- १ॐ गुरवे नमः
- २ॐ गुणवराय नमः
- ३ॐ गोप्त्रे नमः
- ४ॐ गोचराय नमः
- ५ॐ गोपतिप्रियाय नमः
- ६ॐ गुणिने नमः
- ७ॐ गुणवतां श्रेष्ठाय नमः
- ८ॐ गुरूणां गुरवे नमः
- ९ॐ अव्ययाय नमः
- १०ॐ जेत्रे नमः
- ११ॐ जयन्ताय नमः
- १२ॐ जयदाय नमः
- १३ॐ जीवाय नमः
- १४ॐ अनन्ताय नमः
- १५ॐ जयावहाय नमः
- १६ॐ आङ्गिरसाय नमः
- १७ॐ अध्वरासक्ताय नमः
- १८ॐ विविक्ताय नमः
- १९ॐ अध्वरकृत्पराय नमः
- २०ॐ वाचस्पतये नमः
- २१ॐ वशिने नमः
- २२ॐ वश्याय नमः
- २३ॐ वरिष्ठाय नमः
- २४ॐ वाग्विचक्षणाय नमः
- २५ॐ चित्तशुद्धिकराय नमः
- २६ॐ श्रीमते नमः
- २७ॐ चैत्राय नमः
- २८ॐ चित्रशिखण्डिजाय नमः
- २९ॐ बृहद्रथाय नमः
- ३०ॐ बृहद्भानवे नमः
- ३१ॐ बृहस्पतये नमः
- ३२ॐ अभीष्टदाय नमः
- ३३ॐ सुराचार्याय नमः
- ३४ॐ सुराराध्याय नमः
- ३५ॐ सुरकार्यहितङ्कराय नमः
- ३६ॐ गीर्वाणपोषकाय नमः
- ३७ॐ धन्याय नमः
- ३८ॐ गीष्पतये नमः
- ३९ॐ गिरीशाय नमः
- ४०ॐ अनघाय नमः
- ४१ॐ धीवराय नमः
- ४२ॐ धिषणाय नमः
- ४३ॐ दिव्यभूषणाय नमः
- ४४ॐ देवपूजिताय नमः
- ४५ॐ धनुर्धराय नमः
- ४६ॐ दैत्यहन्त्रे नमः
- ४७ॐ दयासाराय नमः
- ४८ॐ दयाकराय नमः
- ४९ॐ दारिद्र्यनाशनाय नमः
- ५०ॐ धन्याय नमः
- ५१ॐ दक्षिणायनसम्भवाय नमः
- ५२ॐ धनुर्मीनाधिपाय नमः
- ५३ॐ देवाय नमः
- ५४ॐ धनुर्बाणधराय नमः
- ५५ॐ हरये नमः
- ५६ॐ आङ्गिरसाब्दसञ्जाताय नमः
- ५७ॐ आङ्गिरसकुलोद्भवाय नमः
- ५८ॐ सिन्धुदेशाधिपाय नमः
- ५९ॐ धीमते नमः
- ६०ॐ स्वर्णवर्णाय नमः
- ६१ॐ चतुर्भुजाय नमः
- ६२ॐ हेमाङ्गदाय नमः
- ६३ॐ हेमवपुषे नमः
- ६४ॐ हेमभूषणभूषिताय नमः
- ६५ॐ पुष्यनाथाय नमः
- ६६ॐ पुष्यरागमणिमण्डलमण्डिताय नमः
- ६७ॐ काशपुष्पसमानाभाय नमः
- ६८ॐ कलिदोषनिवारकाय नमः
- ६९ॐ इन्द्रादिदेवदेवेशाय नमः
- ७०ॐ देवताभीष्टदायकाय नमः
- ७१ॐ असमानबलाय नमः
- ७२ॐ सत्त्वगुणसम्पद्विभासुराय नमः
- ७३ॐ भूसुराभीष्टदाय नमः
- ७४ॐ भूरियशसे नमः
- ७५ॐ पुण्यविवर्धनाय नमः
- ७६ॐ धर्मरूपाय नमः
- ७७ॐ धनाध्यक्षाय नमः
- ७८ॐ धनदाय नमः
- ७९ॐ धर्मपालनाय नमः
- ८०ॐ सर्ववेदार्थतत्त्वज्ञाय नमः
- ८१ॐ सर्वापद्विनिवारकाय नमः
- ८२ॐ सर्वपापप्रशमनाय नमः
- ८३ॐ स्वमतानुगतामराय नमः
- ८४ॐ ऋग्वेदपारगाय नमः
- ८५ॐ ऋक्षराशिमार्गप्रचारवते नमः
- ८६ॐ सदानन्दाय नमः
- ८७ॐ सत्यसन्धाय नमः
- ८८ॐ सत्यसङ्कल्पमानसाय नमः
- ८९ॐ सर्वागमज्ञाय नमः
- ९०ॐ सर्वज्ञाय नमः
- ९१ॐ सर्ववेदान्तविदे नमः
- ९२ॐ वराय नमः
- ९३ॐ ब्रह्मपुत्राय नमः
- ९४ॐ ब्राह्मणेशाय नमः
- ९५ॐ ब्रह्मविद्याविशारदाय नमः
- ९६ॐ समानाधिकनिर्मुक्ताय नमः
- ९७ॐ सर्वलोकवशंवदाय नमः
- ९८ॐ ससुरासुरगन्धर्ववन्दिताय नमः
- ९९ॐ सत्यभाषणाय नमः
- १००ॐ बृहस्पतये नमः
- १०१ॐ सुराचार्याय नमः
- १०२ॐ दयावते नमः
- १०३ॐ शुभलक्षणाय नमः
- १०४ॐ लोकत्रयगुरवे नमः
- १०५ॐ श्रीमते नमः
- १०६ॐ सर्वगाय नमः
- १०७ॐ सर्वतो विभवे नमः
- १०८ॐ सर्वेशाय नमः
- १०९ॐ सर्वदातुष्टाय नमः
- ११०ॐ सर्वदाय नमः
- १११ॐ सर्वपूजिताय नमः