मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

त्रयोदशः प्रश्नः

3
आपस्तम्बश्रौतसूत्रम् · 13

माध्यन्दिनसवनम्, तृतीयसवनम्

प्रथमा कण्डिका

अभिषवादि माध्यंदिनं सवनं तायते

॥१॥

तस्य प्रातःसवनेन कल्पो व्याख्यातः

॥२॥

होतृचमसेन वसतीवरीभ्यो निःषिच्य निग्राभ्याः करोति

॥३॥

द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न विद्यन्ते

॥४॥

विस्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छति

॥५॥

असंप्रेषितो ग्रावस्तोत्रीया अन्वाह

॥६॥

तथैव महाभिषवः

॥७॥

घोषवांस्तु

॥८॥

संराधयन्तश्चाभिषुण्वन्तीहा३ इहेति

॥९॥

उत्तमस्याभिषवस्य मध्यमे पर्याये बृहद्दधाति बृहद्बृहदिति

॥१०॥

उत्तमेऽभिषवे ऽभिषुते राजन्यसंभृते देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्रमचुच्यवुः परमस्याः परावतः । आस्मात्सधस्तादोरोरन्तरिक्षात् । आ सुभूतमसुषवुर्ब्रह्मवर्चसं म आसुषवुः समरे रक्षांस्यवधिषुरपहतं ब्रह्मज्यस्येति प्रतिप्रस्थाता ग्राव्णोऽनुमोदते

॥११॥

पशुपुरोडाशं निरुप्य पयस्यावर्जं सवनीयाः

॥१२॥

तेन प्रचर्य सवनीयैः प्रचरति

॥१३॥

समानं तु स्विष्टकृदिडम्

॥१४॥

स कृताकृतः

॥१५॥

संभरणाद्या धारायाः कृतेऽध्वर्युर्ग्रहान्गृह्णाति

॥१६॥

द्वितीया कण्डिका

शुक्रामन्थिनावथाग्रयणं तिसृभ्यो धाराभ्यः

॥१॥

आग्रयणादुत्सिच्य द्वितीयां धारां करोति । उदचनात्तृतीयाम्

॥२॥

उक्थ्यं गृहीत्वा मरुत्वतीयौ । एतद्वा विपरीतम् । मध्य उक्थ्यमभितो मरुत्वतीयावित्येके

॥३॥

मरुत्वन्तमिति स्वेनर्तुपात्रेणाध्वर्युः पूर्वं मरुत्वतीयं गृह्णाति । इन्द्र मरुत्व इति स्वेन प्रतिप्रस्थातोत्तरम्

॥४॥

तयोरन्यदेवतानि ग्रहणानि द्वेष्यस्यैके समामनन्ति

॥५॥

विरमति धारैकधनानां यथार्थमित्येतदाद्या पञ्चहोतुः

॥६॥

ग्रहावकाशैः शृतंकारैश्चोपस्थाय वैप्रुषान्सप्तहोतारं च हुत्वा बहिष्पवमानवन्माध्यंदिने पवमानं सर्पन्ति

॥७॥

त्रैष्टुभः पन्था रुद्रा देवतावृकेणापरिपरेण पथा स्वस्ति रुद्रानशीयेति सर्पणे विकारः

॥८॥

उत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण होतारमध्वर्युर्यजमानश्चावतिष्ठेते । दक्षिणेनोत्तरेण वा प्रशास्तुर्धिष्णियं परीत्योद्गातारो माध्यंदिनेन पवमानेन स्तुवते

॥९॥

तृतीया कण्डिका

ज्योतिषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तान्माध्यंदिनात्पवमानाद्यजमानो जपति । चतुर्होतारं पञ्चहोतारं वा व्याचष्टे । ज्योक्त्यै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति च । स्तूयमाने च चतुर्होतारं पञ्चहोतारं वा जपति । मध्यमायां च स्तोत्रीयायां द्वितीयमन्वारोहम् । स्तुतेऽध्वर्युः संप्रेष्यत्यग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशाँ अलंकुरु प्रतिप्रस्थातर्दधिघर्मेणानूदेहीति

॥१॥

आग्नीध्रे प्रतिप्रस्थाता दधिघर्मं गृह्णाति

॥२॥

औदुम्बर्यां स्रुच्युपस्तीर्य यावती द्यावापृथिवी इति दधि गृहीत्वाभिघार्य वाक्च त्वा मनश्च श्रीणीतां प्राणश्च त्वापानश्च श्रीणीतां चक्षुश्च त्वा श्रोत्रं च श्रीणीतां दक्षश्च त्वा बलं च श्रीणीतामोजश्च त्वा सहश्च श्रीणीतामायुश्च त्वा जरा च श्रीणीतामात्मा च त्वा तनूश्च श्रीणीतां शृतोऽसि शृतंकृतः शृताय त्वा शृतेभ्यस्त्वेत्याग्नीध्रीयेऽधिश्रित्याह होतर्वदस्व यत्ते वाद्यमिति

॥३॥

यदास्य विजानाति यदि श्रातो जुहोतन यद्यश्रातो ममत्तनेत्येतस्मिन्काले श्रातं हविरिति प्रत्युक्त्वा तमादायाहवनीयं गत्वाश्राव्य प्रत्याश्राविते संप्रेष्यति

॥४॥

चतुर्थी कण्डिका

दधिघर्मस्य यजेति

॥१॥

यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्तपोजास्तस्मा इन्द्राय सुतमाजुहोमि स्वाहेति वषट्कृते जुहोति । स्वाहा वडिन्द्रायेत्यनुवषट्कृते हुत्वा हरति भक्षम्

॥२॥

तं भक्षयन्ति ये प्रवर्ग्यम्

॥३॥

तस्यारण्येऽनुवाक्यो भक्षमन्त्रः

॥४॥

नाप्रवर्ग्ये स्यादित्यपरम्

॥५॥

मित्रो जनान्प्र स मित्रेति भक्षयित्वा नाभिदेशानभिमृशन्ते

॥६॥

व्याख्याता सवनीयचर्या

॥७॥

एतावन्नाना । माध्यंदिनस्य सवनस्येन्द्राय पुरोडाशानामिति संप्रैषादी नमति

॥८॥

होत्र इडां हृत्वा हविर्धानं गच्छन्संप्रेष्यत्युन्नीयमानेभ्योऽनुब्रूहीति

॥९॥

उन्नयनाद्या नाराशंसानां सादनात्

॥१०॥

तत्र विकारः

॥११॥

अच्छावाकचमसं दशममुन्नयति

॥१२॥

आश्राव्य प्रत्याश्राविते संप्रेष्यति

॥१३॥

माध्यंदिनस्य सवनस्य विष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमानिति संप्रैषादिः

॥१४॥

षड्ढोत्रा भवन्ति

॥१५॥

पुरस्ट्दाग्नीध्रचमसादच्छावाकचमसेन चरन्ति

॥१६॥

एता एव होत्रास्तृतीयसवने भवन्ति

॥१७॥

पञ्चमी कण्डिका

सन्नेषु नाराशंसेषु दक्षिणा ददाति । बह्वपरिमितं सप्तैकविंशतिः षष्टिः शतम् द्वादशशतं सहस्रं सर्ववेदसं वा

॥१॥

ज्येष्ठं वा पुत्रमपभज्य सर्ववेदसं ददाति

॥२॥

अश्वतरं साहस्रे सर्ववेदसे च ददाति

॥३॥

अविं ददात्यजां गामश्वं पुरुषं हस्तिनं वासोऽनो रथमोदनं मन्थं माषांस्तिलान्व्रीहियवान्गर्दभमित्यधिकान्यनियतानि

॥४॥

गवां संख्या भवति

॥५॥

दक्षिणेन वेदिमवस्थितासु दक्षिणासूत्तरेण हविर्धानं गत्वोत्तरेणाग्नीध्रीयं धिष्णियं परीत्य पूर्वया द्वारा प्राग्वंशं प्रविश्यात्र यजमानस्यामात्यानां संह्वयनाद्या स्रुग्दण्डोपनियमनात्कृत्वा प्रचरण्या दक्षिणानि जुहोति

॥६॥

हिरण्यं प्रबध्य घृतेऽवधायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये जुहोति

॥७॥

दिवं गच्छ सुवः पतेति हिरण्यं हुत्वोद्गृह्णाति

॥८॥

उभयं धारयमाणो रूपेण वो रूपमभ्यैमीति दक्षिणा अभ्यैति

॥९॥

अतिनीय विभागमेके समामनन्ति

॥१०॥

तुथो वो विश्ववेदा विभजत्विति ता यजमानश्चतुर्धा कृष्णाजिनेन व्युत्त्रास्य चतुर्थमध्वर्युभ्यो विभजति

॥११॥

यावदध्वर्यवे ददाति तस्यार्धं प्रतिप्रस्थात्रे तृतीयं नेष्ट्रे चतुर्थमुन्नेत्रे

॥१२॥

एतेनेतरेषां दानमुक्तम्

॥१३॥

षष्ठी कण्डिका

हिरण्यं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधेऽग्रे ददाति

॥१॥

प्रतिहर्त्रेऽन्ततः

॥२॥

तथा ब्रह्मणे दद्याद्यथान्यां दक्षिणां नानुध्यायेत्

॥३॥

अङ्गानि दत्त्वा तेनतेन यथालिङ्गं निष्क्रीणीते यद्यास्यन्स्यात्

॥४॥

होतर्वाचं ते ददामि तां तेऽनेन निष्क्रीणामीति

॥५॥

एवं ब्रह्मणे मनः । अध्वर्यवे प्राणम् । उद्गात्रे चक्षुः । होत्रकेभ्यः श्रोत्रम् । चमसाध्वर्युभ्योऽङ्गानि । प्रसर्पकेभ्यो लोमानि सदस्यायात्मानम्

॥६॥

अन्यत्र दक्षिणाभ्यश्चमसाध्वर्युप्रसर्पकसदस्येभ्यः

॥७॥

हिरण्यपाणिरग्रेण गार्हपत्यं नयति जघनेन सदः । अन्तराग्नीध्रं च सदश्च ता उदीचीस्तीर्थेनोत्सृजति

॥८॥

एतत्ते अग्ने राध इति दक्षिणातिनयनः

॥९॥

तथैव समन्वारब्धेष्वसमन्वारब्धेषु वाग्ने नयेत्याग्नीध्रीये जुहोति

॥१०॥

वनेषु व्यन्तरिक्षं ततानेति द्वितीयां यद्यनो रथो वासोऽधीवासो वा दीयते यदि वा दास्यन्स्यात् । प्रजापते न त्वदेतानीति तृतीयां यदि पुरुषो हस्ती वा दीयते यदि वा दास्यन्स्यात्

॥११॥

ब्राह्मणमद्य राध्यासमित्यात्रेयाय प्रथमाय हिरण्यं ददाति । द्वितीयाय तृतीयाय वा

॥१२॥

तदभावे य आर्षेयः संहितस्तस्मै दद्यात्

॥१३॥

अस्मद्दात्रा देवत्रा गच्छतेति नीता अनुमन्त्र्य सद एत्य वि सुवः पश्येत्यनुवीक्षते यद्यतिनीय विभजेत्

॥१४॥

अन्तः सदस्यासीनेभ्य ऋत्विग्भ्यो दद्यात् । हविर्धानेऽध्वर्युभ्यः

॥१५॥

ऋत्विग्भ्यो नमस्करोति

॥१६॥

यं यज्ञमागच्छेत्तं प्रसर्पेदिति प्रसर्पकाणां विज्ञायते

॥१७॥

सप्तमी कण्डिका

दक्षिणतः सदस्यासीनेभ्यः प्रसर्पकेभ्यो ददाति

॥१॥

न बहिर्वेदि

॥२॥

न याचितः

॥३॥

न भीतः

॥४॥

न कण्वकश्यपेभ्यः

॥५॥

नाब्राह्मणाय

॥६॥

ब्राह्मणायाप्यविदुषे न देयम् । अप्यब्राह्मणाय विद्याविदे दद्यात् । यां स विद्यां वेद तां तयावरुन्द्धे

॥७॥

यां श्रोत्रियाय ज्ञातये वानृत्विजे प्रसृप्ताय यां स विद्यां वेद तां तयावरुन्द्धे

॥८॥

यां ज्येष्ठाय यया स देवतया ज्यैष्ठ्यं गच्छति तां तयावरुन्द्धे

॥९॥

यामार्षेयाय विदुषे स्वर्गं तया लोकमाप्नोति

॥१०॥

यामन्यो दीयमानां न कामयेत यं द्विष्यात्तस्मै दद्यात्सहान्येन धनेन

॥११॥

यत्प्रतिनुत्तां दक्षिणां गोषु चारयेत्प्रति वा गृह्णीयात्सलावृक्येनं भूत्वा प्रव्लिनीयात्

॥१२॥

यामदानीयाय दक्षिणां ददाति तामस्य पशवोऽन्वपक्रामन्ति । यदि मन्येतादानीयायादामिति न म इदमुपदम्भिषगित्येतद्यजुर्जपेद्गां वा दद्याद्ब्राह्मणाय

॥१३॥

यदा मरुत्वतेऽनूक्तमथ न देयं न प्रतिगृह्यम्

॥१४॥

अनूबन्ध्यावपायां हुतायां दद्यात्प्रति च गृह्णीयुः

॥१५॥

नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति हरिणस्य रघुष्यतोऽधि शीर्षणि भेषजम् । स क्षेत्रियं विषाणया विषूचीनमनीनशत् । अनु त्वा हरिणो मृगः पड्भिश्चतुर्भिरक्रमीत् । विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्फितमित्येताभ्याम्

॥१६॥

यज्ञपतिमृषय एनसाहुरित्याग्नीध्रीये पञ्च वैश्वकर्मणानि हुत्वा

॥१७॥

अष्टमी कण्डिका

मरुत्वतीयाभ्यां प्रचरतः

॥१॥

इन्द्राय मरुत्वतेऽनुब्रूहीन्द्राय मरुत्वते प्रेष्येति संप्रैषौ सानुवषट्कारावननुवषट्कारौ वा । अन्यतरो वा सानुवषट्कारः । द्विदेवत्यवत्संपातौ व्यवनीयाभक्षितेन पात्रेणाध्वर्युस्तृतीयं मरुत्वतीयं गृह्णाति । मरुत्वाँ इन्द्रेति ग्रहणसादनौ । प्रतिप्रस्थाता हरति भक्षम् । उभावध्वर्यू प्रतिभक्षयतः

॥२॥

एतत्पात्रमादायैन्द्राग्नवच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च

॥३॥

माहेन्द्रं शुक्रपात्रेण गृह्णाति । महाँ इन्द्रो य ओजसेति ग्रहणसादनौ

॥४॥

माहेन्द्रस्य स्तोत्रमुपाकरोति

॥५॥

स्तुते वैश्वदेववच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च

॥६॥

माहेन्द्रं त्वतिग्राह्या अनुहूयन्ते

॥७॥

सहैवाध्वर्युणाग्नेयं प्रतिप्रस्थातादत्ते । ऐन्द्रं नेष्टा । सौर्यमुन्नेता

॥८॥

अग्ने तेजस्विन्नित्याग्नेयं प्रतिप्रस्थाता हुत्वा तेजोविदसीत्यनुमन्त्रयते । इन्द्रौजस्विन्नित्यैन्द्रं नेष्टा हुत्वौजोविदसीत्यनुमन्त्रयते । सूर्य भ्राजस्विन्निति सौर्यमुन्नेता हुत्वा सुवर्विदसीत्यनुमन्त्रयते

॥९॥

तान्हुत्वा सदसि प्रत्यङ्मुखा भक्षयन्ति मयि मेधामित्येतैः स्वंस्वं यथालिङ्गम्

॥१०॥

तथैवोक्थ्यविग्रहाः

॥११॥

एतावन्नाना । इन्द्राय त्वेन्द्राय त्वेति सर्वत्र ग्रहणसादनौ संनमति

॥१२॥

उक्थं वाचीत्याह माध्यंदिनं सवनं प्रतिगीर्य शस्त्रंशस्त्रं वा । विश्वे देवा मरुत इति संस्थिते सवन आहुतिं जुहोति

॥१३॥

तथैव संप्रैषः सर्पणं च

॥१४॥

संतिष्ठते माध्यंदिनं सवनम्

॥१५॥

नवमी कण्डिका

आदित्यारम्भणं तृतीयसवनम्

॥१॥

हविर्धानस्योभे द्वारौ संवृत्य वेद्यां बहुजनायाम्

॥२॥

यदि वास्य भ्रातृव्यः प्रसृप्तः स्यादन्तर्वेदि सति गृह्णीयात्

॥३॥

भ्रातृव्ययज्ञे तु गृह्यमाण आदित्ये बहिर्वेदि तिष्ठेत्

॥४॥

आदित्यपात्रेण य आदित्यस्थाल्यां द्विदेवत्यग्रहसंपातास्तेभ्यः सोमं गृह्णाति कदा चन स्तरीरसीति

॥५॥

कदा चन प्रयुच्छसीति शृतातङ्क्यं दधि

॥६॥

यज्ञो देवानामिति पुनः सोमं गृहीत्वा विवस्व आदित्येति तस्मिन्ग्रावाणमुपांशुसवनमवधाय तेनैनं मेक्षयित्वा

॥७॥

या दिव्या वृष्टिस्तया त्वा श्रीणामीति शृतातङ्क्येन दध्ना पयसा वा वृष्टिकामस्य श्रीत्वा ग्रावाणमुद्गृह्णाति

॥८॥

यद्युद्गृहीतस्य ताजग्बिन्दुः प्रस्कन्देद्वर्षुकः पर्जन्यः स्यात् । यदि चिरमवर्षुकः

॥९॥

न सादयति

॥१०॥

यदि कामयेत गर्भान्पशवः स्रीव्येयुरित्युद्गृह्यादित्यमवेक्षेत

॥११॥

दर्भैर्हस्तेन वापिधायोत्तिष्ठति सूर्यो मा देवो देवेभ्यः पात्विति

॥१२॥

अहं परस्तादित्यादित्यं यजमानोऽन्वारभत आ होमात्

॥१३॥

कविर्यज्ञस्य वितनोति पन्थामिति हरति

॥१४॥

आ समुद्रादिति दर्भैराच्यावयति

॥१५॥

दशमी कण्डिका

आदित्येभ्योऽनुब्रूहि प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य आदित्येभ्यः प्रेष्य प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति संप्रैषौ । आदित्येभ्योऽनुब्रूह्यादित्येभ्यः प्रेष्येति वा

॥१॥

यास्ते विश्वाः समिधः सन्त्यग्न इति दर्भानाहवनीये प्रास्यान्यत्रेक्षमाण आदित्यं जुहोति

॥२॥

उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात्

॥३॥

न हुत्वान्वीक्षेत

॥४॥

सूदवदादित्यपात्रमायतने सादयित्वादाभ्यांशुमुपांशुपावनौ यश्चोपांशुपात्रेऽशुंस्तानृजीषेऽपिसृज्य प्रातःसवनवन्महाभिषवः

॥५॥

ऋजीषं त्वेवाभिषुण्वन्ति

॥६॥

पयस्यावर्जं सवनीयाः

॥७॥

आग्नीध्रे पत्न्याशिरं मथित्वापरया द्वारा हविर्धानं प्रपादयति । पूर्वया गतश्रियः

॥८॥

पूर्वया यजमानः प्रपद्यते

॥९॥

पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य तस्मिन्यजमानः पुरस्तात्प्रत्यङ्तिष्ठन्सह पत्न्याशिरमवनयत्यस्मे देवासो वपुषे चिकित्सतेति चतसृभिः

॥१०॥

ग्रहकाल आग्रयणमेव चतसृभ्यो धाराभ्यः

॥११॥

आग्रयणादुत्सिच्य द्वितीयां धारां करोति । आदित्यस्थाल्यास्तृतीयाम् । आदित्यग्रहसंपाताचतुर्थोम्

॥१२॥

उक्थ्यश्चेदत्रोक्थ्यं गृह्णाति

॥१३॥

विरमति धारैकधनानां यथार्थमित्येतदादि माध्यंदिनवत्

॥१४॥

एकादशी कण्डिका

जागतः पन्था आदित्या देवतावृकेणापरिपरेण पथा स्वस्त्यादित्यानशीयेति सर्पणे विकारः । आयुषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादार्भवात्पवमानाद्यजमानो जपति । पञ्चहोतारं सप्तहोतारं वा व्याचष्टे । आयुवै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति च । स्तूयमाने च पञ्चहोतारं सप्तहोतारं वा जपति । मध्यमायां च स्तोत्रीयायां तृतीयमन्वारोहम् । स्तुतेऽध्वर्युः संप्रेष्यत्यग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशाँ अलंकुरु प्रतिप्रस्थातः पशौ संवदस्वेति

॥१॥

अत्र शलाकाभिर्ज्वलतो धिष्णियान्विहृतान्न व्याघारयेत् । उपरिष्टाद्व्याघारणम्

॥२॥

शृतं हवी३ शमितरित्येतदादि पाशुकं कर्म प्रतिपद्यत एडायाः

॥३॥

दक्षिणेन हविर्धानं समवत्तं हरति । उत्तरेण वा

॥४॥

प्राशितायामिडायां सवनीयाद्या नाराशंसानां सादनात्

॥५॥

तत्र विकारः । तृतीयस्य सवनस्येन्द्राय पुरोडाशानामिति संप्रैषादी नमति

॥६॥

द्वादशी कण्डिका

प्रचरणकाले होतृचमसमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः

॥१॥

आश्राव्य प्रत्याश्राविते संप्रेष्यति । तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतो वाजवतः सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीब्राँ आशीर्वत इन्द्राय सोमानिति संप्रैषादिः

॥२॥

अथ चमसाञ्जुहोति

॥३॥

श्येनाय पत्वने स्वाहेति वषट्कृते जुहोति । वट् स्वयमभिगूर्ताय नमः स्वाहेत्यनुवषट्कृते

॥४॥

हुत्वा हरति भक्षम्

॥५॥

एवमुत्तरैः प्रचरति

॥६॥

एतावन्नाना । पूर्वेणपूर्वेण मन्त्रेण वषट्कृतेवषट्कृते जुहोति । उत्तरेणोत्तरेणानुवषट्कृते

॥७॥

तृम्पन्तां होत्रा इति सर्वान्हुत्वा जपति

॥८॥

सन्नेषु नाराशंसेषु चमसिनः स्वंस्वं चमसमनू न्यन्ते त्रींस्त्रीन्पुरोडाशशकलानुपवपन्त एतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम्

॥९॥

नमो वः पितरो रसायेति नमस्काराञ्जपन्ति

॥१०॥

षड्ढोतारं यजमानो व्याचष्टे

॥११॥

प्रजापते न त्वदेतानीति प्राजापत्ययावतिष्ठन्ते

॥१२॥

त्रयोदशी कण्डिका

वाममद्य सवितरित्यन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृहीत्वा न सादयति

॥१॥

देवाय सवित्रेऽनुब्रूहि देवाय सवित्रे प्रेष्येति संप्रैषौ

॥२॥

नानुवषट्करोति

॥३॥

एतेनैव सशेषेण वैश्वदेवं पूतभृतो गृह्णाति

॥४॥

उपयामगृहीतोऽसि सुशर्मासीति ग्रहणसादनौ

॥५॥

न स्तोत्रं भवति

॥६॥

वैश्वदेवं प्रतिगृणाति

॥७॥

प्र द्यावा यज्ञैः पृथिवी ऋतावृधेत्यभिज्ञायोभयतो मोदं प्रतिगृणाति मदा मोद इव मोदा मोद इवेति

॥८॥

अन्यतरतो मोदं वा मदा मोद इव ओथा मोद इवेति

॥९॥

व्यवहितमेके समामनन्ति मदा मोद इव ओथा मोद इव मोदा मोद इवेति

॥१०॥

आ व्याहावात्

॥११॥

नियुद्भिर्वायविह ता विमुञ्चेत्यभिज्ञाय प्रतिप्रस्थाता द्विदेवत्यपात्राणि वायुर्वो विमुञ्चत्विति विमुच्यापरया द्वारा निर्हृत्य मार्जालीये प्रक्षाल्य पूर्वयातिहृत्य यथायतनं सादयति

॥१२॥

वैश्वदेववद्ग्रहनाराशंसाः

॥१३॥

सौम्यस्य चरोस्तन्त्रं प्रक्रमयति

॥१४॥

व्याख्यातश्चरुकल्पः

॥१५॥

श्रपयित्वा प्राचीनावीती सौम्येन प्रचरति

॥१६॥

हस्तेन प्रथममवदानमवद्यति । मेक्षणेनोत्तरम् । एतद्वा विपरीतम्

॥१७॥

दक्षिणतो ऽवदायाभिघार्योदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन्नाश्राव्य प्रत्याश्राविते संप्रेष्यति सौम्यस्य यजेति

॥१८॥

वषट्कृते दक्षिणार्धे जुहोति

॥१९॥

आज्येनोपांशूभयतः सौम्यं परियजति । अन्यतरतो वा

॥२०॥

आश्राव्य प्रत्याश्राविते संप्रेष्यति घृतस्य यजेति

॥२१॥

वषट्कृते हुत्वा प्रत्याक्रम्याज्येन चरुमभिपूर्य

॥२२॥

चतुर्दशी कण्डिका

उद्गातृभ्यो हरन्ति

॥१॥

तमुद्गातारोऽवक्षन्ते सत्रो त एतद्यदु त इहेति

॥२॥

य आत्मानं न परिपश्येदाज्येनाभिददिं कृत्वावेक्षेत

॥३॥

यो गतमनाः स्यात्सो ऽवेक्षेत यन्मे मनः परागतमिति

॥४॥

अत्र पुनः शलाकाभिर्ज्वलतो धिष्णियान्विहृतानाज्येनैवाष्टगृहीतेन व्याघारयति

॥५॥

यद्येनं ब्रूयादाग्नीध्रीयं मे पुनर्व्याघारयेति नवगृहीतं गृहीत्वाग्नीध्रीयमादितोऽन्ततश्च व्याघार्य धारयति धिष्णियानाज्यशेषं च

॥६॥

उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इत्युपांशुपात्रेण पात्नीवतमाग्रयणाद्गृहीत्वा न सादयति

॥७॥

व्याघारणशेषेण श्रीत्वाश्राव्य प्रत्याश्राविते संप्रेष्यत्यग्नीत्पात्नीवतस्य यजेति । अग्ना३इ पत्नीवा३ इति वषट्कृते जुहोति

॥८॥

नानुवषट्करोति

॥९॥

अपि वोपांश्वनुवषट्कुर्यात्

॥१०॥

ततः संप्रेष्यत्यग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेतर्होतुश्चमसमनून्नय होतृचमसे ध्रुवायावकाशं कुरूद्गात्रा पत्नीं संख्यापयाप उपप्रवर्तयेति

॥११॥

संप्रैषवत्कुर्वन्ति

॥१२॥

अन्तरा हेष्टारं धिष्णियं चाग्नीध्रो व्यवसृप्य भक्षयति

॥१३॥

अग्निपीतस्येति भक्षमन्त्रं संनमति

॥१४॥

पञ्चदशी कण्डिका

नोपस्थ आसीत । यदुपस्थ आसीत पण्डकः स्यात्

॥१॥

होतृचमसमुख्यांश्चमसानुन्नयन्सर्वं राजानमुन्नीय दशाभिः कलशौ मृष्ट्वा न्युब्जति

॥२॥

यज्ञायज्ञियस्य स्तोत्रमुपाकरोति

॥३॥

ज्वलयन्ति धिष्णियान्

॥४॥

सकर्णप्रावृता अवकर्णप्रावृता वा यज्ञायज्ञियेन स्तुवते

॥५॥

ये प्रसृप्ताः स्युस्ते सर्वेऽग्निष्टोममुपगायेयुः

॥६॥

सप्तहोतारं यजमानो व्याचष्टे

॥७॥

विश्वस्य ते विश्वावत इति हिङ्कारमनूद्गात्रा पत्नीं संख्यापयति । आ तिसृभ्यः स्तोत्रियाभ्योऽगन्देवानिति च

॥८॥

पत्न्यप उपप्रवर्तयति दक्षिणेनोरुणा नग्नेन प्राचीरुदीचीर्वोरुभ्यामन्तरतः

॥९॥

ऊर्वोरुपप्रवर्तयेदित्येके

॥१०॥

उपरि दूरमुदूहेदा वक्षणानामाविष्कर्तोः । अह्रीतमुख्यस्या जायत इति विज्ञायते

॥११॥

अभ्यग्र आग्निमारुतं प्रतिगृणाति

॥१२॥

आपो हि ष्ठा मयोभुव इत्यभिज्ञायापो विषिञ्चन्प्रतिगृणाति

॥१३॥

स्वादुष्किलायं मधुमाँ उतायमित्यभिज्ञायोभयतो मोदं प्रतिगृणाति मदा मोद इव मोदा मोद इवेत्या व्याहावात्

॥१४॥

सादनादि ध्रुवस्य न यजमानो मूत्रं करोत्यावनयनात्

॥१५॥

षोडशी कण्डिका

भूतमसि भूते मा धा इति प्रतिप्रस्थाता ध्रुवमवेक्ष्य द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्यञ्जलिना परिगृह्य विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्त्विति हृत्वा ध्रुवं ध्रुवेणेति पुरस्तात्प्रत्यङ्ङासीनो होतृचमसे ध्रुवमवनयति

॥१॥

पुरस्तादुक्थ्यस्यावनीयः । मध्यतोऽन्ततो वा

॥२॥

उत नोऽहिर्बुध्न्यः शृणोत्वज एकपादिति वा वैश्वदेव्यामृचि शस्यमानायाम्

॥३॥

परिधानीयायां वा सकृच्छास्तायाम्

॥४॥

मध्यमायामुत्तमायां वा

॥५॥

उक्थं वाचीन्द्रायेत्याह तृतीयसवनं प्रतिगीर्य । शस्त्रंशस्त्रं वा

॥६॥

प्रचरणकाले होतृचमसमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते संप्रेष्यत्युक्थशा यज सोमानामिति । वषट्कृतानुवषट्कृते जुह्वति । भक्षान्हरन्ति

॥७॥

होतृचमसमध्वर्युः प्रतिभक्षयति सुभूरसि श्रेष्ठो रश्मीनां प्रियो देवानां संसदनीयः । तं त्वा सुभव देवा अभिसंविशन्त्विषोऽसि त्वेषोऽसि नृम्णोऽसि यह्वोऽसि व्रतोऽसि स्वोऽसि वारणोऽसि तस्य त इषस्य त्वेषस्य नृम्णस्य यह्वस्य व्रतस्य स्वस्य वारणस्य शूद्रस्य चार्यस्य च भुक्षिषीयेति

॥८॥

यथा त्वं सूर्यासि विश्वदर्शत एवमहं विश्वदर्शतो भूयासमित्यादित्यं यजमान उपतिष्ठते

॥९॥

आयुर्म इन्द्रियं धेह्यदो म आगच्छत्वित्याहवनीयम्

॥१०॥

यत्कामयते तस्य नाम गृह्णाति

॥११॥

अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते

॥१२॥

सप्तदशी कण्डिका

परिधिषु प्रहृतेषून्नेता हारियोजनं गृह्णाति

॥१॥

उपयामगृहीतोऽसि हरिरसीति द्रोणकलशेन सर्वमाग्रयणं गृहीत्वा न सादयति । बह्वीभिर्धानाभिः श्रीत्वा शीर्षन्नधिनिधायोपनिष्क्रम्येन्द्राय हरिवतेऽनुब्रूहीन्द्राय हरिवते प्रेष्येति संप्रैषौ । धानासोमेभ्योऽनुब्रूहि धानासोमान्प्रस्थितान्प्रेष्येति वा

॥२॥

हरी स्थ हर्योर्धाना इति विक्रम्य वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम्

॥३॥

अपरेणोत्तरवेदिं द्रोणकलशं प्रतिष्ठाप्योन्नेतर्युपहवमिष्ट्वा सर्वे हारियोजनं भक्षयन्तीष्टयजुषस्ते देव सोमेति

॥४॥

असंभिन्दन्तो धाना निम्नानि कुर्वते । निम्नानि कृत्वा निरिव धयन्ति

॥५॥

चिश्चिषाकारं भक्षयन्ति

॥६॥

कृष्यै क्षेमाय रय्यै पोषायेति भक्षयित्वा जपन्ति

॥७॥

आपूर्या स्थामा पूरयतेत्युत्तरवेद्यां शेषा न्युप्य यन्म आत्मनो मिन्दाभूदिति मिन्दयाहवनीयमुपतिष्ठन्ते

॥८॥

देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यात्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनसएनसोऽवयजनमसीत्याहवनीये शकलानभ्याधायैकधनपरिशेषेषु हरिणीर्दूर्वाः प्रास्य संप्लोम्नाय तीव्रीकृत्य यथाचमसं व्यानीयापरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वंस्वं चमसरसमवघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव इति

॥९॥

अष्टादशी कण्डिका

समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अरिष्टा अस्माकं वीराः सन्तु मा परासेचि नः स्वम् । अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा न इत्यन्तर्वेदि शेषान्निनीय दधिक्राव्णो अकारिषमित्याग्नीध्रे दधिद्रप्सान्भक्षयन्ति

॥१॥

उभा कवी युवाना सत्या ता धर्मणस्पती । सत्यस्य धर्मणस्पते वि सख्यानि सृजामह इति तानूनप्त्रिणः सख्यानि विसृजन्ते

॥२॥

पशुवत्पत्नीसंयाजाः

॥३॥

स्तीर्णे वेदे जुह्वां नवगृहीतं गृहीत्वा धाता रातिरित्यन्तर्वेद्यूर्ध्वस्तिष्ठन्संततं समशो नव समिष्टयजूंषि जुहोति

॥४॥

यं कामयेत पापीयान्स्यादित्येकैकं तस्य जुहुयाज्जिह्मस्तिष्ठन् । स्रुवेण वा विग्राहम्

॥५॥

इदं तृतीयं सवनं कवीनामिति संस्थिते सवन आहुतिं जुहोति

॥६॥

अत्र मेखलायाः कृष्णविषाणायाश्च चात्वाले प्रासनं वाजसनेयिनः समामनन्ति माहिर्भूर्मा पृदाकुरिति

॥७॥

अग्निना देवेन पृतना जयामीति यजमानो जागतान्विष्णुक्रमान्क्रामति

॥८॥

सर्वेभिर्देवेभिः पृतना यजाम्यानुष्टुभेन छन्दसैकविंशेन स्तोमेन वैराजेन साम्ना वषट्कारेण वज्रेण सर्वजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन्क्षयेऽस्मिन्भूमिलोके योऽस्मान्द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामीति चतुर्थमेके समामनन्ति

॥९॥

इन्द्रेण सयुजो वयमित्याहवनीयं यजमान उपतिष्ठते

॥१०॥

एकोनविंशी कण्डिका

अवभृथस्य तन्त्रं प्रक्रमयति

॥१॥

वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते । यथार्थं पात्रयोगः

॥२॥

निर्वपणकाले वारुणमेककपालं निर्वपति

॥३॥

चतुर्गृहीतान्याज्यानि वारुणं चालंकृत्योत्तरवेद्यंस आसादयति

॥४॥

अत्र यजमान औदुम्बरीमुत्खिदत्युपसृजन्धरुणं मात्रे मातरा धरुणो धयन्निह पुष्टिं पुष्टिपतिर्नियच्छतु रायस्पोषमिषमूर्जमस्मासु दीधरदिति

॥५॥

तामधिषवणचर्मफलके सर्वाणि च सोमलिप्तान्यन्तरा चात्वालोत्करावुत्तरे वा वेद्यंस औदुम्बर्यामासन्द्यां सादयति । अन्यत्र चतसृभ्यः सोमस्थालीभ्यः

॥६॥

अव ते हेडो वरुण नमोभिरिति यजमानश्चात्वाले कृष्णाशिनं प्रास्यति

॥७॥

पुनर्वैनेन दीक्षेत वसीत वैनद्भ्रस्तां वैनत्स्रुचामवधानार्थां कारयेत् । हविरवहननार्थं वा स्यात्

॥८॥

अवभृथादुदेत्य पुत्राय ब्रह्मचारिणे वा दद्यादित्येके

॥९॥

आयुर्दा अग्ने हविषो जुषाण इत्यवभृथमवैष्यञ्जुहुयात् । अवभृथ निचङ्कुणेति च

॥१०॥

विंशी कण्डिका

नमो रुद्राय वास्तोष्पतय आयने विद्रवण उद्याने यत्परायण आवर्तने विवर्तने यो गोपायति तं हुव इति च

॥१॥

उरुं हि राजा वरुणश्चकारेति वेद्या भिप्रयान्तो वदन्ति । चात्वालाद्वा

॥२॥

प्रस्तोतः साम गायेति

॥३॥

सर्वे सहपत्नीकास्त्रिः साम्नो निधनमुपयन्ति । अर्धाध्वे द्वितीयम् । प्राप्य तृतीयम्

॥४॥

सर्वत्र संप्रेष्यति

॥५॥

सर्वा दिशोऽवभृथगमनमाम्नातमित्येतदाद्या चर्यायाः

॥६॥

निष्कासवद्वारुणेन प्रचर्यापबर्हिषावनूयाजौ यजति । न वा

॥७॥

यत्ते ग्राव्णाप्यायस्व सं त इति सौमीभिर्द्रप्सवतीभिः पञ्चभिः सप्तभिस्त्रयोदशभिर्वा दध्नौदुम्बरशाखयर्जीषं प्रोक्षति

॥८॥

प्रहृत्य वाभिजुहुयात्

॥९॥

ऋजीषस्य स्रुचं पूरयित्वाप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तरिति

॥१०॥

ततो यो भिन्दुरुत्स्रवते तमुपस्पृशेद्भक्षयेद्वाप्सु धौतस्य सोम देव त इति

॥११॥

समुद्रं वः प्रहिणोमीति सर्वाणि च सोमलिप्तान्यवभृथे प्रविध्यति

॥१२॥

विचृत्तो वरुणस्य पाश इति यजमानो मेखलां विचचृते । इमं विष्यामीति पत्नी योक्तम्

॥१३॥

अत्र योक्तमेखले वाससी जालं कृष्णाजिनं चावभृथे प्रविध्य

॥१४॥

एकविंशी कण्डिका

देवीराप इत्यवभृथं यजमानोऽभिमन्त्र्य सुमित्रा न आप ओषधय इत्यपः प्रगाह्य सशिरस्कावनुपमक्षन्तौ स्नातः पत्नी यजमानश्च

॥१॥

अन्योऽन्यस्य पृष्ठे प्रधावतः

॥२॥

यद्दिदीक्षे मनसा यच्च वाचा यद्वा प्राणैश्चक्षुषा यच्च श्रोत्रेण । यद्रेतसा मिथुनेनाप्यात्मनाद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो बिमोक्तीर्मयि तेज इन्द्रियम् । यदृचा साम्ना यजुषा पशूनां चर्मन्हविषा दिदीक्षे । यच्छन्दोभिरोषधीभिर्वनस्पतावद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियम् । येन ब्रह्म येन क्षत्रं येनेन्द्राग्नी प्रजापतिः सोमो वरुणो येन राजा । विश्वे देवा ऋषयो येन प्राणा अद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियमिति त्रिरञ्जलिना विषिच्योन्नेतर्वसीयो न उन्नयाभि । उदित्ते वसुवित्तमा गिरः स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव । कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुरिति यजमानः संप्रेष्यति

॥३॥

द्वाविंशी कण्डिका

उदेत प्रजामायुर्वर्चो दधाना अध स्यामसुरुभयोर्गृहेषु । गायत्रीं छन्दांस्यनुसंरभन्तामस्मान्राय उत यज्ञाः सचन्ताम् । सुप्रीतः सुवरप आविवेशेत्युन्नेतोन्नयति

॥१॥

अहते वसानावुदितः

॥२॥

सोमोष्णीषं यजमानः परिधत्ते । सोमोपनहनं पत्नी सोमपरिश्रयणं वा

॥३॥

ते उदवसानीयायामध्वर्यवे दत्तः

॥४॥

उद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यसित्वा समित्पाणय उन्नेतारं पुरस्कृत्याप्रतीक्षमायन्त्यपाम सोममिति महीयां वदन्तो यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि । इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत् । अनृणा अस्मिन्ननृणाः परस्मिंस्तृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः सर्वान्पथो अनृणा आ क्षीयेमेति च

॥५॥

एधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते

॥६॥

त्रयोविंशी कण्डिका

प्रायणीयावदुदयनीया

॥१॥

तस्यामेव स्थाल्यामनिष्कसितायां श्रपयति । तद्बर्हिः । तन्मेक्षणम्

॥२॥

शालामुखीये प्रचरन्ति

॥३॥

तेष्वेव देशेष्वग्निमाज्यभागानां प्रथमं यजति । पथ्यां स्वस्तिमुत्तमाम्

॥४॥

याः प्रायणीयस्य याज्या इत्युक्तम्

॥५॥

मैत्रावरुणीं गां वशामनूबन्ध्यामालभते

॥६॥

तस्या निरूढपशुबन्धवत्कल्पः

॥७॥

इम्त्रावरुणाभ्यां गोर्वपाया मेदसोऽनुब्रूहि मित्रावरुणाभ्यां गोर्वपाया मेदसः प्रेष्येति संप्रैषौ

॥८॥

एवमवदानेषु हविष इत्यन्तौ नमति

॥९॥

तिस्रुऽनूबन्ध्या एके समामनन्ति

॥१०॥

मैत्रावरुणीं वैश्वदेवीं बार्हस्पत्यामिति

॥११॥

द्विरूपा मैत्रावरुणी । बहुरूपा वैश्वदेवी । रोहिणी बार्हस्पत्या

॥१२॥

उपांशु वैश्वदेव्या मध्यतश्चरन्ति

॥१३॥

ता न सर्वत्रालभेत वाजपेये राजसूये सत्त्रे सहस्रे सर्ववेदसे वा

॥१४॥

यः कामयेत सर्वो मे यज्ञः स्यात्सरस इति स एतास्तिस्रोऽनूबन्ध्या आलभेत

॥१५॥

अनूबन्ध्यावपायां हुतायां दक्षिणे वेद्यन्ते यजमानः केशश्मश्रु वापयते

॥१६॥

अनूबन्ध्यायाः पशुपुरोडाशम्

॥१७॥

चतुर्विंशी कण्डिका

देविकाहवींषि निर्वपति

॥१॥

धात्रे पुरोडाशं द्वादशकपालमिति पञ्च

॥२॥

यासु स्थालीषु सोमा भवन्ति तासूत्तराणि चत्वारि हवींषि श्रपयति

॥३॥

समानं तु स्विष्टकृदिडम्

॥४॥

देविका निर्वपेत्प्रजाकाम इति काम्याः

॥५॥

अनूबन्ध्यायां स्वरुं जुहोति । हृदयशूलमुद्वासयति

॥६॥

विष्णुक्रमान्क्रामति

॥७॥

राज्ञो राजंभव्यस्य वानूबन्ध्यायाः पशुपुरोडाशमष्टौ देवसुवां हवींष्यनुनिर्वपत्यग्नये गृहपतय इति

॥८॥

समानं तु स्विष्टकृदिडम्

॥९॥

मैत्रावरुणीमामिक्षामनूबन्ध्यायाः स्थाने बह्वृचाः समामनन्ति । तस्या अग्रेण हविर्धानमासीनोऽनवानः होता यजति । हविराहुतिप्रभृतीडान्ता संतिष्ठते । प्रयाजप्रभृत्याज्यभागप्रभृति वा । इडान्तामेके समामनन्ति

॥१०॥

कृत्स्नसंस्थामेके

॥११॥

तामनु देविकाहवींषि निर्वपति

॥१२॥

समानं तु स्विष्टकृदिडम्

॥१३॥

सदसो हविर्धानस्य हविर्धानयोरिति प्रथमग्रथितान्ग्रन्थीन्विस्रस्योदीची हविर्धाने बहिर्वेदि निर्वर्तयति

॥१४॥

आहवनीयादुल्मुकमादाय यजमानो वेदिमुपोषति यत्कुसीदमप्रतीत्तमिति

॥१५॥

यदि मिश्रमिव चरेदञ्जलिना सक्तून्प्रदाव्ये जुहुयाद्विश्वलोप विश्वदावस्य त्वेति

॥१६॥

यदाकूतादिति तिसृभिर्धूममनुमन्त्रयते

॥१७॥

अह्नां विधान्यामित्युक्तम्

॥१८॥

अयं नो नभसा पुर इत्येतैर्यथाब्राह्मणमुपस्थाय

॥१९॥

पञ्चविंशी कण्डिका

वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतीमोक्षाञ्जपति

॥१॥

अत्र विष्णुक्रमानेके समामनन्ति

॥२॥

प्राजहितं समारोप्य शालामुखीयं द्वितीयं गतश्रियः प्राङ्दङ्वोदवसायेदमू नु श्रेयोऽवसानमागन्म शिवे नो द्यावापृथिवी उभे इमे । गोमद्धनवदश्ववदूर्जस्वत्सुवीरा वीरैरनुसंचरेमेति देवयजनमध्यवसाय निर्मन्थ्योदवसानीयायास्तन्त्रं प्रक्रमयति

॥३॥

अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते । यथार्थं पात्रयोगः

॥४॥

निर्वपणकाल आग्नेयं पञ्चकपालं निर्वपति । अष्टाकपालं वा । यदि पञ्चकपालो गायत्र्यौ संयाज्ये । यद्यष्टाकपालः पङ्क्त्यौ

॥५॥

अनड्वान्दक्षिणा । अनडुदर्हं वा हिरण्यम्

॥६॥

सिद्धमिष्टिः संतिष्ठते । वैष्णवीं पूर्णाहुतिमुदवसानीयायाः स्थाने वाजसनेयिनः समामनन्ति

॥७॥

द्वादशगृहीतेन स्रुचं पूरयित्वेदं विष्णुर्विचक्रम इत्यन्तर्वेद्यूर्ध्वस्तिष्ठञ्जुहोति

॥८॥

सा यावद्रात्रेष्टिः संतिष्ठतेऽथ सायमग्निहोत्रं जुहोति । काले प्रातर्होमम्

॥९॥

संतिष्ठतेऽग्निष्टोमोऽग्निष्टोमः

॥१०॥