लक्ष्मणशर्मविरचितम्
॥ ॐ नमो भगवते श्रीरमणाय ॥
श्रीरमणहृदयम्
ग्रन्थावतरणम्
हृद्गेहेऽहमहन्तयाखिलवपुष्यन्तः स्फुरन् सर्वदा
नैजानां निजतत्त्वरूपममृतं सन्दर्शयिष्यन् स्वयम् ।
प्रेम्णा स्वीकृतवानजो नरवपुर्योऽसौ गुरूणां गुरुः
वन्दे श्रीरमणाभिधं मुनिवरं तं स्वात्मनाथं परम् ॥
॥१॥प्रेम्णा यं रमणो मुनिर्व्यरचयद् ग्रन्थं निजानां मुदे
द्राविड्या निजतत्त्वरूपममृतं सन्दर्शयन्तं स्फुटम् ।
तच्छक्त्या तमनूद्य कोऽपि विनतश्चक्रे तदीयः कृतिं
गैर्वाण्या सरलामिमां रमणहृन्नाम्नीं मनश्शान्तये ॥
॥२॥याऽगम्या वचसो धियोऽपि पदवी निर्वासना चिन्मयी
गत्वा यां न निवर्तते मुनिवरस्तस्यां दिशन् निर्वृतिम् ।
सद्यश्चापि ददन्मुदं विजयते संविन्मयो भास्करः
संसेव्यः सततं मुमुक्षुभिरयं ग्रन्थो मुनीशोदितः ॥
॥३॥मङ्गलम्
अस्तीत्यस्मिन् कथं धीर्भवति यदि न सत् ? तद्विभिन्ना नु सच्चित् ?
सत्यं निश्चिन्तनं तद्भवति हृदि यतस्तस्य हृन्नामकस्य ।
ध्याता को वास्ति भिन्नो ? भवति च तदिदं ध्यानगम्यं कथं तु ?
तस्य ध्यानं हृदन्तः प्रशमितमनसा तन्मयत्वेन निष्ठा ॥
॥४॥मृत्योर्बिभ्यति ये भृशं सुमनसः, सर्वान्तरं ते शिवं
यान्तीशं शरणं परं विरहितं मृत्युद्भवाभ्यां स्वयम् ।
साकं तन्ममताभिरेति निधनं तेषामहन्ता ततः
स्यात् तेषां मरणस्य धीः किमु पदे नित्ये गतानां स्थितिम् ॥
॥५॥विवेकप्रकरणम्
पश्यामो भुवनं यतो, भवति सत् तन्मूलमेकं परं
यच्छक्तेः परिणामभूतमखिलं; नैतद्विवादास्पदम् ।
आख्यारूपमयं च चित्रमिदमप्याधारवस्त्रं द्युतिः
द्रष्टा चेति चतुष्टयं स परमो यः स्वात्मभूतो हृदि ॥
॥६॥विश्वं जीवपरौ वदेत् प्रथमतः सर्वं जगत्यां मतं
एकं सत् त्रिविधं प्रतीयत इति, त्रीण्येव तानीत्यपि ।
वादौ यावदहं मतिर्वपुषि; तां हित्वा तु सम्मोहिनीं
स्वस्मिन्नेव पदे स्थितिर्भवति या सर्वोत्तमा सैव हि ॥
॥७॥वादैः किं भविता जगद्भवति सन्मिथ्याभ्रमश्चिज्जडं
आनन्दं ननु दुःखमेव तदिति ? त्यक्त्वा समस्तं जगत् ।
स्वात्मानं समवेत्य सत्यममलं द्वैतैक्यवादातिगे
याहन्तारहिता स्थितिर्निजपदे सर्वादृता सैव हि ॥
॥८॥रूपी स्वो यदि रूपमस्तु जगतो रूपं परस्याप्युत
वीक्षा केन कथं च रूपरहितः स्वात्मा यदि स्याद्वद ? ।
दृश्यं किं नु दृशोऽन्यथा वद भवेद् ? दृक् सा स्व एवं स्वयं
निस्सीमा निरुपाधिका चितिमयी सा निष्प्रपञ्चाद्वया ॥
॥९॥देहो यन्निखिलस्य चापि भुवने स्यात् पञ्चकोशात्मकः
कोशानामपि पञ्चकं तत इदं देहाभिधानं भवेत् ।
सत्येवं वद देहतः किमु जगद्भिन्नं भवेत् तत्त्वतः ?
किं केनापि च वीक्षितं जगदिदं देहं विना प्रोच्यताम् ॥
॥१०॥शब्दादीन् विषयान् विहाय जगतो रूपं भवेन्नो पृथक्
एवं धीन्द्रियपञ्चकस्य विषयो निश्शेषमेतज्जगत् ।
एतैः पञ्चभिरिन्द्रियैर्जगदिदं ह्येकं मनो बुध्यते
सत्येवं मनसो जगत् कथय किं भिन्नं भवेत् तत्त्वतः? ॥
॥११॥विश्वं बुद्धिरिति द्वयं समुदियाल्लीयेत चाप्येकवत्
एवं सत्ययि भास्यते जडमिदं विश्वं धियैवाखिलम् ।
यस्मिंस्तद्द्वितयस्य जन्मविलयौ भास्वत्यनस्तोदये
सज्जानीहि तदेव पूर्णममलं चिद्रूपकं केवलम् ॥
॥१२॥रूपे कुत्रचिदाख्ययापि च कयाऽप्याराधनं भक्तितो
रूपाख्यारहितस्य यद्यपि भवेत् तस्येक्षणाय क्रमः ।
तत्त्वे तस्य निजं च वीक्ष्य विलयं गत्वापि तस्मिन् परे
तेनाभिन्नतया स्थितिर्निजपदे वीक्षा भवेत् तत्त्वतः ॥
॥१३॥संश्रित्य प्रभवन्त्यहम्मतिमिमां सर्वास्त्रिपुट्यस्तथा
द्वन्द्वान्यप्युत सम्भवन्ति; तदहन्नामा भवेत् को न्विति ।
अन्वेषाद् हृदयं प्रविश्य यदि तत्तत्त्वं समालोकयेत्
सर्वं तद्विगलेत् स्वयं, स च भवेज्ज्ञानी, स नैति भ्रमम् ॥
॥१४॥अज्ञानान्न पृथक् कदापि जगति ज्ञानं भवेत् कुत्रचित्
नाज्ञानं च कदापि कस्यचिदपि ज्ञानात् पृथक् सम्भवेत् ।
अन्वेषादहमित्ययं भवति को यस्योभयं स्यादिति
मूलात्मावगतिः स्वयं समुदिता ज्ञानं भवेन्नेतरत् ॥
॥१५॥ज्ञातारं स्वमजानतोऽन्यविषयज्ञानं भवे यद्भवेत्
ज्ञानं तद्भविता कथं नु कथय? ज्ञानस्य चान्यस्य च ।
आधारोऽहमितीह यो भवति, तत्तत्त्वं विजानाति चेत्
अज्ञानेन समं तदा प्रविलयं तानं च गच्छेदिदम् ॥
॥१६॥ज्ञानाज्ञानविवर्जितं भवति यज्ज्ञानं विजानीहि तत्
ज्ञानं वैषयिकं त्ववेहि किमपि ज्ञानं यथार्थं न हि ।
ज्ञातृज्ञेयविवर्जितो विलसति ह्यात्मा सदैकः स्वयं
ज्ञानात्मैव भवत्यसौ; न स भवेच्छूत्यात्मकः कर्हिचित् ॥
॥१७॥आत्मा ज्ञानमयो य एष गदितस्सत्यस्स एवाद्वयो
ज्ञानं नाम बहुप्रकारमिदं त्वज्ञानमेवाखिलम् ।
स्वस्माज्ज्ञानमयात् सतस्त्वसदिदं नो भिद्यते कर्हिचित्
नानासन्त्यपि भूषणानि कथय स्वर्णात् सतोऽन्यानि किम्? ॥
॥१८॥भाति त्वं स इति द्वयं, समुदिताहधीः शरीरे यदा
तत्त्वं किं न्वहमो ममेदिति धिया स्वान्वेषणेन स्वयम् ।
नीतेऽस्मिन्निधनं, समं तदितरप्रज्ञे ततो नश्यतोः
यद्भात्येकतया तदा, गणय तत् तत्त्वं भवेदात्मनः ॥
॥१९॥संश्रित्यैव हि वर्तमानमुभयं भूतं भविष्यत् स्थितं
स्वे कालेऽपि च वर्तमानमुभयं; तद्वर्तमानं त्रयम् ।
सत्येवं प्रविहाय बोधमधुना सद्वस्तुनोऽन्वेषणात्
भूतागामविचारणं गणनवत् स्यादेकसङ्ख्यां विना ॥
॥२०॥कालो देश इमौ पृथक् किमहमो?ऽधीनास्तयोः स्मो वयं
देहाः स्याम यदि स्वयं; किमु वयं देहा भवामो वद ।
सर्वत्रापि च सर्वदापि च विभात्यात्मा समानो यतः
तस्मात्सन्तमवेहि केवलममुं तौ द्वौ निगीर्य स्थितम् ॥
॥२१॥स्वो देहो भवति द्वयोरविदुषो विज्ञाततत्त्वस्य च
स्वं देहावधिकं पृथक् परविभोरज्ञो जनो मन्यते ।
ज्ञस्य स्वो वपुषोऽन्तरहितोऽभिन्नः परस्माद्विभोः
भात्येवं महती भिदास्ति हि तयोः स्वज्ञस्य चाज्ञस्य च ॥
॥२२॥सत्यं ह्येव जगद्वयोरविदुषो विज्ञाततत्त्वस्य च
सत्यं यावदिदं जगत् तु मनुते सज्ज्ञानहीनो जनः ।
ज्ञस्याकारविहीनमस्य निखिलस्याधारभूतं हि सत्
भात्येवं महती भिदास्ति हि तयोस्सज्ज्ञस्य चाज्ञस्य च ॥
॥२३॥मध्ये दैवधियोर्जयं प्रति भवेत् तेषां विवादे रतिः
धीदैवद्वितयस्य मूलमहमित्येकं न जानन्ति ये ।
अन्वेषादवगत्य तत्त्वमहमस्ताभ्यां विमुक्तो मुनिः
संसक्तो भविता तयोः किमु पुनः स्वज्ञानहीनो यया ॥
॥२४॥द्रष्टारं स्वमुपेक्ष्य पश्यति नरो रूपं परेशस्य चेत्
सा रूपस्य मनोमयस्य हि भवेद्वीक्षा न सत्या विभोः ।
तत्त्वं स्वं किमु न प्रपश्यति परं त्वस्येक्षको वा मुनिः?
नष्टाहङ्कृतिरेष किञ्चिदपि नो भिन्नः परस्माद्विभोः ॥
॥२५॥वीक्षा स्वस्य परस्य चेति गदितं ग्रन्थेषु वीक्षाद्वयं
तत्तत्त्वं किमिति ब्रवीमि; घटते वीक्षा कथं न्वात्मनः? ।
एकत्वान्न स वीक्ष्यते यदि, परं वीक्षेत को वा कथं?
ईशस्यौदनभावमेव गणय स्वेक्षां परेक्षामपि ॥
॥२६॥चैतन्यद्युतिमेष चिन्मयतनुर्मत्यै प्रयच्छन् स्वयं
आत्मत्वेन सदैव भाति हि मतेरन्तस्तुरीयश्शिवः ।
तत् तस्मिन् विनियोजनं हृदि मतेरन्तर्मुखीकृत्य तां
हित्वा तं प्रभवेत् कथं वद परं मत्यैव मन्तुं नरः ॥
॥२७॥साधनप्रकरणम्
चैतन्येन विवर्जितं वपुरिदं नाहङ्करोति स्वयं
ब्रूते नैव कदापि कोऽपि भुवने नासं सुषुप्ताविति ।
सर्वं चाप्युदियादिदं समुदिते त्वस्मिन्नहन्नामके
तद्बुद्ध्या शितया कुतोऽयमुदियादित्येवमन्वेषय ॥
॥२८॥ब्रूयान्नाहमिति स्वयं जडवपुः, सत्या चितिर्नोदियात्
तन्मध्ये तु वपुः प्रमाणमहमित्याविर्भवेत् किञ्चन ।
एतद्ध्येव भवेन्मनो जडचितोर्ग्रन्थिर्भवोऽहङ्कृतिः
बन्धः सूक्ष्मशरीरमेतदुदितं जीवस्य तत्त्वं स्वयम् ॥
॥२९॥धृत्वा रूपमुदेति च स्थितिमुत प्राप्नोति रूपग्रहात्
धृत्वा रूपमुतोपभुज्य विषयानुच्चैस्तमां वर्धदे ।
*संसारे बत वर्धते च नितरां रूपाशनो नित्यशः । - इति पाठान्तरः
हित्वा रूपनुपाददीत नवमप्यन्विष्यते चेत् तदा
धावेद्रूपविहीन एष सहसाहन्तापिशाचो ध्रुवम् ॥
॥३०॥एतस्मिन्नहमाख्यके समुदिते सर्वं जगच्चोदियात्
नो चेदस्त्यहमित्ययं न च भवत्येतज्जगत् किञ्चन ।
तत्सर्वं ह्यहमाख्यकः स्वयमतः कोऽसौ कुतस्सम्भवेत्
इत्येवं निजमार्गणं भवति यत् तत् सर्वहानं भवे ॥
॥३१॥तत्र स्याम हि तद्वयं भवति नो यत्रोदयोऽहङ्कृतेः
चेतस्तु प्रविशेदहञ्जनिभुवं नो चेदहन्ता कथम् ।
नीयेतापुनरुद्भवां मृतिमियं नीता तथान्तं न चेत्
साध्या नस्सहजा स्थितिः कथमसौ यस्यां वयं तत् स्वयम्? ॥
॥३२॥यत्किञ्चित् सलिलाशये निपतितं चिन्वन्निमज्जेद्यथा
तद्वद्वागनिलौ नियम्य जगतश्चिन्तां विहायाखिलाम् ।
अन्वेषादुदियात् कुतोऽहमिति धीरित्येवमेकाग्रया
बुद्ध्यान्तर्हृदये निमज्ज्य विमलं विद्यात् स्वतत्त्वं परम् ॥
॥३३॥रुध्वा वाङ्मनसी उभे, चितिरहंरूपा क्व भातीत्यलं
बुद्ध्यान्विष्य निमज्जनं हृदि निजज्ञानाप्तये साधनम् ।
देहो नायमहं स्वयं तदहमित्येवं निदिध्यासनं
अन्वेषाङ्गमवेहि; किं नु भविता सोऽयं विचारो निजः? ॥
॥३४॥अनुभवप्रकरणम्
कोऽहं स्यामिति मार्गणोद्यमवशादन्तर्मुखे मानसे
हृल्लीने सति, लज्जया नतमुखे चास्मिन्नहन्नामके ।
चैतन्यं विमलं तदाहमहमित्याभाति किञ्चित् स्वयं
मिथ्याहं न हि तत्, सदेव परमं पूर्णं स्वतत्त्वं शिवम् ॥
॥३५॥कर्तव्यं किमिहास्त्यमुष्य कृतिनोऽहन्तां ग्रसित्वोदिते
भावे स्वे मुदितस्य तन्मयतया शान्ते तुरीये शिवे ।
स्वान्यत् किञ्चन वेत्ति नो निजपदे निष्ठां गतोऽसौ यतो
मन्तुं तां पदवीं नरो वद कथं निर्मानसीं शक्नुयात्? ॥
॥३६॥निष्ठां तत् त्वमसीति वेदशिरसा दिष्टामलब्ध्वा निजां
कोऽहं स्यामिति मार्गणेन हृदयं बुद्ध्या प्रविश्य स्वयम् ।
धीर्दौर्बल्यवशात् करोति मनुजो ध्यानं तदेवास्म्यहं
नो देहोऽहमिति; स्वयं तदनिशं भात्यात्मरूपेण हि ॥
॥३७॥हासार्हं भवति द्वयं च, गदितं जाने न मामित्यहं
जाने मामिति चोदितं; विषयतां स्वस्यैव नेतुं स्वयम् ।
आत्मानं, किमु कत्यचिद्वद भवेदात्मद्वयं कुत्रचित्?
आत्मैको भवतीति विद्ध्यनुभवाल्लोके समस्तस्य च ॥
॥३८॥आत्मत्वेन समस्तजन्तुषु सदा सत्यं हृदन्तः स्फुरत्
अन्वेषादवगत्य तन्मयतया निष्ठामलब्ध्वा निजाम् ।
सत् किञ्चिद्भवतीति नेति तदिदं रूपीति नेत्येककं
द्वेधा नोभयथेति वा विवदते मायाभिभूतो जनः ॥
॥३९॥सिद्धं स्वं समवेत्य तन्मयतया निष्ठा भवेद्या निजा
सिद्धिस्सैव हि; सिद्धयस्तदितराः स्वप्नोपलब्धा इव ।
स्वप्नार्थः किमु सन् प्रबोधसमये? मुक्तोऽनृतादन्ततो
निष्ठामेत्य सति स्वयं मुनिवरः किं तासु मोहं व्रजेत् ॥
॥४०॥देहोऽस्मीत्युदियान्नरस्य धिषणा यावत् तु नाहं वपुः
तद्ध्यस्मीत्यनुचिन्तनं हितकरं तादात्म्यनिष्ठाप्तये ।
कुर्याद् ध्यानमिदं किमर्थमनिशं? ध्यायेन्नरोऽस्मीति किं
लोके कोऽपि नरो? वयं हि सततं सत्यं तदेव स्वयम् ॥
॥४१॥यावत्साधकता नरस्य भवति द्वैतं यथार्थं भवेत्
साध्ये त्वद्वयतेति चापि गदितं नो सत्यमुक्तं भवेत् ।
अन्विष्यन्नपि सादरं च दशमं नष्टत्वबुद्ध्या स्वयं
स्वं लब्ध्वापि च को बभूव दशमादन्यः कथायामसौ ॥
॥४२॥कर्तात्मा स्वयमेव चेत् कृतिफलं भुञ्जीत सोऽयं स्वयं
कर्ताहं क इति स्वमार्गणवशाज्जानाति चेत् स्वं विभुम् ।
कर्तृत्वं विगलेद्यतो, विगलितं तेनैव साकं भवेत्
कर्मापि त्रिविधं स्वयं; स्थितिमिमां नित्यां विमुक्तिं विदुः ॥
॥४३॥बद्धोऽस्मीति मतिर्भवेद्यदि तदा मुक्तेर्मतिश्चोदियात्
बद्धोऽहं क इति स्वमार्गणवशात् स्वे नित्यमुक्ते स्वयम् ।
शिष्टे सत्यजरेऽमरे वद भवेद्बन्धस्य चिन्ता कथं?
सा नो चेदिदुयात्, तदास्य कृतिनो मोक्षस्य चिन्ता कथम् ॥
॥४४॥मुक्ती रूपवतीति रूपरहिता सेति द्विधा सेत्यपि
वादा ये मतिभेदतोऽत्र विषये तत्त्वं ब्रवीमि स्फुटम् ।
योऽहन्नामक एवमत्र विमृशेद्वादेषु तत्त्वं मुधा
तस्यात्यन्तिकनाश एव भविता तत्त्वं विमुक्तेः स्वयम् ॥
॥४५॥उत्तरभागः
मङ्गलश्लोकः
यस्मिन्नेव भवेत् स्थितं जगदिदं यस्यैव सर्वं जगत्
यस्मात्सर्वमिदं भवेत्समुदितं यस्मै समस्तं भवेत् ।
येनेदं निखिलं जगत् समुदियात् सर्वं यदेव स्वयं
सत्यं गुप्तधनं तदेव हृदये तत्सत् परं धीमहि ॥
॥४६॥सत्सङ्गप्रकरणम्
सत्सङ्गस्य निषेवणेन मनुजो निस्सङ्गतां प्राप्नुयात्
निस्सङ्गत्ववशादसावुत मनोमोहेन मुक्तो भवेत् ।
निर्मोहत्वमुपैति चेदथ परे गत्वा लयं निश्चले
जीवन्मुक्तिपदं व्रजेदनुपमं सेवस्व तत्सङ्गतिम् ॥
॥४७॥साध्यं यत् परमं पदं सुखमयं मर्त्यैर्विचारान्निजात्
सत्सङ्गाभ्यसनोदिताच्छितधिया हृन्मज्जनापादनात् ।
शास्त्रार्थाधिगमेन नो भवति तन्नो बोधकोक्तिश्रुतेः
नो पुण्यैरपि कर्मभिर्बहुविधैरन्यैश्च नो साधनैः ॥
॥४८॥सद्भिस्सङ्गतिमादरेण मनुजः सेवेत यो भाग्यवान्
एतैः किं नियमैरमुष्य निखिलैर्निःश्रेयसप्राप्तये ।
शीतो दक्षिणमारुतो वहति चेत् सन्तापशान्ति दिशन्
हस्तेन व्यजनं विधृत्य भविता किं ब्रूहि कार्यं पुनः ॥
॥४९॥तापं केवलमेकमेव शमयेन्नॄणां हिमांशुस्तथा
दैन्यं कल्पकपादपो दिविभवः पापं तथा जाह्नवी ।
साधूनामवलोकनात् त्रयमिदं तापादिकं यास्यति
नो तेषामुपमास्ति कापि सदृशी लोकत्रये कुत्रचित् ॥
॥५०॥तीर्थान्यम्बुमयानि नैव महतां तुल्यानि तेषां कदा-
प्येवं दैवतमूर्तयोऽप्युपलमृन्मात्राश्च सम्पूजिताः ।
तैर्मर्त्योऽमितकालतो विमलतां प्राप्नोति भक्त्या युतः
साधूनामवलोकनेन मनुजः सद्यो भवेन्निर्मलः ॥
॥५१॥अद्वैतप्रकरणम्
को देवः सयाद्यो मनो वेत्ति सोऽयं
जानाम्येतज्जीवनामाहमेव ।
तस्मात् स त्वं; वक्ति साक्षाच्छ्रुतिश्चा-
ष्येको देवः सर्वभूतेष्वपीति ॥
॥५२॥किं ज्योतिस्तव भानुमानहनि मे रात्रौ प्रदीपादिकं
किं ज्योतिस्तदवेक्षणाय नयनं तस्येक्षणे किं मनः ।
तस्येक्षा वद केन तत् स्वयमहं पश्यामि तज्ज्योतिषां
ज्योतिस्त्वं भवसि स्वयं विभु परं सत्यं तदेवास्म्यहम् ॥
॥५३॥हृदयकुहरमध्ये केवलं ब्रह्ममात्रं
ह्यहमहमिति साक्षादात्मरूपेण भाति ।
हृदि विश मनसा स्वं चिन्वता मज्जता वा
पवनचलनरोधादात्मनिष्ठो भव त्वम् ॥
॥५४॥अमलाप्यचलाहमित्यजस्रं
विलसन्ती हृदयाम्बुजे चिदेव ।
वितरेत् पदवीं स्वयं विमुक्तेः
यदि जह्यान्मनुजो वपुष्यहन्ताम् ॥
॥५५॥देहं मृण्मयवज्जडात्मकमहम्बुद्धिर्न तस्यास्ततो
नाहं तत्तदभावसुप्तिसमये सिद्धात्मसद्भावतः ।
कोऽहम्भावयुतः कुतो वरधिया दृष्ट्वात्मनिष्ठात्मनां
सोऽहंस्फूर्तितयारुणाचलशिवः पूर्णो विभाति स्वयम् ॥
॥५६॥लेभे जनिं यः परमे स्वमूले
विचार्य कस्मादहमित्युदारः ।
स एव जातः स च नित्यजातो
नवो नवोऽयं सततं मुनीन्द्रः ॥
॥५७॥साधकाचारप्रकरणम्
हिस्वाहधियमत्र दोषनिलये देहे जडेऽनात्मनि
नित्यानन्दमयं स्वतत्त्वममलं जानीहि सच्चिन्मयम् ।
यो मर्त्यो वपुषस्तु पोषणरतो ज्ञातुं स्वमिच्छत्यसौ
ग्राहं दारुधिया प्रगृह्य सरितं पुंसस्तितीर्षोस्समः ॥
॥५८॥यो देहात्ममतिक्षयो भवति तद्दानं च यज्ञस्तपो
धर्मः सत्यवचः परेशकरुणा योगोऽपि भक्तिः परा ।
न्यासो मौनमपि स्थितिश्च सहजा कामार्थमोक्षा अपि
शान्तिर्द्यौमृतिवर्जितं च मरणं ज्ञानं च सत्यं स्वयम् ॥
॥५९॥कस्यैतानि कृतिर्विभक्तिरपि चाज्ञानं वियोगोऽपि च
सन्तीत्यात्मविचार एव भविता कर्मादियोगक्रमाः ।
यस्यां नास्ति विचारकोऽहमिधो न स्यादिदं चाष्टकं
सा सत्या स्थितिरित्यवेहि विमला स्वात्मानुभूतिः शिवा ॥
॥६०॥स्वं शक्त्या परमस्य चालितमविज्ञायोद्यतो योऽखिलाः
सिद्धीः साधयितुं स एव मनुजो यद्वत् स पङ्गुर्नरः ।
योऽवादीद्भविता श्रमो मम कियानेतान् विजेतुं रिपून्
मामुत्थाप्य निवेशयेर्यदि रणे तेषां पुरस्तादिति ॥
॥६१॥या शान्तिर्मनसः स्वयं भवति सा मुक्तिर्बुधैः कीर्तिता
या पारैर्मनसोऽधिकैर्भवति यल्लाभस्तु तास्सिद्धयः ।
ता लब्धुं जडधीर्यतेत मनुजो यस्तेन लभ्यं कथं
स्यान्मुक्तेस्सुखमन्तहीनममलं चित्तोपशान्त्यात्मकम् ॥
॥६२॥परे वहति भूभरं भरमिदं मृषाजीवको
वहन् भवति गोपुरोद्वहनबिम्बतुल्यो ह्यसौ ।
भरं शिरसि धारयन्नतिभरक्षमेणानसा
व्रजन् भजति चेद्व्यथां भवति तत्र को दोषवान् ॥
॥६३॥उपासनाप्रकरणम्
उपरि च जठरादुरसो मध्ये बहुवर्णकेषु षट्स्वेकम् ।
कुवलयकलिकासदृशं दक्षिणभागेऽङ्गुलद्वये हृदयम् ॥
॥६४॥आवृतमस्ति तदास्यं वियति तदन्तर्भवति नाड्यश्च ।
तमसोऽपि वासनानां भवनमिदं प्राणचित्तदीप्तीनाम् ॥
॥६५॥गुहेशाख्योऽसौ यो निवसति गुहायां हृदि परः
स एवास्मीत्येवं सततमननात् सोऽहमिति चेत् ।
मतिः स्थैर्यं गच्छेद्वपुरहमिति प्रत्यय इव
तदाज्ञानं नश्येत् तम इव पुरस्ताद्दिनमणेः ॥
॥६६॥मुकुरे बिम्बितमिव यस्यान्तः
विलसति बहिरिव जगदिदमखिलम् ।
सर्वेषामपि हृदयाख्यं तत्
किं न्विति पृच्छति रामे भगवान् ॥
॥६७॥आह वसिष्ठो हृदय द्वेधा
हेयं चादेयमिति ज्ञेयम्?
देहस्याङ्गं पलमयमेकं
जीरज्जडमपि हेयं ज्ञेयम् ॥
॥६८॥अन्यत् प्रज्ञामयमादेयं
हृदयं बिम्बितमखिलं यस्मिन् ।
बहिरन्तस्तन्न बहिर्नान्तः
सम्पत्तीनां निधिरखिलस्य ॥
॥६९॥तस्मिन् मुख्ये हृदये निष्ठां
गतवति चेतसि नैजविचारात् ।
भवति स्वयमपि निर्गन्धस्वं
विरतिर्वायोरपि भवतीति ॥
॥७०॥सर्वोपाधिविमुक्तं यच्छिवमनिशं चिदात्मकं भाति ।
तत् स्वयमहमित्यनिशं ध्यात्वा निखिला व्यपोहयासक्तीः ॥
॥७१॥सर्वाश्चापि दशा विचार्य परमं यच्छेषितं सत्पदं
तत् संश्रित्य कुरुष्व कर्म भुवने कामैर्गृहीतो यथा ।
भावानां समवैषि तत्त्वममृतं दृष्टिं समालम्ब्य तां
इच्छाप्रेरितवत् प्रशान्तमनसा लोके क्रियावान् भव ॥
॥७२॥मिथ्योल्लासितहर्षभागचलधीर्मिथ्याधृतोद्वेगवान्
मिथ्यागर्हणसम्भ्रमः कुरु मृषारम्भः क्रिया लौकिकीः ।
आशापाशशतैर्विमुक्तहृदयः सर्वत्र साम्यं वहन्
लोके वेषसमानकर्मनिरतस्तिष्ठ त्वमज्ञो यथा ॥
॥७३॥जीवन्मुक्तप्रकरणम्
आत्मानं समवेत्य नैजयदवीमास्थाय संविन्मयीं
सन्त्यक्ताखिलवासनोऽभिरमते यस्तन्मयत्वे सदा ।
तं वीरं निजतत्त्वबोधकुलिशं संवित्कृशानुं तथा
जानीयादुत कालकालमभवं मृत्योश्च मृत्युं स्वयम् ७४॥
गुणास्सुन्दरत्वादयो यान्ति वृद्धिं
वसन्तस्य योगाद्यथा भूरुहस्य ।
तथा दृष्टतत्त्वस्य तेजो बलं धीः
निजानन्दतृप्तस्य वर्धन्त एव ॥
॥७५॥शृण्वन्नेव यथा कथां न शृणुते दूरं गतश्चेतसा
ज्ञानी तद्वदवासनेन मनसा कृत्वाप्यकर्ता भवेत् ।
चेतश्चेद्बहुवासनं बत नरः कर्तास्त्यकुर्वन्नपि
देहे सत्यचलेऽपि पश्य पतति श्वभ्रे गिरेः स्वप्नदृक् ॥
॥७६॥याने सुप्तिमितस्य यानगमयं स्थानं च तस्य क्वचित्
तस्यैवाश्ववियोजनं त्रयमिदं यद्वद्भवेदेकधा ।
सुप्तिं ज्ञानमयीं गतस्य विदुषो याने वपुष्येकधा
तद्वत् स्यात् त्रितयं क्रियापि वपुषो निष्ठापि निद्रापि च ॥
॥७७॥जाग्रत्स्वप्नसुषुप्तिषु स्थितिजुषां यत् तुर्यमित्युच्यते
जाग्रत्सुप्तिरितीरितं स्वविदुषः शान्तं पदं शाश्वतम् ।
सत्यं तद्धि पदं मृषेतरदिदं त्वाभासमात्रं त्रयं;
तुर्यातीतमतस्तदेव मुनयः शंसन्ति संविन्मयम् ॥
॥७८॥कर्मागामि च सञ्चितं च विदुषो नष्टे भवेतां ध्रुवं,
प्रारब्धं न तथेत्युदीरितमिदं ग्रन्थेषु मन्दान् प्रति ।
पत्न्येका न सुमङ्गली पतिमृतौ बह्वीषु यद्वद्भवेत्
त्रेधा कर्म तथा विनाशमयते नाशं गते कर्तरि ॥
॥७९॥परोक्षज्ञानप्रकरणम्
कुटुम्बं ह्येकैकं भवति सुतभार्यादिकमिह
नृणामल्पज्ञानां; पटुतरधियां किन्तु विदुषाम् ।
कुटुम्बानि ग्रन्था अपि च हृदि योगस्य नितरां
भवन्ति प्रत्यूहा; भवतरणमेषां वद कथम् ॥
॥८०॥लिपिज्ञोऽहन्नामा कुत इति निजान्वेषणधिया
लिपिं स्वां निर्माष्टुं लिपिमधिगतो यो न यतते ।
लिपिज्ञानात् किं वा फलमधिगतं तेन कथय
समो वाग्यन्त्रेणारुणगिरिविभोऽन्यो भवति कः ॥
॥८१॥अशान्तस्य क्लेशा विदुष इह ये सन्त्यविदुषो
न ते सन्ति; ग्रस्तो न स मदपिशाचेन भवति ।
न वाक् चित्तक्लेशं भजति बहुमानार्थमटनं
न कुर्यानैकस्मादवितमिह जानीहि तमिमम् ॥
॥८२॥तृणतुलिताखिलजगतां करकलिताखिलनिगमरहस्यानाम् ।
श्लाघावारवधूटीघटदासत्वं सुदुर्निरसम् ॥
॥८३॥स्वतो भवति कः परः? किमपि कोऽपि चेत्स्वं प्रति
वदेद्भवति तेन किं? गदितवत् स्वयं तद्भवेत् ।
भिदामनधिगच्छतः स्व इति चान्य इत्यव्यये
स्थितस्य सहजे पदे स्थिरतया परस्मिन् शिवे ॥
॥८४॥धिया कुरुष्व भावनां सतोऽद्वयस्य सन्ततं
क्रियाद्वयत्वमाचर क्वचित्तु मैव संसृतौ ।
कुरुष्व भावनामिमां धियाखिले च पुत्रक
गुरौ तु भावनामिमां कुरुष्व मैव कर्हिचित् ॥
॥८५॥सिद्धान्तसारप्रकरणम्
सिद्धान्तो यो भवति परमः सर्ववेदान्तसारो
वच्मि स्पष्टं तमिममधुना तत्त्वतोऽत्यन्तगूढम् ।
सत्यं तत् स्वो भवति निधनाच्चेदहन्नामकस्य
शिष्येतासौ चितिमयतनुः सत्य आत्मैव विद्धि ॥
॥८६॥॥ ॐ नमो भगवते श्रीरमणाय ॥
श्रीरमणहृदयतात्पर्यसङ्ग्रहः
विश्वं दृग्दृश्यभिन्नं स्थितिलयजननान्येति चित्तेन साकं
स्वप्ने जाग्रत्यपीदं भवति च, विलयं गच्छतीदं सुषुप्तौ ।
एवं विश्वं समस्तं भवति हि मनसो वृत्तयो; नित्यभाने
जातं लीनं च यस्मिन् भवति मन इदं, तत् स्वतत्त्वं विशोकम् ॥
अज्ञात्वैवं स्वतत्त्वं वपुरहमिति धीमोहयोगात् प्रपञ्चं
मत्वा सत्यं च, सौख्यं विषयजमिति चोपैति शोकं प्रमत्तः ।
हित्वैतच्चेन्निमज्जेद्-हृदि विविदिषया स्वात्मनः, शान्तिमृच्छेत्
सत्ये स्वस्मिन्निति श्रीरमणभगवता दिष्टमस्मिन् प्रबन्धे ॥
॥ ॐ नमो भगवते श्रीरमणाय ॥