मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

आचाराध्यायः

3
याज्ञवल्क्यस्मृतिः · 1

उपोद्घातप्रकरणम्

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन्

वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः

॥१॥

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन् मुनीन्

यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत

॥२॥

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश

॥३॥

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः

यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती

॥४॥

पराशरव्यासशङ्खलिखिता दक्षगौतमौ

शातातपो वसिष्ठश् च धर्मशास्त्रप्रयोजकाः

॥५॥

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम्

पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम्

॥६॥

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः

सम्यक्संकल्पजः कामो धर्ममूलम् इदं स्मृतम्

॥७॥

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम्

अयं तु परमो धर्मो यद् योगेनात्मदर्शनम्

॥८॥

चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा

सा ब्रूते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः

॥९॥

ब्रह्मचारिप्रकरणम्

ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः

निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः

॥१०॥

गर्भाधानम् ऋतौ पुंसः सवनं स्पन्दनात् पुरा

षष्ठेऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च

॥११॥

अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः

षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम्

॥१२॥

एवम् एनः शमं याति बीजगर्भसमुद्भवम्

तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः

॥१३॥

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम्

राज्ञाम् एकादशे सैके विशाम् एके यथाकुलम्

॥१४॥

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम्

वेदम् अध्यापयेद् एनं शौचाचारांश् च शिक्षयेत्

॥१५॥

दिवासंध्यासु कर्णस्थब्रह्मसूत्रोदङ्मुखः

कुर्यान् मूत्रपुरीषे च रात्रौ चेद् दक्षिणामुखः

॥१६॥

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः

गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः

॥१७॥

अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः

प्राग् वा ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृशेत्

॥१८॥

कनिष्ठादेशिन्यङ्गुष्ठमूलान्य् अग्रं करस्य च

प्रजापतिपितृब्रह्मदेवतीर्थान्य् अनुक्रमात्

॥१९॥

त्रिः प्राश्यापो द्विर् उन्मृज्य खान्य् अद्भिः समुपस्पृशेत्

अद्भिस् तु प्रकृतिस्थाभिर् हीनाभिः फेनबुद्बुदैः

॥२०॥

हृत्कण्ठतालुगाभिस् तु यथासंख्यं द्विजातयः

शुध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः

॥२१॥

स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः

सूर्यस्य चाप्य् उपस्थानं गायत्र्याः प्रत्यहं जपः

॥२२॥

गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम्

प्रतिप्रणवसंयुक्तां त्रिर् अयं प्राणसंयमः

॥२३॥

प्राणान् आयम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु

जपन्न् आसीत सावित्रीं प्रत्यग् आतारकोदयात्

॥२४॥

संध्यां प्राक् प्रातर् एवं हि तिष्ठेद् आसूर्यदर्शनात्

अग्निकार्यं ततः कुर्यात् संध्ययोर् उभयोर् अपि

॥२५॥

ततोऽभिवादयेद् वृद्धान् असाव् अहम् इति ब्रुवन्

गुरुं चैवाप्य् उपासीत स्वाध्यायार्थं समाहितः

॥२६॥

आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत्

हितं तस्याचरेन् नित्यं मनोवाक्कायकर्मभिः

॥२७॥

कृतज्ञाद्रोहिमेधाविशुचिकल्यानसूयकाः

अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः

॥२८॥

दण्डाजिनोपवीतानि मेखलां चैव धारयेत्

ब्राह्मणेषु चरेद् भैक्षम् अनिन्द्येष्व् आत्मवृत्तये

॥२९॥

आदिमध्यावसानेषु भवच्छब्दोपलक्षिता

ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम्

॥३०॥

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया

आपोशानक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन्

॥३१॥

ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि

ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन्

॥३२॥

मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम्

भास्करालोकनाश्लीलपरिवादादि वर्जयेत्

॥३३॥

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति

उपनीय ददद् वेदम् आचार्यः स उदाहृतः

॥३४॥

एकदेशम् उपाध्याय ऋत्विग् यज्ञकृद् उच्यते

एते मान्या यथापूर्वम् एभ्यो माता गरीयसी

॥३५॥

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा

ग्रहणान्तिकम् इत्य् एके केशान्तश् चैव षोडशे

॥३६॥

आषोडशाद् आद्वाविंशाच् चतुर्विंशाच् च वत्सरात्

ब्रह्मक्षत्रविशां कालौपनायनिकः परः

॥३७॥

अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः

सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः

॥३८॥

मातुर् यद् अग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात्

ब्राह्मणक्षत्रियविशस् तस्माद् एते द्विजाः स्मृताः

॥३९॥

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम्

वेद एव द्विजातीनां निःश्रेयसकरः परः

॥४०॥

मधुना पयसा चैव स देवांस् तर्पयेद् द्विजः

पितॄन् मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम्

॥४१॥

यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः

प्रीणाति देवान् आज्येन मधुना च पितॄंस् तथा

॥४२॥

स तु सोमघृतैर् देवांस् तर्पयेद् योऽन्वहं पठेत्

सामानि तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा

॥४३॥

मेदसा तर्पयेद् देवान् अथर्वाङ्गिरसः पठन्

पितॄंश् च मधुसर्पिर्भ्याम् अन्वहं शक्तितो द्विजः

॥४४॥

वाकोवाक्यं पुराणं च नाराशंसीश् च गाथिकाः

इतिहासांस् तथा विद्याः शक्त्याधीते हि योऽन्वहम्

॥४५॥

मांसक्षीरौदनमधुतर्पणं स दिवौकसाम्

करोति तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा

॥४६॥

ते तृप्तास् तर्पयन्त्य् एनं सर्वकामफलैः शुभैः

यं यं क्रतुम् अधीते च तस्य तस्याप्नुयात् फलम्

॥४७॥

त्रिर् वित्तपूर्णपृथिवीदानस्य फलम् अश्नुते

तपसश् च परस्येह नित्यं स्वाध्यायवान् द्विजः

॥४८॥

नैष्ठिको ब्रह्मचारी तु वसेद् आचार्यसंनिधौ

तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा

॥४९॥

अनेन विधिना देहं सादयन् विजितेन्द्रियः

ब्रह्मलोकम् अवाप्नोति न चेहाजायते पुनः

॥५०॥

विवाहप्रकरणम्

गुरवे तु वरं दत्त्वा स्नायाद् वा तदनुज्ञया

वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा

॥५१॥

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत्

अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम्

॥५२॥

अरोगिणीं भ्रातृमतीम् असमानार्षगोत्रजान्

पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतस् तथा

॥५३॥

दशपूरुषविख्याताच् छ्रोत्रियाणां महाकुलात्

स्फीताद् अपि न संचारिरोगदोषसमन्वितात्

॥५४॥

एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः

यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः

॥५५॥

यद् उच्यते द्विजातीनां शूद्राद् दारोपसंग्रहः

नैतन् मम मतं यस्मात् तत्रायं जायते स्वयम्

॥५६॥

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम्

ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः

॥५७॥

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता

तज्जः पुनात्य् उभयतः पुरुषान् एकविंशतिम्

॥५८॥

यज्ञस्थ ऋत्विजे दैव आदायार्षस् तु गोद्वयम्

चतुर्दश प्रथमजः पुनात्य् उत्तरजश् च षट्

॥५९॥

इत्य् उक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने

स कायः पावयेत् तज्जः षट् षड्वंश्यान् सहात्मना

॥६०॥

आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः

राक्षसो युद्धहरणात् पैशाचः कन्यकाछलात्

॥६१॥

पाणिर् ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम्

वैश्या प्रतोदम् आदद्याद् वेदने त्व् अग्रजन्मनः

॥६२॥

पिता पितामहो भ्राता सकुल्यो जननी तथा

कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः

॥६३॥

अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ

गम्यं त्व् अभावे दातॄणां कन्या कुर्यात् स्वयंवरम्

॥६४॥

सकृत् प्रदीयते कन्या हरंस् तां चोरदण्डभाक्

दत्ताम् अपि हरेत् पूर्वाच् छ्रेयांश् चेद् वर आव्रजेत्

॥६५॥

अनाख्याय ददद् दोषं दण्ड्य उत्तमसाहसम्

अदुष्टां तु त्यजन् दण्ड्यो दूषयंस् तु मृषा शतम्

॥६६॥

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः

स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत्

॥६७॥

अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया

सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात्

॥६८॥

आगर्भसंभवाद् गच्छेत् पतितस् त्व् अन्यथा भवेत्

अनेन विधिना जातः क्षेत्रजोऽस्य भवेत् सुतः

॥६९॥

हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम्

परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम्

॥७०॥

सोमः शौचं ददाव् आसां गन्धर्वश् च शुभां गिरम्

पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः

॥७१॥

व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते

गर्भभर्तृवधादौ च तथा महति पातके

॥७२॥

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा

स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा

॥७३॥

अधिविन्ना तु भर्तव्या महद् एनोऽन्यथा भवेत्

यत्रानुकूल्यं दंपत्योस् त्रिवर्गस् तत्र वर्धते

॥७४॥

मृते जीवति वा पत्यौ या नान्यम् उपगच्छति

सेह कीर्तिम् अवाप्नोति मोदते चोमया सह

॥७५॥

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम्

त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः

॥७६॥

स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः

आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः

॥७७॥

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः

यस्मात् तस्मात् स्त्रियः सेव्याः कर्तव्याश् च सुरक्षिताः

॥७८॥

षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत्

ब्रह्मचार्य् एव पर्वाण्य् आद्याश् चतस्रस् तु वर्जयेत्

॥७९॥

एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत्

सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान्

॥८०॥

यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन्

स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृताः

॥८१॥

भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः

बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छादनाशनैः

॥८२॥

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी

कुर्याच् छ्वशुरयोः पादवन्दनं भर्तृतत्परा

॥८३॥

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम्

हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका

॥८४॥

रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास् तु वार्धके

अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः

॥८५॥

पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः

हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत्

॥८६॥

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया

सेह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम्

॥८७॥

सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत्

सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा

॥८८॥

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः

आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बयन्

॥८९॥

वर्णजातिविवेकप्रकरणम्

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः

अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः

॥९०॥

विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम्

अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा

॥९१॥

वैश्याशूद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ

वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः

॥९२॥

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा

शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः

॥९३॥

क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च

शूद्राद् आयोगवं वैश्या जनयामास वै सुतम्

॥९४॥

माहिष्येण करण्यां तु रथकारः प्रजायते

असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमजाः

॥९५॥

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा

व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम्

॥९६॥

गृहस्थधर्मप्रकरणम्

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही

दायकालाहृते वापि श्रौतं वैतानिकाग्निषु

॥९७॥

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः

प्रातःसंध्याम् उपासीत दन्तधावनपूर्वकम्

॥९८॥

हुत्वाग्नीन् सूर्यदैवत्यान् जपेन् मन्त्रान् समाहितः

वेदार्थान् अधिगच्छेच् च शास्त्राणि विविधानि च

॥९९॥

उपेयाद् ईश्वरं चैव योगक्षेमार्थसिद्धये

स्नात्वा देवान् पितॄंश् चैव तर्पयेद् अर्चयेत् तथा

॥१००॥

वेदाथर्वपुराणानि सेतिहासानि शक्तितः

जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत्

॥१०१॥

बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः

भूतपित्रमरब्रह्ममनुष्याणां महामखाः

॥१०२॥

देवेभ्यश् च हुताद् अन्नाच् छेषाद् भूतबलिं हरेत्

अन्नं भूमौ श्वचाण्डालवायसेभ्यश् च निक्षिपेत्

॥१०३॥

अन्नं पितृमनुष्येभ्यो देयम् अप्य् अन्वहं जलम्

स्वाध्यायं सततं कुर्यान् न पचेद् अन्नम् आत्मने

॥१०४॥

बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः

संभोज्यातिथिभृत्यांश् च दंपत्योः शेषभोजनम्

॥१०५॥

आपोशनेनोपरिष्टाद् अधस्ताद् अश्नता तथा

अनग्नम् अमृतं चैव कार्यम् अन्नं द्विजन्मना

॥१०६॥

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः

अप्रणोद्योऽतिथिः सायम् अपि वाग्भूतृणोदकैः

॥१०७॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च

भोजयेच् चागतान् काले सखिसंबन्धिबान्धवान्

॥१०८॥

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्

सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः

॥१०९॥

प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः

प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः

॥११०॥

अध्वनीनोऽतिथिर् ज्ञेयः श्रोत्रियो वेदपारगः

मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः

॥१११॥

परपाकरुचिर् न स्याद् अनिन्द्यामन्त्रणाद् ऋते

वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम्

॥११२॥

अतिथिं श्रोत्रियं तृप्तम् आसीमन्तम् अनुव्रजेत्

अहःशेषं सहासीत शिष्टैर् इष्टैश् च बन्धुभिः

॥११३॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च

भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत्

॥११४॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद् आत्मनो हितम्

धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत्

॥११५॥

विद्याकर्मवयोबन्धुवित्तैर् मान्या यथाक्रमम्

एतैः प्रभूतैः शूद्रोऽपि वार्धके मानम् अर्हति

॥११६॥

वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम्

पन्था देयो नृपस् तेषां मान्यः स्नातश् च भूपतेः

॥११७॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च

प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा

॥११८॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम्

कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम्

॥११९॥

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत्

शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन्

॥१२०॥

भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियारतः

नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत्

॥१२१॥

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः

दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम्

॥१२२॥

वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम्

आचरेत् सदृशीं वृत्तिम् अजिह्माम् अशठां तथा

॥१२३॥

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः

प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत्

॥१२४॥

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा

कर्तव्याग्रयणेष्टिश् च चातुर्मास्यानि चैव हि

॥१२५॥

एषाम् असंभवे कुर्याद् इष्टिं वैश्वानरीं द्विजः

हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम्

॥१२६॥

चाण्डालो जायते यज्ञकरणाच् छूद्रभिक्षितात्

यज्ञार्थं लब्धम् अददद् भासः काकोऽपि वा भवेत्

॥१२७॥

कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा

जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः

॥१२८॥

स्नातकधर्मप्रकरणम्

न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः

न विरुद्धप्रसङ्गेन संतोषी च भवेत् सदा

॥१२९॥

राजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा

दम्भिहैतुकपाखण्डिबकवृत्तींश् च वर्जयेत्

॥१३०॥

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः

न भार्यादर्शनेऽश्नीयान् नैकवासा न संस्थितः

॥१३१॥

न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत्

नाहितं नानृतं चैव न स्तेनः स्यान् न वार्धुषी

॥१३२॥

दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः

कुर्यात् प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन्

॥१३३॥

न तु मेहेन् नदीछायावर्त्मगोष्ठाम्बुभस्मसु

न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः

॥१३४॥

नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम्

न च मूत्रं पुरीषं वा नाशुची राहुतारकाः

॥१३५॥

अयं मे वज्र इत्य् एवं सर्वं मन्त्रम् उदीरयेत्

वर्षत्य् अप्रावृतो गच्छेत् स्वपेत् प्रत्यक्शिरा न च

॥१३६॥

ष्ठीवनासृक्शकृन्मूत्ररेतांस्य् अप्सु न निक्षिपेत्

पादौ प्रतापयेन् नाग्नौ न चैनम् अभिलङ्घयेत्

॥१३७॥

जलं पिबेन् नाञ्जलिना न शयानं प्रबोधयेत्

नाक्षैः क्रीडेन् न धर्मघ्नैर् व्याधितैर् वा न संविशेत्

॥१३८॥

विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम्

केशभस्मतुषाङ्गारकपालेषु च संस्थितिम्

॥१३९॥

नाचक्षीत धयन्तीं गां नाद्वारेण विशेत् क्वचित्

न राज्ञः प्रतिगृह्णीयाल् लुब्धस्योच्छास्त्रवर्तिनः

॥१४०॥

प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः

दुष्टा दशगुणं पूर्वात् पूर्वाद् एते यथाक्रमम्

॥१४१॥

अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन वा

हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु

॥१४२॥

पौषमासस्य रोहिण्याम् अष्टकायाम् अथापि वा

जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् बहिः

॥१४३॥

त्र्यहं प्रेतेष्व् अनध्यायः शिष्यर्त्विग्गुरुबन्धुषु

उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा

॥१४४॥

संध्यागर्जितनिर्घातभूकंपोल्कानिपातने

समाप्य वेदं द्युनिशम् आरण्यकम् अधीत्य च

॥१४५॥

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां राहुसूतके

ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च

॥१४६॥

पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः

कृतेऽनन्तरे त्व् अहोरात्रं शक्रपाते तथोच्छ्रये

॥१४७॥

श्वक्रोष्टृगर्दभोलूकसामबाणार्तनिःस्वने

अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके

॥१४८॥

देशेऽशुचाव् आत्मनि च विद्युत्स्तनितसंप्लवे

भुक्त्वार्द्रपाणिर् अम्भोऽन्तर् अर्धरात्रेऽतिमारुते

॥१४९॥

पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु

धावतः पूतिगन्धे च शिष्टे च गृहम् आगते

॥१५०॥

खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे

सप्तत्रिंशदनध्यायान् एतांस् तात्कालिकान् विदुः

॥१५१॥

देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः

नाक्रामेद् रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च

॥१५२॥

विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन

आमृत्योः श्रियम् आकाङ्क्षेन् न कंचिन् मर्मणि स्पृशेत्

॥१५३॥

दूराद् उच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत्

श्रुतिस्मृत्युदितं सम्यङ् नित्यम् आचारम् आचरेत्

॥१५४॥

गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत्

न निन्दाताडने कुर्यात् पुत्रं शिष्यं च ताडयेत्

॥१५५॥

कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत्

अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु

॥१५६॥

मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः

वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः

॥१५७॥

ऋत्विक्पुरोहितापत्यभार्यादाससनाभिभिः

विवादं वर्जयित्वा तु सर्वांल् लोकाञ् जयेद् गृही

॥१५८॥

पञ्च पिण्डान् अनुद्धृत्य न स्नायात् परवारिषु

स्नायान् नदीदेवखातह्रदप्रस्रवणेषु च

॥१५९॥

परशय्यासनोद्यानगृहयानानि वर्जयेत्

अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि

॥१६०॥

कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम्

वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम्

॥१६१॥

चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम्

क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम्

॥१६२॥

अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम्

शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम्

॥१६३॥

नृशंसराजरजककृतघ्नवधजीविनाम्

चैलधावसुराजीवसहोपपतिवेश्मनाम्

॥१६४॥

पिशुनानृतिनोश् चैव तथा चाक्रिकबन्दिनाम्

एषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा

॥१६५॥

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः

भोज्यान्नाः नापितश् चैव यश् चात्मानं निवेदयेत्

॥१६६॥

भक्ष्याभक्ष्यप्रकरणम्

अनर्चितं वृथामांसं केशकीटसमन्वितम्

शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम्

॥१६७॥

उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत्

गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः

॥१६८॥

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम्

अस्नेहा अपि गोधूमयवगोरसविक्रियाः

॥१६९॥

संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत्

औष्ट्रम् ऐकशफं स्त्रैणम् आरण्यकम् अथाविकम्

॥१७०॥

देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस् तथा

अनुपाकृतमांसानि विड्जानि कवकानि च

॥१७१॥

क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान्

सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः

॥१७२॥

कोयष्टिप्लवचक्राह्वबलाकाबकविष्किरान्

वृथाकृसरसम्यावपायसापूपशष्कुलीः

॥१७३॥

कलविङ्कं सकाकोलं कुररं रज्जुदालकम्

जालपादान् खञ्जरीटान् अज्ञातांश् च मृगद्विजान्

॥१७४॥

चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च

मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत्

॥१७५॥

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम्

लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत्

॥१७६॥

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः

शशश् च मत्स्येष्व् अपि हि सिंहतुण्डकरोहिताः

॥१७७॥

तथा पाठीनराजीवसशल्काश् च द्विजातिभिः

अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने

॥१७८॥

प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया

देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक्

॥१७९॥

वसेत् स नरके घोरे दिनानि पशुरोमभिः

सम्मितानि दुराचारो यो हन्त्य् अविधिना पशून्

॥१८०॥

सर्वान् कामान् अवाप्नोति हयमेधफलं तथा

गृहेऽपि निवसन् विप्रो मुनिर् मांसविवर्जनात्

॥१८१॥

द्रव्यशुद्धिप्रकरणम्

सौवर्णराजताब्जानाम् ऊर्ध्वपात्रग्रहाश्मनाम्

शाकरज्जुमूलफलवासोविदलचर्मणाम्

॥१८२॥

पात्राणां चमसानां च वारिणा शुद्धिर् इष्यते

चरुस्रुक्स्रुवसस्नेहपात्राण्य् उष्णेन वारिणा

॥१८३॥

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम्

प्रोक्षणं संहतानां च बहूनां धान्यवाससाम्

॥१८४॥

तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम्

मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि

॥१८५॥

सोषरोदकगोमूत्रैः शुध्यत्य् आविककौशिकम्

सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा

॥१८६॥

सगौरसर्षपैः क्षौमं पुनःपाकान् महीमयम्

कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा

॥१८७॥

भूशुद्धिर् मार्जनाद् दाहात् कालाद् गोक्रमणात् तथा

सेकाद् उल्लेखनाल् लेपाद् गृहं मार्जनलेपनात्

॥१८८॥

गोघ्रातेऽन्ने तथा केशमक्षिकाकीटदूषिते

सलिलं भस्म मृद् वापि प्रक्षेप्तव्यं विशुद्धये

॥१८९॥

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः

भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च

॥१९०॥

अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धादिकर्षणात्

वाक्शस्तम् अम्बुनिर्णिक्तम् अज्ञातं च सदा शुचि

॥१९१॥

शुचि गोतृप्तिकृत् तोयं प्रकृतिस्थं महीगतम्

तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम्

॥१९२॥

रश्मिर् अग्नी रजश्छाया गौर् अश्वो वसुधानिलः

विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः

॥१९३॥

अजाश्वयोर् मुखं मेध्यं न गोर् न नरजा मलाः

पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः

॥१९४॥

मुखजा विप्रुषो मेध्यास् तथाचमनबिन्दवः

श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः

॥१९५॥

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे

आचान्तः पुनर् आचामेद् वासो विपरिधाय च

॥१९६॥

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः

मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च

॥१९७॥

दानप्रकरणम्

तपस् तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये

तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च

॥१९८॥

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः

तेभ्यः क्रियापराः श्रेष्ठास् तेभ्योऽप्य् अध्यात्मवित्तमाः

॥१९९॥

न विद्यया केवलया तपसा वापि पात्रता

यत्र वृत्तम् इमे चोभे तद् धि पात्रं प्रकीर्तितम्

॥२००॥

गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम्

नापात्रे विदुषा किंचिद् आत्मनः श्रेय इच्छता

॥२०१॥

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः

गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च

॥२०२॥

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः

याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः

॥२०३॥

हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता

सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा

॥२०४॥

दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसम्मितान्

कपिला चेत् तारयति भूयश् चासप्तमं कुलम्

॥२०५॥

सवत्सारोमतुल्यानि युगान्य् उभयतोमुखीम्

दातास्याः स्वर्गम् आप्नोति पूर्वेण विधिना ददत्

॥२०६॥

यावद् वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते

तावद् गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति

॥२०७॥

यथाकथंचिद् दत्त्वा गां धेनुं वाधेनुम् एव वा

अरोगाम् अपरिक्लिष्टां दाता स्वर्गे महीयते

॥२०८॥

श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम्

पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत्

॥२०९॥

भूदीपांश् चान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान्

नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते

॥२१०॥

गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम्

यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत्

॥२११॥

सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः

तद् ददत् समवाप्नोति ब्रह्मलोकम् अविच्युतम्

॥२१२॥

प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम्

ये लोका दानशीलानां स तान् आप्नोति पुष्कलान्

॥२१३॥

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः

मांसं शय्यासनं धानाः प्रत्याखेयं न वारि च

॥२१४॥

अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः

अन्यत्र कुलटाषण्ढपतितेभ्यस् तथा द्विषः

॥२१५॥

देवातिथिअर्चनकृते गुरुभृत्यार्थम् एव वा

सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च

॥२१६॥

श्राद्धप्रकरणम्

अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम्

द्रव्यं ब्राह्मणसंपत्तिर् विषुवत् सूर्यसंक्रमः

॥२१७॥

व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः

श्राद्धं प्रति रुचिश् चैते श्राद्धकालाः प्रकीर्तिताः

॥२१८॥

अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा

वेदार्थविज् ज्येष्ठसामा त्रिमधुस् त्रिसुपर्णकः

॥२१९॥

स्वस्रीयर्त्विज्जामातृयाज्यश्वशुरमातुलाः

त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः

॥२२०॥

कर्मनिष्ठास् तपोनिष्ठाः पञ्चाग्निर् ब्रह्मचारिणः

पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसंपदः

॥२२१॥

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा

अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः

॥२२२॥

भृतकाध्यापकः क्लीबः कन्यादूष्य् अभिशस्तकः

मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः

॥२२३॥

मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः

परपूर्वापतिः स्तेनः कर्मदुष्टाश् च निन्दिताः

॥२२४॥

निमन्त्रयेत पूर्वेद्युर् ब्राह्मणान् आत्मवान् शुचिः

तैश् चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः

॥२२५॥

अपराह्णे समभ्यर्च्य स्वागतेनागतांस् तु तान्

पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत्

॥२२६॥

युग्मान् दैवे यथाशक्ति पित्र्येऽयुग्मांस् तथैव च

परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा

॥२२७॥

द्वौ दैवे प्राक् त्रयः पित्र्य उदग् एकैकम् एव वा

मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम्

॥२२८॥

पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशान् अपि

आवाहयेद् अनुज्ञातो विश्वे देवास इत्य् ऋचा

॥२२९॥

यवैर् अन्ववकीर्याथ भाजने सपवित्रके

शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस् तथा

॥२३०॥

या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत्

दत्त्वा उदकं गन्धमाल्यं धूपदानं सदीपकम्

॥२३१॥

तथाच्छादनदानं च करशौचार्थम् अम्बु च

अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम्

॥२३२॥

द्विगुणांस् तु कुशान् दत्त्वा ह्य् उषन्तस् त्वेत्य् ऋचा पितॄन्

आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः

॥२३३॥

अपहता इति तिलान् विकीर्य च समन्ततः

यवार्थास् तु तिलैः कार्याः कुर्याद् अर्घ्यादि पूर्ववत्

॥२३४॥

दत्त्वा अर्घ्यं संस्रवांस् तेषां पात्रे कृत्वा विधानतः

पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य् अधः

॥२३५॥

अग्नौ करिष्यन्न् आदाय पृच्छत्य् अन्नं घृतप्लुतम्

कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत्

॥२३६॥

हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः

यथालाभोपपन्नेषु रौप्येषु च विशेषतः

॥२३७॥

दत्त्वान्नं पृथिवीपात्रम् इति पात्राभिमन्त्रणम्

कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठं निवेशयेत्

॥२३८॥

सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम्

जप्त्वा यथासुखं वाच्यं भुञ्जीरंस् तेऽपि वाग्यताः

॥२३९॥

अन्नम् इष्तं हविष्यं च दद्याद् अक्रोधनोऽत्वरः

आतृप्तेस् तु पवित्राणि जप्त्वा पूर्वजपं तथा

॥२४०॥

अन्नम् आदाय तृप्ताः स्थ शेषं चैवानुमान्य च

तद् अन्नं विकिरेद् भूमौ दद्याच् चापः सकृत् सकृत्

॥२४१॥

सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः

उच्छिष्टसंनिधौ पिण्डान् दद्याद् वै पितृयज्ञवत्

॥२४२॥

मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः

स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च

॥२४३॥

दत्त्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत्

वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम्

॥२४४॥

ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम्

विश्वे देवाश् च प्रीयन्तां विप्रैश् चोक्त इदं जपेत्

॥२४५॥

दातारो नोऽभिवर्धन्तां वेदाः संततिर् एव च

श्रद्धा च नो मा व्यगमद् बहु देयं च नोऽस्त्व् इति

॥२४६॥

इत्य् उक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत्

वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम्

॥२४७॥

यस्मिंस् तु संस्रवाः पूर्वम् अर्घ्यपात्रे निवेशिताः

पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत्

॥२४८॥

प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम्

ब्रह्मचारी भवेत् तां तु रजनीं ब्राह्मणैः सह

॥२४९॥

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन्

यजेत दधि कर्कन्धुमिश्रान् पिण्डान् यवैः क्रियाः

॥२५०॥

एकोद्दिष्टं देवहीनम् एकार्घ्यैकपवित्रकम्

आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत्

॥२५१॥

उपतिष्ठताम् अक्षय्यस्थाने विप्रविसर्जने

अभिरम्यताम् इति वदेद् ब्रूयुस् तेऽभिरताः स्म ह

॥२५२॥

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम्

अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्

॥२५३॥

ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत्

एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि

॥२५४॥

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद् भवेत्

तस्याप्य् अन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे

॥२५५॥

मृतेऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम्

प्रतिसंवत्सरं चैवम् आद्यम् एकादशेऽहनि

॥२५६॥

पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जलेऽपि वा

प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत्

॥२५७॥

हविष्यान्नेन वै मासं पायसेन तु वत्सरम्

मात्स्यहारिणकौरभशाकुनच्छागपार्षतैः

॥२५८॥

ऐणरौरववाराहशाशैर् मांसैर् यथाक्रमम्

मासवृद्ध्याभितृप्यन्ति दत्तैर् इह पितामहाः

॥२५९॥

खड्दामिषं महाशल्कं मधु मुन्यन्नम् एव वा

लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च

॥२६०॥

यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते

तथा वर्षात्रयोदश्यां मघासु च विशेषतः

॥२६१॥

कन्यां कन्यावेदिनश् च पशून् वै सत्सुतान् अपि

द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस् तथा

॥२६२॥

ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके

ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा

॥२६३॥

प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम्

शस्त्रेण तु हता ये वै तेभ्यस् तत्र प्रदीयते

॥२६४॥

स्वर्गं ह्य् अपत्यम् ओजश् च शौर्यं क्षेत्रं बलं तथा

पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम्

॥२६५॥

प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीन् अपि

अरोगित्वं यशो वीतशोकतां परमां गतिम्

॥२६६॥

धनं वेदान् भिषक्सिद्धिं कुप्यं गा अप्य् अजाविकम्

अश्वान् आयुश् च विधिवद् यः श्राद्धं संप्रयच्छति

॥२६७॥

कृत्तिकादिभरण्यन्तं स कामान् आप्नुयाद् इमान्

आस्तिकः श्रद्दधानश् च व्यपेतमदमत्सरः

॥२६८॥

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः

प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः

॥२६९॥

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च

प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः

॥२७०॥

गणपतिकल्पप्रकरणम्

विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः

गणानाम् आधिपत्ये च रुद्रेण ब्रह्मणा तथा

॥२७१॥

तेनोपसृष्टो यस् तस्य लक्षणानि निबोधत

स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश् च पश्यति

॥२७२॥

काषायवाससश् चैव क्रव्यादांश् चाधिरोहति

अन्त्यजैर् गर्दभैर् उष्ट्रैः सहैकत्रावतिष्ठते

॥२७३॥

व्रजन्न् अपि तथात्मानं मन्यतेऽनुगतं परैः

विमना विफलारम्भः संसीदत्य् अनिमित्ततः

॥२७४॥

तेनोपसृष्टो लभते न राज्यं राजनन्दनः

कुमारी च न भर्तारम् अपत्यं गर्भम् अङ्गना

॥२७५॥

आचार्यत्वं श्रोत्रियश् च न शिष्योऽध्ययनं तथा

वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः

॥२७६॥

स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम्

गौरसर्षपकल्केन साज्येनोत्सादितस्य च

॥२७७॥

सर्वाउषधैः सर्वगन्धैर् विलिप्तशिरसस् तथा

भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः

॥२७८॥

अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद् ह्रदात्

मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निक्षिपेत्

॥२७९॥

या आहृता ह्य् एकवर्णैश् चतुर्भिः कलशैर् ह्रदात्

चर्मण्य् आनडुहे रक्ते स्थाप्यं भद्रासनं ततः

॥२८०॥

सहस्राक्षं शतधारम् ऋषिभिः पावनं कृतम्

तेन त्वाम् अभिषिञ्चामि पावमान्यः पुनन्तु ते

॥२८१॥

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः

भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः

॥२८२॥

यत् ते केशेषु दौर्भाग्यं सीमन्ते यच् च मूर्धनि

ललाटे कर्णयोर् अक्ष्णोर् आपस् तद् घ्नन्तु सर्वदा

॥२८३॥

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु

जुहुयान् मूर्धनि कुशान् सव्येन परिगृह्य च

॥२८४॥

मितश् च सम्मितश् चैव तथा शालकटङ्कटौ

कूश्माण्डो राजपुत्रश् चेत्य् अन्ते स्वाहासमन्वितैः

॥२८५॥

नामभिर् बलिमन्त्रैश् च नमस्कारसमन्वितैः

दद्याच् चतुष्पथे शूर्पे कुशान् आस्तीर्य सर्वतः

॥२८६॥

कृताकृतांस् तण्डुलांश् च पललौदनम् एव च

मत्स्यान् पक्वांस् तथैवामान् मांसम् एतावद् एव तु

॥२८७॥

पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधाम् अपि

मूलकं पूरिकापूपांस् तथैवोण्डेरकस्रजः

॥२८८॥

दध्य् अन्नं पायसं चैव गुडपिष्टं समोदकम्

एतान् सर्वान् समाहृत्य भूमौ कृत्वा ततः शिरः

॥२८९॥

विनायकस्य जननीम् उपतिष्ठेत् ततोऽम्बिकाम्

दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णम् अञ्जलिम्

॥२९०॥

रूपं देहि यशो देहि भगं भवति देहि मे

पुत्रान् देहि धनं देहि सर्वकामांश् च देहि मे

॥२९१॥

ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः

ब्राह्मणान् भोजयेद् दद्याद् वस्त्रयुग्मं गुरोर् अपि

॥२९२॥

एवं विनायकं पूज्य ग्रहांश् चैव विधानतः

कर्मणां फलम् आप्नोति श्रियं चाप्नोत्य् अनुत्तमाम्

॥२९३॥

आदित्यस्य सदा पूजां तिलकं स्वामिनस् तथा

महागणपतेश् चैव कुर्वन् सिद्धिम् अवाप्नुयात्

॥२९४॥

ग्रहशान्तिप्रकरणम्

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत्

वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्न् अपि

॥२९५॥

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः

शुक्रः शनैश्चरो राहुः केतुश् चेति ग्रहाः स्मृताः

॥२९६॥

ताम्रकात् स्फटिकाद् रक्तचन्दनात् स्वर्णकाद् उभौ

राजताद् अयसः सीसात् कांस्यात् कार्या ग्रहाः क्रमात्

॥२९७॥

स्ववर्णैर् वा पटे लेख्या गन्धैर् मण्डलकेषु वा

यथावर्णं प्रदेयानि वासांसि कुसुमानि च

॥२९८॥

गन्धाश् च बलयश् चैव धूपो देयश् च गुग्गुलुः

कर्तव्या मन्त्रवन्तश् च चरवः प्रतिदैवतम्

॥२९९॥

आकृष्णेन इमं देवा अग्निर् मूर्धा दिवः ककुत्

उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः

॥३००॥

बृहस्पतेऽति यद् अर्यस् तथैवान्नात् परिस्रुतः

शं नो देवीस् तथा काण्डात् केतुं कृण्वन्न् इमांस् तथा

॥३०१॥

अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः

उदुम्बरः शमी दूर्वा कुशाश् च समिधः क्रमात्

॥३०२॥

एकैकस्य त्व् अष्टशतम् अष्टाविंशतिर् एव वा

होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः

॥३०३॥

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम्

दध्योदनं हविश् चूर्णं मांसं चित्रान्नम् एव च

॥३०४॥

दद्याद् ग्रहक्रमाद् एवं द्विजेभ्यो भोजनं बुधः

शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम्

॥३०५॥

धेनुः शङ्खस् तथानड्वान् हेम वासो हयः क्रमात्

कृष्णा गौर् आयसं छाग एता वै दक्षिणाः स्मृताः

॥३०६॥

यश् च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत्

ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ

॥३०७॥

ग्रहाधीना नरेन्द्राणाम् उच्छ्रायाः पतनानि च

भावाभावौ च जगतस् तस्मात् पूज्यतमा ग्रहाः

॥३०८॥

राजधर्मप्रकरणम्

ग्रहाणाम् इदम् आतिथ्यं कुर्यात् संवत्सराद् अपि

आरोग्यबलसंपन्नो जीवेत् स शरदः शतम् ॥ य्ज्_१।३०८अ ॥ महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः

विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक् शुचिः

॥३०९॥

अदीर्घसूत्रः स्मृतिमान् अक्षुद्रोऽपरुषस् तथा

धार्मिकोऽव्यसनश् चैव प्राज्ञः शूरो रहस्यवित्

॥३१०॥

स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च

विनीतस् त्व् अथ वार्तायां त्रय्यां चैव नराधिपः

॥३११॥

स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन्

तैः सार्धं चिन्तयेद् राज्यं विप्रेणाथ ततः स्वयम्

॥३१२॥

पुरोहितं प्रकुर्वीत दैवज्ञम् उदितोदितम्

दण्डनीत्यां च कुशलम् अथर्वाङ्गिरसे तथा

॥३१३॥

श्रौतस्मार्तक्रियाहेतोर् वृणुयाद् एव च र्त्विजः

यज्ञांश् चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान्

॥३१४॥

भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च

अक्षयोऽयं निधी राज्ञां यद् विप्रेषूपपादितम्

॥३१५॥

अस्कन्नम् अव्यथं चैव प्रायश्चित्तैर् अदूषितम्

अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्ठम् इहोच्यते

॥३१६॥

अलब्धम् ईहेद् धर्मेण लब्धं यत्नेन पालयेत्

पालितं वर्धयेन् नीत्या वृद्धं पात्रेषु निक्षिपेत्

॥३१७॥

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत्

आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः

॥३१८॥

पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम्

अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः

॥३१९॥

प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम्

स्वहस्तकालसंपन्नं शासनं कारयेत् स्थिरम्

॥३२०॥

रम्यं पशव्यम् आजीव्यं जाङ्गलं देशम् आवसेत्

तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये

॥३२१॥

तत्र तत्र च निष्णातान् अध्यक्षान् कुशलान् शुचीन्

प्रकुर्याद् आयकर्मान्तव्ययकर्मसु चोद्यतान्

॥३२२॥

नातः परतरो धर्मो नृपाणां यद् रणार्जितम्

विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश् चाभयं सदा

॥३२३॥

य आहवेषु वध्यन्ते भूम्यर्थम् अपराङ्मुखाः

अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा

॥३२४॥

पदानि क्रतुतुल्यानि भग्नेष्व् अविनिवर्तिनाम्

राजा सुकृतम् आदत्ते हतानां विपलायिनाम्

॥३२५॥

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम्

न हन्याद् विनिवृत्तं च युद्धप्रेक्षणकादिकम्

॥३२६॥

कृतरक्षः समुत्थाय पश्येद् आयव्ययौ स्वयम्

व्यवहारांस् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः

॥३२७॥

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत्

पश्येच् चारांस् ततो दूतान् प्रेषयेन् मन्त्रिसंगतः

॥३२८॥

ततः स्वैरविहारी स्यान् मन्त्रिभिर् वा समागतः

बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत्

॥३२९॥

संध्याम् उपास्य शृणुयाच् चाराणां गूढभाषितम्

गीतनृत्यैश् च भुञ्जीत पठेत् स्वाध्यायम् एव च

॥३३०॥

संविशेत् तूर्यघोषेण प्रतिबुध्येत् तथैव च

शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्तव्यतास् तथा

॥३३१॥

प्रेषयेच् च ततश् चारान् स्वेष्व् अन्येषु च सादरान्

ऋत्विक्पुरोहिताचार्यैर् आशीर्भिर् अभिनन्दितः

॥३३२॥

दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम्

नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च

॥३३३॥

ब्राह्मणेषु क्षमी स्निग्धेष्व् अजिह्मः क्रोधनोऽरिषु

स्याद् राजा भृत्यवर्गेषु प्रजासु च यथा पिता

॥३३४॥

पुण्यात् षड्भागम् आदत्ते न्यायेन परिपालयन्

सर्वदानाधिकं यस्मात् प्रजानां परिपालनम्

॥३३५॥

चाटतस्करदुर्वृत्तमहासाहसिकादिभिः

पीड्यमानाः प्रजा रक्षेत् कायस्थैश् च विशेषतः

॥३३६॥

अरक्ष्यमाणाः कुर्वन्ति यत्किंचित् किल्बिषं प्रजाः

तस्मात् तु नृपतेर् अर्धं यस्माद् गृह्णात्य् असौ करान्

॥३३७॥

ये राष्ट्राधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम्

साधून् सम्मानयेद् राजा विपरीतांश् च घातयेत्

॥३३८॥

उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत्

सद्दानमानसत्कारान् श्रोत्रियान् वासयेत् सदा

॥३३९॥

अन्यायेन नृपो राष्ट्रात् स्वकोशं योऽभिवर्धयेत्

सोऽचिराद् विगतश्रीको नाशम् एति सबान्धवः

॥३४०॥

प्रजापीडनसंतापात् समुद्भूतो हुताशनः

राज्ञः कुलं श्रियं प्राणांश् चादग्ध्वा न निवर्तते

॥३४१॥

य एव नृपतेर् धर्मः स्वराष्ट्रपरिपालने

तम् एव कृत्स्नम् आप्नोति परराष्ट्रं वशं नयन्

॥३४२॥

यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः

तथैव परिपाल्योऽसौ यदा वशम् उपागतः

॥३४३॥

मन्त्रमूलं यतो राज्यं तस्मान् मन्त्रं सुरक्षितम्

कुर्याद् यथास्य न विदुः कर्मणाम् आफलोदयात्

॥३४४॥

अरिर् मित्रम् उदासीनोऽनन्तरस् तत्परः परः

क्रमशो मण्डलं चिन्त्यं सामादिभिर् उपक्रमैः

॥३४५॥

उपायाः साम दानं च भेदो दण्डस् तथैव च

सम्यक्प्रयुक्ताः सिध्येयुर् दण्डस् त्व् अगतिका गतिः

॥३४६॥

संधिं च विग्रहं यानम् आसनं संश्रयं तथा

द्वैधीभावं गुणान् एतान् यथावत् परिकल्पयेत्

॥३४७॥

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत्

परश् च हीन आत्मा च हृष्टवाहनपूरुषः

॥३४८॥

दैवे पुरुषकारे च कर्मसिद्धिर् व्यवस्थिता

तत्र दैवम् अभिव्यक्तं पौरुषं पौर्वदेहिकम्

॥३४९॥

केचिद् दैवात् स्वभावाद् वा कालात् पुरुषकारतः

संयोगे केचिद् इच्छन्ति फलं कुशलबुद्धयः

॥३५०॥

यथा ह्य् एकेन चक्रेण रथस्य न गतिर् भवेत्

एवं पुरुषकारेण विना दैवं न सिध्यति

॥३५१॥

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः

अतो यतेत तत्प्राप्त्यै रक्षेत् सत्यं समाहितः

॥३५२॥

स्वाम्य् अमात्या जनो दुर्गं कोशो दण्डस् तथैव च

मित्राण्य् एताः प्रकृतयो राज्यं सप्ताङ्गम् उच्यते

॥३५३॥

तद् अवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत्

धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा

॥३५४॥

स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना

सत्यसंधेन शुचिना सुसहायेन धीमता

॥३५५॥

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम्

जगद् आनन्दयेत् सर्वम् अन्यथा तत् प्रकोपयेत्

॥३५६॥

अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम्

सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम्

॥३५७॥

अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा

नादण्ड्यो नाम राज्ञोऽस्ति धर्माद् विचलितः स्वकात्

॥३५८॥

यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत्

इष्टं स्यात् क्रतुभिस् तेन समाप्तवरदक्षिणैः

॥३५९॥

इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक्

व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतोऽन्वहम्

॥३६०॥

कुलानि जातीः श्रेणीश् च गणान् जानपदान् अपि

स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि

॥३६१॥

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम्

तेऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते

॥३६२॥

गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः

कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश

॥३६३॥

पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम्

द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते

॥३६४॥

शतमानं तु दशभिर् धरणैः पलम् एव तु

निष्कं सुवर्णाश् चत्वारः कार्षिकस् ताम्रिकः पणः

॥३६५॥

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः

तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः

॥३६६॥

धिग्दण्डस् त्व् अथ वाग्दण्डो धनदण्डो वधस् तथा

योज्या व्यस्ताः समस्ता वा ह्य् अपराधवशाद् इमे

॥३६७॥

ज्ञात्वापराधं देशं च कालं बलम् अथापि वा

वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत्

॥३६८॥