मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गणपति गकार अष्टोत्तरशत नाम स्तोत्रम्

3

पारम्परिकम्

गकाररूपो गम्बीजो गणेशो गणवन्दितः ।

गणनीयो गणोगण्यो गणनातीतसद्गुणः ॥

॥१॥

गगनादिकसृद्गङ्गासुतो गङ्गासुतार्चितः ।

गङ्गाधरप्रीतिकरो गवीशेड्यो गदापहः ॥

॥२॥

गदाधरनुतो गद्यपद्यात्मककवित्वदः ।

गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥

॥३॥

गञ्जानिरतशिक्षाकृद्गणितज्ञो गणोत्तमः ।

गण्डदानाञ्चितो गन्ता गण्डोपलसमाकृतिः ॥

॥४॥

गगनव्यापको गम्यो गमानादिविवर्जितः ।

गण्डदोषहरो गण्डभ्रमद्भ्रमरकुण्डलः ॥

॥५॥

गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ।

गन्धप्रियो गन्धवाहो गन्धसिन्धूरबृन्दगः ॥

॥६॥

गन्धादिपूजितो गव्यभोक्ता गर्गादिसन्नुतः ।

गरिष्ठो गरभिद्गर्वहरो गरलिभूषणः ॥

॥७॥

गविष्ठो गर्जितारावो गभीरहृदयो गदी ।

गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥

॥८॥

गर्भाधारो गर्भवासि-शिशुज्ञान-प्रदायकः ।

गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ॥

॥९॥

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।

गदाधरावतारी च गन्धर्वनगरार्चितः ॥

॥१०॥

गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः ।

गणरात्रसमाराध्यो गर्हणस्तुति-साम्यधीः ॥

॥११॥

गर्ताभनाभिर्गव्यूतिदीर्घतुण्डो गभस्तिमान् ।

गर्हिताचारदूरश्च गरुडोपलभूषितः ॥

॥१२॥

गजारिविक्रमो गन्धमूषवाजी गतश्रमः ।

गवेषणीयो गहनो गहनस्थमुनिस्तुतः ॥

॥१३॥

गवयच्छिद्गण्डकभिद्गह्वरापथवारणः ।

गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥

॥१४॥

गजचर्मामयच्छेत्ता गणाध्यक्षो गणार्चितः ।

गणिकानर्तनप्रीतो गच्छन् गन्धफली प्रियः ॥

॥१५॥

गन्धकादिरसाधीशो गणकानन्ददायकः ।

गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ॥

॥१६॥

गण्डूषीकृतवाराशिः गरिमालघिमादिदः ।

गवाक्षवत्सौधवासी गर्भितो गर्भिणीनुतः ॥

॥१७॥

गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः ।

गदितो गद्गदारावसंस्तुतो गह्वरीपतिः ॥

॥१८॥

गजेशो गरीयान् गद्येड्यो गतभीर्गदितागमः ।

गर्हणीय गुणाभावो गङ्गादिकशुचिप्रदः ॥

॥१९॥

गणनातीत-विद्या-श्री-बलायुष्यादि-दायकः ।

एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥

॥२०॥

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।

पूजान्ते यः पठेन्नित्यं प्रीतः सन् तस्य विघ्नराट् ॥

॥२१॥

यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।

दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥

॥२२॥

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।

तस्य प्रसन्नो विघ्नेशः सर्वान् कामान् प्रयच्छति ॥

॥२३॥

इति श्री-गणपति गकार अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्