मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

एकश्लोकी

3

सम्प्रदायतः श्रीशङ्करकृता

किं ज्योतिस्तवभानुमानहनि मे रात्रौ प्रदीपादिकं

स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे ।

चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शने

किं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ एकश्लोकी सम्पूर्णा