साधारणव्यवहारमातृकाप्रकरणम्
व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः
॥१॥श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः
॥२॥अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित्
॥३॥रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकारिणः
सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं दमम्
॥४॥स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत्
॥५॥प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितम् अर्थिना
समामासतदर्धाहर्नामजात्यादिचिह्नितम्
॥६॥श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ
ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्
॥७॥तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतोऽन्यथा
चतुष्पाद् व्यवहारोऽयं विवादेषूपदर्शितः
॥८॥असाधारणव्यवहारमातृकाप्रकरणम्
अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत्
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत्
॥९॥कुर्यात् प्रत्यभियोगं च कलहे साहसेषु च
उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये
॥१०॥निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम्
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत्
॥११॥साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम्
विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः
॥१२॥देशाद् देशान्तरं याति सृक्किणी परिलेढि च
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च
॥१३॥परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषिते
वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्य् अपि
॥१४॥स्वभावाद् विकृतिं गच्छेन् मनोवाक्कायकर्मभिः
अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः
॥१५॥संदिग्धार्थं स्वतन्त्रो यः साधयेद् यश् च निष्पतेत्
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः
॥१६॥साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः
पूर्वपक्षेऽधरीभूते भवन्त्य् उत्तरवादिनः
॥१७॥सपणश् चेद् विवादः स्यात् तत्र हीनं तु दापयेत्
दण्डं च स्वपणं चैव धनिने धनम् एव च
॥१८॥छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः
भूतम् अप्य् अनुपन्यस्तं हीयते व्यवहारतः
॥१९॥निह्नुते लिखितं नैकम् एकदेशे विभावितः
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः
॥२०॥स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः
अर्थशास्त्रात् तु बलवद् धर्मशास्त्रम् इति स्थितिः
॥२१॥प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम्
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते
॥२२॥सर्वेष्व् अर्थविवादेषु बलवत्य् उत्तराक्रिया
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा
॥२३॥पश्यतोऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी
परेण भुज्यमानाया धनस्य दशवार्षिकी
॥२४॥आधिसीमोपनिक्षेपजडबालधनैर् विना
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि
॥२५॥आध्यादीनां विहर्तारं धनिने दापयेद् धनम्
दण्डं च तत्समं राज्ञे शक्त्यपेक्षम् अथापि वा
॥२६॥आगमोऽभ्यधिको भोगाद् विना पूर्वक्रमागतात्
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो
॥२७॥आगमस् तु कृतो येन सोऽभियुक्तस् तम् उद्धरेत्
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी
॥२८॥योऽभियुक्तः परेतः स्यात् तस्य रिक्थी तम् उद्धरेत्
न तत्र कारणं भुक्तिर् आगमेन विनाकृता
॥२९॥नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम्
॥३०॥बलोपाधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत्
स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस् तथा
॥३१॥मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः
असंबद्धकृतश् चैव व्यवहारो न सिध्यति
॥३२॥प्रनष्टाधिगतं देयं नृपेण धनिने धनम्
विभावयेन् न चेल् लिङ्गैस् तत्समं दण्डम् अर्हति
॥३३॥राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽर्धं द्विजः पुनः
विद्वान् अशेषम् आदद्यात् स सर्वस्य प्रभुर् यतः
॥३४॥इतरेण निधौ लब्धे राजा षष्ठांशम् आहरेत्
अनिवेदितविज्ञातो दाप्यस् तं दण्डम् एव च
॥३५॥देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु
अददद् धि समाप्नोति किल्बिषं यस्य तस्य तत्
॥३६॥ऋणादानप्रकरणम्
अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके
वर्णक्रमाच् छतं द्वित्रिचतुष्पञ्चकम् अन्यथा
॥३७॥कान्तारगास् तु दशकं सामुद्रा विंशकं शतम्
दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु
॥३८॥संततिस् तु पशुस्त्रीणां रसस्याष्टगुणा परा
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा
॥३९॥प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत्
साध्यमानो नृपं गच्छन् दण्ड्यो दाप्यश् च तद्धनम्
॥४०॥गृहीतानुक्रमाद् दाप्यो धनिनाम् अधमर्णिकः
दत्त्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम्
॥४१॥राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम्
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णिकः
॥४२॥हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत्
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम्
॥४३॥दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम्
मध्यस्थस्थापितं चेत् स्याद् वर्धते न ततः परम्
॥४४॥अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत्
दद्युस् तद् रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि
॥४५॥न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता
दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा
॥४६॥सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम्
वृथादानं तथैवेह पुत्रो दद्यान् न पैतृकम्
॥४७॥गोपशौण्डिकशैलूषरजकव्याधयोषिताम्
ऋणं दद्यात् पतिस् तेषां यस्माद् वृत्तिस् तदाश्रया
॥४८॥प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम्
स्वयंकृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अर्हति
॥४९॥पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा
पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम्
॥५०॥रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस् तथैव च
पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः
॥५१॥भ्रातॄणाम् अथ दंपत्योः पितुः पुत्रस्य चैव हि
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम्
॥५२॥दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते
आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि
॥५३॥दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिकोऽपि वा
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय यः स्थितः
॥५४॥बहवः स्युर् यदि स्वांशैर् दद्युः प्रतिभुवो धनम्
एकच्छायाश्रितेष्व् एषु धनिकस्य यथारुचि
॥५५॥प्रतिभूर् दापितो यत् तु प्रकाशं धनिनो धनम्
द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् भवेत्
॥५६॥संततिः स्त्रीपशुष्व् एव धान्यं त्रिगुणम् एव च
वस्त्रं चतुर्गुणं प्रोक्तं रसश् चाष्टगुणस् तथा
॥५७॥आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते
काले कालकृतो नश्येत् फलभोग्यो न नश्यति
॥५८॥गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते
नष्टो देयो विनष्टश् च दैवराजकृताद् ऋते
॥५९॥आधेः स्वीकरणात् सिद्धी रक्ष्यमाणोऽप्य् असारताम्
यातश् चेद् अन्य आधेयो धनभाग् वा धनी भवेत्
॥६०॥चरित्रबन्धककृतं स वृद्ध्या दापयेद् धनम्
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत्
॥६१॥उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत्
प्रयोजकेऽसति धनं कुले न्यस्याधिम् आप्नुयात्
॥६२॥तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः
विना धारणकाद् वापि विक्रीणीत ससाक्षिकम्
॥६३॥यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु
मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने
॥६४॥उपनिधिप्रकरणम्
वासनस्थम् अनाख्याय हस्तेऽन्यस्य यद् अर्प्यते
द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत्
॥६५॥न दाप्योऽपहृतं तं तु राजदैविकतस्करैः
भ्रेषश् चेन् मार्गितेऽअदत्ते दाप्यो दण्डं च तत्समम्
॥६६॥आजीवन् स्वेच्छया दण्ड्यो दाप्यस् तं चापि सोदयम्
याचितान्वाहितन्यासनिक्षेपादिष्व् अयं विधिः
॥६७॥साक्षिप्रकरणम्
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः
॥६८॥त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः
॥६९॥स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः
रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः
॥७०॥पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः
साहसी दृष्टदोषश् च निर्धूताद्यास् त्व् असाक्षिणः
॥७१॥उभयानुमतः साक्षी भवत्य् एकोऽपि धर्मवित्
सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे
॥७२॥साक्षिणः श्रावयेद् वादिप्रतिवादिसमीपगान्
ये पातककृतां लोका महापातकिनां तथा
॥७३॥अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम्
स तान् सर्वान् अवाप्नोति यः साक्ष्यम् अनृतं वदेत्
॥७४॥सुकृतं यत् त्वया किंचिज् जन्मान्तरशतैः कृतम्
तत् सर्वं तस्य जानीहि यं पराजयसे मृषा
॥७५॥अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम्
राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशकेऽहनि
॥७६॥न ददाति हि यः साक्ष्यं जानन्न् अपि नराधमः
स कूटसाक्षिणां पापैस् तुल्यो दण्डेन चैव हि
॥७७॥द्वैधे बहूनां वचनं समेषु गुणिनां तथा
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः
॥७८॥यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्
अन्यथा वादिनो यस्य ध्रुवस् तस्य पराजयः
॥७९॥उक्तेऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तमाः
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः
॥८०॥पृथक् पृथग् दण्डनीयाः कूटकृत् साक्षिणस् तथा
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः
॥८१॥यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत् तमोवृतः
स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत्
॥८२॥वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत्
तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः
॥८३॥लेख्यप्रकरणम्
यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम्
लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम्
॥८४॥समामासतदर्धाहर्नामजातिस्वगोत्रकैः
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम्
॥८५॥समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत्
मतं मेऽमुकपुत्रस्य यद् अत्रोपरि लेखितम्
॥८६॥साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम्
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः
॥८७॥उभयाभ्यर्थितेनैतन् मया ह्य् अमुकसूनुना
लिखितं ह्य् अमुकेनेति लेखकोऽन्ते ततो लिखेत्
॥८८॥विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत्
तत् प्रमाणं स्मृतं लेख्यं बलोपधिकृताद् ऋते
॥८९॥ऋणं लेख्यकृतं देयं पुरुषैस् त्रिभिर् एव तु
आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते
॥९०॥देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा
भिन्ने दग्धेऽथवा छिन्ने लेख्यम् अन्यत् तु कारयेत्
॥९१॥संदिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः
॥९२॥लेख्यस्य पृष्ठेऽभिलिखेद् दत्त्वा दत्त्वा र्णिको धनम्
धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम्
॥९३॥दत्त्वा र्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत्
साक्षिमच् च भवेद् यद् वा तद् दातव्यं ससाक्षिकम्
॥९४॥दिव्यप्रकरणम्
तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये
महाभियोगेष्व् एतानि शीर्षकस्थेऽभियोक्तरि
॥९५॥रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः
विनापि शीर्षकात् कुर्यान् नृपद्रोहेऽथ पातके
॥९६॥सचैलं स्नातम् आहूय सूर्योदय उपोषितम्
कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ
॥९७॥तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम्
अग्निर् जलं वा शूद्रस्य यवाः सप्त विषस्य वा
॥९८॥नासहस्राद् धरेत् फालं न विषं न तुलां तथा
नृपार्थेष्व् अभिशापे च वहेयुः शुचयः सदा
॥९९॥तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः
प्रतिमानसमीभूतो रेखां कृत्वावतारितः
॥१००॥त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता
तत् सत्यं वद कल्याणि संशयान् मां विमोचय
॥१०१॥यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत्
॥१०२॥करौ विमृदितव्रीहेर् लक्षयित्वा ततो न्यसेत्
सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत्
॥१०३॥त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम
॥१०४॥तस्येत्य् उक्तवतो लौहं पञ्चाशत् पलिकं समम्
अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि
॥१०५॥स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत्
षोडशाङ्गुलकं ज्ञेयं मण्डलं तावद् अन्तरम्
॥१०६॥मुक्त्वाग्निं मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात्
अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत्
॥१०७॥सत्येन माभिरक्ष त्वं वरुणेत्य् अभिशाप्य कम्
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं वशेत्
॥१०८॥समकालम् इषुं मुक्तम् आनीयान्यो जवी नरः
गते तस्मिन् निमग्नाङ्गं पश्येच् चेच् छुद्धिम् आप्नुयात्
॥१०९॥त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः
त्रायस्वास्माद् अभीशापात् सत्येन भव मेऽमृतम्
॥११०॥एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम्
यस्य वेगैर् विना जीर्येच् छुद्धिं तस्य विनिर्दिशेत्
॥१११॥देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत्
संस्राव्य पाययेत् तस्माज् जलं तु प्रसृतित्रयम्
॥११२॥अर्वाक् चतुर्दशाद् अह्नो यस्य नो राजदैविकम्
व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः
॥११३॥दायविभागप्रकरणम्
विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान्
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः
॥११४॥यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा
॥११५॥शक्तस्यानीहमानस्य किंचिद् दत्त्वा पृथक् क्रिया
न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः
॥११६॥विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम्
मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋतेऽन्वयः
॥११७॥पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् अर्जितम्
मैत्रमौद्वाहिकं चैव दायादानां न तद् भवेत्
॥११८॥क्रमाद् अभ्यागतं द्रव्यं हृतम् अप्य् उद्धरेत् तु यः
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च
॥११९॥सामान्यार्थसमुत्थाने विभागस् तु समः स्मृतः
अनेकपितृकाणां तु पितृतो भागकल्पना
॥१२०॥भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि
॥१२१॥विभक्तेषु सुतो जातः सवर्णायां विभागभाक्
दृश्याद् वा तद् विभागः स्याद् आयव्ययविशोधितात्
॥१२२॥पितृभ्यां यस्य तद् दत्तं तत् तस्यैव धनं भवेत्
पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत्
॥१२३॥असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः
भगिन्यश् च निजाद् अंशाद् दत्त्वांशं तु तुरीयकम्
॥१२४॥चतुस्त्रिद्व्येकभागाः स्युर् वर्णशो ब्राह्मणात्मजाः
क्षत्रजास् त्रिद्व्येकभागा विड्जास् तु द्व्येकभागिनः
॥१२५॥अन्योन्यापहृतं द्रव्यं विभक्ते यत् तु दृश्यते
तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति स्थितिः
॥१२६॥अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः
॥१२७॥औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः
क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा
॥१२८॥गृहे प्रच्छन्न उत्पन्नो गूढजस् तु सुतः स्मृतः
कानीनः कन्यकाजातो मातामहसुतो मतः
॥१२९॥अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः
दद्यान् माता पिता वा यं स पुत्रो दत्तको भवेत्
॥१३०॥क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः
दत्त्वात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः
॥१३१॥उत्सृष्टो गृह्यते यस् तु सोऽपविद्धो भवेत् सुतः
पिण्डदोऽंशहरश् चैषां पूर्वाभावे परः परः
॥१३२॥सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः
जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत्
॥१३३॥मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिकम्
अभ्रातृको हरेत् सर्वं दुहितॄणां सुताद् ऋते
॥१३४॥पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा
तत्सुता गोत्रजा बन्धुशिष्यसब्रह्मचारिणः
॥१३५॥एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः
॥१३६॥वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः
॥१३७॥संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः
दद्याद् अपहरेच् चांशं जातस्य च मृतस्य च
॥१३८॥अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत्
असंसृष्ट्य् अपि वादद्यात् संसृष्टो नान्यमातृजः
॥१३९॥क्लीबोऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः
अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर् निरंशकाः
॥१४०॥औरसाः क्षेत्रजास् त्व् एषां निर्दोषा भागहारिणः
सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः
॥१४१॥अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च
॥१४२॥पितृमातृपतिभ्रातृदत्तम् अध्यग्न्युपागतम्
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम्
॥१४३॥बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च
अतीतायाम् अप्रजसि बान्धवास् तद् अवाप्नुयुः
॥१४४॥अप्रजस्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि
दुहितॄणां प्रसूता चेच् छेषेषु पितृगामि तत्
॥१४५॥दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच् च सोदयम्
मृतायां दत्तम् आदद्यात् परिशोध्योभयव्ययम्
॥१४६॥दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति
॥१४७॥अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम्
न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्धं प्रकल्पयेत्
॥१४८॥विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः
॥१४९॥सीमाविवादप्रकरणम्
सींनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः
॥१५०॥नयेयुर् एते सीमानं स्थलाङ्गारतुषद्रुमैः
सेतुवल्मीकनिंनास्थिचैत्याद्यैर् उपलक्षिताम्
॥१५१॥सामन्ता वा समग्रामाश् चत्वारोऽष्टौ दशापि वा
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः
॥१५२॥अनृते तु पृथग् दण्ड्या राज्ञा मध्यमसाहसम्
अभावे ज्ञातृचिह्नानां राजा सींनः प्रवर्तिता
॥१५३॥आरामायतनग्रामनिपानोद्यानवेश्मसु
एष एव विधिर् ज्ञेयो वर्षाम्बुप्रवहादिषु
॥१५४॥मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः
॥१५५॥न निषेध्योऽल्पबाधस् तु सेतुः कल्याणकारकः
परभूमिं हरन् कूपः स्वल्पक्षेत्रोबहूदकः
॥१५६॥स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत्
उत्पन्ने स्वामिनो भोगस् तदभावे महीपतेः
॥१५७॥फालाहतम् अपि क्षेत्रं न कुर्याद् यो न कारयेत्
स प्रदाप्यः कृष्टफलं क्षेत्रम् अन्येन कारयेत्
॥१५८॥स्वामिपालविवादप्रकरणम्
माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम्
॥१५९॥भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः
समम् एषां विवीतेऽपि खरोष्ट्रं महिषीसमम्
॥१६०॥यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम्
गोपस् ताड्यश् च गोमी तु पूर्वोक्तं दण्डम् अर्हति
॥१६१॥पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते
अकामतः कामचारे चौरवद् दण्डम् अर्हति
॥१६२॥महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः
पालो येषां न ते मोच्या दैवराजपरिप्लुताः
॥१६३॥यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः
॥१६४॥पालदोषविनाशे तु पाले दण्डो विधीयते
अर्धत्रयोदशपणः स्वामिनो द्रव्यम् एव च
॥१६५॥ग्राम्येच्छया गोप्रचारो भूमिराजवशेन वा
द्विजस् तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत्
॥१६६॥धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत्
द्वे शते खर्वटस्य स्यान् नगरस्य चतुःशतम्
॥१६७॥अस्वामिविक्रयप्रकरणम्
स्वं लभेतान्यविक्रीतं क्रेतुर् दोषोऽप्रकाशिते
हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः
॥१६८॥नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम्
देशकालातिपत्तौ च गृहीत्वा स्वयम् अर्पयेत्
॥१६९॥विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम्
क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तस्य विक्रयी
॥१७०॥आगमेनोपभोगेन नष्टं भाव्यम् अतोऽन्यथा
पञ्चबन्धो दमस् तस्य राज्ञे तेनाविभाविते
॥१७१॥हृतं प्रनष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात्
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान्
॥१७२॥शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम्
अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः
॥१७३॥पणान् एकशफे दद्याच् चतुरः पञ्च मानुषे
महिषोष्ट्रगवां द्वौ द्वौ पादं पादम् अजाविके
॥१७४॥दत्ताप्रदानिकप्रकरणम्
स्वं कुटुम्बाविरोधेन देयं दारसुताद् ऋते
नान्वये सति सर्वस्वं यच् चान्यस्मै प्रतिश्रुतम्
॥१७५॥प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः
देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः
॥१७६॥क्रीतानुशयप्रकरणम्
दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकम्
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम्
॥१७७॥अग्नौ सुवर्णम् अक्षीणं रजते द्विपलं शते
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि
॥१७८॥शते दशपला वृद्धिर् और्णे कार्पाससौत्रिके
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता
॥१७९॥कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः
न क्षयो न च वृद्धिश् च कौशेये वाल्कलेषु च
॥१८०॥देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम्
द्रव्याणां कुशला ब्रूयुर् यत् तद् दाप्यम् असंशयम्
॥१८१॥अभ्युपेत्याशुश्रूषाप्रकरणम्
बलाद्दासीकृतश् चौरैर् विक्रीतश् चापि मुच्यते
स्वामिप्राणप्रदो भक्तत्यागात् तन् निष्क्रयाद् अपि
॥१८२॥प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम्
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः
॥१८३॥कृतशिल्पोऽपि निवसेत् कृतकालं गुरोर् गृहे
अन्तेवासी गुरुप्राप्तभोजनस् तत्फलप्रदः
॥१८४॥संविद्व्यतिक्रमप्रकरणम्
राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु
त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति
॥१८५॥निजधर्माविरोधेन यस् तु समयिको भवेत्
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः
॥१८६॥गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत्
॥१८७॥कर्तव्यं वचनं सर्वैः समूहहितवादिनाम्
यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम्
॥१८८॥समूहकार्य आयातान् कृतकार्यान् विसर्जयेत्
स दानमानसत्कारैः पूजयित्वा महीपतिः
॥१८९॥समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत्
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम्
॥१९०॥धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः
कर्तव्यं वचनं तेषां समूहहितवादिनाम्
॥१९१॥श्रेणिनैगमपाखण्डगणानाम् अप्य् अयं विधिः
भेदं चैषां नृपो रक्षेत् पूर्ववृत्तिं च पालयेत्
॥१९२॥वेतनादानप्रकरणम्
गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत्
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः
॥१९३॥दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता
॥१९४॥देशं कालं च योऽतीयाल् लाभं कुर्याच् च योऽन्यथा
तत्र स्यात् स्वामिनश् छन्दोऽधिकं देयं कृतेऽधिके
॥१९५॥यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम्
उभयोर् अप्य् असाध्यं चेत् साध्ये कुर्याद् यथाश्रुतम्
॥१९६॥अराजदैविकं नष्टं भाण्डं दाप्यस् तु वाहकः
प्रस्थानविघ्नकृच् चैव प्रदाप्यो द्विगुणां भृतिम्
॥१९७॥प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन्
भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजकोऽपि च
॥१९८॥द्यूतसमाह्वयप्रकरणम्
ग्लहे शतिकवृद्धेस् तु सभिकः पञ्चकं शतम्
गृह्णीयाद् धूर्तकितवाद् इतराद् दशकं शतम्
॥१९९॥स सम्यक्पालितो दद्याद् राज्ञे भागं यथाकृतम्
जितम् उद्ग्राहयेज् जेत्रे दद्यात् सत्यं वचः क्षमी
॥२००॥प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले
जितं ससभिके स्थाने दापयेद् अन्यथा न तु
॥२०१॥द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि
राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः
॥२०२॥द्यूतम् एकमुखं कार्यं तस्करज्ञानकारणात्
एष एव विधिर् ज्ञेयः प्राणिद्यूते समाह्वये
॥२०३॥वाक्पारुष्यप्रकरणम्
सत्यासत्यान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम्
क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदशान्
॥२०४॥अभिगन्तास्मि भगिनीं मातरं वा तवेति ह
शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम्
॥२०५॥अर्धोऽधर्मेषु द्विगुणः परस्त्रीषूत्तमेषु च
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः
॥२०६॥प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः
॥२०७॥बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः
सत्यस् तदर्धिकः पादनासाकर्णकरादिषु
॥२०८॥अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु
॥२०९॥पतनीयकृते क्षेपे दण्डो मध्यमसाहसः
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम्
॥२१०॥त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः
॥२११॥दण्डपारुष्यप्रकरणम्
असाक्षिकहते चिह्नैर् युक्तिभिश् चागमेन च
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृतो भयात्
॥२१२॥भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणस् ततः
॥२१३॥समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च
हीनेष्व् अर्धदमो मोहमदादिभिरदण्डनम्
॥२१४॥विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः
॥२१५॥उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः
॥२१६॥पादकेशांशुककरोल्लुञ्चनेषु पणान् दश
पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः
॥२१७॥शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर् नरः
द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं दर्शनेऽसृजः
॥२१८॥करपाददतो भङ्गे छेदने कर्णनासयोः
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा
॥२१९॥चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः
॥२२०॥एकं घ्नतां बहूनां च यथोक्ताद् द्विगुणो दमः
कलहापहृतं देयं दण्डश् च द्विगुणस् ततः
॥२२१॥दुःखम् उत्पादयेद् यस् तु स समुत्थानजं व्ययम्
दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः
॥२२२॥अभिघाते तथा छेदे भेदे कुड्यावपातने
पणान् दाप्यः पञ्च दश विंशतिं तद् व्ययं तथा
॥२२३॥दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम्
॥२२४॥दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात्
॥२२५॥लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यम् एव च
महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः
॥२२६॥प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे
उपजीव्यद्रुमाणां च विंशतेर् द्विगुणो दमः
॥२२७॥चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते
॥२२८॥गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम्
पूर्वस्मृताद् अर्धदण्डः स्थानेषूक्तेषु कर्तने
॥२२९॥साहसप्रकरणम्
सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम्
तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः
॥२३०॥यः साहसं कारयति स दाप्यो द्विगुणं दमम्
यश् चैवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम्
॥२३१॥अर्घ्याक्षेपातिक्रमकृद् भ्रातृभार्याप्रहारकः
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत्
॥२३२॥सामन्तकुलिकादीनाम् अपकारस्य कारकः
पञ्चाशत्पणिको दण्ड एषाम् इति विनिश्चयः
॥२३३॥स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः
अकारणे च विक्रोष्टा चण्डालश् चोत्तमान् स्पृशेत्
॥२३४॥शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः
अयुक्तं शपथं कुर्वन्न् अयोग्यो योग्यकर्मकृत्
॥२३५॥वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत्
साधारणस्यापलापी दासीगर्भविनाशकृत्
॥२३६॥पितृपुत्रस्वसृभातृदंपत्याचार्यशिष्यकाः
एषाम् अपतितान्योन्यत्यागी च शतदण्डभाक्
॥२३७॥वसानस्त्रीन् पणान् दण्ड्यो नेजकस् तु परांशुकम्
विक्रयावक्रयाधानय् आचितेषु पणान् दश
॥२३८॥पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः
अन्तरे च तयोर् यः स्यात् तस्याप्य् अष्टगुणो दमः
॥२३९॥तुलाशासनमानानां कूटकृन्नाणकस्य च
एभिश् च व्यवहर्ता यः स दाप्यो दमम् उत्तमम्
॥२४०॥अकूटं कूटकं ब्रूते कूटं यश् चाप्य् अकूटकम्
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम्
॥२४१॥भिषङ् मिथ्याचरन् दण्ड्यस् तिर्यक्षु प्रथमं दमम्
मानुषे मध्यमं राजपुरुषेषूत्तमं दमम्
॥२४२॥अबन्ध्यं यश् च बध्नाति बद्धं यश् च प्रमुञ्चति
अप्राप्तव्यवहारं च स दाप्यो दमम् उत्तमम्
॥२४३॥मानेन तुलया वापि योऽंशम् अष्टमकं हरेत्
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम्
॥२४४॥भेषजस्नेहलवणगन्धधान्यगुडादिषु
पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस् तु षोडश
॥२४५॥मृच्चर्ममणिसूत्रायःकाष्ठवल्कलवाससाम्
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः
॥२४६॥समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम्
आधानं विक्रयं वापि नयतो दण्डकल्पना
॥२४७॥भिन्ने पणे च पञ्चाशत्पणे तु शतम् उच्यते
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान्
॥२४८॥संभूय कुर्वताम् अर्घं संबाधं कारुशिल्पिनाम्
अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः
॥२४९॥संभूय वणिजां पण्यम् अनर्घेणोपरुन्धताम्
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः
॥२५०॥राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः
क्रयो वा निःस्रवस् तस्माद् वणिजां लाभकृत् स्मृतः
॥२५१॥स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम्
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी
॥२५२॥पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम्
अर्घोऽनुग्रहकृत् कार्यः क्रेतुर् विक्रेतुर् एव च
॥२५३॥विक्रीयासंप्रदानप्रकरणम्
गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति
सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते
॥२५४॥विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति
हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत्
॥२५५॥राजदैवोपघातेन पण्ये दोषम् उपागते
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः
॥२५६॥अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद् यदि
विक्रीणीते दमस् तत्र मूल्यात् तु द्विगुणो भवेत्
॥२५७॥क्षयं वृद्धिं च वणिजा पण्यानाम् अविजानता
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक्
॥२५८॥संभूयसमुत्थानप्रकरणम्
समवायेन वणिजां लाभार्थं कर्म कुर्वताम्
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ
॥२५९॥प्रतिषिद्धम् अनादिष्टं प्रमादाद् यच् च नाशितम्
स तद् दद्याद् विप्लवाच् च रक्षिताद् दशमांशभाक्
॥२६०॥अर्घप्रक्षेपणाद् विंशं भागं शुल्कं नृपो हरेत्
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत्
॥२६१॥मिथ्या वदन् परीमाणं शुल्कस्थानाद् अपासरन्
दाप्यस् त्व् अष्टगुणं यश् च सव्याजक्रयविक्रयी
॥२६२॥तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश
ब्राह्मणप्रातिवेश्यानाम् एतद् एवानिमन्त्रणे
॥२६३॥देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः
ज्ञातयो वा हरेयुस् तदागतास् तैर् विना नृपः
॥२६४॥जिह्मं त्यजेयुर् निर्लाभम् अशक्तोऽन्येन कारयेत्
अनेन विधिर् आख्यात ऋत्विक्कर्षककर्मिणाम्
॥२६५॥स्तेयप्रकरणम्
ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा
पूर्वकर्मापराधी च तथा चाशुद्धवासकः
॥२६६॥अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः
द्यूतस्त्रीपानसक्ताश् च शुष्कभिन्नमुखस्वराः
॥२६७॥परद्रव्यगृहाणां च पृच्छका गूढचारिणः
निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः
॥२६८॥गृहीतः शङ्कया चौर्ये नात्मानं चेद् विशोधयेत्
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत्
॥२६९॥चौरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः
सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत्
॥२७०॥घातितेऽपहृते दोषो ग्रामभर्तुर् अनिर्गते
विवीतभर्तुस् तु पथि चौरोद्धर्तुर् अवीतके
॥२७१॥स्वसींनि दद्याद् ग्रामस् तु पदं वा यत्र गच्छति
पञ्चग्रामी बहिः क्रोशाद् दशग्राम्य् अथ वा पुनः
॥२७२॥बन्दिग्राहांस् तथा वाजिकुञ्जराणां च हारिणः
प्रसह्यघातिनश् चैव शूलान् आरोपयेन् नरान्
॥२७३॥उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ
कार्यौ द्वितीयापराधे करपादैकहीनकौ
॥२७४॥क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः
देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि
॥२७५॥भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान्
दत्त्वा चौरस्य वा हन्तुर् जानतो दम उत्तमः
॥२७६॥शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे
॥२७७॥विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीम् अगर्भिणीम्
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत्
॥२७८॥विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम्
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत्
॥२७९॥अविज्ञातहतस्याशु कलहं सुतबान्धवाः
प्रष्टव्या योषितश् चास्य परपुंसि रताः पृथक्
॥२८०॥स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह
मृत्युदेशसमासन्नं पृच्छेद् वापि जनं शनैः
॥२८१॥क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः
राजपत्न्यभिगामी च दग्धव्यास् तु कटाग्निना
॥२८२॥स्त्रीसंग्रहणप्रकरणम्
पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया
सद्यो वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा
॥२८३॥नीवीस्तनप्रावरणसक्थिकेशावमर्शनम्
अदेशकालसंभाषं सहैकासनम् एव च
॥२८४॥स्त्री निषेधे शतं दद्याद् द्विशतं तु दमं पुमान्
प्रतिषेधे तयोर् दण्डो यथा संग्रहणे तथा
॥२८५॥सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम्
॥२८६॥अलंकृतां हरन् कन्याम् उत्तमं ह्य् अन्यथाधमम्
दण्डं दद्यात् सवर्णासु प्रातिलोम्ये वधः स्मृतः
॥२८७॥सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः
दूषणे तु करच्छेद उत्तमायां वधस् तथा
॥२८८॥शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्याभिशंसने
पशून् गच्छन् शतं दाप्यो हीनां स्त्रीं गां च मध्यमम्
॥२८९॥अवरुद्धासु दासीसु भुजिष्यासु तथैव च
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत् पणिकं दमम्
॥२९०॥प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः
बहूनां यद्य् अकामासौ चतुर्विंशतिकः पृथक्
॥२९१॥गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत्
अगृहीते समं दाप्यः पुमान् अप्य् एवम् एव हि
॥२९२॥अयोनौ गच्छतो योषां पुरुषं वाभिमेहतः
चतुर्विंशतिको दण्डस् तथा प्रव्रजितागमे
॥२९३॥अन्त्याभिगमने त्व् अङ्क्यः कुबन्धेन प्रवासयेत्
शूद्रस् तथान्त्य एव स्याद् अन्त्यस्यार्यागमे वधः
॥२९४॥प्रकीर्णकप्रकरणम्
ऊनं वाभ्यधिकं वापि लिखेद् यो राजशासनम्
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः
॥२९५॥अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम्
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रम् अर्धिकम्
॥२९६॥कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी
त्र्यङ्गहीनस् तु कर्तव्यो दाप्यश् चोत्तमसाहसम्
॥२९७॥चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः
काष्ठलोष्टेषुपाषाणबाहुयुग्यकृतस् तथा
॥२९८॥छिन्ननस्येन यानेन तथा भग्नयुगादिना
पश्चाच् चैवापसरता हिंसने स्वाम्य् अदोषभाक्
॥२९९॥शक्तोऽप्य् अमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा
प्रथमं साहसं दद्याद् विक्रुष्टे द्विगुणं तथा
॥३००॥जारं चौरेत्य् अभिवदन् दाप्यः पञ्चशतं दमम्
उपजीव्य धनं मुञ्चंस् तद् एवाष्टगुणीकृतम्
॥३०१॥राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम्
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत्
॥३०२॥मृताङ्गलग्नविक्रेतुर् गुरोस् ताडयितुस् तथा
राजयानासनारोढुर् दण्ड उत्तमसाहसः
॥३०३॥द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा
विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः
॥३०४॥दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम्
॥३०५॥यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः
तम् आयान्तं पुनर् जित्वा दापयेद् द्विगुणं दमम्
॥३०६॥राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम्
निवेद्य दद्याद् विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम्
॥३०७॥