पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा
पूर्वाङ्गपूजा
संवृणु
आचमनम्
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामः — सङ्कल्पः
अप उपस्पृश्य
ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।
महद्भन्दनम्
आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।
ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥
आसनपूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।
पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥
घण्टापूजा
घण्टानादं कृत्वा।
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥
विघ्नेश्वरपूजा
अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।
आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
| सुमुखाय नमः |
| एकदन्ताय नमः |
| कपिलाय नमः |
| गजकर्णिकाय नमः |
| लम्बोदराय नमः |
| विकटाय नमः |
| विघ्नराजाय नमः |
| विनायकाय नमः |
| धूमकेतवे नमः |
| गणाध्यक्षाय नमः |
| फालचन्द्राय नमः |
| गजाननाय नमः |
| वक्रतुण्डाय नमः |
| शूर्पकर्णाय नमः |
| हेरम्बाय नमः |
| स्कन्दपूर्वजाय नमः |
| सिद्धिविनायकाय नमः |
| श्रीमहागणपतये नमः |
उपचाराः
धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।
प्रार्थना
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
इति प्रार्थ्य। प्राणायामः।
सङ्कल्पः
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीतुलसीदेवीप्रीत्यर्थं दीर्घसौमङ्गल्यप्राप्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं श्रीतुलसीपूजां करिष्ये।
अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।
कलशपूजा
कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
| गङ्गायै नमः | |
| यमुनायै नमः | |
| गोदावर्यै नमः | |
| सरस्वत्यै नमः | |
| नर्मदायै नमः | |
| सिन्धवे नमः | |
| कावेर्यै नमः | पुष्पैः पूजयामि। |
शङ्खपूजा
कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥
आत्मपूजा
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥
पीठपूजा
| ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः |
| आधारशक्त्यै नमः |
| मूलप्रकृत्यै नमः |
| आदिवराहाय नमः |
| आदिकूर्माय नमः |
| अनन्ताय नमः |
| पृथिव्यै नमः |
| आदित्यादिनवग्रहदेवताभ्यो नमः |
| दशदिक्पालेभ्यो नमः |
गुरुध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
श्रीगुरुं ध्यायामि।
प्रधानपूजा
तुलसीध्यानम्
ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम्।
प्रसन्नां पद्मकल्हारवराभयचतुर्भुजाम् ॥
किरीटहारकेयूरकुण्डलाद्यैर्विभूषिताम्।
धवलांशुकसंवीतां पद्मासननिषेविताम्।
देवीं त्रैलोक्यजननीं सर्वलोकैकपावनीम् ॥
अस्मिन् क्षुपे श्रीतुलसीं ध्यायामि।
आवाहनम्
सर्वदेवमये देवि सर्वदे विष्णुवल्लभे।
आगच्छ मम गेहेऽस्मिन् नित्यं सन्निहिता भव ॥
अस्मिन् क्षुपे श्रीतुलसीं आवाहयामि।
आसनम्
रत्नसिंहासनं चारु भुक्तिमुक्तिफलप्रदे।
मया दत्तं महादेवि सङ्गृहाण सुरार्चिते ॥
श्रीतुलस्यै नमः। आसनं समर्पयामि।
पाद्यम्
नानागन्धसुपुष्पैश्च वासितं सुरवन्दिते।
पाद्यं गृहाण देवि त्वं सर्वकामफलप्रदे ॥
श्रीतुलस्यै नमः। पाद्यं समर्पयामि।
अर्घ्यम्
गङ्गोदकं समानीतं सुवर्णकलशस्थितम्।
तुलसि त्वं गृहाणेदमर्घ्यमैश्वर्यदायकम् ॥
श्रीतुलस्यै नमः। अर्घ्यं समर्पयामि।
आचमनीयम्
सर्वमङ्गलदेवेशि नवरत्नैर्विभूषिते।
मया दत्तमिदं तोयं गृहाणाचमनीयकम् ॥
श्रीतुलस्यै नमः। आचमनीयं समर्पयामि।
मधुपर्कः
पूर्णेन्दुबिम्बसदृशं दधिखण्डघृतं मधु।
मधुपर्कं मयाऽऽनीतं गृहाण परमेश्वरि ॥
श्रीतुलस्यै नमः। मधुपर्कं समर्पयामि।
स्नानम्
गङ्गायमुनयोस्तोयमानीतं निर्मलं शुभम्।
गन्धोदकमिदं देवि स्नानार्थं प्रतिगृह्यताम् ॥
श्रीतुलस्यै नमः। शुद्धोदकस्नानं समर्पयामि।
वस्त्रम्
क्षौमं काञ्चनसङ्काशमिदं शुभ्रं मनोहरम्।
वस्त्रयुग्मं शुभे देवि स्वीकुरुष्वाम्बुजेक्षणे ॥
श्रीतुलस्यै नमः। वस्त्रयुग्मं समर्पयामि।
उपवीतम्
राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम्।
गृहाण सर्ववरदे पद्मपत्रनिभेक्षणे ॥
श्रीतुलस्यै नमः। उपवीतं समर्पयामि।
आभरणानि
किरीटहारकटकान् केयूरान् कुण्डलान् शुभान्।
नूपुरोदरबन्धं च भूषणानि समर्पये ॥
श्रीतुलस्यै नमः। आभरणानि समर्पयामि।
गन्धः
चन्दनागरुकस्तूरीकर्पूरेण च संयुतम्।
विलेपनं ददामि त्वं गृहाण तुलसीश्वरि ॥
श्रीतुलस्यै नमः। गन्धं समर्पयामि।
अक्षताः
अक्षतान् धवलान् दिव्यान् शालीयांस्तण्डुलान् शुभान्।
सुधौतानर्पये देवि वृन्दास्थानोद्भवेश्वरि ॥
श्रीतुलस्यै नमः। अक्षतान् समर्पयामि।
पुष्पाणि
मल्लिकाकुन्दमन्दारजातीवकुलचम्पकैः।
शतपत्रैश्च कल्हारैः पूजयामि महेश्वरि ॥
श्रीतुलस्यै नमः। पुष्पाणि समर्पयामि।
अङ्गपूजा
| तुलसीदेव्यै नमः | पादौ पूजयामि। |
| वृन्दावनस्थायै नमः | गुल्फौ पूजयामि। |
| पद्मपत्रनिभेक्षणायै नमः | जङ्घे पूजयामि। |
| पद्मकोटिसमप्रभायै नमः | ऊरू पूजयामि। |
| हरिप्रियायै नमः | जानुनी पूजयामि। |
| कुङ्कुमाङ्कितगात्रायै नमः | कटिं पूजयामि। |
| सुरवन्दितायै नमः | नाभिं पूजयामि। |
| लोकानुग्रहकारिण्यै नमः | उदरं पूजयामि। |
| त्रैलोक्यजनन्यै नमः | हृदयं पूजयामि। |
| पद्मप्रियायै नमः | हस्तान् पूजयामि। |
| इन्दिराख्यायै नमः | भुजान् पूजयामि। |
| कम्बुकण्ठ्यै नमः | कण्ठं पूजयामि। |
| कल्मषघ्न्यै नमः | कर्णौ पूजयामि। |
| वरप्रदायै नमः | मुखं पूजयामि। |
| आश्रितरक्षिकायै नमः | शिरः पूजयामि। |
| अभीष्टदायै नमः | सर्वाण्यङ्गानि पूजयामि। |
यथाशक्ति ८-१६-१०८-१००८ नामभिः कुङ्कुमेन पुष्पैर्वा अर्चयेत्।
अष्टोत्तरशतनामार्चना
तुलसी अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
- १ॐ तुलस्यै नमः
- २ॐ पावन्यै नमः
- ३ॐ पूज्यायै नमः
- ४ॐ वृन्दावननिवासिन्यै नमः
- ५ॐ ज्ञानदात्र्यै नमः
- ६ॐ ज्ञानमय्यै नमः
- ७ॐ निर्मलायै नमः
- ८ॐ सर्वपूजितायै नमः
- ९ॐ सत्यै नमः
- १०ॐ पतिव्रतायै नमः
- ११ॐ वृन्दायै नमः
- १२ॐ क्षीराब्धिमथनोद्भवायै नमः
- १३ॐ कृष्णवर्णायै नमः
- १४ॐ रोगहन्त्र्यै नमः
- १५ॐ त्रिवर्णायै नमः
- १६ॐ सर्वकामदायै नमः
- १७ॐ लक्ष्मीसख्यै नमः
- १८ॐ नित्यशुद्धायै नमः
- १९ॐ सुदत्यै नमः
- २०ॐ भूमिपावन्यै नमः
- २१ॐ हरिद्रान्नैकनिरतायै नमः
- २२ॐ हरिपादकृतालयायै नमः
- २३ॐ पवित्ररूपिण्यै नमः
- २४ॐ धन्यायै नमः
- २५ॐ सुगन्धिन्यै नमः
- २६ॐ अमृतोद्भवायै नमः
- २७ॐ सुरूपायै आरोग्यदायै नमः
- २८ॐ तुष्टायै नमः
- २९ॐ शक्तित्रितयरूपिण्यै नमः
- ३०ॐ देव्यै नमः
- ३१ॐ देवर्षिसंस्तुत्यायै नमः
- ३२ॐ कान्तायै नमः
- ३३ॐ विष्णुमनःप्रियायै नमः
- ३४ॐ भूतवेतालभीतिघ्न्यै नमः
- ३५ॐ महापातकनाशिन्यै नमः
- ३६ॐ मनोरथप्रदायै नमः
- ३७ॐ मेधायै नमः
- ३८ॐ कान्त्यै नमः
- ३९ॐ विजयदायिन्यै नमः
- ४०ॐ शङ्खचक्रगदापद्मधारिण्यै नमः
- ४१ॐ कामरूपिण्यै नमः
- ४२ॐ अपवर्गप्रदायै नमः
- ४३ॐ श्यामायै नमः
- ४४ॐ कृशमध्यायै नमः
- ४५ॐ सुकेशिन्यै नमः
- ४६ॐ वैकुण्ठवासिन्यै नमः
- ४७ॐ नन्दायै नमः
- ४८ॐ बिम्बोष्ठ्यै नमः
- ४९ॐ कोकिलस्वरायै नमः
- ५०ॐ कपिलायै नमः
- ५१ॐ निम्नगाजन्मभूम्यै नमः
- ५२ॐ आयुष्यदायिन्यै नमः
- ५३ॐ वनरूपायै नमः
- ५४ॐ दुःखनाशिन्यै नमः
- ५५ॐ अविकारायै नमः
- ५६ॐ चतुर्भुजायै नमः
- ५७ॐ गरुत्मद्वाहनायै नमः
- ५८ॐ शान्तायै नमः
- ५९ॐ दान्तायै नमः
- ६०ॐ विघ्ननिवारिण्यै नमः
- ६१ॐ श्रीविष्णुमूलिकायै नमः
- ६२ॐ पुष्ट्यै नमः
- ६३ॐ त्रिवर्गफलदायिन्यै नमः
- ६४ॐ महाशक्त्यै नमः
- ६५ॐ महामायायै नमः
- ६६ॐ लक्ष्मीवाणीसुपूजितायै नमः
- ६७ॐ सुमङ्गल्यर्चनप्रीतायै नमः
- ६८ॐ सौमङ्गल्यविवर्धिन्यै नमः
- ६९ॐ चातुर्मास्योत्सवाराध्यायै नमः
- ७०ॐ विष्णुसान्निध्यदायिन्यै नमः
- ७१ॐ उत्थानद्वादशीपूज्यायै नमः
- ७२ॐ सर्वदेवप्रपूजितायै नमः
- ७३ॐ गोपीरतिप्रदायै नमः
- ७४ॐ नित्यायै नमः
- ७५ॐ निर्गुणायै नमः
- ७६ॐ पार्वतीप्रियायै नमः
- ७७ॐ अपमृत्युहरायै नमः
- ७८ॐ राधाप्रियायै नमः
- ७९ॐ मृगविलोचनायै नमः
- ८०ॐ अम्लानायै नमः
- ८१ॐ हंसगमनायै नमः
- ८२ॐ कमलासनवन्दितायै नमः
- ८३ॐ भूलोकवासिन्यै नमः
- ८४ॐ शुद्धायै नमः
- ८५ॐ रामकृष्णादिपूजितायै नमः
- ८६ॐ सीतापूज्यायै नमः
- ८७ॐ राममनःप्रियायै नमः
- ८८ॐ नन्दनसंस्थितायै नमः
- ८९ॐ सर्वतीर्थमय्यै नमः
- ९०ॐ मुक्तायै नमः
- ९१ॐ लोकसृष्टिविधायिन्यै नमः
- ९२ॐ प्रातर्दृश्यायै नमः
- ९३ॐ ग्लानिहन्त्र्यै नमः
- ९४ॐ वैष्णव्यै नमः
- ९५ॐ सर्वसिद्धिदायै नमः
- ९६ॐ नारायण्यै नमः
- ९७ॐ सन्ततिदायै नमः
- ९८ॐ मूलमृद्धारिपावन्यै नमः
- ९९ॐ अशोकवनिकासंस्थायै नमः
- १००ॐ सीताध्यातायै नमः
- १०१ॐ निराश्रयायै नमः
- १०२ॐ गोमतीसरयूतीररोपितायै नमः
- १०३ॐ कुटिलालकायै नमः
- १०४ॐ अपात्रभक्ष्यपापघ्न्यै नमः
- १०५ॐ दानतोयविशुद्धिदायै नमः
- १०६ॐ श्रुतिधारणसुप्रीतायै नमः
- १०७ॐ शुभायै नमः
- १०८ॐ सर्वेष्टदायिन्यै नमः
धूपः
गुग्गुलं गोघृतं चैव दशाङ्गं सुमनोहरम्।
धूपं गृहाण वरदे सर्वाभीष्टफलप्रदे ॥
श्रीतुलस्यै नमः। धूपमाघ्रापयामि।
दीपः
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ॥
श्रीतुलस्यै नमः। दीपं दर्शयामि।
नैवेद्यम्
नैवेद्यं षड्रसोपेतं फलसूपसमन्वितम्।
सघृतं समधुक्षीरं गृहाण तुलसीश्वरि ॥
श्रीतुलस्यै नमः। महानैवेद्यं निवेदयामि।
ताम्बूलम्
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
श्रीतुलस्यै नमः। ताम्बूलं समर्पयामि।
नीराजनम्
नीराजनं सुमाङ्गल्यं दिव्यज्योतिःसमन्वितम्।
अज्ञानघ्ने गृहाण त्वं ज्ञानमार्गप्रदायिनि ॥
श्रीतुलस्यै नमः। कर्पूरनीराजनं दर्शयामि।
प्रदक्षिणम्
प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये।
प्रदक्षिणं करोमि त्वां सर्वाभीष्टफलप्रदे ॥
आयुरारोग्यमैश्वर्यं विद्यां ज्ञानं यशः सुखम्।
देहि देहि ममाभीष्टं प्रदक्षिणकृतः शुभे ॥
श्रीतुलस्यै नमः। प्रदक्षिणं समर्पयामि।
नमस्काराः
नमस्ते तुलसीदेवि सर्वाभीष्टफलप्रदे।
नमस्ते त्रिजगद्वन्द्ये नमस्ते लोकरक्षिके ॥
श्रीतुलस्यै नमः। नमस्कारान् समर्पयामि।
पुष्पाञ्जलिः
वृन्दावनस्थिते देवि दिव्यभोगप्रदे शुभे।
पुष्पाञ्जलिं प्रदास्यामि स्वीकुरुष्वाम्बुजेक्षणे ॥
श्रीतुलस्यै नमः। पुष्पाञ्जलिं समर्पयामि।
क्षीरार्घ्यप्रदानम्
तुलस्यै तु नमस्तुभ्यं नमस्ते फलदायिनि।
इदमर्घ्यं प्रदास्यामि सुप्रीता भव सर्वदा ॥
श्रीतुलस्यै नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥
लक्ष्मीपतिप्रिये देवि तुलसीदिव्यरूपिणि।
इदमर्घ्यं प्रदास्यामि सुप्रीता वरदा भव ॥
श्रीतुलस्यै नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥
सर्वपापहरे देवि आश्रिताभीष्टदायिनि।
मया दत्तं गृहाणार्घ्यं सुप्रीता वरदा भव ॥
श्रीतुलस्यै नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥
प्रार्थना
देहि मे विजयं देवि विद्यां देहि महेश्वरि।
त्वमिति प्रार्थये नित्यं शीघ्रमेव फलं कुरु ॥
इति सम्प्रार्थ्य तुलसीस्तुतिं पठित्वा मङ्गलारार्तिकं विधाय।
समर्पणम्
श्रीतुलसीदेव्यर्पणमस्तु।
ॐ तत्सद्ब्रह्मार्पणमस्तु ॥
इति साक्षतं जलं भूमौ विसृज्य आचामेत्।