मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्री रमण प्रातः स्मरण स्तोत्रम्

3

पारम्परिकम्

॥ श्रीमते रमणाय नमः ॥

प्रातस्स्मराम्यरुणशैलनितम्बदीव्य-

त्पुण्याश्रमे रुचिरमञ्चवरे शयानम् ।

प्रावारकाऽऽवृततनुं मुकुलीकृताक्ष-

मन्तर्मुखं रमणमात्मसमाधिलीनम् ॥

॥१॥

प्रातर्नमाम्यरुणशैलविहारलोल-

मस्पर्शयोगसहजात्मसमाधिवश्यम् ।

आविर्भवन्निजसुखानुभवैकतृप्त-

मव्याजभूतकरुणं रमणं शरण्यम् ॥

॥२॥

प्रातर्भजाम्यपरिलुप्तनिगूढशक्तिं

ज्ञानाग्निदग्धसहकारणजन्मबीजम् ।

लोकं समस्तमपि योजयितुं सुखेन

लीलागृहीतवपुषं रमणं मुनीन्द्रम् ॥

॥३॥

प्रातस्स्तुवे स्तुतिपथातिगमप्रमेय -

मासेविनाममृतभावविधानदक्षम् ।

आसेचनं नयनयोरनवद्यशील-

मह्मोनिवारणचणं रमणं यतीन्द्रम् ॥

॥४॥

प्रातर्ब्रुवे रमणपावननामधेयं

यद्भागधेयमखिलस्य तनोति जन्तोः ।

आम्रेडितं हरति यद्वृजिनं समस्तं

येन क्रमाद्भवतिसोऽहमिति प्रबोधः ॥

॥५॥

यः श्लोकपञ्चकमिदं पठति प्रभाते

सौभाग्यदं भगवतो रमणेश्वरस्य ।

तस्मै समस्तजनकर्मफलप्रदाता

श्रेयस्स एव रमणस्सकलं ददाति ॥

॥६॥

इति श्रीरमणप्रातस्स्मरणस्तोत्रं समाप्तम्