रुद्रयामलम्
कैलासशिखरासीनं देवदेवं महेश्वरम् ।
प्रणम्य दण्डवद्भूमौ पार्वती परिपृच्छति ॥
॥१॥श्रीपार्वत्युवाच
अन्नपूर्णा महादेवी त्रैलोक्ये जीवधारिणी ।
नाम्नां सहस्रं तस्यास्तु कथयस्व महाप्रभो ॥
॥२॥श्रीशिव उवाच
शृणु देवि वरारोहे जगत्कारणि कौलिनि ।
आराधनीया सर्वेषां सर्वेषां परिपृच्छसि ॥
॥३॥सहस्रैर्नामभिर्दिव्यैस्त्रैलोक्यप्राणिपूजितैः ।
अन्नदायास्स्तवं दिव्यं यत्सुरैरपि वाञ्छितम् ॥
॥४॥कथयामि तव स्नेहात्सावधानाऽवधारय ।
गोपनीयं प्रयत्नेन स्तवराजमिदं शुभम् ॥
॥५॥न प्रकाश्यं त्वया भद्रे दुर्जनेभ्यो निःशेषतः ।
न देयं परशिष्येभ्यो भक्तिहीनाय पार्वति ॥
॥६॥देयं शिष्याय शान्ताय गुरुदेवरताय च ।
अन्नपूर्णास्तवं देयं कौलिकाय कुलेश्वरी ॥
॥७॥ॐ अस्य श्रीमदन्नपूर्णासहस्रनामस्तोत्रमालामन्त्रस्य, श्रीभगवान् ऋषिः, अनुष्टुप्छन्दः, प्रकटगुप्तगुप्ततर सम्पदाय कुलोत्तीर्ण निगर्भरहस्याति रहस्यपरापरातिरहस्यातिपूर्वाचिन्त्यप्रभावा भगवती श्रीमदन्नपूर्णादेवता, हलो बीजं, स्वराश्शक्तिः, जीवो बीजं, बुद्धिश्शक्तिः, उदानो बीजं, सुषुम्ना नाडी, सरस्वती शक्तिः, धर्मार्थकाममोक्षार्थे पाठे विनियोगः ॥
ध्यानम्
अर्कोन्मुक्तशशाङ्ककोटिवदनामापीनतुङ्गस्तनीं
चन्द्रार्धाङ्कितमस्तकां मधुमदामालोलनेत्रत्रयीम् ।
बिभ्राणामनिशं वरं जपपटीं शूलं कपालं करैः
आद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये ॥
॥८॥अथ अन्नपूर्णासहस्रनामस्तोत्रम्
ॐ अन्नपूर्णायै नमः
अन्नपूर्णा अन्नदात्री अन्नराशिकृतालया ।
अन्नदा अन्नरूपा च अन्नदानरतोत्सवा ॥
॥९॥अनन्ता च अनन्ताक्षी अनन्तगुणशालिनी ।
अच्युता अच्युतप्राणा अच्युतानन्दकारिणी ॥
॥१०॥अव्यक्ताऽनन्तमहिमा अनन्तस्य कुलेश्वरी ।
अब्धिस्था अब्धिशयना अब्धिजा अब्धिनन्दिनी ॥
॥११॥अब्जस्था अब्जनिलया अब्जजा अब्जभूषणा ।
अब्जाभा अब्जहस्ता च अब्जपत्रशुभेक्षणा ॥
॥१२॥अब्जानना अनन्तात्मा अग्रिस्था अग्निरूपिणी ।
अग्निजाया अग्निमुखी अग्निकुण्डकृतालया ॥
॥१३॥अकारा अग्निमाता च अजयाऽदितिनन्दिनी ।
आद्या आदित्यसङ्काशा आत्मज्ञा आत्मगोचरा ॥
॥१४॥आत्मसूरात्मदयिता आधारा आत्मरूपिणी ।
आशा आकाशपद्मस्था अवकाशस्वरूपिणी ॥
॥१५॥आशापूरी अगाधा च अणिमादिसुसेविता ।
अम्बिका अबला अम्बा अनाद्या च अयोनिजा ॥
॥१६॥अनीशा ईशिका ईशा ईशानी ईश्वरप्रीया ।
ईश्वरी ईश्वरप्राणा ईश्वरानन्ददायिनी ॥
॥१७॥इन्द्राणी इन्द्रदयिता इन्द्रसूरिन्द्रपालिनी ।
इन्दिरा इन्द्रभगिनी इन्द्रिया इन्दुभूषणा ॥
॥१८॥इन्दुमाता इन्दुमुखी इन्द्रियाणां वशङ्करी ।
उमा उमापतेः प्राणा ओड्याणपीठवासिनी ॥
॥१९॥उत्तरज्ञा उत्तराख्या उकारा उत्तरात्मिका ।
ऋमाता ऋभवा ऋस्था ॠलॄकारस्वरूपिणी ॥
॥२०॥ऋकारा च लृकारा च लॄतकप्रीतिदायिनी ।
एका च एकवीरा च एकारैकाररूपिणी ॥
॥२१॥ओकारी ओघरूपा च ओघत्रयसुपूजिता ।
ओघस्था ओघसम्भूता ओघधात्री च ओघसूः ॥
॥२२॥षोडशस्वरसम्भूता षोडशस्वररूपिणी ।
वर्णात्मा वर्णनिलया शूलिनी वर्णमालिनी ॥
॥२३॥कालरात्रिर्महारात्रिर्मोहरात्रिः सुलोचना ।
काली कपालिनी कृत्या कालिका सिंहगामिनी ॥
॥२४॥कात्यायनी कलाधारा कालदैत्यनिकृन्तनी ।
कामिनी कामवन्द्या च कमनीया विनोदिनी ॥
॥२५॥कामसूः कामवनिता कामधुक् कमलावती ।
कामदात्री कराली च कामकेलिविनोदिनी ॥
॥२६॥कामना कामदा काम्या कमला कमलार्चिता ।
काश्मीरलिप्तवक्षोजा काश्मीरद्रवचर्चिता ॥
॥२७॥कनका कनकप्राणा कनकाचलवासिनी ।
कनकाभा काननस्था कामाख्या कनकप्रदा ॥
॥२८॥कामपीठस्थिता नित्या कामधामनिवासिनी ।
कम्बुकण्ठी करालाक्षी किशोरी च कलापिनी ॥
॥२९॥कला काष्ठा निमेषा च कालस्था कालरूपिणी ।
कालज्ञा कालमाता च कालधात्री कलावती ॥
॥३०॥कालदा कालहा कुल्या कुरुकुल्ला कुलाङ्गना ।
कीर्तिदा कीर्तिहा कीर्तिः कीर्तिस्था कीर्तिवर्धनी ॥
॥३१॥कीर्तिज्ञा कीर्तितपदा कृत्तिका केशवप्रिया ।
केशिहा केलीकारी च केशवानन्दकारिणी ॥
॥३२॥कुमुदाभा कुमारी च कर्मदा कमलेक्षणा ।
कौमुदी कुमुदानन्दा कौलिनी च कुमुद्वती ॥
॥३३॥कोदण्डधारिणी क्रोधा कूटस्था कोटराश्रया ।
कालकण्ठी करालाङ्गी कालाङ्गी कालभूषणा ॥
॥३४॥कङ्काली कामदामा च कङ्कालकृतभूषणा ।
कपालकर्त्रिककरा करवीरस्वरूपिणी ॥
॥३५॥कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी ।
कुशावती कुण्डसंस्था कौबेरी कौशिकी तथा ॥
॥३६॥काश्यपी कद्रुतनया कलिकल्मषनाशिनी ।
कञ्जस्था कञ्जवदना कञ्जकिञ्जल्कचर्चिता ॥
॥३७॥कञ्जाभा कञ्जमध्यस्था कञ्जनेत्रा कचोद्भवा ।
कामरूपा च ह्रींकारी कश्यपान्वयवर्धिनी ॥
॥३८॥खर्वा च खञ्जनद्वन्द्वलोचना खर्ववाहिनी ।
खड्गिनी खड्गहस्ता च खेचरी खड्गरूपिणी ॥
॥३९॥खगस्था खगरूपा च खगगा खगसम्भवा ।
खगधात्री खगानन्दा खगयोनिस्वरूपिणी ॥
॥४०॥खगेशी खेटककरा खगानन्दविवर्धिनी ।
खगमान्या खगाधारा खगगर्वविमोचिनी ॥
॥४१॥गङ्गा गोदावरी गीतिर्गायत्री गगनालया ।
गीर्वाणसुन्दरी गौश्च गाधा गीर्वाणपूजिता ॥
॥४२॥गीर्वाणचर्चितपदा गान्धारी गोमती तथा ।
गर्विणी गर्वहन्त्री च गर्भस्था गर्भधारिणी ॥
॥४३॥गर्भदा गर्भहन्त्री च गन्धर्वकुलपूजिता ।
गया गौरी च गिरिजा गिरिस्था गिरिसम्भवा ॥
॥४४॥गिरिगह्वरमध्यस्था कुञ्जरेश्वरगामिनी ।
किरीटिनी च गदिनी गुञ्जाहारविभूषणा ॥
॥४५॥गणपा गणका गण्या गणकानन्दकारिणी ।
गणपूज्या च गीर्वाणी गणपाननन्दकारिणी ॥
॥४६॥गुरुमाता गुरुरता गुरुभक्तिपरायणा ।
गोत्रा गौः कृष्णभगिनी कृष्णसूः कृष्णनन्दिनी ॥
॥४७॥गोवर्धनी गोत्रधरा गोवर्धनकृतालया ।
गोवर्धनधरा गोदा गौराङ्गी गौतमात्मजा ॥
॥४८॥घर्घरा घोररूपा च घोरा घर्घरनादिनी ।
श्यामा घनरवाऽघोरा घना घोरार्तिनाशिनी ॥
॥४९॥घनस्था च घनानन्दा दारिद्र्यघननाशिनी ।
चित्तज्ञा चिन्तितपदा चित्तस्था चित्तरूपिणी ॥
॥५०॥चक्रिणी चारुचम्पाभा चारुचम्पकमालिनी ।
चन्द्रिका चन्द्रकान्तिश्च चापिनी चन्द्रशेखरा ॥
॥५१॥चण्डिका चण्डदैत्यघ्नी चन्द्रशेखरवल्लभा ।
चाण्डालिनी च चामुण्डा चण्डमुण्डवधोद्यता ॥
॥५२॥चैतन्यभैरवी चण्डा चैतन्यघनगेहिनी ।
चित्स्वरूपा चिदाधारा चण्डवेगा चिदालया ॥
॥५३॥चन्द्रमण्डलमध्यस्था चन्द्रकोटिसुशीतला ।
चपला चन्द्रभगिनी चन्द्रकोटिनिभानना ॥
॥५४॥चिन्तामणिगुणाधारा चिन्तामणिविभूषणा ।
भक्तचिन्तामणिलता चिन्तामणिकृतालया ॥
॥५५॥चारुचन्दनलिप्ताङ्गी चतुरा च चतुर्मुखी ।
चैतन्यदा चिदानन्दा चारुचामरवीजिता ॥
॥५६॥छत्रदा छत्रधारी च छलच्छद्मविनाशिनी ।
छत्रहा छत्ररूपा च छत्रच्छायाकृतालया ॥
॥५७॥जगज्जीवा जगद्धात्री जगदानन्दकारिणी ।
यज्ञप्रिया यज्ञरता जपयज्ञपरायणा ॥
॥५८॥जननी जानकी यज्वा यज्ञहा यज्ञनन्दिनी ।
यज्ञदा यज्ञफलदा यज्ञस्थानकृतालया ॥
॥५९॥यज्ञभोक्त्री यज्ञरूपा यज्ञविघ्नविनाशिनी ।
जपाकुसुमसङ्काशा जपाकुसुमशोभिता ॥
॥६०॥जालन्धरी जया जैत्री जीमूतचयभाषिणी ।
जयदा जयरूपा च जयस्था जयकारिणी ॥
॥६१॥जगदीशप्रिया जीवा जलस्था जलजेक्षणा ।
जलरूपा जह्नुकन्या यमुना जलजोदरी ॥
॥६२॥जलजास्या जाह्नवी च जलजाभा जलोदरी ।
यदुवंशोद्भवा जीवा यादवानन्दकारिणी ॥
॥६३॥यशोदा यशसां राशिर्यशोदानन्दकारिणी ।
ज्वलिनी ज्वालिनी ज्वाला ज्वलत्पावकसन्निभा ॥
॥६४॥ज्वालामुखी जगन्माता यमलार्जुनभञ्जनी ।
जन्मदा जन्महा जन्या जन्मभूर्जनकात्मजा ॥
॥६५॥जनानन्दा जाम्बवती जम्बूद्वीपकृतालया ।
जाम्बूनदसमानाभा जाम्बूनदविभूषणा ॥
॥६६॥जम्भहा जातिदा जातिर्ज्ञानदा ज्ञानगोचरा ।
ज्ञानरूपाऽज्ञानहा च ज्ञानविज्ञानशालिनी ॥
॥६७॥जिनजैत्री जिनाधारा जिनमाता जिनेश्वरी ।
जितेन्द्रिया जनाधारा अजिनाम्बरधारिणी ॥
॥६८॥शम्भुकोटिदुराधर्षा विष्णुकोटिविमर्दिनी ।
समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥
॥६९॥सूर्यकोटिप्रतीकाशा यमकोटिदुरापहा ।
कामधुक्कोटिफलदा शक्रकोटिसुराज्यदा ॥
॥७०॥कन्दर्पकोटिलावण्या पद्मकोटिनिभानना ।
पृथ्वीकोटिजनाधारा अग्निकोटिभयङ्करी ॥
॥७१॥अणिमा महिमा प्राप्तिर्गरिमा लघिमा तथा ।
प्राकाम्यदा वशकरी ईशिका सिद्धिदा तथा ॥
॥७२॥महिमादिगुणोपेता अणिमाद्यष्टसिद्धिदा ।
जवनध्नी जनाधीना जामिनी च जरापहा ॥
॥७३॥तारिणी तारिका तारा तोतला तुलसीप्रिया ।
तन्त्रिणी तन्त्ररूपा च तन्त्रज्ञा तन्त्रधारिणी ॥
॥७४॥तारहारा च तुलजा डाकिनीतन्त्रगोचरा ।
त्रिपुरा त्रिदशा त्रिस्था त्रिपुरासुरघातिनी ॥
॥७५॥त्रिगुणा च त्रिकोणस्था त्रिमात्रा त्रितनुस्थिता ।
त्रैविद्या च त्रयी त्रिघ्नी तुरीया त्रिपुरेश्वरी ॥
॥७६॥त्रिकोदरस्था त्रिविधा त्रैलोक्या त्रिपुरात्मिका ।
त्रिधाम्नी त्रिदशाराध्या त्र्यक्षा त्रिपुरवासिनी ॥
॥७७॥त्रिवर्णी त्रिपदी तारा त्रिमूर्तिजननी त्वरा ।
त्रिदिवा त्रिदिवेशाऽऽदिर्देवी त्रैलोक्यधारिणी ॥
॥७८॥त्रिमूर्तिश्च त्रिजननी त्रीभूस्त्रीपुरसुन्दरी ।
तपस्विनी तपोनिष्ठा तरुणी ताररूपिणी ॥
॥७९॥तामसी तापसी चैव तापघ्नी च तमोपहा ।
तरुणार्कप्रतीकाशा तप्तकाञ्चनसन्निभा ॥
॥८०॥उन्मादिनी तन्तुरूपा त्रैलोक्यव्यापिनीश्वरी ।
तार्किकी तर्किकी विद्या तापत्रयविनाशिनी ॥
॥८१॥त्रिपुष्करा त्रिकालज्ञा त्रिसन्ध्या च त्रिलोचना ।
त्रिवर्गा च त्रिवर्गस्था तपसस्सिद्धिदायिनी ॥
॥८२॥अधोक्षजा अयोध्या च अपर्णा च अवन्तिका ।
कारिका तीर्थरूपा च तीरा तीर्थकरी तथा ॥
॥८३॥दारिद्र्यदुःखदलिनी अदीना दीनवत्सला ।
दीनानाथप्रिया दीर्घा दयापूर्णा दयात्मिका ॥
॥८४॥देवदानवसम्पूज्या देवानां प्रियकारिणी ।
दक्षपुत्री दक्षमाता दक्षयज्ञविनाशिनी ॥
॥८५॥देवसूर्दक्षीणा दक्षा दुर्गा दुर्गतिनाशिनी ।
देवकीगर्भसम्भूता दुर्गदैत्यविनाशिनी ॥
॥८६॥अट्टाऽट्टहासिनी दोला दोलाकर्माभिनन्दिनी ।
देवकी देविका देवी दुरितघ्नी तटित्तथा ॥
॥८७॥गण्डकी गल्लकी क्षिप्रा द्वारा द्वारवती तथा ।
आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता ॥
॥८८॥घोराग्निदाहदमनी दुःखदुस्स्वप्ननाशिनी ।
श्रीमयी श्रीमती श्रेष्ठा श्रीकरी श्रीविभाविनी ॥
॥८९॥श्रीदा श्रीशा श्रीनिवासा श्रीमती श्रीर्मतिर्गतिः ।
धनदा दामिनी दान्ता धमदो धनशालिनी ॥
॥९०॥दाडिमीपुष्पसङ्काशा धनागारा धनञ्जया ।
धूम्राभा धूम्रदैत्त्रघ्नी धवला धवलप्रिया ॥
॥९१॥धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ।
धरणी धरिणी धैर्या धरा धात्री च धैर्यदा ॥
॥९२॥दमिनी धर्मिणी धूश्च दया दोग्ध्री दुरासदा ।
नारायणी नारसिंही नृसिंहहृदयालया ॥
॥९३॥नागिनी नागकन्या च नागसूर्नागनायिका ।
नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥
॥९४॥दुर्गस्था दुर्गरूपा च दुःखदुष्कृतनाशिनी ।
हीङ्कारी चैव श्रीङ्कारी हुङ्कारी क्लेशनाशिनी ॥
॥९५॥नगात्मजा नागरी च नवीना नूतनप्रिया ।
नीरजास्या नीरदाभा नवलावण्यसुन्दरी ॥
॥९६॥नीतिज्ञा नीतिदा नीतिर्निमनाभिर्नगेश्वरी ।
निष्ठा नित्या निरातङ्का नागयज्ञोपवीतिनी ॥
॥९७॥निधिदा निधिरूपाच निर्गुणा नरवाहिनी ।
नरमांसरता नारी नरमुण्डविभूषणा ॥
॥९८॥निराधारा निर्विकारा नुतिर्निर्वाणसुन्दरी ।
नरासृक्पानमत्ता च निर्वैरा नागगामिनी ॥
॥९९॥परमा प्रमिता प्राज्ञा पार्वती पर्वतात्मजा ।
पर्वप्रिया पर्वरता पर्वपावनपावनी ॥
॥१००॥परात्परतरा पूर्वा पश्चिमा पापनाशिनी ।
पशूनां पतिपत्नी च पतिभक्तिपरायणा ॥
॥१०१॥परेशी पारगा पारा परञ्ज्योतिस्वरूपिणी ।
निष्ठुरा क्रूरहृदया परासिद्धिः परागतिः ॥
॥१०२॥पशुघ्नी पशुरूपा च पशुहा पशुवाहिनी ।
पिता माता च यन्त्री च पशुपाशविनाशिनी ॥
॥१०३॥पद्मिनी पद्महस्ता च पद्मकिञ्जल्कवासिनी ।
पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसम्भवा ॥
॥१०४॥पद्मास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी ।
पद्मरागप्रतीकाशा पाञ्चाली पञ्चमप्रिया ॥
॥१०५॥परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ।
परमानन्दमुदिता परचक्रनिवासिनी ॥
॥१०६॥परेशी परमा पृथ्वी पीनतुङ्गपयोधरा ।
परापरा पराविद्या परमानन्ददायिनी ॥
॥१०७॥पूज्या प्रज्ञावती पुष्टिः पिनाकिपरिकीर्तिता ।
प्राणघ्नी प्राणरूपा च प्राणदा च प्रियंवदा ॥
॥१०८॥फणिभूषा फणावेशी फकारकण्ठमालिनी ।
फणिराड्वृतसर्वाङ्गी फलभागनिवासिनी ॥
॥१०९॥बलभद्रस्य भगिनी बाला बालप्रदायिनी ।
फल्गुरुपा प्रलम्बध्नी फल्गूत्सव विनोदिनी ॥
॥११०॥भवानी भवपत्नी च भवभीतिहरा भवा ।
भवेश्वरी भवाराध्या भवेशी भवनायिका ॥
॥१११॥भवमाता भवागम्या भवकण्टकनाशिनी ।
भवप्रिया भवानन्दा भव्या च भवमोचनी ॥
॥११२॥भावनीया भगवती भवभारविनाशिनी ।
भूतधात्री च भूतेशी भूतस्था भूतरूपिणी ॥
॥११३॥भूतमाता च भूतघ्नी भूतपञ्चकवासिनी ।
भोगोपचारकुशला भिस्साधात्री च भूचरी ॥
॥११४॥भीतिघ्नी भक्तिगम्या च भक्तानामार्तिनाशिनी ।
भक्तानुकम्पिनी भीमा भगिनी भगनायिका ॥
॥११५॥भगविद्या भगक्लिन्ना भगयोनिर्भगप्रदा ।
भगेशी भगरूपा च भगगुह्या भगापहा ॥
॥११६॥भगोदरी भगानन्दा भगाद्या भगमालिनी ।
भोगप्रदा भोगवासा भोगमूला च भोगिनी ॥
॥११७॥भेरुण्डा भेदिनी भीमा भद्रकाली भिदोज्झिता ।
भैरवी भुवनेशानी भुवना भुवनेश्वरी ॥
॥११८॥भीमाक्षी भारती चैव भैरवाष्टकसेविता ।
भास्वरा भास्वती भीतिर्भास्वदुत्तानशायिनी ॥
॥११९॥भागीरथी भोगवती भवघ्नी भुवनात्मिका ।
भूतिदा भूतिरूपा च भूतस्था भूतवर्धिनी ॥
॥१२०॥माहेश्वरी महामाया महातेजा महासुरी ।
महाजिह्वा महालोला महादंष्ट्रा महाभुजा ॥
॥१२१॥महामोहान्धकारघ्नी महामोक्षप्रदायिनी ।
महादारिद्र्यशमनी महाशत्रुविमर्दिनी ॥
॥१२२॥महाशक्तिर्महाज्योतिर्महासुरविमर्दिनी ।
महाकाया महावीर्या महापातकनाशिनी ॥
॥१२३॥महारवा मन्त्रमयी मणिपूरनिवासिनी ।
मानसी मानदा मान्या मनश्चक्षुरगोचरा ॥
॥१२४॥माहेन्द्री मधुरा माया महिषासुरमर्दिनी ।
महाकुण्डलिनी शक्तिर्महाविभववर्धिनी ॥
॥१२५॥मानसी माधवी मेधा मतिदा मतिधारिणी ।
मेनकागर्भसम्भूता मेनकाभगिनी मतिः ॥
॥१२६॥महोदरी मुक्तकेशी मुक्तिकाम्यार्थसिद्धिदा ।
माहेशी महिषारूढा मधुदैत्यविमर्दिनी ॥
॥१२७॥महाव्रता महामूर्धा महाभयविनाशिनी ।
मातङ्गी मत्तमातङ्गी मातङ्गकुलमण्डिता ॥
॥१२८॥महाघोरा माननीया मत्तमातङ्गगामिनी ।
मुक्ताहारलतोपेता मदधूर्णितलोचना ॥
॥१२९॥महापराधराशिघ्री महाचोरभयापहा ।
महाचिन्त्यस्वरूपा च मणीमन्त्रमहौषधी ॥
॥१३०॥मणिमण्डपमध्यस्था मणिमालाविराजिता ।
मन्त्रात्मिका मन्त्रगम्या मन्त्रमाता सुमन्त्रिणी ॥
॥१३१॥मेरुमन्दिरमध्यस्था मकराकृतिकुण्डला ।
मन्थरा च महासूक्ष्मा महादूती महेश्वरी ॥
॥१३२॥मालिनी मानवी माध्वी मदरूपा मदोत्कटा ।
मदिरा मधुरा चैव मोदिनी च महोद्धता ॥
॥१३३॥मङ्गलाङ्गी मधुमयी मधुपानपरायणा ।
मनोरमा रमामाता राजराजेश्वरी रमा ॥
॥१३४॥राजमान्या राजपूज्या रक्तोत्पलविभूषणा ।
राजीवलोचना रामा राधिका रामवल्लभा ॥
॥१३५॥शाकिनी डाकिनी चैव लावण्याम्बुधिवीचिका ।
रुद्राणी रुद्ररूपा च रौद्रा रुद्रार्तिनाशिनी ॥
॥१३६॥रक्तप्रिया रक्तवस्त्रा रक्ताक्षी रक्तलोचना ।
रक्तकेशी रक्तदंष्ट्रा रक्तचन्दनचर्चिता ॥
॥१३७॥रक्ताङ्गी रक्तभूषा च रक्तबीजनिपातिनी ।
रागादिदोषरहिता रतिजा रतिदायिनी ॥
॥१३८॥विश्वेश्वरी विशालाक्षी विन्ध्यपीठनिवासिनी ।
विश्वभूर्वीरविद्या च वीरसूर्वीरनन्दिनी ॥
॥१३९॥वीरेश्वरी विशालाक्षी विष्णुमाया विमोहिनी ।
विद्यावती विष्णुरूपा विशालनयनोज्ज्वला ॥
॥१४०॥विष्णुमाता च विश्वात्मा विष्णुजायास्वरूपिणी ।
वाराही वरदा वन्द्या विख्याता विलसल्कचा ॥
॥१४१॥ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी ।
द्वारका विश्ववन्द्या च विश्वपाशविमोचनी ।
विश्वासकारिणी विश्वा विश्वशक्तिर्विचक्षणा ॥
॥१४२॥बाणचापधरा वीरा बिन्दुस्था बिन्दुमालिनी ।
षट्चक्रभेदिनी षोढा षोडशारनिवासिनी ॥
॥१४३॥शितिकण्ठप्रिया शान्ता शाकिनी वातरूपिणी ।
शाश्वती शम्भुवनिता शाम्भवी शिवरूपिणी ॥
॥१४४॥शिवमाता च शिवदा शिवा शिवहृदासना ।
शुक्लाम्बरा शीतला च शीला शीलप्रदायिनी ॥
॥१४५॥शिशुप्रिया वैद्यविद्या सालग्रामशिला शुचिः ।
हरिप्रिया हरमूर्तिर्हरिनेत्रकृतालया ॥
॥१४६॥हरिवक्त्रोद्भवा हाला हरिवक्षःस्थलस्थिता ।
क्षेमङ्करी क्षितिः क्षेत्रा क्षुधितस्य प्रपूरणी ॥
॥१४७॥वैश्या च क्षत्रिया शूद्री क्षत्रियाणां कुलेश्वरी ।
हरपत्नी हराराध्या हरसूर्हररूपिणी ॥
॥१४८॥सर्वानन्दमयी सिद्धिस्सर्वरक्षास्वरूपिणी ।
सर्वदुष्टप्रशमनी सर्वेप्सितफलप्रदा ॥
॥१४९॥सर्वसिद्धेश्वराराध्या सर्वमङ्गलमङ्गला ।
॥१५०॥फलश्रुतिः
पुण्यं सहस्रनामेदं तव प्रीत्या प्रकाशितम् ॥
॥१५१॥गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः ।
नातः परतरं पुण्यं नातः परतरं तपः ॥
॥१५२॥नातः परतरं स्तोत्रं नातः परतरा गतिः ।
स्तोत्रं नामसहस्राख्यं मम वक्त्राद्विनिर्गतम् ॥
॥१५३॥यः पठेत्परया भक्त्या शृणुयाद्वा समाहितः ।
मोक्षार्थी लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् ॥
॥१५४॥कामार्थी लभते कामं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः ॥
॥१५५॥कन्यार्थी लभते कन्यां सुतार्थी लभते सुतान् ।
मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ॥
॥१५६॥गुर्विणी जनयेत्पुत्रं कन्यां विन्दति सत्पतिम् ।
संक्रान्त्यां च चतुर्दश्यामष्टम्यां च विशेषतः ॥
॥१५७॥पौर्णमास्याममावास्यां नवम्यां भौमवासरे ।
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥
॥१५८॥स मुक्तस्सर्वपापेभ्यः कामेश्वरसमो भवेत् ।
लक्ष्मीवान् सुतवांश्चैव वल्लभस्सर्वयोषिताम् ॥
॥१५९॥तस्य वश्यं भवेदाशु त्रैलोक्यं सचराचरम् ।
विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे ॥
॥१६०॥वैश्यो धनसमृद्धस्स्याच्छूद्रस्सुखमवाप्नुयात् ।
क्षेत्रे च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः ॥
॥१६१॥नाशुभं नापदस्तस्य न भयं नृपशत्रुतः ।
जायते नाशुभा बुद्धिर्लभते कुलपूज्यताम् ॥
॥१६२॥न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः ।
न पिशाचा न डाकिन्यो भूतभेतालडम्भकाः ॥
॥१६३॥बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
द्वन्द्वानां प्रतिभेदे च मैत्रीकरणमुत्तमम् ॥
॥१६४॥लोहपाशैदृढैर्बद्धो बन्दी वेश्मनि दुर्गमे ।
तिष्ठञ्छृण्वन्पतन्मर्त्यो मुच्यते नात्र संशयः ॥
॥१६५॥पश्यन्ति नहि ते शोकं वियोगं चिरजीविनः ।
शृण्वती बद्धगर्भा च सुखं चैव प्रसूयते ॥
॥१६६॥एकदा पठनादेव सर्वपापक्षयो भवेत् ।
नश्यन्ति च महारोगा दशधावर्तनेन च ॥
॥१६७॥शतधावर्तने चैव वाचां सिद्धिः प्रजायते ।
नवरात्रे जिताहारो दृढबुद्धिर्जितेन्द्रियः ॥
॥१६८॥अम्बिकायतने विद्वान् शुचिष्मान् मूर्तिसन्निधौ ।
एकाकी च दशावर्तं पठन्धीरश्च निर्भयः ॥
॥१६९॥साक्षात्त्वगवती तस्मै प्रयच्छेदीप्सितं फलम् ।
सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥
॥१७०॥पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता ।
दशावर्तं पठेन्नित्यं भूमीशायी नरश्शुचिः ॥
॥१७१॥स्वप्ने मूर्तिमयां देवीं वरदां सोऽपि पश्यति ।
आवर्तनसहस्रैर्ये जपन्ति पुरुषोत्तमाः ॥
॥१७२॥ते सिद्धा सिद्धिदा लोके शापानुग्रहणक्षमाः ।
प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः ॥
॥१७३॥भूर्जपत्रेऽष्टगन्धेन लिखित्वा तु शुभे दिने ।
धारयेद्यन्त्रितं शीर्षे पूजयित्वा कुमारिकाम् ॥
॥१७४॥ब्राह्मणान् वरनारीश्च धूपैः कुसुमचन्दनैः ।
क्षीरखण्डादिभोज्यांश्च भोजयित्वा सुभक्तितः ॥
॥१७५॥बध्नन्ति ये महारक्षां बालानां च विशेषतः ।
रुद्रं दृष्ट्वा यथा देवं विष्णुं दृष्ट्वा च दानवाः ॥
॥१७६॥पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा गजाः ।
मण्डूका भोगिनं दृष्ट्वा मार्जारं मूषिकास्तथा ॥
॥१७७॥विघ्नभूताः पलायन्ते तस्य वक्त्रविलोकनात् ।
अग्निचोरभयं तस्य कदाचिन्नैव सम्भवेत् ॥
॥१७८॥पातकान्विविधान्सोऽपि मेरुमन्दरसन्निभान् ।
भस्मितान्कुरुते क्षिप्रं तृणं वह्निहुतं यथा ॥
॥१७९॥नृपाश्च वश्यतां यान्ति नृपपूज्याश्च ते नराः ।
महार्णवे महानद्यां पोतस्थे च न भीः कचित् ॥
॥१८०॥रणे द्यूते विवादे च विजयं प्राप्नुवन्ति ते ।
सर्वत्र पूजितो लोकैर्बहुमानपुरस्सरैः ॥
॥१८१॥रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः ।
यौवनाक्रान्तदेहास्तान् श्रयन्ते वामलोचनाः ॥
॥१८२॥सहस्रं जपते यस्तु खेचरी जायते नरः ।
सहस्रदशकं देवि यः पठेद्भक्तिमान्नरः ॥
॥१८३॥सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् ।
लक्षं पूर्णं यदा देवि स्तोत्रराजं जपेत्सुधीः ॥
॥१८४॥भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥
॥१८५॥सर्वधर्मेषु यज्ञेषु सर्वदानेषु यत्फलम् ।
सर्ववेदेषु प्रोक्तेषु यत्फलं परिकीर्तितम् ॥
॥१८६॥तत्पुण्यं कोटिगुणितं सकृज्जप्त्वा लभेन्नरः ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।
स यास्यति न सन्देहस्स्तवराजस्य कीर्तनात् ॥
॥१८७॥इति रुद्रयामले श्रीअन्नपूर्णासहस्रनामस्तोत्रं सम्पूर्णम्