मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सौन्दर्यलहरी

Saundaryalaharī (Soundarya Lahari) of Ādi Śaṅkarācārya — Ānandalaharī and Saundaryalaharī.

3

श्रीशङ्करभगवत्पादकृतम्

आनन्दलहरी

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं

न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।

अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि

प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥

॥१॥

तनीयांसं पांसुं तव चरणपङ्केरुहभवं

विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् ।

वहत्येनं शौरिः कथमपि सहस्रेण शिरसां

हरः सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥

॥२॥

अविद्यानामन्तस्तिमिर-मिहिरद्वीपनगरी

जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी ।

दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ

निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवती ॥

॥३॥

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः

त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।

भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं

शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥

॥४॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं

पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।

स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा

मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥

॥५॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः

वसन्तः सामन्तो मलयमरुदायोधनरथः ।

तथाऽप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्

अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥

॥६॥

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता

परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।

धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः

पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥

॥७॥

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते

मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।

शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां

भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥

॥८॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं

स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।

मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं

सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥

॥९॥

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः

प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।

अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं

स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥

॥१०॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि

प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।

चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय

त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥

॥११॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं

कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।

यदालोकौत्सुक्यादमरललना यान्ति मनसा

तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥

॥१२॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं

तवापाङ्गालोके पतितमनुधावन्ति शतशः ।

गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया

हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥

॥१३॥

क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके

हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।

दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये

मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥

॥१४॥

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमुकुटां

वरत्रासत्राणस्फटिकघुटिकापुस्तककराम् ।

सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते

मधुक्षीरद्राक्षामधुरिमधुरीणाः कणितयः ॥

॥१५॥

कवीन्द्राणां चेतःकमलवनबालातपरुचिं

भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।

विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी

गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥

॥१६॥

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः

वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।

स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः

वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥

॥१७॥

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः

दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः ।

भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः

सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥

॥१८॥

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो

हरार्धं ध्यायेद्योहरमहिषि ते मन्मथकलाम् ।

स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु

त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥

॥१९॥

किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं

हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।

स सर्पाणां दर्पं शमयति शकुन्ताधिप इव

ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाऽऽधारसिरया ॥

॥२०॥

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं

निषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।

महापद्माटव्यां मृदितमलमायेन मनसा

महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥

॥२१॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणाम्

इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।

तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं

मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् ॥

॥२२॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा

शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् ।

यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं

कुचाभ्यामानम्रं कुटिलशशिचूडालमुकुटम् ॥

॥२३॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते

तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।

सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः

तवाऽऽज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥

॥२४॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे

भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।

तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे

स्थिता ह्येते शश्वन् मुकुलितकरोत्तंसमकुटाः ॥

॥२५॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं

विनाशं कीनाशो भजति धनदो याति निधनम् ।

वितन्द्री माहेन्द्री विततिरपि सम्मीलित-दृशां

महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥

॥२६॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना

गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।

प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा

सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥

॥२७॥

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं

विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।

करालं यत्क्ष्वेलं कबलितवतः कालकलना

न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥

॥२८॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः

कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम् ।

प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं

भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥

॥२९॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाऽऽद्याभिरभितो

निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।

किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो

महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥

॥३०॥

चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं

स्थितस्तत् तत् सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।

पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना

स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥

॥३१॥

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः

स्मरो हंसः शक्रस्तदनु च परामारहरयः ।

अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता

भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥

॥३२॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनोः

निधायैके नित्ये निरवधिमहाभोगरसिकाः ।

भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः

शिवाऽग्नौ जुह्वन्तः सुरभिघृतधाराऽऽहुतिशतैः ॥

॥३३॥

शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं

तवाऽऽत्मानं मन्ये भगवति नवात्मानमनघम् ।

अतः शेषः शेषीत्ययमुभयसाधारणतया

स्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥

॥३४॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि

त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।

त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा

चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥

॥३५॥

तवाऽऽज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं

परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।

यमाराध्यन् भक्त्या रविशशिशुचीनामविषये

निरालोकेऽलोके निवसति हि भालोकभवने ॥

॥३६॥

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं

शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।

ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं

विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥

॥३७॥

समुन्मीलत् संवित् कमलमकरन्दैकरसिकं

भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।

यदालापादष्टादशगुणितविद्यापरिणतिः

यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥

॥३८॥

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं

तमीडे संवर्तं जननि महतीं तां च समयाम् ।

यदालोके लोकान् दहति महति क्रोधकलिते

दयार्द्रा यद्दृष्टिः शिशिरमुपचारं रचयति ॥

॥३९॥

तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया

स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।

तव श्यामं मेघं कमपि मणिपूरैकशरणं

निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥

॥४०॥

तवाऽऽधारे मूले सह समयया लास्यपरया

नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।

उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया

सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥

॥४१॥

सौन्दर्यलहरी

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं

किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।

स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं

धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥

॥४२॥

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं

घनस्निग्धश्लक्ष्णं चिकुरनिकुरम्बं तव शिवे ।

यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो

वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥

॥४३॥

तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी

परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ।

वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर

द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥

॥४४॥

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः

परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।

दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे

सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥

॥४५॥

ललाटं लावण्यद्युतिविमलमाभाति तव यत्

द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।

विपर्यासन्यासादुभयमपि सम्भूय च मिथः

सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥

॥४६॥

भ्रुवौ भुग्ने किञ्चिद् भुवनभयभङ्गव्यसनिनि

त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।

धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः

प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥

॥४७॥

अहः सूते सव्यं तव नयनमर्कात्मकतया

त्रियामां वामं ते सृजति रजनीनायकतया ।

तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः

समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥

॥४८॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः

कृपाधाराधारा किमपि मधुरा भोगवतिका ।

अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया

ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥

॥४९॥

कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं

कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।

अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरलौ

असूयासंसर्गादलिकनयनं किञ्चिदरुणम् ॥

॥५०॥

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा

सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।

हराहिभ्यो भीता सरसिरुहसौभाग्यजननी

सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥

॥५१॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती

पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।

इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके

तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥

॥५२॥

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया

विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।

पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्

रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयमिव ॥

॥५३॥

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये

दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।

नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं

त्रयाणां तीर्थानामुपनयसि सम्भेदमनघम् ॥

॥५४॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती

तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।

त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः

परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥

॥५५॥

तवापर्णे कर्णेजपनयनपैशुन्यचकिता

निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।

इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं

जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥

॥५६॥

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा

दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।

अनेनायं धन्यो भवति न च ते हानिरियता

वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥

॥५७॥

अरालं ते पालीयुगलमगराजन्यतनये

न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।

तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलसन्

अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥

॥५८॥

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं

चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।

यमारुह्य द्रुह्यत्यवनिरथम् अर्केन्दुचरणं

महावीरो मारः प्रमथपतये सज्जितवते ॥

॥५९॥

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः

पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।

चमत्कारश्लाघाचलितशिरसः कुण्डलगणो

झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥

॥६०॥

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि

त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।

वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितं

समृद्ध्या यस्तासां बहिरपि च मुक्तामणिधरः ॥

॥६१॥

प्रकृत्याऽऽरक्तायास्तव सुदति दन्तच्छदरुचेः

प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।

न बिम्बं त्वद्बिम्बप्रतिफलनरागादरुणितं

तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥

॥६२॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां

चकोराणामासीदतिरसतया चञ्चुजडिमा ।

अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः

पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥

॥६३॥

अविश्रान्तं पत्युर्गुणगणकथाऽऽम्रेडनजपा

जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।

यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी

सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥

॥६४॥

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिः

निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।

विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला

विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥

॥६५॥

विपञ्च्या गायन्ती विविधमपदानं पशुपतेः

त्वयाऽऽरब्धे वक्तुं चलितशिरसा साधुवचने ।

तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां

निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥

॥६६॥

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया

गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।

करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते

कथङ्कारं ब्रूमस्तव चुबुकमौपम्यरहितम् ॥

॥६७॥

भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती

तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।

स्वतः श्वेता कालागरुबहुलजम्बालमलिना

मृणालीलालित्यम् वहति यदधो हारलतिका ॥

॥६८॥

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे

विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः ।

विराजन्ते नानाविधमधुररागाकरभुवां

त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥

॥६९॥

मृणालीमृद्वीनां तव भुजलतानां चतसृणां

चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।

नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपोः

चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥

॥७०॥

नखानामुद्द्योतैर्नवनलिनरागं विहसतां

कराणां ते कान्तिं कथय कथयामः कथमुमे ।

कयाचिद्वा साम्यं भजतु कलया हन्त कमलं

यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥

॥७१॥

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं

तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।

यदालोक्याशङ्काऽऽकुलितहृदयो हासजनकः

स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति ॥

॥७२॥

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ

न सन्देहस्पन्दो नगपतिपताके मनसि नः ।

पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ

कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥

॥७३॥

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः

समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।

कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां

प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥

॥७४॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः

पयःपारावारः परिवहति सारस्वतमिव ।

दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्

कवीनां प्रौढानामजनि कमनीयः कवयिता ॥

॥७५॥

हरक्रोधज्वालाऽऽवलिभिरवलीढेन वपुषा

गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।

समुत्तस्थौ तस्मादचलतनये धूमलतिका

जनस्तां जानीते तव जननि रोमावलिरिति ॥

॥७६॥

यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे

कृशे मध्ये किञ्चिज्जननि तव तद्भाति सुधियाम् ।

विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं

तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥

॥७७॥

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता

निजावालं कुण्डं कुसुमशरतेजोहुतभुजः ।

रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते

बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥

॥७८॥

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो

नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।

चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा

समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥

॥७९॥

कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ

कषन्तौ दोर्मूले कनककलशाभौ कलयता ।

तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा

त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥

॥८०॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात्

नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।

अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं

नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥

॥८१॥

करीन्द्राणां शुण्डान् कनककदलीकाण्डपटलीम्

उभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति ।

सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते

विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥

॥८२॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते

निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।

यदग्रे दृश्यन्ते दश शरफलाः पादयुगली

नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥

॥८३॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया

ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।

ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी

ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥

॥८४॥

नमोवाकं ब्रूमो नयनरमणीयाय पदयोः

तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।

असूयत्यत्यन्तं यदभिहननाय स्पृहयते

पशूनामीशानः प्रमदवनकङ्केलितरवे ॥

॥८५॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं

ललाटे भर्तारं चरणकमले ताडयति ते ।

चिरादन्तःशल्यं दहनकृतमुन्मूलितवता

तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥

॥८६॥

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ

निशायां निद्राणां निशि चरमभागे च विशदौ ।

वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां

सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥

॥८७॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां

कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।

कथं वा बाहुभ्यामुपयमनकाले पुरभिदा

यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥

॥८८॥

नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभिः

तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।

फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां

दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥

॥८९॥

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशीम्

अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति ।

तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे

निमज्जन् मज्जीवः करणचरणः षट्चरणताम् ॥

॥९०॥

पदन्यासक्रीडापरिचयमिवारब्धुमनसः

स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।

अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-

च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥

॥९१॥

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः

शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।

त्वदीयानां भासां प्रतिफलनरागारुणतया

शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥

॥९२॥

अराला केशेषु प्रकृतिसरला मन्दहसिते

शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।

भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये

जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥

॥९३॥

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं

कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।

अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं

विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥

॥९४॥

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः

सपर्यामर्यादा तरलकरणानामसुलभा ।

तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां

तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥

॥९५॥

कलत्रं वैधात्रं कति कति भजन्ते न कवयः

श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।

महादेवं हित्वा तव सति सतीनामचरमे

कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥

॥९६॥

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो

हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।

तुरीया काऽपि त्वं दुरधिगमनिःसीममहिमा

महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥

॥९७॥

कदा काले मातः कथय कलितालक्तकरसं

पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।

प्रकृत्या मूकानामपि च कविताकारणतया

कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥

॥९८॥

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते

रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।

चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः

परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥

॥९९॥

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः

सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।

स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं

त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥

॥१००॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सौन्दर्यलहरी सम्पूर्णा ॥

समानीतः पद्‌भ्यां मणिमुकुरतामम्बरमणिः

भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः ।

दधाति त्वद्वक्त्रप्रतिफलनमश्रान्तविकचं

निरातङ्कं चन्द्रान्निजहृदयपङ्केरुहमिव ॥

॥१०१॥

समुद्भूतस्थूलस्तनभरमुरश्चारु हसितं

कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः ।

हरस्य त्वद्भ्रान्तिं मनसि जनयन्तः समयिनो

भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥

॥१०२॥

निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे

निराघाटज्ञाने नियमपरचित्तैकनिलये ।

नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतपदे

निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम् ॥

॥१०३॥