मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपञ्चाक्षरस्तोत्रम्

3

श्रीशङ्करभगवत्पादकृतम्

नागेन्द्रहाराय त्रिलोचनाय

भस्माङ्गरागाय महेश्वराय ।

नित्याय शुद्धाय दिगम्बराय

तस्मै नकाराय नमः शिवाय ॥

॥१॥

मन्दाकिनी-सलिलचन्दन-चर्चिताय

नन्दीश्वर-प्रमथनाथ-महेश्वराय ।

मन्दारपुष्प-बहुपुष्प-सुपूजिताय

तस्मै मकाराय नमः शिवाय ॥

॥२॥

शिवाय गौरीवदनाब्ज-वृन्द-

सूर्याय दक्षाध्वरनाशकाय ।

श्रीनीलकण्ठाय वृषध्वजाय

तस्मै शिकाराय नमः शिवाय ॥

॥३॥

वसिष्ठ-कुम्भोद्भव-गौतमार्य-

मुनीन्द्र-देवार्चितशेखराय ।

चन्द्रार्क-वैश्वानरलोचनाय

तस्मै वकाराय नमः शिवाय ॥

॥४॥

यक्षस्वरूपाय जटाधराय

पिनाकहस्ताय सनातनाय ।

दिव्याय देवाय दिगम्बराय

तस्मै यकाराय नमः शिवाय ॥

॥५॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।

शिवलोकमवाप्नोति शिवेन सह मोदते ॥

॥६॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-शिवपञ्चाक्षरस्तोत्रं सम्पूर्णम्