- १ॐ श्रीसुदर्शनाय नमः
- २ॐ चक्रराजाय नमः
- ३ॐ तेजोव्यूहाय नमः
- ४ॐ महाद्युतये नमः
- ५ॐ सहस्रबाहवे नमः
- ६ॐ दीप्ताङ्गाय नमः
- ७ॐ अरुणाक्षाय नमः
- ८ॐ प्रतापवते नमः
- ९ॐ अनेकादित्यसङ्काशाय नमः
- १०ॐ प्रोद्यज्ज्वालाभिरञ्जिताय नमः
- ११ॐ सौदामिनीसहस्राभाय नमः
- १२ॐ मणिकुण्डलशोभिताय नमः
- १३ॐ पञ्चभूतमनोरूपाय नमः
- १४ॐ षट्कोणान्तरसंस्थिताय नमः
- १५ॐ हरान्तःकरणोद्भूतरोषभीषणविग्रहाय नमः
- १६ॐ हरिपाणिलसत्पद्मविहारमनोहराय नमः
- १७ॐ श्राकाररूपाय नमः
- १८ॐ सर्वज्ञाय नमः
- १९ॐ सर्वलोकार्चितप्रभवे नमः
- २०ॐ चतुर्दशसहस्राराय नमः
- २१ॐ चतुर्वेदमयाय नमः
- २२ॐ अनलाय नमः
- २३ॐ भक्तचान्द्रमसज्योतिषे नमः
- २४ॐ भवरोगविनाशकाय नमः
- २५ॐ रेफात्मकाय नमः
- २६ॐ मकाराय नमः
- २७ॐ रक्षोऽसृग्रूषिताङ्गाय नमः
- २८ॐ सर्वदैत्यग्रीवानालविभेदनमहागजाय नमः
- २९ॐ भीमदंष्ट्राय नमः
- ३०ॐ उज्ज्वलाकाराय नमः
- ३१ॐ भीमकर्मणे नमः
- ३२ॐ त्रिलोचनाय नमः
- ३३ॐ नीलवर्त्मने नमः
- ३४ॐ नित्यसुखाय नमः
- ३५ॐ निर्मलश्रियै नमः
- ३६ॐ निरञ्जनाय नमः
- ३७ॐ रक्तमाल्याम्बरधराय नमः
- ३८ॐ रक्तचन्दनरूषिताय नमः
- ३९ॐ रजोगुणाकृतये नमः
- ४०ॐ शूराय नमः
- ४१ॐ रक्षःकुलयमोपमाय नमः
- ४२ॐ नित्यक्षेमकराय नमः
- ४३ॐ प्राज्ञाय नमः
- ४४ॐ पाषण्डजनखण्डनाय नमः
- ४५ॐ नारायणाज्ञानुवर्तिने नमः
- ४६ॐ नैगमान्तःप्रकाशकाय नमः
- ४७ॐ बलिनन्दनदोर्दण्डखण्डनाय नमः
- ४८ॐ विजयाकृतये नमः
- ४९ॐ मित्रभाविने नमः
- ५०ॐ सर्वमयाय नमः
- ५१ॐ तमोविध्वंसकाय नमः
- ५२ॐ रजस्सत्त्वतमोद्वर्तिने नमः
- ५३ॐ त्रिगुणात्मने नमः
- ५४ॐ त्रिलोकधृते नमः
- ५५ॐ हरिमायगुणोपेताय नमः
- ५६ॐ अव्ययाय नमः
- ५७ॐ अक्षस्वरूपभाजे नमः
- ५८ॐ परमात्मने नमः
- ५९ॐ परं ज्योतिषे नमः
- ६०ॐ पञ्चकृत्यपरायणाय नमः
- ६१ॐ ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयाय नमः
- ६२ॐ सदसत्परमाय नमः
- ६३ॐ पूर्णाय नमः
- ६४ॐ वाङ्मयाय नमः
- ६५ॐ वरदाय नमः
- ६६ॐ अच्युताय नमः
- ६७ॐ जीवाय नमः
- ६८ॐ गुरवे नमः
- ६९ॐ हंसरूपाय नमः
- ७०ॐ पञ्चाशत्पीठरूपकाय नमः
- ७१ॐ मातृकामण्डलाध्यक्षाय नमः
- ७२ॐ मधुध्वंसिने नमः
- ७३ॐ मनोमयाय नमः
- ७४ॐ बुद्धिरूपाय नमः
- ७५ॐ चित्तसाक्षिणे नमः
- ७६ॐ साराय नमः
- ७७ॐ हंसाक्षरद्वयाय नमः
- ७८ॐ मन्त्रयन्त्रप्रभावज्ञाय नमः
- ७९ॐ मन्त्रयन्त्रमयाय नमः
- ८०ॐ विभवे नमः
- ८१ॐ स्रष्ट्रे नमः
- ८२ॐ क्रियास्पदाय नमः
- ८३ॐ शुद्धाय नमः
- ८४ॐ आधाराय नमः
- ८५ॐ चक्ररूपकाय नमः
- ८६ॐ निरायुधाय नमः
- ८७ॐ असंरम्भाय नमः
- ८८ॐ सर्वायुधसमन्विताय नमः
- ८९ॐ ओङ्काररूपिणे नमः
- ९०ॐ पूर्णात्मने नमः
- ९१ॐ आङ्कारस्साध्यबन्धनाय नमः
- ९२ॐ ऐङ्काराय नमः
- ९३ॐ वाक्प्रदाय नमः
- ९४ॐ वाग्मिने नमः
- ९५ॐ श्रीङ्कारैश्वर्यवर्धनाय नमः
- ९६ॐ क्लीङ्कारमोहनाकाराय नमः
- ९७ॐ हुम्फट्क्षोभणाकृतये नमः
- ९८ॐ इन्द्रार्चितमनोवेगाय नमः
- ९९ॐ धरणीभारनाशकाय नमः
- १००ॐ वीराराध्याय नमः
- १०१ॐ विश्वरूपाय नमः
- १०२ॐ वैष्णवाय नमः
- १०३ॐ विष्णुरूपकाय नमः
- १०४ॐ सत्यव्रताय नमः
- १०५ॐ सत्यपराय नमः
- १०६ॐ सत्यधर्मानुषङ्गकाय नमः
- १०७ॐ नारायणकृपाव्यूहतेजश्चक्राय नमः
- १०८ॐ सुदर्शनाय नमः
ॐ श्रीविजयलक्ष्मीसमेतश्रीसुदर्शनपरब्रह्मणे नमः
श्रीसुदर्शनाष्टोत्तरशतनामावलिः सम्पूर्णा