣢꣯षन् । ए꣣वा꣡ हि दे꣢꣯वाः ॐ ए꣣वा꣡हि दे꣢꣯वाः

॥६५०॥

॥ इति पञ्च पुरीषपदानि ॥

॥ इति महानाम्न्यार्चिकः ॥