कौथुम समिदाधानम्
Kauthuma śākhā samidādhānam (samidadhanam) — the daily fire-stick offering for brahmacārins.
1. समिदाधानं
ब्रह्मचारिभिः कर्तव्यम् । हस्तौ प्रक्षाल्य द्विराचामेत् ।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
त्रिः प्राणायामं कुर्यात् ।
ॐ भू: — ॐ भुव: — ॐ सुव: — ॐ मह: —
ॐ जन: — ॐ तप: — ॐ सत्यम् —
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात् —
ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ॥
प्रातः "प्रातः" इति, सायं "सायम्" इति उक्त्वा सङ्कल्पयेत् ।
ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं प्रात: समिदाधानं करिष्ये ॥
ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं सायं समिदाधानं करिष्ये ॥
अप उपस्पृश्य, दर्भेण भूमौ रेखाः लिखित्वा, प्रोक्ष्य, दर्भान् गृह्णीयात् ।
2. अग्नि प्रतिष्ठा — परिषेचनं
अग्निं प्रतिष्ठाप्य प्रज्वाल्य, प्रदक्षिणं जलेन परिषिञ्चेत् ।
देव सवित: प्रसुव — यज्ञं प्रसुव — यज्ञपतिं भगाय ।
दिव्यो गन्धर्व: केतपू: केतं न: पुनातु ।
वाचस्पतिर्वाचं न: स्वदतु ॥
3. समिदाधानं — आहुति
एकैकां समिधं गृहीत्वा मन्त्रं पठित्वा "स्वाहा" इति अग्नौ निदध्यात् ।
अग्नये समिधमाहार्षम् — बृहते जातवेदसे —
यथा त्वमग्ने — समिधा समिध्यसे —
एवमहम् आयुषा — मेधया वर्चसा —
प्रजया पशुभि: — ब्रह्मवर्चसेन — अन्नाद्येन —
समेधिषीय स्वाहा ॥ अग्नय इदम् ।
भूस्स्वाहा — अग्नय इदम् ।
भुवस्स्वाहा — वायव इदम् ।
स्वस्स्वाहा — सूर्याय इदम् ।
ॐ भूर्भुवस्सुवस्स्वाहा — प्रजापतय इदम् ॥
4. अग्नि परिषेचनं
देव सवित: प्रसावी: — यज्ञं प्रसावी: — यज्ञपतिं भगाय ।
दिव्यो गन्धर्व: केतपू: केतं नो पुनातु ।
वाचस्पतिर्वाचं न: स्वदतु ॥
ततः "सुवा" इत्यादि वामदेव्यं साम गीत्वा अन्तिमां समिधं "स्वाहा" इति अग्नौ निदध्यात् ।
5. उपस्थानं
उपस्थानं करिष्ये — अग्नये नम: ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव परिपूर्णं तदस्तु ते ॥
6. प्रायश्चित्त होमं
तप: कर्मात्मकानि वै ।
यानि देवा मयेश्वरणं कृष्णानुस्मरणं परम् ॥
नमस्कृत्य अभिवाद्य, अग्नेः भस्म गृहीत्वा वामहस्ते निदध्यात् ।
7. भस्म धारणं
त्र्यायुषं जमदग्ने: — कश्यपस्य त्र्यायुषम् —
अगस्त्यस्य त्र्यायुषम् — यद्देवानां त्र्यायुषम् —
तत्ते अस्तु त्र्यायुषम् ॥
भस्म जलेन मिश्रयित्वा अनामिकया आलोड्य, तया अङ्गुल्या अधोनिर्दिष्टस्थानेषु धारयेत् ।
| ब्रह्म बिन्दु ऋषि | ललाटे |
| अमृत बिन्दु ऋषि | चिबुके |
| आयुर् बिन्दु ऋषि | हृदि |
| आरोग्य बिन्दु ऋषि | कण्ठे |
| श्री बिन्दु ऋषि | दक्षिण स्कन्धे |
| भानु बिन्दु ऋषि | वाम स्कन्धे |
| सर्वात्मकं बिन्दु ऋषि | पृष्ठे |
| सेनाभ्य बिन्दु ऋषि | कण्ठपृष्ठे |
| स्वस्ति | मूर्ध्नि |
स्वस्ति श्रद्धां यश: प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥
इति समिदाधानं समाप्तम् ।