पारम्परिकम्
न्यासः
अस्य श्रीललितात्रिशतीस्तोत्रमहामत्रस्य।भगवान् हयग्रीव ऋषिः। अनुष्टुप् छन्दः। श्रीललितात्रिपुरसुन्दरी देवता। ऐं बीजम्। क्लीं शक्तिः। सौः कीलकम्। सकल-चिन्तितफलावाप्त्यर्थे जपे विनियोगः॥
ध्यानम्
अतिमधुरचापहस्ताम् अपरिमितामोदबाण-सौभाग्याम् ।
अरुणाम् अतिशयकरुणाम् अभिनवकुलसुन्दरीं वन्दे ॥
॥१॥स्तोत्रम्
हयग्रीव उवाच
ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥
॥२॥कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।
कदम्बकाननावासा कदम्बकुसुमप्रिया ॥
॥३॥कन्दर्पविद्या कन्दर्प-जनकापाङ्ग-वीक्षणा ।
कर्पूरवीटि-सौरभ्य-कल्लोलित-ककुप्तटा ॥
॥४॥कलिदोषहरा कञ्जलोचना कम्रविग्रहा ।
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥
॥५॥एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानन्द-चिदाकृतिः ॥
॥६॥एवमित्यागमाबोध्या चैकभक्ति-मदर्चिता ।
एकाग्रचित्त-निर्ध्याता चैषणा-रहितादृता ॥
॥७॥एलासुगन्धिचिकुरा चैनःकूटविनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्य-प्रदायिनी ॥
॥८॥एकातपत्र-साम्राज्य-प्रदा चैकान्तपूजिता ।
एधमानप्रभा चैजदनेकजगदीश्वरी ॥
॥९॥एकवीरादि-संसेव्या चैकप्राभव-शालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थ-प्रदायिनी ॥
॥१०॥ईदृगित्य-विनिर्देश्या चेश्वरत्व-विधायिनी ।
ईशानादि-ब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥
॥११॥ईक्षित्रीक्षण-सृष्टाण्ड-कोटिरीश्वर-वल्लभा ।
ईडिता चेश्वरार्धाङ्ग-शरीरेशाधि-देवता ॥
॥१२॥ईश्वर-प्रेरणकरी चेशताण्डव-साक्षिणी ।
ईश्वरोत्सङ्ग-निलया चेतिबाधा-विनाशिनी ॥
॥१३॥ईहाविरहिता चेशशक्ति-रीषत्-स्मितानना ।
लकाररूपा ललिता लक्ष्मी-वाणी-निषेविता ॥
॥१४॥लाकिनी ललनारूपा लसद्दाडिम-पाटला ।
ललन्तिकालसत्फाला ललाट-नयनार्चिता ॥
॥१५॥लक्षणोज्ज्वल-दिव्याङ्गी लक्षकोट्यण्ड-नायिका ।
लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥
॥१६॥ललामराजदलिका लम्बिमुक्तालताञ्चिता ।
लम्बोदर-प्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥
॥१७॥ह्रीङ्काररूपा ह्रीङ्कारनिलया ह्रीम्पदप्रिया ।
ह्रीङ्कारबीजा ह्रीङ्कारमन्त्रा ह्रीङ्कारलक्षणा ॥
॥१८॥ह्रीङ्कारजपसुप्रीता ह्रीम्मती ह्रींविभूषणा ।
ह्रींशीला ह्रीम्पदाराध्या ह्रीङ्गर्भा ह्रीम्पदाभिधा ॥
॥१९॥ह्रीङ्कारवाच्या ह्रीङ्कारपूज्या ह्रीङ्कारपीठिका ।
ह्रीङ्कारवेद्या ह्रीङ्कारचिन्त्या ह्रीं ह्रीं-शरीरिणी ॥
॥२०॥हकाररूपा हलधृक्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥
॥२१॥हयारूढा-सेविताङ्घ्रिर्हयमेध-समर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥
॥२२॥हत्यादिपापशमनी हरिदश्वादि-सेविता ।
हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्ति-प्रियाङ्गना ॥
॥२३॥हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदालसा ॥
॥२४॥सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।
सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥
॥२५॥सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी ।
सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥
॥२६॥सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वभूषण-भूषिता ॥
॥२७॥ककारार्था कालहन्त्री कामेशी कामितार्थदा ।
कामसञ्जीवनी कल्या कठिनस्तन-मण्डला ॥
॥२८॥करभोरूः कलानाथ-मुखी कचजिताम्बुदा ।
कटाक्षस्यन्दि-करुणा कपालि-प्राणनायिका ॥
॥२९॥कारुण्य-विग्रहा कान्ता कान्तिधूत-जपावलिः ।
कलालापा कम्बुकण्ठी करनिर्जित-पल्लवा ॥
॥३०॥कल्पवल्ली-समभुजा कस्तूरी-तिलकाञ्चिता ।
हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥
॥३१॥हारहारि-कुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पति-समाराध्या हठात्कार-हतासुरा ॥
॥३२॥हर्षप्रदा हविर्भोक्त्री हार्दसन्तमसापहा ।
हल्लीसलास्य-सन्तुष्टा हंसमन्त्रार्थ-रूपिणी ॥
॥३३॥हानोपादान-निर्मुक्ता हर्षिणी हरिसोदरी ।
हाहाहूहू-मुख-स्तुत्या हानि-वृद्धि-विवर्जिता ॥
॥३४॥हय्यङ्गवीन-हृदया हरिगोपारुणांशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥
॥३५॥लास्य-दर्शन-सन्तुष्टा लाभालाभ-विवर्जिता ।
लङ्घ्येतराज्ञा लावण्य-शालिनी लघु-सिद्धिदा ॥
॥३६॥लाक्षारस-सवर्णाभा लक्ष्मणाग्रज-पूजिता ।
लभ्येतरा लब्धभक्ति-सुलभा लाङ्गलायुधा ॥
॥३७॥लग्न-चामर-हस्त-श्री-शारदा-परिवीजिता ।
लज्जापद-समाराध्या लम्पटा लकुलेश्वरी ॥
॥३८॥लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः ।
ह्रीङ्कारिणी ह्रीङ्काराद्या ह्रीम्मध्या ह्रींशिखामणिः ॥
॥३९॥ह्रीङ्कार-कुण्डाग्नि-शिखा ह्रीङ्कार-शशिचन्द्रिका ।
ह्रीङ्कार-भास्कररुचिर्ह्रीङ्काराम्भोद-चञ्चला ॥
॥४०॥ह्रीङ्कार-कन्दाङ्कुरिका ह्रीङ्कारैक-परायणा ।
ह्रीङ्कार-दीर्घिकाहंसी ह्रीङ्कारोद्यान-केकिनी ॥
॥४१॥ह्रीङ्कारारण्य-हरिणी ह्रीङ्कारावाल-वल्लरी ।
ह्रीङ्कार-पञ्जरशुकी ह्रीङ्काराङ्गण-दीपिका ॥
॥४२॥ह्रीङ्कार-कन्दरा-सिंही ह्रीङ्काराम्भोज-भृङ्गिका ।
ह्रीङ्कार-सुमनो-माध्वी ह्रीङ्कार-तरुमञ्जरी ॥
॥४३॥सकाराख्या समरसा सकलागम-संस्तुता ।
सर्ववेदान्त-तात्पर्यभूमिः सदसदाश्रया ॥
॥४४॥सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।
सनकादिमुनिध्येया सदाशिव-कुटुम्बिनी ॥
॥४५॥सकलाधिष्ठान-रूपा सत्यरूपा समाकृतिः ।
सर्वप्रपञ्च-निर्मात्री समानाधिक-वर्जिता ॥
॥४६॥सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा ।
ककारिणी काव्यलोला कामेश्वरमनोहरा ॥
॥४७॥कामेश्वर-प्राणनाडी कामेशोत्सङ्गवासिनी ।
कामेश्वरालिङ्गिताङ्गी कामेश्वर-सुखप्रदा ॥
॥४८॥कामेश्वर-प्रणयिनी कामेश्वर-विलासिनी ।
कामेश्वर-तपःसिद्धिः कामेश्वर-मनःप्रिया ॥
॥४९॥कामेश्वर-प्राणनाथा कामेश्वर-विमोहिनी ।
कामेश्वर-ब्रह्मविद्या कामेश्वर-गृहेश्वरी ॥
॥५०॥कामेश्वराह्लादकरी कामेश्वर-महेश्वरी ।
कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥
॥५१॥लकारिणी लब्धरूपा लब्धधीर्लब्ध-वाञ्छिता ।
लब्धपाप-मनोदूरा लब्धाहङ्कार-दुर्गमा ॥
॥५२॥लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः ।
लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी ॥
॥५३॥लब्धातिशय-सर्वाङ्ग-सौन्दर्या लब्धविभ्रमा ।
लब्धरागा लब्धपतिर्लब्ध-नानागमस्थितिः ॥
॥५४॥लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता ।
ह्रीङ्कार-मूर्तिर्ह्रीङ्कार-सौधशृङ्गकपोतिका ॥
॥५५॥ह्रीङ्कार-दुग्धाब्धि-सुधा ह्रीङ्कार-कमलेन्दिरा ।
ह्रीङ्कार-मणिदीपार्चिर्ह्रीङ्कार-तरुशारिका ॥
॥५६॥ह्रीङ्कार-पेटक-मणिर्ह्रीङ्कारादर्श-बिम्बिता ।
ह्रीङ्कार-कोशासिलता ह्रीङ्कारास्थान-नर्तकी ॥
॥५७॥ह्रीङ्कार-शुक्तिका-मुक्तामणिर्ह्रीङ्कार-बोधिता ।
ह्रीङ्कारमय-सौवर्णस्तम्भ-विद्रुम-पुत्रिका ॥
॥५८॥ह्रीङ्कार-वेदोपनिषध्रीङ्काराध्वर-दक्षिणा ।
ह्रीङ्कार-नन्दनाराम-नवकल्पक-वल्लरी ॥
॥५९॥ह्रीङ्कार-हिमवद्गङ्गा ह्रीङ्कारार्णव-कौस्तुभा ।
ह्रीङ्कार-मन्त्र-सर्वस्वा ह्रीङ्कार-परसौख्यदा ॥
॥६०॥इति श्री-ब्रह्माण्डपुराणे उत्तराखण्डे श्री-हयग्रीवागस्त्यसंवादे श्री-ललितात्रिशती स्तोत्रकथनं सम्पूर्णम्