मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

नवरात्रे सुवासिनी पूजा

नवरात्रे सुवासिनी पूजा. Also called suvasini puja, suvasini pooja, sumangali puja.

3

नवरात्रे कन्यापूजावत् सुवासिनीमपि अम्बिकारूपेण आसने उपवेश्य सर्वोपचारैः पूजयेत्। अन्ते दुर्गासप्तश्लोकीं दुर्गापञ्चरत्नस्तोत्रं च पठेत्।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीदुर्गालक्ष्मीसरस्वतीस्वरूपमहात्रिपुरसुन्दरीप्रीत्यर्थं शरन्नवरात्रमहोत्सवाङ्गतया श्रीमहात्रिपुरसुन्दरीस्वरूपसुवासिनीपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

ध्यानम् आवाहनम्

नमो देव्यै महादेव्यै शिवायै सततं नमः।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥

आगच्छ वरदे देवि दैत्यदर्पनिपातिनि।

पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये॥

देवीं ध्यायामि, आवाहयामि॥

आसनम्

अनेकरत्नसंयुक्तं नानामणिगणान्वितम्।

कार्तस्वरमयं दिव्यं आसनं प्रतिगृह्यताम्॥

देव्यै नमः। आसनं समर्पयामि॥

पाद्यम्

गङ्गादिसर्वतीर्थेभ्यः आनीतं तोयमुत्तमम्।

पाद्यं तेऽहं प्रदास्यामि गृहाण परमेश्वरि॥

देव्यै नमः। पाद्यं समर्पयामि॥

अर्घ्यम्

गन्धाक्षतैश्च संयुक्तं फलपुष्पयुतं शुभम्।

अर्घ्यं गृहाण मे देवि प्रसीद परमेश्वरि॥

देव्यै नमः। अर्घ्यं समर्पयामि॥

आचमनीयम्

गङ्गागोदावरीरेवायमुनाभ्यः समाहृतम्।

तोयं चाचमनीयार्थं सुशीतं प्रतिगृह्यताम्॥

देव्यै नमः। आचमनीयं समर्पयामि॥

मधुपर्कः

दधिमध्वाज्यसंयुक्तं पात्रयुग्मसमन्वितम्।

मधुपर्कं गृहाण त्वं वरदा भव शोभने॥

देव्यै नमः। मधुपर्कं समर्पयामि॥

स्नानम्

मन्दाकिन्याः समानीतैः हेमाम्भोरुहवासितैः।

स्नानं कुरुष्व देवेशि सलिलैश्च सुगन्धिभिः॥

देव्यै नमः। स्नापयामि। आचमनीयं समर्पयामि॥

वस्त्रम्

पट्टचेलयुगं देवि कञ्चुकेन समन्वितम्।

परिधेहि कृपां कृत्वा दुर्गे दुर्गतिनाशिनि॥

देव्यै नमः। वस्त्रयुग्मं समर्पयामि॥

उपवीतम्

स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा।

उपवीतं मया दत्तं गृहाण परमेश्वरि॥

देव्यै नमः। उपवीतं समर्पयामि॥

गन्धः

श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्।

विलेपनं च देवेशि चन्दनं प्रतिगृह्यताम्॥

देव्यै नमः। गन्धान् धारयामि॥ गन्धोपरि हरिद्राकुङ्कुमं समर्पयामि॥ कज्जलं समर्पयामि॥ सौभाग्यसूत्रं समर्पयामि॥ दर्पणकङ्कतादिसौभाग्यद्रव्याणि समर्पयामि॥ सुगन्धिपरिमलद्रव्याणि समर्पयामि॥

अक्षताः

अक्षतान् निर्मलान् शुद्धान् मुक्तामणिसमन्वितान्।

कुङ्कुमाक्तान् गृहाणेमान् देहि मे निर्मलां धियम्॥

देव्यै नमः। अक्षतान् समर्पयामि॥

पुष्पमाला

सुगन्धैः पुष्पनिचयैः ग्रथितां पुष्पमालिकाम्।

अर्पये तव शोभार्थं गृहाण परमेश्वरि॥

देव्यै नमः। पुष्पमालां समर्पयामि॥ पुष्पैः पूजयामि॥

अङ्गपूजा
दुर्गायै नमःपादौ पूजयामि॥
महाकाल्यै नमःगुल्फौ पूजयामि॥
मङ्गलायै नमःजानुनी पूजयामि॥
कात्यायन्यै नमःऊरू पूजयामि॥
भद्रकाल्यै नमःकटिं पूजयामि॥
कमलवासिन्यै नमःनाभिं पूजयामि॥
शिवायै नमःउदरं पूजयामि॥
क्षमायै नमःहृदयं पूजयामि॥
उमायै नमःहस्तौ पूजयामि॥
महागौर्यै नमःदक्षबाहुं पूजयामि॥
वैष्णव्यै नमःवामबाहुं पूजयामि॥
रमायै नमःस्कन्धौ पूजयामि॥
स्कन्दमात्रे नमःकण्ठं पूजयामि॥
महिषमर्दिन्यै नमःनेत्रे पूजयामि॥
सिंहवाहिन्यै नमःमुखं पूजयामि॥
माहेश्वर्यै नमःशिरः पूजयामि॥
कात्यायन्यै नमःसर्वाण्यङ्गानि पूजयामि॥
ललिताष्टोत्तरशतनामभिः अर्चनम्
ललिता अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
  1. १ॐ ऐं ह्रीं श्रीं रजताचलशृङ्गाग्रमध्यस्थायै नमो नमः
  2. २ॐ ऐं ह्रीं श्रीं हिमाचलमहावंशपावनायै नमो नमः
  3. ३ॐ ऐं ह्रीं श्रीं शङ्करार्धाङ्गसौन्दर्यशरीरायै नमो नमः
  4. ४ॐ ऐं ह्रीं श्रीं लसन्मरकतस्वच्छविग्रहायै नमो नमः
  5. ५ॐ ऐं ह्रीं श्रीं महातिशयसौन्दर्यलावण्यायै नमो नमः
  6. ६ॐ ऐं ह्रीं श्रीं शशाङ्कशेखरप्राणवल्लभायै नमो नमः
  7. ७ॐ ऐं ह्रीं श्रीं सदापञ्चदशात्मैक्यस्वरूपायै नमो नमः
  8. ८ॐ ऐं ह्रीं श्रीं वज्रमाणिक्यकटककिरीटायै नमो नमः
  9. ९ॐ ऐं ह्रीं श्रीं कस्तूरीतिलकोल्लासितनिटलायै नमो नमः
  10. १०ॐ ऐं ह्रीं श्रीं भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः
  11. ११ॐ ऐं ह्रीं श्रीं विकचाम्भोरुहदललोचनायै नमो नमः
  12. १२ॐ ऐं ह्रीं श्रीं शरच्चाम्पेयपुष्पाभनासिकायै नमो नमः
  13. १३ॐ ऐं ह्रीं श्रीं लसत्काञ्चनताटङ्कयुगलायै नमो नमः
  14. १४ॐ ऐं ह्रीं श्रीं मणिदर्पणसङ्काशकपोलायै नमो नमः
  15. १५ॐ ऐं ह्रीं श्रीं ताम्बूलपूरितस्मेरवदनायै नमो नमः
  16. १६ॐ ऐं ह्रीं श्रीं सुपक्वदाडिमीबीजरदनायै नमो नमः
  17. १७ॐ ऐं ह्रीं श्रीं कम्बुपूगसमच्छायकन्धरायै नमो नमः
  18. १८ॐ ऐं ह्रीं श्रीं स्थूलमुक्ताफलोदारसुहारायै नमो नमः
  19. १९ॐ ऐं ह्रीं श्रीं गिरीशबद्धमाङ्गल्यमङ्गलायै नमो नमः
  20. २०ॐ ऐं ह्रीं श्रीं पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः
  21. २१ॐ ऐं ह्रीं श्रीं पद्मकैरवमन्दारसुमालिन्यै नमो नमः
  22. २२ॐ ऐं ह्रीं श्रीं सुवर्णकुम्भयुग्माभसुकुचायै नमो नमः
  23. २३ॐ ऐं ह्रीं श्रीं रमणीयचतुर्बाहुसंयुक्तायै नमो नमः
  24. २४ॐ ऐं ह्रीं श्रीं कनकाङ्गदकेयूरभूषितायै नमो नमः
  25. २५ॐ ऐं ह्रीं श्रीं बृहत्सौवर्णसौन्दर्यवसनायै नमो नमः
  26. २६ॐ ऐं ह्रीं श्रीं बृहन्नितम्बविलसज्जघनायै नमो नमः
  27. २७ॐ ऐं ह्रीं श्रीं सौभाग्यजातशृङ्गारमध्यमायै नमो नमः
  28. २८ॐ ऐं ह्रीं श्रीं दिव्यभूषणसन्दोहरञ्जितायै नमो नमः
  29. २९ॐ ऐं ह्रीं श्रीं पारिजातगुणाधिक्यपदाब्जायै नमो नमः
  30. ३०ॐ ऐं ह्रीं श्रीं सुपद्मरागसङ्काशचरणायै नमो नमः
  31. ३१ॐ ऐं ह्रीं श्रीं कामकोटिमहापद्मपीठस्थायै नमो नमः
  32. ३२ॐ ऐं ह्रीं श्रीं श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः
  33. ३३ॐ ऐं ह्रीं श्रीं सचामररमावाणीवीजितायै नमो नमः
  34. ३४ॐ ऐं ह्रीं श्रीं भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः
  35. ३५ॐ ऐं ह्रीं श्रीं भूतेशालिङ्गनोद्भूतपुलकाङ्ग्यै नमो नमः
  36. ३६ॐ ऐं ह्रीं श्रीं अनङ्गजनकापाङ्गवीक्षणायै नमो नमः
  37. ३७ॐ ऐं ह्रीं श्रीं ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमो नमः
  38. ३८ॐ ऐं ह्रीं श्रीं शचीमुख्यामरवधूसेवितायै नमो नमः
  39. ३९ॐ ऐं ह्रीं श्रीं लीलाकल्पितब्रह्माण्डमण्डलायै नमो नमः
  40. ४०ॐ ऐं ह्रीं श्रीं अमृतादिमहाशक्तिसंवृतायै नमो नमः
  41. ४१ॐ ऐं ह्रीं श्रीं एकातपत्रसाम्राज्यदायिकायै नमो नमः
  42. ४२ॐ ऐं ह्रीं श्रीं सनकादिसमाराध्यपादुकायै नमो नमः
  43. ४३ॐ ऐं ह्रीं श्रीं देवर्षिभिः स्तूयमानवैभवायै नमो नमः
  44. ४४ॐ ऐं ह्रीं श्रीं कलशोद्भवदुर्वासपूजितायै नमो नमः
  45. ४५ॐ ऐं ह्रीं श्रीं मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः
  46. ४६ॐ ऐं ह्रीं श्रीं चक्रराजमहायन्त्रमध्यवर्त्यै नमो नमः
  47. ४७ॐ ऐं ह्रीं श्रीं चिदग्निकुण्डसम्भूतसुदेहायै नमो नमः
  48. ४८ॐ ऐं ह्रीं श्रीं शशाङ्कखण्डसंयुक्तमकुटायै नमो नमः
  49. ४९ॐ ऐं ह्रीं श्रीं मत्तहंसवधूमन्दगमनायै नमो नमः
  50. ५०ॐ ऐं ह्रीं श्रीं वन्दारुजनसन्दोहवन्दितायै नमो नमः
  51. ५१ॐ ऐं ह्रीं श्रीं अन्तर्मुखजनानन्दफलदायै नमो नमः
  52. ५२ॐ ऐं ह्रीं श्रीं पतिव्रताङ्गनाभीष्टफलदायै नमो नमः
  53. ५३ॐ ऐं ह्रीं श्रीं अव्याजकरुणापूरपूरितायै नमो नमः
  54. ५४ॐ ऐं ह्रीं श्रीं नितान्तसच्चिदानन्दसंयुक्तायै नमो नमः
  55. ५५ॐ ऐं ह्रीं श्रीं सहस्रसूर्यसंयुक्तप्रकाशायै नमो नमः
  56. ५६ॐ ऐं ह्रीं श्रीं रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः
  57. ५७ॐ ऐं ह्रीं श्रीं हानिवृद्धिगुणाधिक्यरहितायै नमो नमः
  58. ५८ॐ ऐं ह्रीं श्रीं महापद्माटवीमध्यनिवासायै नमो नमः
  59. ५९ॐ ऐं ह्रीं श्रीं जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः
  60. ६०ॐ ऐं ह्रीं श्रीं महापापौघपापानां विनाशिन्यै नमो नमः
  61. ६१ॐ ऐं ह्रीं श्रीं दुष्टभीतिमहाभीतिभञ्जनायै नमो नमः
  62. ६२ॐ ऐं ह्रीं श्रीं समस्तदेवदनुजप्रेरकायै नमो नमः
  63. ६३ॐ ऐं ह्रीं श्रीं समस्तहृदयाम्भोजनिलयायै नमो नमः
  64. ६४ॐ ऐं ह्रीं श्रीं अनाहतमहापद्ममन्दिरायै नमो नमः
  65. ६५ॐ ऐं ह्रीं श्रीं सहस्रारसरोजातवासितायै नमो नमः
  66. ६६ॐ ऐं ह्रीं श्रीं पुनरावृत्तिरहितपुरस्थायै नमो नमः
  67. ६७ॐ ऐं ह्रीं श्रीं वाणीगायत्रीसावित्रीसन्नुतायै नमो नमः
  68. ६८ॐ ऐं ह्रीं श्रीं रमाभूमिसुताराध्यपदाब्जायै नमो नमः
  69. ६९ॐ ऐं ह्रीं श्रीं लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः
  70. ७०ॐ ऐं ह्रीं श्रीं सहस्ररतिसौन्दर्यशरीरायै नमो नमः
  71. ७१ॐ ऐं ह्रीं श्रीं भावनामात्रसन्तुष्टहृदयायै नमो नमः
  72. ७२ॐ ऐं ह्रीं श्रीं सत्यसम्पूर्णविज्ञानसिद्धिदायै नमो नमः
  73. ७३ॐ ऐं ह्रीं श्रीं श्रीलोचनकृतोल्लासफलदायै नमो नमः
  74. ७४ॐ ऐं ह्रीं श्रीं श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नमः
  75. ७५ॐ ऐं ह्रीं श्रीं दक्षाध्वरविनिर्भेदसाधनायै नमो नमः
  76. ७६ॐ ऐं ह्रीं श्रीं श्रीनाथसोदरीभूतशोभितायै नमो नमः
  77. ७७ॐ ऐं ह्रीं श्रीं चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः
  78. ७८ॐ ऐं ह्रीं श्रीं सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नमः
  79. ७९ॐ ऐं ह्रीं श्रीं नामपारायणाभीष्टफलदायै नमो नमः
  80. ८०ॐ ऐं ह्रीं श्रीं सृष्टिस्थितितिरोधानसङ्कल्पायै नमो नमः
  81. ८१ॐ ऐं ह्रीं श्रीं श्रीषोडशाक्षरीमन्त्रमध्यगायै नमो नमः
  82. ८२ॐ ऐं ह्रीं श्रीं अनाद्यन्तस्वयम्भूतदिव्यमूर्त्यै नमो नमः
  83. ८३ॐ ऐं ह्रीं श्रीं भक्तहंसपरीमुख्यवियोगायै नमो नमः
  84. ८४ॐ ऐं ह्रीं श्रीं मातृमण्डलसंयुक्तललितायै नमो नमः
  85. ८५ॐ ऐं ह्रीं श्रीं भण्डदैत्यमहासत्त्वनाशनायै नमो नमः
  86. ८६ॐ ऐं ह्रीं श्रीं क्रूरभण्डशिरश्छेदनिपुणायै नमो नमः
  87. ८७ॐ ऐं ह्रीं श्रीं धात्र्यच्युतसुराधीशसुखदायै नमो नमः
  88. ८८ॐ ऐं ह्रीं श्रीं चण्डमुण्डनिशुम्भादिखण्डनायै नमो नमः
  89. ८९ॐ ऐं ह्रीं श्रीं रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नमः
  90. ९०ॐ ऐं ह्रीं श्रीं महिषासुरदोर्वीर्यनिग्रहायै नमो नमः
  91. ९१ॐ ऐं ह्रीं श्रीं अभ्रकेशमहोत्साहकारणायै नमो नमः
  92. ९२ॐ ऐं ह्रीं श्रीं महेशयुक्तनटनतत्परायै नमो नमः
  93. ९३ॐ ऐं ह्रीं श्रीं निजभर्तृमुखाम्भोजचिन्तनायै नमो नमः
  94. ९४ॐ ऐं ह्रीं श्रीं वृषभध्वजविज्ञानभावनायै नमो नमः
  95. ९५ॐ ऐं ह्रीं श्रीं जन्ममृत्युजरारोगभञ्जनायै नमो नमः
  96. ९६ॐ ऐं ह्रीं श्रीं विदेहमुक्तविज्ञानसिद्धिदायै नमो नमः
  97. ९७ॐ ऐं ह्रीं श्रीं कामक्रोधादिषड्वर्गनाशनायै नमो नमः
  98. ९८ॐ ऐं ह्रीं श्रीं राजराजार्चितपदसरोजायै नमो नमः
  99. ९९ॐ ऐं ह्रीं श्रीं सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नमः
  100. १००ॐ ऐं ह्रीं श्रीं श्रीवीरभक्तविज्ञाननिधानायै नमो नमः
  101. १०१ॐ ऐं ह्रीं श्रीं अशेषदुष्टदनुजसूदनायै नमो नमः
  102. १०२ॐ ऐं ह्रीं श्रीं साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नमः
  103. १०३ॐ ऐं ह्रीं श्रीं हयमेधाग्रसम्पूज्यमहिमायै नमो नमः
  104. १०४ॐ ऐं ह्रीं श्रीं दक्षप्रजापतिसुतवेषाढ्यायै नमो नमः
  105. १०५ॐ ऐं ह्रीं श्रीं सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः
  106. १०६ॐ ऐं ह्रीं श्रीं नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः
  107. १०७ॐ ऐं ह्रीं श्रीं महादेवसमायुक्तशरीरायै नमो नमः
  108. १०८ॐ ऐं ह्रीं श्रीं महादेवरतोत्सुकमहादेव्यै नमो नमः
धूपः

दशाङ्गं गुग्गुलुं धूपं चन्दनागरुसंयुतम्।

समर्पितं मया भक्त्या महादेवि प्रगृह्यताम्॥

देव्यै नमः। धूपं समर्पयामि॥

दीपः

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।

दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम्॥

देव्यै नमः। दीपं दर्शयामि॥

नैवेद्यम्

अन्नं स्वादुरसैः षड्भिः शाकवर्गैः समन्वितम्।

नैवेद्यं गृह्यतां देवि भक्ष्यभोज्यादिसंयुतम्॥

देव्यै नमः। अमृतोपहारं निवेदयामि। आचमनीयं समर्पयामि॥

फलानि

नारिकेलं च नारङ्गं कलिङ्गं दाडिमं तथा।

उर्वारुकं च कदलीं फलानि च गृहाण मे॥

देव्यै नमः। फलानि समर्पयामि॥

ताम्बूलम्

पूगीफलसमायुक्तां नागवल्लीदलैर्युताम्।

एलालवङ्गकर्पूरैः वीटिकां ते समर्पये॥

देव्यै नमः। ताम्बूलं समर्पयामि॥ कर्पूरनीराजनं समर्पयामि॥

मन्त्रपुष्पाञ्जलिः

मन्दारपारिजातादि पाटलीकेतकानि च।

जातीचम्पकपुष्पाणि गृहाणेमानि शोभने॥

देव्यै नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि॥

प्रदक्षिणनमस्काराः

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥

शरणागतदीनार्तपरित्राणपरायणे।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥

देव्यै नमः। प्रदक्षिणनमस्कारान् समर्पयामि॥

प्रार्थना

विधेहि देवि कल्याणं विधेहि परमां श्रियम्।

रूपं देहि जयं देहि यशो देहि द्विषो जहि॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि।

यत्पूजितं मया देवि परिपूर्णं तदस्तु मे॥

दुर्गासप्तश्लोकी

दुर्गासप्तश्लोकीं दुर्गापञ्चरत्नस्तवं च पठेत्।

ज्ञानिनामपि चेतांसि देवी भगवती हि सा।

बलादाकृष्य मोहाय महामाया प्रयच्छति॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥

शरणागतदीनार्तपरित्राणपरायणे।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥

रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान्।

त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥

श्रीदुर्गापञ्चरत्नस्तोत्रम्

श्रीकाञ्चीकामकोटिपीठाधिप जगद्गुरु श्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीपादैः कृतम्।

ते ध्यानयोगानुगता अपश्यन् त्वामेव देवीं स्वगुणैर्निगूढाम्।

त्वमेव शक्तिः परमेश्वरस्य मां पाहि सर्वेश्वरि मोक्षदात्रि॥

देवात्मशक्तिः श्रुतिवाक्यगीता महर्षिलोकस्य पुरः प्रसन्ना।

गुहा परं व्योम सतः प्रतिष्ठा मां पाहि सर्वेश्वरि मोक्षदात्रि॥

परास्य शक्तिः विविधैव श्रूयसे श्वेताश्ववाक्योदितदेवि दुर्गे।

स्वाभाविकी ज्ञानबलक्रिया ते मां पाहि सर्वेश्वरि मोक्षदात्रि॥

देवात्मशब्देन शिवात्मभूता यत्कूर्मवायव्यवचोविवृत्या।

त्वं पाशविच्छेदकरी प्रसिद्धा मां पाहि सर्वेश्वरि मोक्षदात्रि॥

त्वं ब्रह्मपुच्छा विविधा मयूरी ब्रह्मप्रतिष्ठास्युपदिष्टगीता।

ज्ञानस्वरूपात्मतयाखिलानां मां पाहि सर्वेश्वरि मोक्षदात्रि॥

समर्पणम्

अनेन शरन्नवरात्रमहोत्सवपुण्यकाले कृतेन श्रीमहात्रिपुरसुन्दरीस्वरूपसुवासिनीपूजनेन भगवती सर्वात्मिका श्रीमहात्रिपुरसुन्दरी प्रीयताम्।

ओं तत्सत् ब्रह्मार्पणमस्तु॥