मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्द षष्ठी पूजा

स्कन्द षष्ठी पूजा. Also called skanda shashti, kanda sashti, subramanya puja, murugan puja.

3

कार्त्तिकमासे शुक्लषष्ठ्यां स्कन्दः शूरपद्मं जघान — सा स्कन्दषष्ठी। षष्ठीव्रतं प्रतिशुक्लषष्ठ्यामप्याचर्यते। सत्पुत्रप्राप्तिः फलम्। पूजान्ते ब्रह्मचारिणं स्कन्दरूपेण भावयित्वा तस्मै उपायनं दद्यात्, सुब्रह्मण्याय चन्द्राय च अर्घ्यं दद्यात्।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं वल्लीदेवसेनासमेतश्रीसुब्रह्मण्यप्रीत्यर्थं अस्माकं सहकुटुम्बानां क्षेमस्थैर्यवीर्यविजयायुरारोग्यैश्वर्याणामभिवृद्ध्यर्थं सत्सन्तानसौभाग्यसिद्ध्यर्थं सर्वारिष्टनिवृत्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं यावच्छक्ति ध्यानावाहनादिषोडशोपचारपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्राणप्रतिष्ठा

प्रतिमासु देवतां ध्यात्वा प्राणप्रतिष्ठां कुर्यात्।

अस्य श्रीप्राणप्रतिष्ठामहामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः। ऋग्यजुस्सामाथर्वाणि छन्दांसि। सकलजगत्सृष्टिस्थितिसंहारकारिणी प्राणशक्तिः परा देवता। ओं बीजम्। ह्रीं शक्तिः। क्रों कीलकम्। प्राणप्रतिष्ठायां विनियोगः।

करन्यासः
ओं अङ्गुष्ठाभ्यां नमः
ह्रीं तर्जनीभ्यां नमः
क्रों मध्यमाभ्यां नमः
ओं अनामिकाभ्यां नमः
ह्रीं कनिष्ठाभ्यां नमः
क्रों करतलकरपृष्ठाभ्यां नमः
अङ्गन्यासः

भूर्भुवस्सुवरोमिति दिग्बन्धः। ध्यानम्।

ओं हृदयाय नमः
ह्रीं शिरसे स्वाहा
क्रों शिखायै वषट्
ओं कवचाय हुम्
ह्रीं नेत्रत्रयाय वौषट्
क्रों अस्त्राय फट्
प्राणशक्तिध्यानम्

रक्ताम्भोधिस्यपोतोद्यद्दारुणसरोजाधिरूढा कराम्बुजैः

पाशं कोदण्डमिक्षुं सृणिमपि दधती मण्यङ्कुशं पुष्पबाणान्।

बिभ्राणा सृक्कपालं विमलनखलसिता पीनवक्षोरुहाढ्या

देवी बाला त्रिनेत्रा भवतु सुखकरी प्राणशक्तिः परा नः ॥

तत्त्वोपचाराः
लं पृथिव्यात्मिकायैगन्धं समर्पयामि।
हं आकाशात्मिकायैपुष्पैः पूजयामि।
यं वाय्वात्मिकायैधूपमाघ्रापयामि।
रं अग्न्यात्मिकायैदीपं दर्शयामि।
वं अमृतात्मिकायैअमृतं महानैवेद्यं निवेदयामि।
सं सर्वात्मिकायैसर्वोपचारपूजां समर्पयामि।
जीवस्थापनम्

पञ्चदशसंस्कारार्थं पञ्चदशवारं प्रणवजपं कृत्वा।

ओं ह्रीं क्रों क्रों ह्रीं आं। यं रं लं वं शं षं सं हों। हंससोऽहं सोऽहं हंसः। अस्यां मूर्तौ जीवस्तिष्ठतु। अस्यां मूर्तौ सर्वेन्द्रियाणि मनस्त्वक्चक्षुःश्रोत्रजिह्वाप्राणवाक्पाणिपादपायूपस्थाख्यानि प्राणापानव्यानोदानसमानाश्चागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥

असुं नीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम्। ज्योक् पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥

आवाहनस्थापनम्

आवाहितो भव। स्थापितो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव। सुप्रीतो भव। सुप्रसन्नो भव। सुमुखो भव। वरदो भव। प्रसीद प्रसीद। स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥

इति पूर्वाङ्गपूजा।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

सुब्रह्मण्यध्यानम्

विघ्नेश्वरमुद्वास्य। पूर्वाङ्गपूजा। वल्लीदेवसेनासमेतश्रीसुब्रह्मण्यं ध्यायामि।

सेनाधिप महाबाहो षण्मुखेश्वरनन्दन।

मयूरवाहन स्वामिन् शक्तिद्वयसमन्वित ॥

करुणाकर भक्तेष्टवरदाद्रिसुतासुत।

द्विषड्भुज कुमार त्वं प्रसन्नो भव सर्वदा ॥

आवाहनम्

सुब्रह्मण्य महाभाग क्रौञ्चाख्यगिरिभेदन।

आवाहयामि देव त्वां भक्ताभीष्टप्रदो भव ॥

सुब्रह्मण्यं आवाहयामि।

आसनम्

अग्निपुत्र महाभाग कार्तिकेय सुरार्चित।

रत्नसिंहासनं देव गृहाण वरदाव्यय ॥

सुब्रह्मण्याय नमः। आसनं समर्पयामि।

पाद्यम्

गणेशानुज देवेश वल्लीकामदविग्रह।

पाद्यं गृहाण गाङ्गेय भक्त्या दत्तं सुरार्चित ॥

सुब्रह्मण्याय नमः। पाद्यं समर्पयामि।

अर्घ्यम्

ब्रह्मादिदेवबृन्दानां प्रणवार्थोपदेशक।

अर्घ्यं गृहाण देवेश तारकान्तक षण्मुख ॥

सुब्रह्मण्याय नमः। अर्घ्यं समर्पयामि।

आचमनीयम्

एलाकुंकुमकस्तूरीकर्पूरादिसुवासितैः।

तीर्थैराचम्यतां देव गङ्गाधरसुताव्यय ॥

सुब्रह्मण्याय नमः। आचमनीयं समर्पयामि।

स्नानम्

स्वामिन् शरवणोद्भूत शूरपद्मासुरान्तक।

गङ्गादिसलिलैः स्नाहि देवसेनामनोहर ॥

सुब्रह्मण्याय नमः। स्नपयामि।

पञ्चामृतस्नानम्

शर्करामधुगोक्षीरफलसारघृतैर्युतम्।

पञ्चामृतस्नानमिदं बाहुलेय गृहाण भो ॥

सुब्रह्मण्याय नमः। पञ्चामृतस्नानं समर्पयामि। पुनः शुद्धोदकस्नानं समर्पयामि।

वस्त्रम्

दुकूलवस्त्रयुगलं मुक्ताजालसमन्वितम्।

प्रीत्या गृहाण गाङ्गेय भक्तापद्भञ्जनक्षम ॥

सुब्रह्मण्याय नमः। वस्त्रयुग्मं समर्पयामि।

उपवीतम्

राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम्।

यज्ञोपवीतं देवेश गृहाण सुरनायक ॥

सुब्रह्मण्याय नमः। उपवीतं समर्पयामि।

भस्म

नित्याग्निहोत्रसंभूतं विरजाहोमभावितम्।

गृहाण भस्म हे स्वामिन् भक्तानां भूतिदो भव ॥

सुब्रह्मण्याय नमः। भस्मरक्षां समर्पयामि।

गन्धः

कस्तूरीकुंकुमाद्यैश्च वासितं सहिमोदकम्।

गन्धं विलेपनार्थाय गृहाण क्रौञ्चदारण ॥

सुब्रह्मण्याय नमः। गन्धान् धारयामि।

अक्षताः

अक्षतान् धवलान् दिव्यान् शालेयान् तण्डुलान् शुभान्।

काञ्चनाक्षतसंयुक्तान् कुमार प्रतिगृह्यताम् ॥

सुब्रह्मण्याय नमः। अक्षतान् समर्पयामि।

पुष्पाणि

पुन्नागवकुलाशोकनीपपाटलजाति च।

वासन्तिकाबिल्वजाजीपुष्पाणि परिगृह्यताम् ॥

सुब्रह्मण्याय नमः। पुष्पाणि समर्पयामि।

अङ्गपूजा
सुवन्दितपादाय नमःपादौ पूजयामि।
मुकुराकारजानवे नमःजानुनी पूजयामि।
करिकरोरवे नमःऊरू पूजयामि।
रत्नकिंकिणिनूपुरकट्यै नमःकटिं पूजयामि।
गुहाय नमःगुह्यं पूजयामि।
हेरंबसहोदराय नमःउदरं पूजयामि।
सुनाभये नमःनाभिं पूजयामि।
सुहृदे नमःहृदयं पूजयामि।
विशालवक्षसे नमःवक्षःस्थलं पूजयामि।
कृत्तिकास्तनंधयाय नमःस्तनौ पूजयामि।
शत्रुजयोर्जितबाहवे नमःबाहून् पूजयामि।
शक्तिहस्ताय नमःहस्तान् पूजयामि।
पुष्करस्रजकण्ठाय नमःकण्ठं पूजयामि।
षण्मुखाय नमःमुखानि पूजयामि।
सुनासाय नमःनासिके पूजयामि।
द्विषण्णेत्राय नमःनेत्राणि पूजयामि।
हिरण्यकुण्डलकर्णाय नमःकर्णौ पूजयामि।
फालनेत्रसुताय नमःफालं पूजयामि।
वेदशिरोवेद्याय नमःशिरः पूजयामि।
सेनापतये नमःसर्वाण्यङ्गानि पूजयामि ॥
अष्टोत्तरशतनामार्चना
सुब्रह्मण्य अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
  1. १ॐ स्कन्दाय नमः
  2. २ॐ गुहाय नमः
  3. ३ॐ षण्मुखाय नमः
  4. ४ॐ फालनेत्रसुताय नमः
  5. ५ॐ प्रभवे नमः
  6. ६ॐ पिङ्गलाय नमः
  7. ७ॐ कृत्तिकासूनवे नमः
  8. ८ॐ शिखिवाहाय नमः
  9. ९ॐ द्विषड्भुजाय नमः
  10. १०ॐ द्विषण्णेत्राय नमः
  11. ११ॐ शक्तिधराय नमः
  12. १२ॐ पिशिताशप्रभञ्जनाय नमः
  13. १३ॐ तारकासुरसंहारिणे नमः
  14. १४ॐ रक्षोबलविमर्दनाय नमः
  15. १५ॐ मत्ताय नमः
  16. १६ॐ प्रमत्ताय नमः
  17. १७ॐ उन्मत्ताय नमः
  18. १८ॐ सुरसैन्यसुरक्षकाय नमः
  19. १९ॐ देवसेनापतये नमः
  20. २०ॐ प्राज्ञाय नमः
  21. २१ॐ कृपालवे नमः
  22. २२ॐ भक्तवत्सलाय नमः
  23. २३ॐ उमासुताय नमः
  24. २४ॐ शक्तिधराय नमः
  25. २५ॐ कुमाराय नमः
  26. २६ॐ क्रौञ्चदारणाय नमः
  27. २७ॐ सेनानिने नमः
  28. २८ॐ अग्निजन्मने नमः
  29. २९ॐ विशाखाय नमः
  30. ३०ॐ शङ्करात्मजाय नमः
  31. ३१ॐ शिवस्वामिने नमः
  32. ३२ॐ गणस्वामिने नमः
  33. ३३ॐ सर्वस्वामिने नमः
  34. ३४ॐ सनातनाय नमः
  35. ३५ॐ अनन्तमूर्तये नमः
  36. ३६ॐ अक्षोभ्याय नमः
  37. ३७ॐ पार्वतीप्रियनन्दनाय नमः
  38. ३८ॐ गङ्गासुताय नमः
  39. ३९ॐ शरोद्भूताय नमः
  40. ४०ॐ आहूताय नमः
  41. ४१ॐ पावकात्मजाय नमः
  42. ४२ॐ जृम्भाय नमः
  43. ४३ॐ प्रजृम्भाय नमः
  44. ४४ॐ उज्जृम्भाय नमः
  45. ४५ॐ कमलासनसंस्तुताय नमः
  46. ४६ॐ एकवर्णाय नमः
  47. ४७ॐ द्विवर्णाय नमः
  48. ४८ॐ त्रिवर्णाय नमः
  49. ४९ॐ सुमनोहराय नमः
  50. ५०ॐ चतुर्वर्णाय नमः
  51. ५१ॐ पञ्चवर्णाय नमः
  52. ५२ॐ प्रजापतये नमः
  53. ५३ॐ अहस्पतये नमः
  54. ५४ॐ अग्निगर्भाय नमः
  55. ५५ॐ शमीगर्भाय नमः
  56. ५६ॐ विश्वरेतसे नमः
  57. ५७ॐ सुरारिघ्ने नमः
  58. ५८ॐ हरिद्वर्णाय नमः
  59. ५९ॐ शुभकराय नमः
  60. ६०ॐ वटवे नमः
  61. ६१ॐ पटुवेषभृते नमः
  62. ६२ॐ पूष्णे नमः
  63. ६३ॐ गभस्तये नमः
  64. ६४ॐ गहनाय नमः
  65. ६५ॐ चन्द्रवर्णाय नमः
  66. ६६ॐ कलाधराय नमः
  67. ६७ॐ मायाधराय नमः
  68. ६८ॐ महामायिने नमः
  69. ६९ॐ कैवल्याय नमः
  70. ७०ॐ शङ्करात्मजाय नमः
  71. ७१ॐ विश्वयोनये नमः
  72. ७२ॐ अमेयात्मने नमः
  73. ७३ॐ तेजोयोनये नमः
  74. ७४ॐ अनामयाय नमः
  75. ७५ॐ परमेष्ठिने नमः
  76. ७६ॐ परब्रह्मणे नमः
  77. ७७ॐ वेदगर्भाय नमः
  78. ७८ॐ विराट्सुताय नमः
  79. ७९ॐ पुलिन्दकन्याभर्त्रे नमः
  80. ८०ॐ महासारस्वतावृताय नमः
  81. ८१ॐ आश्रिताखिलदात्रे नमः
  82. ८२ॐ चोरघ्नाय नमः
  83. ८३ॐ रोगनाशनाय नमः
  84. ८४ॐ अनन्तमूर्तये नमः
  85. ८५ॐ आनन्दाय नमः
  86. ८६ॐ शिखण्डिने नमः
  87. ८७ॐ कृतकेतनाय नमः
  88. ८८ॐ डम्भाय नमः
  89. ८९ॐ परमडम्भाय नमः
  90. ९०ॐ महाडम्भाय नमः
  91. ९१ॐ वृषाकपये नमः
  92. ९२ॐ कारणोत्पत्ति-देहाय नमः
  93. ९३ॐ कारणातीत-विग्रहाय नमः
  94. ९४ॐ अनीश्वराय नमः
  95. ९५ॐ अमृताय नमः
  96. ९६ॐ प्राणाय नमः
  97. ९७ॐ प्राणायामपरायणाय नमः
  98. ९८ॐ विरुद्धहन्त्रे नमः
  99. ९९ॐ वीरघ्नाय नमः
  100. १००ॐ रक्तश्यामगलाय नमः
  101. १०१ॐ सुब्रह्मण्याय नमः
  102. १०२ॐ गुहाय नमः
  103. १०३ॐ प्रीताय नमः
  104. १०४ॐ ब्रह्मण्याय नमः
  105. १०५ॐ ब्राह्मणप्रियाय नमः
  106. १०६ॐ वंशवृद्धिकराय नमः
  107. १०७ॐ वेदवेद्याय नमः
  108. १०८ॐ अक्षयफलप्रदाय नमः
धूपः

दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

सुब्रह्मण्याय नमः। धूपं समर्पयामि। आचमनीयं समर्पयामि।

दीपः

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।

गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥

सुब्रह्मण्याय नमः। दीपं समर्पयामि। आचमनीयं समर्पयामि।

नैवेद्यम्

अन्नं चतुर्विधं सूपफलभक्ष्यसमन्वितम्।

दधिमध्वाज्यसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥

सुब्रह्मण्याय नमः। अमृतं महानैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। आचमनीयं समर्पयामि।

ताम्बूलम्

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।

कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

सुब्रह्मण्याय नमः। कर्पूरताम्बूलं समर्पयामि।

नीराजनम्

चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च।

त्वमेव सर्वज्योतींषि कुर्यां नीराजनं तव ॥

सुब्रह्मण्याय नमः। सर्वमङ्गलप्राप्त्यर्थं सर्वापराधक्षमापणार्थं कर्पूरनीराजनं दर्शयामि। आचमनीयं समर्पयामि।

पुष्पाञ्जलिः

मन्दारनीलोत्पलकुन्दजातीपुन्नागमल्लीकरवीरपङ्कजैः।

पुष्पाञ्जलिं बिल्वदलैस्तुलस्या देव त्वदंघ्रौ विनिवेशयामि ॥

सुब्रह्मण्याय नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।

नमस्कारः

षडाननं कुंकुमरक्तवर्णं द्विषड्भुजं बालकमम्बिकासुतम्।

रुद्रस्य सूनुं सुरसैन्यनाथं गुहं सदाहं शरणं प्रपद्ये ॥

सुब्रह्मण्याय नमः। नमस्कारान् समर्पयामि ॥

प्रार्थना

पुत्रान् देहि यशो देहि संपदं देहि शाश्वतीम्।

त्वयि भक्तिं च मे देहि परत्र च परां गतिम् ॥

इति प्रार्थना ॥

राजोपचाराः

छत्रचामरनृत्तगीतवाद्यादिसमस्तराजोपचारान् समर्पयामि ॥

अर्घ्यप्रदानम्

सुब्रह्मण्य महाभाग कार्तिकेय सुरार्चित।

इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥

श्रीसुब्रह्मण्याय नमः ॥ इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥

देवसेनापते स्वामिन् सेनानीरखिलेष्टद।

इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥

श्रीसुब्रह्मण्याय नमः ॥ इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥

चन्द्रात्रेय महाभाग सोम सोमविभूषण।

इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥

रोहिणीसहितचन्द्राय नमः ॥ इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥

नीलकण्ठ महाभाग सुब्रह्मण्यसुवाहन।

इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥

मयूराय नमः ॥ इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥

ब्राह्मणपूजा — उपायनदानम्

सुब्रह्मण्यपूजाफलसिद्ध्यर्थं ब्राह्मणपूजां उपायनदानं च करिष्ये।

सुब्रह्मण्यस्वरूपस्य ब्राह्मणस्य इदमासनम्।

गन्धादिसकलाराधनैः स्वर्चितम् ॥

सेनानीः प्रतिगृह्णाति सेनानीर्वै ददाति च।

सेनानीस्तारको द्वाभ्यां सेनान्यै ते नमो नमः ॥

इदमुपायनं सदक्षिणाकं सताम्बूलं वल्लीदेवसेनासमेतश्रीसुब्रह्मण्यप्रीतिं कामयमानस्तुभ्यमहं संप्रददे ॥ इत्युपायनदानम् ॥

समाप्तिः

श्रीसुब्रह्मण्यः सुप्रीतः सुप्रसन्नो वरदो भवतु ॥