- १ॐ राहवे नमः
- २ॐ सैंहिकेयाय नमः
- ३ॐ विधुन्तुदाय नमः
- ४ॐ सुरशत्रवे नमः
- ५ॐ तमसे नमः
- ६ॐ फणिने नमः
- ७ॐ गार्ग्यायणाय नमः
- ८ॐ सुरागवे नमः
- ९ॐ नीलजीमूतसङ्काशाय नमः
- १०ॐ चतुर्भुजाय नमः
- ११ॐ खड्गखेटकधारिणे नमः
- १२ॐ वरदायकहस्तकाय नमः
- १३ॐ शूलायुधाय नमः
- १४ॐ मेघवर्णाय नमः
- १५ॐ कृष्णध्वजपताकावते नमः
- १६ॐ दक्षिणाशामुखरताय नमः
- १७ॐ तीक्ष्णदंष्ट्रधराय नमः
- १८ॐ शूर्पाकारासनस्थाय नमः
- १९ॐ गोमेदाभरणप्रियाय नमः
- २०ॐ माषप्रियाय नमः
- २१ॐ कश्यपर्षिनन्दनाय नमः
- २२ॐ भुजगेश्वराय नमः
- २३ॐ उल्कापातजनये नमः
- २४ॐ शूलिने नमः
- २५ॐ निधिपाय नमः
- २६ॐ कृष्णसर्पराजे नमः
- २७ॐ विषज्वालावृतास्याय नमः
- २८ॐ अर्धशरीराय नमः
- २९ॐ जाड्यसम्प्रदाय नमः
- ३०ॐ रवीन्दुभीकराय नमः
- ३१ॐ छायास्वरूपिणे नमः
- ३२ॐ कठिनाङ्गकाय नमः
- ३३ॐ द्विषच्चक्रच्छेदकाय नमः
- ३४ॐ करालास्याय नमः
- ३५ॐ भयङ्कराय नमः
- ३६ॐ क्रूरकर्मणे नमः
- ३७ॐ तमोरूपाय नमः
- ३८ॐ श्यामात्मने नमः
- ३९ॐ नीललोहिताय नमः
- ४०ॐ किरीटिने नमः
- ४१ॐ नीलवसनाय नमः
- ४२ॐ शनिसामन्तवर्त्मगाय नमः
- ४३ॐ चाण्डालवर्णाय नमः
- ४४ॐ अश्व्यर्क्षभवाय नमः
- ४५ॐ मेषभवाय नमः
- ४६ॐ शनिवत्फलदाय नमः
- ४७ॐ शूराय नमः
- ४८ॐ अपसव्यगतये नमः
- ४९ॐ उपरागकराय नमः
- ५०ॐ सूर्यहिमांशुच्छविहारकाय नमः
- ५१ॐ नीलपुष्पविहाराय नमः
- ५२ॐ ग्रहश्रेष्ठाय नमः
- ५३ॐ अष्टमग्रहाय नमः
- ५४ॐ कबन्धमात्रदेहाय नमः
- ५५ॐ यातुधानकुलोद्भवाय नमः
- ५६ॐ गोविन्दवरपात्राय नमः
- ५७ॐ देवजातिप्रविष्टकाय नमः
- ५८ॐ क्रूराय नमः
- ५९ॐ घोराय नमः
- ६०ॐ शनेर्मित्राय नमः
- ६१ॐ शुक्रमित्राय नमः
- ६२ॐ अगोचराय नमः
- ६३ॐ माने गङ्गास्नानदात्रे नमः
- ६४ॐ स्वगृहे प्रबलाढ्यकाय नमः
- ६५ॐ सद्गृहेऽन्यबलधृते नमः
- ६६ॐ चतुर्थे मातृनाशकाय नमः
- ६७ॐ चन्द्रयुक्ते चण्डालजन्मसूचकाय नमः
- ६८ॐ जन्मसिंहे नमः
- ६९ॐ राज्यदात्रे नमः
- ७०ॐ महाकायाय नमः
- ७१ॐ जन्मकर्त्रे नमः
- ७२ॐ विधुरिपवे नमः
- ७३ॐ मत्तको ज्ञानदाय नमः
- ७४ॐ जन्मकन्याराज्यदात्रे नमः
- ७५ॐ जन्महानिदाय नमः
- ७६ॐ नवमे पितृहन्त्रे नमः
- ७७ॐ पञ्चमे शोकदायकाय नमः
- ७८ॐ द्यूने कलत्रहन्त्रे नमः
- ७९ॐ सप्तमे कलहप्रदाय नमः
- ८०ॐ षष्ठे वित्तदात्रे नमः
- ८१ॐ चतुर्थे वैरदायकाय नमः
- ८२ॐ नवमे पापदात्रे नमः
- ८३ॐ दशमे शोकदायकाय नमः
- ८४ॐ आदौ यशःप्रदात्रे नमः
- ८५ॐ अन्ते वैरप्रदायकाय नमः
- ८६ॐ कालात्मने नमः
- ८७ॐ गोचराचाराय नमः
- ८८ॐ धने ककुत्प्रदाय नमः
- ८९ॐ पञ्चमे धृषणाशृङ्गदाय नमः
- ९०ॐ स्वर्भानवे नमः
- ९१ॐ बलिने नमः
- ९२ॐ महासौख्यप्रदायिने नमः
- ९३ॐ चन्द्रवैरिणे नमः
- ९४ॐ शाश्वताय नमः
- ९५ॐ सुरशत्रवे नमः
- ९६ॐ पापग्रहाय नमः
- ९७ॐ शाम्भवाय नमः
- ९८ॐ पूज्यकाय नमः
- ९९ॐ पाठीनपूरणाय नमः
- १००ॐ पैठीनसकुलोद्भवाय नमः
- १०१ॐ दीर्घकृष्णाय नमः
- १०२ॐ अशिरसे नमः
- १०३ॐ विष्णुनेत्रारये नमः
- १०४ॐ देवाय नमः
- १०५ॐ दानवाय नमः
- १०६ॐ भक्तरक्षाय नमः
- १०७ॐ राहुमूर्तये नमः
- १०८ॐ सर्वाभीष्टफलप्रदाय नमः