मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अन्नपूर्णा अष्टोत्तरशत नाम स्तोत्रम्

3

शिवरहस्यम्

ध्यानम्

सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रत्नवस्त्रां

पीनोत्तुङ्गस्तनाढ्यामभिनवविलसद्यौवनारम्भरम्याम् ।

नानालङ्कारयुक्तां सरसिजनयनामिन्दुसङ्क्रान्तमूर्तिं

देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णां नमामि ॥

॥१॥

स्तोत्रम्

अन्नपूर्णा शिवा देवी भीमा पुष्टिः सरस्वती ।

सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥

॥२॥

वेदविद्या महाविद्या विद्यादात्री विशारदा ।

कुमारी त्रिपुरा बाला लक्ष्मीः श्रीर्भयहारिणी ॥

॥३॥

भवानी विष्णुजननी ब्रह्मादिजननी तथा ।

गणेशजननी शक्तिः कुमारजननी शुभा ॥

॥४॥

भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी ।

भवरोगहरा भव्या शुभ्रा परममङ्गला ॥

॥५॥

भवानी चञ्चला गौरी चारुचन्द्रकलाधरा ।

विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥

॥६॥

आर्या कल्याणनिलया रुद्राणी कमलासना ।

शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥

॥७॥

अम्बा संहारमथनी मृडानी सर्वमङ्गला ।

विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥

॥८॥

परमानन्ददा शान्तिः परमानन्दरूपिणी ।

परमानन्दजननी परानन्दप्रदायिनी ॥

॥९॥

परोपकारनिरता परमा भक्तवत्सला ।

पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥

॥१०॥

शुभलक्षणसम्पन्ना शुभानन्दगुणार्णवा ।

शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥

॥११॥

चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।

मार्तण्डनयना साध्वी चन्द्राग्निनयना सती ॥

॥१२॥

पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी ।

मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता ॥

॥१३॥

असृष्टिः सङ्गरहिता सृष्टिहेतुः कपर्दिनी ।

वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥

॥१४॥

मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता ।

महाभगवती दक्षा दक्षाध्वरविनाशिनी ॥

॥१५॥

सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी ।

नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥

॥१६॥

नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम् ।

सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥

॥१७॥

एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरन्तरम् ।

स्तुत्वा देवीं च सततं सर्वान् कामानवाप्नुयात् ॥

॥१८॥

इति श्रीशिवरहस्ये श्री-अन्नपूर्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्