मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

पञ्चमः प्रश्नः

3
आपस्तम्बश्रौतसूत्रम् · 5

अग्न्याधेयम्, पुनराधेयम्

प्रथमा कण्डिका

अग्न्याधेयं व्याख्यास्यामः

॥१॥

यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते इरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति शमीगर्भस्याश्वत्थस्यारणी आहरति

॥२॥

अप्यशमीगर्भस्येति वाजसनेयकम्

॥३॥

अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियां संभरामि । शान्तयोनिं शमीगर्भमग्नये प्रजनयितवे । आयुर्मयि धेह्याहुर्यजमान इत्यरणी अभिमन्त्र्य सप्त पार्थिवान्संभारानाहरति । एवं वानस्पत्यान् । पञ्चपञ्च वा

॥४॥

भूयसो वा पार्थिवान्

॥५॥

न संभारान्संभरेदिति वाजसनेयकम्

॥६॥

वैश्वानरस्य रूपं पृथिव्यां परिस्रसा । स्योनमाविशन्तु न इति सिकताः । यदिदं दिवो यददः पृथिव्याः संजज्ञाने रोदसी संबभूवतुः । ऊषान्कृष्णमवतु कृष्णमूषा इधोभयोर्यज्ञियमागमिष्ठा इत्यूषान् । उतीः कुर्वाणो यत्पृथिवीमचरो गूहाकारमाखुरूपं प्रतीत्य । तत्ते न्यक्तमिह संभरन्तः शतं जीवेम शरदः सुवीरा इत्याखुकरीषम् । ऊर्जं पृथिव्या रसमाभरन्तः शतं जीवेम शरदः पुरूचीः । वम्रीभिरनुवित्तं गुहासु श्रोत्रं त उर्व्यबधिरा भवाम इति वल्मीकवपाम् । प्रजापतिसृष्टानां प्रजानां क्षुधोऽपहत्यै सुवितं नो अस्तु । उपप्रभिन्नमिषमूर्जं प्रजाभ्यः सूदं गृहेभ्यो रसमाभरामीति सूदम् । यस्य रूपं बिभ्रदिमामविन्दद्गुहा प्रविष्टां सरिरस्य मध्ये । तस्येदं विहतमाभरन्तोऽच्छम्बट्कारमस्यां विधेमेति वराहविहतम्

॥७॥

द्वितीया कण्डिका

याभिरदृंहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भर्त्रीम् । ता नः शिवाः शर्कराः सन्तु सर्वा इति शर्कराः । अग्ने रेतश्चन्द्रं हिरण्यमद्भ्यः संभूतममृतं प्रजासु । तत्संभरन्नुत्तरतो निधायातिप्रयच्चन्दुरितिं तरेयमिति हिरण्यम्

॥१॥

इति पार्थिवाः

॥२॥

यदि पञ्चौदुम्बराणि लोहशकलानि पञ्चमो भवति

॥३॥

अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः संवत्सरं देवेभ्यो निलाय । तत्ते न्यक्तमिह संभरन्तः शतं जीवेम शरदः सुवीरा इत्यश्वत्थम् । ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह । त्वया वयमिषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्युदुम्बरम् । गायत्रिया ह्रियमाणस्य यत्ते पर्णमपतत्तृतीयस्यै दिवोऽधि । सोऽयं पर्णः सोमपर्णाद्धि जातस्ततो हरामि सोमपीथस्यावरुद्ध्यै । देवानां ब्रह्मवादं वदतां यदुपाशृणोः सुश्रवा वै श्रुतोऽसि । ततो मामाविशतु ब्रह्मवर्चसं तत्संभरंस्तदवरुन्धीय साक्षादित्येताभ्यां पर्णम् । यया ते सृष्टस्याग्नेर्होतिमशमयत्प्रजापतिः । तामिमामप्रदाहाय शमीं शान्त्यै हराम्यहमिति शमीम् । यत्ते सृष्टस्य यतो विकङ्कतं भा आर्छज्जातवेदः । तया भासा संमित उरुं नो लोकमनुप्रभाहीति विकङ्कतम् । यत्ते तान्तस्य हृदयमाच्छिन्दञ्जातवेदो मरुतो अद्भिस्तमयित्वा । एतत्ते तदशनेः संभरामि सात्मा अग्ने सहृदयो भवेहेत्यशनिहतस्य वृक्षस्य । यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथनं हरामीति पुष्करपर्णम् । इति वानस्पत्याः

॥४॥

तृतीया कण्डिका

यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम् । स संभृतः सीद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति संभृत्य निदधाति

॥१॥

अथ नक्षत्राणि

॥२॥

कृत्तिकासु ब्राह्मण आदधीत मुख्यो ब्रह्मवर्चसी भवति

॥३॥

गृहांस्तस्याग्निर्दाहुको भवति

॥४॥

रोहिण्यामाधाय सर्वान्रोहान्रोहति

॥५॥

मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो वा

॥६॥

यः पुरा भद्रः सन्पापीयान्स्यात्पुनर्वस्वोः

॥७॥

पूर्वयोः फल्गुन्योर्यः कामयेत दानकामा मे प्रजा स्युरिति

॥८॥

उत्तरयोर्यः कामयेत भग्यन्नादः स्यामिति

॥९॥

एतदेवैके विपरीतम्

॥१०॥

अथापरम् । पूर्वयोराधाय पापीयान्भवत्युत्तरयोर्वसीयान्

॥११॥

हस्ते यः कामयेत प्र मे दीयेतेति

॥१२॥

चित्रायां राजन्यो भ्रातृव्यवान्वा

॥१३॥

विशाखयोः प्रजाकामोऽनुराधेष्ठृद्धिकामः श्रवणे पुष्टिकाम उत्तरेषु प्रोष्ठपदेषु प्रतिष्ठाकामः

॥१४॥

सर्वाणि नित्यवदेके समामनन्ति

॥१५॥

फल्गुनीपूर्णमास आदधीतेत्युक्त्वाह यत्फल्गुनीपूर्णमास आदध्यात्संवत्सरस्यैनमासन्दध्याद्द्व्यहे पुरैकाहे वा

॥१६॥

अमावास्यायां पौर्णमास्यां वाधेयः

॥१७॥

वसन्तो ब्राह्मणस्य ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य वर्षा रथकारस्य

॥१८॥

ये त्रयाणां वर्णानामेतत्कर्म कुर्युस्तेषामेष कालः

॥१९॥

शिशिरः सार्ववर्णिकः

॥२०॥

सोमेन यक्ष्यमाणो नर्तुं सूर्क्षेन्न नक्षत्रम्

॥२१॥

उदवसाय शलीन आदधीतानुदवसाय यायावरः

॥२२॥

एकाहं वा प्रयायात्

॥२३॥

चतुर्थी कण्डिका

उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवणं देवयजनमुद्धत्य शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु न इत्यद्भिरवोक्ष्य तस्मिन्नुदीचीनवंशं शरणं करोति

॥१॥

तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति

॥२॥

तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम् । एकादशसु राजन्यस्य । द्वादशसु वैश्यस्य

॥३॥

चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते

॥४॥

दक्षिणतःपुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेरायतनम्

॥५॥

अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य

॥६॥

अग्रेणाहवनीयं सभायां सभ्यः

॥७॥

तं पूर्वेणावसथ आवसथ्यः

॥८॥

केशश्मश्रु वपते नखानि निकृन्तते स्नाति । एवं पत्नी केशवर्जम्

॥९॥

क्षौमे वसानौ जायापती अग्निमादधीयाताम्

॥१०॥

ते दक्षिणाकालेऽध्वर्यवे दत्तः

॥११॥

अपराह्णेऽधिवृक्षसूर्ये वौपासनादग्निमाहृत्यापरेण गार्हपत्यायतनं ब्राह्मौदनिकमादधाति

॥१२॥

औपासनं वा सर्वम्

॥१३॥

निर्मथ्यं वा

॥१४॥

यदि सर्वमौपासनमाहरेदपूपं यवमयं व्रीहिमयं चौदुम्बरपर्णाभ्यां संगृह्यायतन उपास्येद्यवमयं पश्चाद्व्रीहिमयं पुरस्तात्तस्मिन्नादध्यात्

॥१५॥

सर्वमप्यौपासनमाहरन्नापूपावुपास्येदित्यपरम्

॥१६॥

पञ्चमी कण्डिका

अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि पाजके वा निशायां ब्रह्मौदनं चतुःशरावं निर्वपति

॥१॥

देवस्य त्वेत्यनुद्रुत्य ब्रह्मणे प्राणाय जुष्टं निर्वपामीति प्रथममपानायेति द्वितीयं व्यानायेति तृतीयं ब्रह्मणे जुष्टमिति चतुर्थम्

॥२॥

तूष्णीं वा सर्वाणि

॥३॥

चतुर्षूदपात्रेषु पचति

॥४॥

न प्रक्षालयति न प्रस्रावयति

॥५॥

क्षीरे भवतीत्येके

॥६॥

जीवतण्डुलमिव श्रपयतीति विज्ञायते

॥७॥

दर्व्या ब्रह्मौदनादुद्धृत्य प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान्यजेहेह्यानिति जुहोत्यभि वा मन्त्रयते

॥८॥

चतुर्धा ब्रह्मौदनं व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य कर्षन्ननुच्छिन्दंश्चतुर्भ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति

॥९॥

अपात्ताः प्रथमे पिण्डा भवन्त्यप्रतिहताः पाणयः । अथ ब्रह्मौदनशेषं संकृष्य तस्मिन्नाज्यशेषमानीय तस्मिंश्चित्रियस्याश्वत्थस्य तिस्रः समिध आर्द्राः सपलाशाः प्रादेशमात्र्यः स्तिभिगवत्यो विवर्तयति

॥१०॥

षष्ठी कण्डिका

चित्रियादश्वत्थात्संभृता बृहत्यः शरीरमभिसंस्कृता स्थ । प्रजापतिना यज्ञमुखेन संमितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्या इति

॥१॥

अथादधाति घृतवतीभिराग्नेयीभिर्गायत्रीभिर्ब्राह्मणस्य त्रिष्टुग्भी राजन्यस्य जगतीभिर्वैश्यस्य

॥२॥

समिधाग्निं दुवस्यतेत्येषा । उप त्वाग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्येति ब्राह्मणस्य । समिध्यमानः प्रथमो नु धर्मः समक्तुभिरज्यते विश्ववारः । शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर्यजथाय देवान् । घृतप्रतीको घृतयोनिरग्निर्घृतैः समिद्धो घृतमस्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्सुयजा यक्षि देवान् । आयुर्दा अग्न इति राजन्यस्य । त्वामग्ने समिधानं यविष्ठ देवा दूतं चक्रिरे हव्यवाहम् । उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्वति । त्वामग्ने प्रदिव आहुतं घृतेन सुम्नायवः सुषमिधा समीधिरे । स वावृधान ओषधीभिरुक्षित उरु ज्रयांसि पार्थिवा वितिष्ठसे । घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते । इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियमिति वैश्यस्य

॥३॥

सप्तमी कण्डिका

समित्सु तिस्रो वत्सतरीर्ददाति

॥१॥

प्राश्नन्ति ब्राह्मणा ओदनम्

॥२॥

प्राशितवद्भ्यः समानं वरं ददाति

॥३॥

यस्मिन्नक्षत्रेऽग्निमाधास्वन्स्यात्तस्मिन्संवत्सरे पुरस्तादेताः समिध आदध्याद्द्वादशाहे द्व्यहे त्र्य ह एकाहे वा

॥४॥

आधेयास्त्वेवाग्निमादधानेन

॥५॥

अथ व्रतं चरति न मांसमश्नाति न स्त्रियमुपैति नास्याग्निं गृहाद्धरन्ति नान्यत आहरन्ति

॥६॥

ब्राह्मौदनिकेन संवत्सरमासीत

॥७॥

औपासनश्चेदाहित एतस्मिन्नस्याग्निकर्माणि क्रियन्ते

॥८॥

न प्रयायात्

॥९॥

नानुगच्छेत्

॥१०॥

यदि प्रयायादनु वा गच्छेद्ब्रह्मौदनं पक्त्वैतयैवावृता समिध आदध्यात्

॥११॥

यद्येनं संवत्सरेऽग्न्याधेयं नोपनमेद्ब्रह्मौदनं पक्त्वा समिध आधाय यदैनमुपनमेदथादधीत

॥१२॥

तस्य याथाकामी भरणकल्पानाम्

॥१३॥

द्वादशाहं चरेदेकाहं वा

॥१४॥

श्व आधास्यमानः पुनर्ब्रह्मौदनं पचति

॥१५॥

योऽस्याग्निमाधास्यन्स्यात्स एतां रात्रिं व्रतं चरति न मांसमश्नाति न स्त्रियमुपैति

॥१६॥

प्रजा अग्ने संवासयाशाश्च पशुभिः सह । राष्ट्राण्यस्मा आधेहि यान्यासन्सवितुः सव इत्युत्तरेण गार्हपत्यायतनं कल्माषमजं बध्नाति

॥१७॥

अष्टमी कण्डिका

अथ यजमानो व्रतमुपैति वाचं च यच्छत्यनृतसत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति

॥१॥

वीणातूणवेनैनमेतां रात्रिं जागरयन्ति

॥२॥

अपि वा न जागर्ति न वाचं यच्छति

॥३॥

शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम् । उभयोर्लोकयोरृद्ध्वाति मृत्युं तराम्यहमित्येतया

॥४॥

तस्मिन्नुपव्युषमरणी निष्टपति जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूः । अयं ते योनिरृत्विय इत्येताभ्याम्

॥५॥

अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्य इत्यरणी अभिमन्त्र्य मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामित्यरणी आह्रियमाणे यजमानः प्रतीक्षते

॥६॥

दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामीति यजमानाय प्रयच्छति

॥७॥

आरोहतं दशतं शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तरां समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्यर्त्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे । तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनिष्येथे ते मा प्रजाते प्रजनयिष्यथः । क्प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते यजमानः

॥८॥

नवमी कण्डिका

मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इत्युभौ जपतः । अपेत वीतेति गार्हपत्यायतनमुद्धत्य शं नो देवीरभिष्टय इत्यद्भिरवोक्षति

॥१॥

एवं दक्षिणाग्नेराहवनीयस्य सभ्यावसथ्ययोश्च

॥२॥

एवमनुपूर्वण्येवैष्टत ऊर्ध्वं कर्माणि क्रियन्ते

॥३॥

सिकतानामर्धं द्वैधंम् विभज्यार्धं गार्हपत्यायतने निवपत्यर्धं दक्षिणाग्नेः । अर्धं त्रैधं विभज्य पूर्वेषु

॥४॥

एतेनैव कल्पेन सर्वान्पार्थिवान्निवपति

॥५॥

अग्नेर्भस्मासीति सिकता निवपति । संज्ञानमित्यूषान्

॥६॥

तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति

॥७॥

उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतः सधस्थात् । आखुं त्वा ये दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपामित्याखुकरीषम् । यत्पृथिव्या अनामृतं संबभूव त्वे सचा । तदग्निरग्नयेऽददात्तस्मिन्नाधीयतामयमिति गार्हपत्यायतने वल्मीकवपां निवपति

॥८॥

यदन्तरिक्षस्येति दक्षिणाग्नेः । यद्दिव इति पूर्वेषु

॥९॥

उत्समुद्रान्मधुमाँ ऊर्मिरागात्साम्राज्याय प्रतरां दधानः । अमी च ये मघवानो वयं चेषमूर्जं मधमत्संभरेमेति सूदम् । इयत्यग्र आसीरिति वराहविहतम्

॥१०॥

अदो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता व्यसर्पो महित्वा । अदृंहथाः शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्र इति शर्कराः । द्वेष्यं च मनसा धायति

॥११॥

दशमी कण्डिका

ऋतं स्तृणामि पुरीषं पृथिव्यामृतेऽध्यग्निमादधे सत्येऽध्यग्निमादध इत्यायतनेषु संभाराननुव्यूहति

॥१॥

सं या वः प्रियास्तनुव इत्येषा । सं वः सृजामि हृदयानि संसृष्टं मनो अस्तु वः । संसृष्टः प्राणो अस्तु व इति वानस्पत्यान्संसृज्य सिकतावन्निवपतीतः प्रथम जज्ञे अग्निरित्येतया

॥२॥

यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम् । ताभिः संभूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्न इति गार्हपत्यायतने सौवर्णं हिरण्यशकलमुत्तरतः सम्भारेषूपास्यति

॥३॥

चन्द्रमग्निं चन्द्ररथं हरित्वचं वैश्वानरमप्सुषदं सुवर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुरित्युपास्तमभिमन्त्रयते । द्वेष्याय रजतं प्रयच्छति

॥४॥

यदि द्वेष्यं नाधिगच्छेद्यां दिशं द्वेष्यः स्यात्तेन निरस्येत्

॥५॥

एवं सर्वेषूपास्य करोति

॥६॥

ब्राह्मौदनिकाद्भस्मापोह्य तस्मिञ्छमीगर्भादग्निं मन्थति

॥७॥

उद्यत्सु रश्मिषु दशहोत्रारणी समवदधाति

॥८॥

सहाग्नेऽग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह पशुभिः सह ब्रह्मवर्चसेनेत्युपतिष्ठत्यश्वेऽग्निं मन्थति

॥९॥

श्वेतोऽश्वोऽविक्लिन्नाक्षो भवति रोहितो वासितजानुरपि वा य एव कश्चित्साण्डः

॥१०॥

मथ्यमाने शक्तेः सांकृतेः साम गायति धूमे जाते गाथिनः कौशिकस्य । अरण्योर्निहितो जातवेदा इति च

॥११॥

उपावरोह जातवेद इति निर्वर्त्यमानमभिमन्त्रयते

॥१२॥

एकादशी कण्डिका

अत्र चतुर्होतॄन्यजमानं वाचयति

॥१॥

अजन्नग्निः पूर्वः पूर्वेभ्यः पवमानः शुचिः पावक ईड्य इति जातमभिमन्त्रयते

॥२॥

जाते यजमानो वरं ददाति

॥३॥

गौर्वै वरोऽतिवरोऽन्यो धेनुर्वरोऽतिवरोऽन्योऽनद्घान्वरोऽतिवरोऽन्यः पष्ठौही वरो ऽतिवरोऽन्यः

॥४॥

जातं यजमानोऽभिप्राणिति प्रजापतेस्त्वा प्राणेनाभिप्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शतं शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्यायेति

॥५॥

अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभिसंरभन्तामिति जातमञ्जलिनाभिगृह्य सम्राडसि विराडसि सारस्वतौ त्वोत्सौ समिन्धातामन्नादं त्वान्नपत्यायेत्युपसमिध्याथैनं प्राञ्चमुद्धृत्यासीनः सर्वेषां मन्त्राणामन्तेन रथंतरे गीयमाने यज्ञायज्ञीये च यथर्ष्याधानेन प्रथमया व्याहृत्या द्वाभ्यां वा प्रथमाभ्यां च सर्पराज्ञीभ्यां प्रथमेन च घर्मशिरसा

॥६॥

भृगूणां त्वा देवानां व्रतपते व्रतेनादधामीति भार्गवस्यादध्यात् । अङ्गिरसां त्वा देवानां व्रतपते व्रतेनादधामीति यो ब्राह्मण आङ्गिरसः स्यात् । आदित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्यन्यासां ब्राह्मणीनां प्रजानाम् । वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राज्ञः । इन्द्रस्य त्वेन्द्रियेण व्रतपते व्रतेनादधामीति राजन्यस्य । मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामीति वैश्यस्य । ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामीति रथकारस्येति यथर्ष्याधानानि

॥७॥

द्वादशी कण्डिका

भूर्भुवः सुवरिति व्याहृत्यः । भूमिर्भूम्नेति सर्पराज्ञियः । घर्मः शिरस्तदयमग्निः संप्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ । वातः प्राणस्तदयमग्निः संप्रियः पशुभिर्भुवत् । स्वदितं तोकाय तनयाय पितुं पच । अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः संप्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चः शुक्रा तनूः शुक्रं ज्योतिरजस्रं तेन मे दीदिहि तेन त्वादधेऽग्निनाग्ने ब्रह्मणेति घर्मशिरांसि

॥१॥

यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः संभूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्ने । प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्ने गृहपतेऽहे बुध्न्य परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन्सादयामि यञ्जिये लोके । यो नो अग्ने निष्ट्यो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामीति संभारेषु निदधाति

॥२॥

सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीःश्रेयसीर्दधत् । अग्ने सपत्नाँ अपबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहीत्याधीयमानमभिमन्त्रयते यजमानो घर्मशिरांसि चैनमध्वर्युर्वाचयति

॥३॥

त्रयोदशी कण्डिका

अर्धोदिते सूर्य आहवनीयमादधाति

॥१॥

उदिते ब्रह्मवर्चसकामस्य

॥२॥

गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति सिकताश्चोपयमनीरुपकल्पयते

॥३॥

तमुद्यच्छत्योजसे बलाय त्वोद्यच्छे वृषणे श्रुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः । यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि । दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः । यत्रयत्र जातवेदः संबभूथ ततो नो अग्ने जुषमाण एहि । उदु त्वा विश्वे देवा इत्येताभिश्चतसृभिः

॥४॥

उपरीवाग्निमुद्यच्छति

॥५॥

उद्यतमुपयतं धारयति

॥६॥

अथाश्वस्य दक्षिणे कर्णे यजमानमग्नितनूर्वाचयति या वाजिन्नग्नेः पशुषु पवमाना प्रिया तनूस्तामावह या वाजिन्नग्नेरप्सु पावका प्रिया तनूस्तामावह या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावहेति । धारयत्येवाग्निम्

॥७॥

अथाग्नीध्रो लौकिकमग्निमाहृत्य मथित्वा वोर्ध्वज्ञुरासीनो दक्षिणमग्निमादधाति यज्ञायज्ञीये गीयमाने यथर्ष्याधानेन द्वितीयया व्याहृत्या तिसृभिः सर्पराज्ञीभिर्द्वितीयेन च घर्मशिरसा । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः संभूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्ने । व्यानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्नेऽन्नपा मयोभुव सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके । यो नो अग्ने निष्ठ्यो योऽनिष्ठ्योऽभिदासतीदमहं तं त्वयाभिनिदधामीति संभारेषु निदधाति

॥८॥

चतुर्दशी कण्डिका

यो ब्राह्मणो राजन्यो वैश्यः शूद्रो वासुर इव बहुपुष्टः स्यात्तस्य गृहादाहृत्यादध्यात्पुष्टिकामस्य

॥१॥

गृहे त्वस्य ततो नाश्नीयात्

॥२॥

अम्बरीषादन्नकामस्य वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य

॥३॥

वामदेव्यमभिगायत आहवनीय उद्घ्रियमाणे

॥४॥

प्राचीमनु प्रदिशमित्येषा । विक्रमस्व महाँ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि प्रजया च धनेन च । इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति

॥५॥

दक्षिणतो ब्रह्मा रथं रथचक्रं वा वर्तयति यावच्चक्रं त्रिः परिवर्तते

॥६॥

षट्कृत्वो द्वेष्यस्य

॥७॥

जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम् । न कर्णदघ्नमत्युद्गृह्णाति

॥८॥

तद्युद्गृह्य निगृह्णीयान्मुखेन संमायादध्यात्

॥९॥

नाग्निमादित्यं च व्यवेयात्

॥१०॥

दक्षिणतः परिगृह्य हरति

॥११॥

अर्धाध्वे यजमानो वरं ददाति

॥१२॥

अर्धाध्वे हिरण्यं निधाय नाकोऽसि ब्रध्नः प्रतिष्ठा संक्रमण इत्यतिक्रामति

॥१३॥

प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदोत्तरतः संभारानाक्रमयति यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन्निति

॥१४॥

प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति

॥१५॥

पुरस्तात्प्रत्यञ्चमश्वं धारयति

॥१६॥

पूर्ववाडश्वो भवति

॥१७॥

तदभावेऽनङ्घान्पूर्ववाडेतानि कर्माणि करोतीति पैङ्गायनिब्राह्मणं भवति

॥१८॥

पञ्चदशी कण्डिका

कमण्डलुपद आदधीतेति बह्वृचब्राह्मणम् । अजस्य पद आदधीतेति वाजसनेयकम्

॥१॥

अथ यजमानः शिवा जपति ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ प्रम्वी च प्रभूतिश्च ते मा शिवतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वादध इति

॥२॥

यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय प्रहिणोति ताभिरेनं पराभावयति

॥३॥

अरण्येऽनुवाक्या भवन्ति

॥४॥

यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्र्य पुरस्तात्प्रत्यङ् तिष्ठन्नाहवनीयमादधाति

॥५॥

बृहति गीयमाने श्यैतवारवन्तीययोर्यज्ञायज्ञीये च यथर्ष्याधानेन सर्वाभिर्व्याहृतीभिः सर्वाभिः सर्पराज्ञीभिस्तृतीयेन च घर्मशिरसा यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः संभूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्ने । अपानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः ह्पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके । यो नो अग्ने निष्ट्यो योऽनिष्ट्यो ऽभिदासतीदमहं तं त्वयाभिनिदधामीति संभारेषु निदधाति

॥६॥

षोडशी कण्डिका

आनशे व्यानशे सर्वमायुर्व्यानशे । अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इत्याधीयमानमभिमन्त्रयते यजमानः

॥१॥

व्याहृतीः सर्पराज्ञीर्घर्मशिरांसीति सर्वेष्ठाधानेषु यजमानोऽनुवर्तयते येनयेनादधाति

॥२॥

नाहितमनभिहुतमग्निमुपस्पृशति । आज्येनौषधीभिश्च शमयितव्यः

॥३॥

या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसि तां त एतेनावयजे स्वाहा । या ते अग्नेऽप्सु पावका प्रिया तनूर्यान्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसि तां त एतेनावयजे स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये या बृहति या जागते छन्दसि तां त एतेनावयजे स्वाहेत्येतैः प्रतिमन्त्रमाज्यमोषधीश्च जुहोति

॥४॥

समिध आदधातीत्येके

॥५॥

ब्रह्माग्न्याधेये सामानि गायति

॥६॥

प्रतिषिद्धान्येकेषाम्

॥७॥

व्याहृतीभिरेवोद्गीथं भवतीति वाजसनेयकम्

॥८॥

सप्तदशी कण्डिका

ततः सभ्यावसथ्यावादधाति लौकिकमग्निमाहृत्य मथित्वाहवनीयाद्वा यथर्ष्याधानेन

॥१॥

अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः । अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयमिति तिस्र आश्वत्थ्यः समिध एकैकस्मिन्नादधाति

॥२॥

आहवनीये वा तिस्रः

॥३॥

समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः । वयं नाम प्रब्रवामा घृतेनास्मिन्यज्ञे धारयामा मनोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् । चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेशेति शमीमय्यो घृतान्वक्तास्तिसृभिस्तिस्र एकैकस्मिन्नादधाति । आहवनीये वा तिस्रः

॥४॥

एवं नानावृक्षीयाः । प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं समिधमादधाति । विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीम् । तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीम्

॥५॥

ततस्तूष्णीमग्निहोत्रं जुहोति

॥६॥

अपि वा द्वादशगृहीतेन स्रुचं पूरयित्वा प्रजापतिं मनसा ध्यायञ्जुहोति । साग्निहोत्रस्य स्थाने भवति

॥७॥

यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय प्रहिणोति ताभिरेनं नितमयति । अरण्येऽनुवाक्या भवन्ति

॥८॥

अष्टादशी कण्डिका

द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति । हुतायां यजमानो वरं दत्त्वा शिवा जपति । ये अग्नयो दिवो ये पृथिव्याः समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति जुहोति

॥१॥

अथ विराट्क्रमैर्यजमान उपतिष्ठतेऽथर्व पितुं मे गोपायान्नं प्राणेन संमितम् । त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्यन्वाहार्यपचनम् । नर्य प्रजां मे गोपाय मूलं लोकस्य संततिम् । आत्मनो हृदयान्निर्मितां तां ते परिददाम्यहमिति गार्हपत्यम् । शंस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं तांस्ते परिददाम्यहमित्याहवनीयम् । सप्रथ सभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति सभ्यम् । अहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियं यशः परिददाम्यहमित्यावसथ्यम् । पञ्चधाग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः । ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान्

॥२॥

एकोनविंशी कण्डिका

आग्नेयस्याष्टाकपालस्य तन्त्रं प्रक्रमयति

॥१॥

निरुप्तं हविरुपसन्नमप्रोक्षितं भवति । अथ सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषु हिरण्यं निधाय समूह्य व्यूह्य प्रथयित्वा निषसाद धृतव्रत इति मध्येऽधिदेवने राजन्यस्य जुहोति

॥२॥

आवसथे परिषदो मध्ये हिरण्यं निधाय मन्त्रवत्या हिरण्ये जुहोति प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति

॥३॥

उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो न्हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु न इत्युक्त्वा शतमक्षान्यजमानाय प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिंसन्तः परूंषि विशसतेति

॥४॥

संप्रैषवत्कुर्वन्ति

॥५॥

विंशी कण्डिका

कृतं यजमानो विजिनाति

॥१॥

तया यज्जयन्ति तदन्नं संस्कृत्यृ सभासद्भ्य उपहरन्ति

॥२॥

आवसथे भुञ्जते

॥३॥

कॢप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते कल्पेतां द्यावापृथिवी येऽग्नयः समनस इति

॥४॥

प्रोक्षादि कर्म प्रतिपद्यते

॥५॥

आग्नेयस्य दक्षिणाकाले दक्षिणा ददाति

॥६॥

अजं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधे

॥७॥

हविनमश्वं ब्रह्मणेऽध्वर्यवे वा

॥८॥

आहवनीयदेशेऽनद्घाहमध्वर्यवे

॥९॥

अपरेण गार्हपत्यं धेनुं होत्रे

॥१०॥

वासो मिथुनौ गावौ नवं च रथं ददाति । तानि साधारणानि सर्वेषाम्

॥११॥

आ द्वादशभ्यो ददातीत्युक्त्वाह काममूर्ध्वं देयमपरिमितस्यावरुद्ध्या इति विज्ञायते

॥१२॥

ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् देया द्वादश देयाश्चतुर्विंशतिर्देया इति

॥१३॥

ता विकल्पअन्ते

॥१४॥

येषां पशूनां पुष्टिं भूयसीं कामयेत तेषां वयसाम्

॥१५॥

दित्यौहीं दद्याद्दित्यवाहं च मुष्करम्

॥१६॥

वर्धमानां दक्षिणां ददाति

॥१७॥

यद्यनाढ्योऽग्नीनादधीत काममेवैकां गां दद्यात्सा गवां प्रत्याम्नायो भवतीति विज्ञायते

॥१८॥

सिद्धमिष्टिः संतिष्ठते

॥१९॥

एकविंशी कण्डिका

पवमानहवींषि सद्यो निर्वपेत्

॥१॥

द्वादशाहे द्व्यहे त्र्यहे चतुरहेऽर्धमासे मास्यृतौ संवत्सरे वा

॥२॥

न सोमेनायक्ष्यमाणः पुरा संवत्सरान्निर्वपेत्

॥३॥

निर्वपेदित्येके

॥४॥

यदि निर्वपेदग्नये पवमानायाग्नये पावकायाग्नये शुचय इति तिस्र आज्याहुतीः सोमदेवताभ्यो वा हुत्वा निर्वपेत्

॥५॥

समानतन्त्राणि नानातन्त्राणि वाग्नेयेन वा समानतन्त्राणि

॥६॥

यं कामयेत पापीयान्स्यादिति तस्यैकमेकमेतानि हवींषि निर्वपेत् । न वसीयान्न पापीयानिति तस्य साकं सर्वाणि । यं कामयेतोत्तरं वसीयाञ्छेयान्स्यादिति तस्याग्नये पवमानाय निरुप्य पावकशुचिभ्यां समानबर्हिषी निर्वपेत्

॥७॥

शतमानं हिरण्यं दक्षिणा

॥८॥

पूर्वयोर्हविषोर्द्वे त्रिंशन्माने उत्तरस्मिंश्चत्वारिंशन्मानम्

॥९॥

येन हिरण्यं मिमते तेन मीत्वा ददाति

॥१०॥

सिद्धमिष्टिः संतिष्ठते

॥११॥

द्वाविंशी कण्डिका

ऐन्द्राग्नमेकादशकपालमनुर्निवपत्यादित्यं च घृते चरुम्

॥१॥

सप्तदश सामिधेन्य

॥२॥

चतुर्धाकरणकाल आदित्यं ब्रह्मणे परिहरति

॥३॥

तं चत्वार आर्षेयाः प्राश्नन्ति

॥४॥

प्राशितवद्भ्यः समानं वरं ददाति । धेन्वनडुहोर्दानमेके समामनन्ति । सिद्धमिष्टिः संतिष्ठते

॥५॥

आग्नावैष्नवमेकादशकपालमनुनिर्वपत्यग्नीषोमीयमेकादशकपालं विष्णवे शिपिविष्टाय त्र्युद्धौ घृते चरुम्

॥६॥

सिद्धमिष्टिः संतिष्ठते

॥७॥

आदित्यं घृते चरुं सप्तदशसामिधेनीकं धेनुदक्षिणं सर्वेषामनुनिर्वाप्याणां स्थाने वाजसनेयिनः समामनन्ति

॥८॥

सिद्धमिष्टिः संतिष्ठते

॥९॥

अग्निहोत्रमारप्स्यमानो दशहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वाथ सायमग्निहोत्रं जुहोति

॥१०॥

व्याहृतीभिरुपसादयेत्

॥११॥

संवत्सरे पर्यागत एताभिरेवोपसादयेत्

॥१२॥

द्वादशाहमजस्रेष्ठग्निषु यजमानः स्वयमग्निहोत्रं जुहुयादप्रवसन्नहतं वासो बिभर्ति

॥१३॥

त्रयोविंशी कण्डिका

यां प्रथमामग्निहोत्राय दोग्धि तां दक्षिणां ददाति

॥१॥

अथैकेषाम् । अग्नीनाधाय हस्ताववनिज्य संवत्सरमग्निहोत्रं हुत्वाथ दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजते तत ऊर्ध्वमन्यानि कर्माणि कुरुते

॥२॥

त्रयोदशरात्रमहतवासा यजमानः स्वयमग्निहोत्रं जुहुयादप्रवसन्नत्रैव सोमेन पशुना वेष्ट्वाग्नीनुत्सृजति यथा सुयवसान्कृत्वा प्राज्यात्तादृक्तदिति शाट्यायनिब्राह्मणं भवति

॥३॥

पूर्णा पश्चाद्यत्ते देवा अदधुरिति सारस्वतौ होमौ हुत्वान्वारम्भणीयामिष्टिं निर्वपति

॥४॥

आग्नावैष्णवमेकादशकपालं सरस्वत्यै चरुं सरस्वते द्वादशकपालम्

॥५॥

अग्नये भगिनेऽष्टाकपालं यः कामयेत भग्यन्नादः स्यामिति

॥६॥

नित्यवदेके समामनन्ति

॥७॥

नानातन्त्रमेके

॥८॥

त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः । श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरड्यो रीतिरपाम् । त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः । अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेरिति याज्यानुवाक्ये

॥९॥

चतुर्विंशी कण्डिका

चित्तं च चित्तिश्चेति पुरस्तात्स्विष्टकृतो जयाञ्जुहोति

॥१॥

चित्ताय स्वाहा चित्त्यै स्वाहेत्येके समामनन्ति

॥२॥

प्रजापतिर्जयानिति त्रयोदशीम्

॥३॥

अग्ने बलद सह ओजः क्रममाणाय मे दाः । अभिशस्तिकृतेऽनभिशस्तेन्यायास्यै जनतायै श्रैष्ठ्यायेति चतुर्दशीं यः कामयेत चित्रं जनतायां स्यामिति । चित्रं भवति शबलं त्वस्य मुखे जायते

॥४॥

मिथुनौ गावौ दक्षिणा

॥५॥

सिद्धमिष्टिः संतिष्ठते

॥६॥

दर्शपूर्णमासावारप्स्यमानश्चतुर्होतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वाथ दर्शपूर्णमासावारभते

॥७॥

व्याहृतीभिर्हवींष्यासादयेत्संवत्सरे पर्यागत एताभिरेवासादयेत्

॥८॥

अमावास्यायामादधानस्यैतत् । पौर्णमास्यां तु पूर्वस्मिन्पर्वणि सेष्टि सान्वारम्भणीयमाधानमपवृज्य

॥९॥

पञ्चविंशी कण्डिका

श्वोभूते पौर्णमासेन यजते

॥१॥

अनन्तरमाधानादाहिताग्निव्रतानि

॥२॥

नानृतं वदेत्

॥३॥

नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत्

॥४॥

सूर्योढमतिथिं वसत्यै नापरुन्धीत

॥५॥

नर्बीसपक्वस्याश्नीयात्

॥६॥

क्लिन्नं दारु नादध्यात्

॥७॥

अन्तर्नाव्यपां नाश्नीयात्

॥८॥

स्वकृत इरिणे नावस्येत्

॥९॥

पुण्यः स्यात्

॥१०॥

हिङ्कृत्य वाग्यतः स्त्रियमुपेयात्

॥११॥

व्याहरेद्वा

॥१२॥

न सायमाहुतावहुतायामश्नीयात्

॥१३॥

एवं प्रातः

॥१४॥

आहिताग्नेर्गृहे न सायमहुते भोक्तव्यं तथा प्रातरित्यन्येषां व्रतम्

॥१५॥

नक्तं नान्यदन्नाद्दद्यात्

॥१६॥

दद्यादित्येके

॥१७॥

अन्नं तु ददन्नदयीत

॥१८॥

नैतस्मिन्संवत्सरे पशुनानिष्ट्वा मांसं भक्षयेत्

॥१९॥

मनसाग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेति यद्यादिष्टो भक्षयेदेतं तन्त्रमुक्त्वा भक्षयेत्

॥२०॥

षड्विंशी कण्डिका

पुनराधेयं व्याख्यास्यामः

॥१॥

तस्याग्न्याधेयवत्कल्पः

॥२॥

अग्नीनाधायैतस्मिन्संवत्सरे यो नर्ध्नुयात्स पुनरादधीत प्रजाकामः पशुकामः पुष्टिकामो ज्यान्यां पुत्रमर्त्यायां स्वेष्ठारुध्यमानेषु यदा वाङ्गेन विधुरतां नीयात्

॥३॥

आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालं वारुणं दशकपालमग्नयेऽप्सुमते ऽष्टाकपालं मैत्रं चरुमग्निमुद्वासयिष्यन्

॥४॥

या ते अग्न उत्सीदतः पवमाना प्रिया तनूः । तया सह पृथिवीमाविश रथंतरेण साम्ना गायत्रेण च छन्दसा । या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूः । तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टुभेन च छन्दसा । ततो न ऊर्जमा कृधि गृहमेधं च वर्धय । या ते अग्ने सूर्ये शुचिः प्रिया तनूः शुक्रेऽध्यधि संभृता । तया सह दिवमाविश बृहता साम्ना जागतेन च छन्दसा ततो नो वृष्ट्यावत । यास्ते अग्ने कामदुघा विभक्तीरनुसंभृताः । ताभिर्नः कामान्धुक्ष्वेह प्रजां पुष्टिमथो धनम् । यास्ते अग्ने संभृतीरिन्द्रः सूकर आभरत् । तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत्

॥५॥

सप्तविंशी कण्डिका

ये ते अग्ने वानस्पत्याः संभाराः संभृताः सह । तेभिर्गच्छ वनस्पतीन्स्वां योनिं यथायथम् । अगन्नग्निर्यथालोकमसदत्सदने स्वे । अवीरहत्यं देवेषूपागां मनसा सहेति पुरस्तात्स्विष्टकृतः सप्ताहुतीर्जुहोति

॥१॥

सिद्धमिष्टिः संतिष्ठते

॥२॥

पौर्णमासीमिष्ट्वा ज्वलतोऽग्नीनुत्सृजति

॥३॥

संवत्सरं परार्ध्यमुत्सृष्टाग्निर्भवति

॥४॥

रोहिणी पुनर्वसू अनुराधा इति नक्षत्राणि

॥५॥

वर्षासु शरदि वादधीत

॥६॥

कृताकृताः संभारा यजूंषि च भवन्ति

॥७॥

अपि वा पञ्च पार्थिवान्संभारानाहरति एवं वानस्पत्यान्

॥८॥

आयतनेषु पुराणान्दर्भान्संस्तीर्य भूमिर्भूम्नेति सर्पराज्ञीभिर्गार्हपत्यमादधाति

॥९॥

मध्यंदिन इतरान्

॥१०॥

उपोलवैर्दर्भैः परुत्कैः संवत्सरप्रवातैराहवनीयं ज्वलन्तमुद्धरति

॥११॥

यत्त्वा क्रुद्धः परोवपेति दक्षिणाग्निम् । यत्ते मन्युपरोप्तस्येतीतरान्

॥१२॥

मनो ज्योतिर्जुषतामिति बृहस्पतिवत्यर्चोपतिष्ठते

॥१३॥

सप्त ते अग्ने समिधः सप्त जिह्वा इत्यग्निहोत्रं जुहोति

॥१४॥

अष्टाविंशी कण्डिका

आग्नेयं पञ्चकपालं निर्वपत्यष्टाकपालं वा

॥१॥

यदि पञ्चकपालो गायत्र्यौ संयाज्ये । यद्यष्टाकपालः पङ्क्त्यौ

॥२॥

सर्वमाग्नेयं भवति

॥३॥

पञ्चदश सप्तदश वा सामिधेन्यः

॥४॥

सामिधेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम्

॥५॥

अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्न इति चतुर्षु प्रयाजेसु चतस्रो विभक्तीर्दधाति

॥६॥

नोत्तमे

॥७॥

विभक्तिमुक्त्वा प्रयाजेन वषट्करोति

॥८॥

यं कामयेतर्ध्नुयादिति तस्योपरिष्टाद्येयजामहाद्विभक्तिं दध्यात्पुरा वा वषट्कारात्

॥९॥

अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति । अग्न आयूंषि पवस इति सौम्यस्य

॥१०॥

अग्निर्मूर्धेति वा सौम्यस्य कुर्यात्

॥११॥

प्रजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा

॥१२॥

अग्निन्यक्ताः पत्नीसंयाजानामृचो भवन्ति

॥१३॥

अपि वा यथापूर्वमाज्यभागावेवं पत्नीसंयाजाः

॥१४॥

अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या भवन्ति । द्वे आग्नेयस्य द्वे स्विष्टकृतः

॥१५॥

पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुतीर्जुहोति

॥१६॥

पुनरूजति वा पुरस्तात्प्रयाजानां सह रय्येत्युपरिष्टादनूयाजानाम्

॥१७॥

एतद्वा विपरीतम्

॥१८॥

उभयीर्दक्षिणा ददाति

॥१९॥

एकोनत्रिंशी कण्डिका

आग्न्याधेयिकीः पौनराधेयिकीश्च पुनर्निष्कृतो रथ इत्येताः शतमानं च हिरण्यम्

॥१॥

तस्माद्रजतं हिरण्यमित्युक्तम्

॥२॥

पुनरभिहितो रथः पुनरुत्स्यूतं स्यामूलं पुनःकामस्याप्त्या इत्येकेषाम्

॥३॥

यदीतराणि न विद्येरन्नप्यनद्धाहमेव दद्यात् । अनडुहि ह वा एते च कामा अतश्च भूयांस इति पैङ्गायनिब्राह्मणं भवति

॥४॥

देवे अग्नौ देवो अग्निरिति द्वयोरनूयाजयोर्विभक्ती दधाति

॥५॥

नोत्तमे

॥६॥

उच्चैरुत्तमं संप्रेष्यति

॥७॥

सिद्धमिष्टिः संतिष्ठते

॥८॥

आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषामनुनिर्वाप्याणां स्थाने द्विदेवत्यानां वा

॥९॥

सिद्धमिष्टिः संतिष्ठते । संतिष्ठते पुनराधेयम्

॥१०॥

यस्तृतीयमादधीत स एतान्होमाञ्जुहुयाल्लेकः सलेकः सुलेक इति

॥११॥

यदरण्योः समारूढो नश्येत्

॥१२॥

यस्य वोभावनुगतावभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्तिः

॥१३॥

पुनराधेयमित्याश्मरथ्योऽग्न्याधेयमित्यालेखन आलेखनः

॥१४॥