अश्वमेधः, पुरुषमेधः, सर्वमेधः
प्रथमा कण्डिका
राजा सार्वभौमोऽश्वमेधेन यजेत । अप्यसार्वभौमः
॥१॥चित्रा नक्षत्रं
॥२॥पुण्यनाम देवयजनमध्यवस्यति यत्रापः पुरस्तात्सुखाः सूपावगाहा अनपस्वरीः
॥३॥चैत्र्यां पौर्णमास्यां सांग्रहण्येष्ट्या यजते । तस्या योत्तरामावास्या तस्यां संज्ञान्या
॥४॥वैशाख्यां पौर्णमास्यां प्राजापत्यमृषभं तूपरं सर्वरूपं सर्वेभ्यः कामेभ्य आलभते
॥५॥तस्या योत्तरामावास्या तस्यामपदातीन्महर्त्विज आवहन्ति
॥६॥अन्वहमितरानावहन्त्या सुब्रह्मण्यायाः
॥७॥अमावास्यामिष्ट्वा देवयजनमभिप्रपद्यते
॥८॥केशश्मश्रु वपते
॥९॥नखानि निकृन्तते
॥१०॥दतो धावते
॥११॥स्नाति
॥१२॥अहतं वासः परिधत्ते
॥१३॥वाचं यत्वोपवसति
॥१४॥ये रातयस्ते जागरयन्ति
॥१५॥वाग्यतस्यैतां रात्रिमग्निहोत्रं जुह्वति
॥१६॥द्रष्ट्रे नम उपद्रष्ट्रे नमोऽनुद्रष्ट्रे नमः ख्यात्रे नम उपख्यात्रे नमोऽनुख्यात्रे नमः शृण्वते नम उपशृण्वते नमः सते नमोऽसते नमो जाताय नमो जनिष्यमाणाय नमो भूताय नमो भविष्यते नमश्चक्षुषे नमः श्रोत्राय नमो मनसे जमो वाचे नमो ब्रह्मणे नमस्तपसे नमः शान्ताय नम इत्येकशिंशत्या नमस्कारैरुद्यन्तमादित्यमुपतिष्ठते
॥१७॥द्वितीया कण्डिका
नमोऽग्नये पृथिविक्षित इत्येतैश्च यथालिङ्गम्
॥१॥ये ते पन्थानः सवितरिति पूर्वया द्वारा प्राग्वंशं प्रविश्याहवनीये वैतसमिध्ममभ्याधायैकादश पूर्णाहुतीर्जुहोति । हिरण्यगर्भः समवर्तताग्र इत्यष्टौ । देवा देवेषु पराक्रमध्वमिति तिस्रः
॥२॥चतुष्टय्य आपो दिग्भ्यः समाभृताः
॥३॥तासु ब्रह्मौदनं पचति
॥४॥पात्र्यां राजतं रुक्मं निधाय तस्मिन्ब्रह्मौदनमुद्धृत्य प्रभूतेन सर्पिषोपसिच्य सौवर्णं रुक्ममुपरिष्टात्कृत्वा कर्षन्ननुच्छिन्दंश्चतुर्भ्य आर्षेयेभ्यो महर्त्विग्भ्य उपोहति
॥५॥प्राशितवद्भ्यश्चतुरः साहस्रान्सौवर्णान्निष्कान्ददाति चतुरश्चाश्वतरीरथानेतौ च रुक्मौ
॥६॥द्वादशारत्निस्त्रयोदशारत्निर्वा दर्भमयी मौञ्जी वा रशना
॥७॥तां ब्रह्मौदनोच्छेषेणानक्ति
॥८॥अश्वस्य रूपाणि समामनन्ति । कृष्णः श्वेतः पिशङ्गः सारङ्गोऽरुणपिशङ्गो वा
॥९॥यस्य वा श्वेतस्याल्पं कृष्णं स्यात्तमालभेत । मातृमन्तं पितृमन्तं पृष्ठे वहे च दान्तं सोमपं सोमपयोः पुत्रम्
॥१०॥विज्ञायत एष वै सोमपो यं शिशुं जातं पुरा तृणाद्यात्सोमं पाययन्ति । एतौ वै सोमपौ यौ शिशू जातौ पुरा तृणाद्यात्सोमं पाययन्तीति
॥११॥अध्वर्युं राज्याय परिददाति
॥१२॥तृतीया कण्डिका
ब्राह्मणा राजानश्चायं वोऽध्वर्यू राजा । या ममापचितिः सा व एतस्मिन् । यद्व एष करोति तद्वः कृतमसदिति
॥१॥यावद्यज्ञमध्वर्यू राजा भवति
॥२॥देवस्य त्वा सवितुः प्रसव इति रशनामादायेमामगृभ्णन्रशनामृतस्येत्यभिमन्त्र्य ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यो मेधाय प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते
॥३॥तं बधान देवेभ्यो मेधाय प्रजापतये तेन राध्नुहीति प्रत्याह
॥४॥अभिधा असीत्यश्वमभिदधाति
॥५॥आनयन्ति श्वानं चतुरक्षं विष्वग्बन्धेन बद्धम्
॥६॥पितुरनुजायाः पुत्रः पुरस्तान्नयति । मातुरनुजायाः पुत्रः पश्चात्
॥७॥सैध्रकं मुसलम्
॥८॥पौंश्चलेयः पेशसा जानु वेष्टयित्वा पश्चादन्वेति
॥९॥अपोऽश्वमभ्यवगाहयन्ति श्वानं च
॥१०॥यत्र शुनोऽप्रतिष्ठा तदध्वर्युः प्रसौति जहीति
॥११॥यो अर्वन्तमिति सैध्रकेण मुसलेन पौंश्चलेयः शुनः प्रहन्ति
॥१२॥तमश्वस्याधस्पदमुपास्यति परो मर्तः पर श्वेति
॥१३॥दक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति
॥१४॥अभि क्रत्वेन्द्र भूरध ज्मन्नित्यध्वर्युर्यजमानं वाचयति
॥१५॥आहरन्त्यैषीकमुदूहं वरत्रया विबद्धम्
॥१६॥तस्मिन्नार्द्रा वेतसशाखोपसंबद्धा भवति
॥१७॥तं द्वे शते दक्षिणतो धारयतः । द्वे उत्तरतः
॥१८॥तेनाश्वं पुरस्तात्प्रत्यश्चमभ्युदूहन्ति
॥१९॥चतुर्थी कण्डिका
शतेन राजपुत्रैः सहाध्वर्युः पुरस्तात्प्रत्यङ् तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायं राजा वृत्रं वध्यादिति
॥१॥शतेनाराजभिरुग्रैः सह ब्रह्मा दक्षिणत उदङ् तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायं राजाप्रतिधृष्योऽस्त्विति
॥२॥शतेन सूतग्रामणिभिः सह होता पश्चात्प्राङ् तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायं राजास्यै विशो बहुग्वै बह्वश्वायै बह्वजाविकायै बहुव्रीहियवायै बहुमाषतिलायै बहुहिरण्यायै बहुहस्तिकायै बहुदासपुरुषायै रयिमत्यै पुष्टिमत्यै बहुरायस्पोषायै राजास्त्विति
॥३॥शतेन क्षत्तृसंग्रहीतृभिः सहोद्गातोत्तरतो दक्षिणा तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायं राजा सर्वमायुरेत्विति
॥४॥अत्रैतमैषीकमपप्लाव्या नुदकमश्वमाक्रमय्यान्तरा स्थानमाक्रमणं चेदं विष्णुः प्र तद्विष्णुर्दिवो वा विष्णवित्यश्वस्य पदे तिस्रो वैष्णवीर्युत्वाश्वस्य स्तोकाननुमन्त्रयतेऽग्नये स्वाहा सोमाय स्वाहेति
॥५॥शकृत्व एतमनुवाकमावर्तयति दशदशसंपातम् । अपरिमितकृत्वो वा
॥६॥पञ्चमी कण्डिका
अथैनं प्रतिदिशं प्रोक्षति
॥१॥प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात्प्रत्यङ् तिष्ठन्
॥२॥इन्द्राग्निभ्यां त्वेति दक्षिणत उदङ्
॥३॥वायवे त्वेति पश्चात्प्राङ्
॥४॥विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतो दक्षिणा
॥५॥देवेभ्यस्त्वेत्यधस्तात्
॥६॥सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात्
॥७॥पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति शेषम्
॥८॥विभूर्मात्रा प्रभूः पित्रेत्यश्वस्य दक्षिणे कर्णे यजमानमश्वनामानि वाचयित्वाग्नये स्वाहा स्वाहेन्द्राग्निभ्यामिति पूर्वहोमान्हुत्वा भूरसि भुवे त्वा भव्याय त्वा भविष्यते त्वेत्यश्वमुत्सृज्य देवा आशापाला इति रत्निभ्यः परिददाति
॥९॥शतं कवचिनो रक्षन्ति
॥१०॥अपर्यावर्तयन्तोऽश्वमनुचरन्ति
॥११॥चतुःशता इत्येकेषाम्
॥१२॥शतं तल्प्या राजपुत्राः संनद्धाः संनद्धसारथिनः शतमुग्रा अराजानः संनद्धाः संनद्धसारथिनः शतं वैश्या विपथिनः शतं शूद्रा वरूथिनः
॥१३॥तेऽश्वस्य गोप्तारो भवन्ति
॥१४॥यद्यद्ब्राह्मणजातमुपेयुस्तान्पृच्छेयुः कियद्यूयमश्वमेधस्य वित्थेति
॥१५॥यो न विद्यात्तं जित्वा तस्य गृहात्खादं पानं चोपनिवपेयुः
॥१६॥यदब्राह्मणानां कृतान्नं तदेषामन्नम्
॥१७॥रथकारकुले वसतिर्भवति
॥१८॥इह धृतिः स्वाहेति सायमश्वस्य चतुर्षु पत्सु चतस्रो धृतीर्जुहोति
॥१९॥षष्ठी कण्डिका
सवित्रे प्रातरष्टाकपालं निर्वपति
॥१॥तस्य पुरस्तात्स्विष्टकृत आयनाय स्वाहा प्रायणाय स्वाहेत्युद्द्रावाञ्जुहोति
॥२॥ईंकाराय स्वाहेंकृताय स्वाहेत्यश्वचरितानि
॥३॥अज्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यष्टाचत्वारिंशतमश्वरूपाणि । एकमतिरिक्तम्
॥४॥अत्र ब्राह्मणो वीणागाथी गायतीत्यददा इत्ययजथा इत्यपच इति तिस्रः
॥५॥सवित्रे प्रसवित्र एकादशकपालं मध्यंदिने । सवित्र आसवित्रे द्वादशकपालमपराह्णे
॥६॥दक्षिणेनाहवनीयं होता हिरण्यकशिपावुपविशति पारिप्लवं भौवन्यवं चाचिख्यासन्
॥७॥तं दक्षिणेन हिरण्यकशिघोर्ब्रह्मा यजमानश्च
॥८॥पुरस्तादध्वर्युर्हैरण्ये कूर्चे
॥९॥दक्षिणतो वीणागणकिन उपोपविशन्ति
॥१०॥उपविष्टेष्वध्वर्यो३ इत्यध्वर्युं होतामन्त्रयते
॥११॥हो३ यि होतरित्यध्वर्युः प्रतिगृणाति । ॐ होतरिति वा
॥१२॥संस्थितयोरध्वर्युः संप्रेष्यति वीणागणकिनः पूर्वैः सह सकृद्भी राजभिरिमं यजमानं संगायतेति
॥१३॥सायं धृतिषु हूयमानासु राजन्यो वीणागाथी गायतीत्यजिना इत्ययुध्यथा इत्यमुं संग्राममहन्निति तिस्रः
॥१४॥सप्तमी कण्डिका
सायंप्रातर्ब्राह्मणौ वीणागाथिनौ गायेताम्
॥१॥एवमेतानि सावित्रादीनि संवत्सरं कर्माणि क्रियन्ते
॥२॥सकृद्वाश्वचरितानि जुहोति
॥३॥त्रिंशिमास एष सम्वत्सरो भवति
॥४॥अपवृत्तास्विष्टिषु वीणागाथिभ्यां शतमनोयुक्तं च ददाति
॥५॥शते चानोयुक्ते चेत्येके
॥६॥ऊर्ध्वमेकादशान्मासादाश्वत्थे व्रजेऽश्वं बध्नन्ति
॥७॥तस्मै बद्धाय यवसमाहरन्ति
॥८॥यद्यश्वमुपतपद्विन्देदाग्नेयमष्टाकपालं निर्वपेत्सौम्यं चरुं सावित्रमष्टाकपालम्
॥९॥पौष्णं चरुं यदि श्लोणः
॥१०॥रौद्रं चरुं यदि महती देवताभिमन्येत
॥११॥वैश्वानरं द्वादशकपालं निर्वपेन्मृगाखरे यदि नागच्छेत्
॥१२॥यद्यधीयादग्नयेऽंहोमुचेऽष्टाकपालः सौर्यं पयो वायव्य आज्यभागः
॥१३॥यदि वडबामधीयात्प्राजापत्यं चरुं द्वादश कपालं वा
॥१४॥यदि नश्येद्वायव्यं चरुम्
॥१५॥यदि सेनामीत्वरी विन्देतेन्द्राय जयत एकादशकपालम्
॥१६॥यदि प्रासहा नयेयुरिन्द्राय प्रसह्वन एकादशकपालम्
॥१७॥यद्यन्धः स्यात्सौर्यं चरुमेककपालं वा
॥१८॥यदि श्वभ्रेऽवपतेद्वैष्णवं चरुम्
॥१९॥अद्यविज्ञातेन यक्ष्मणा म्रियेत प्राजापत्यं चरुं द्वादशकपालं वा
॥२०॥अष्टमी कण्डिका
यदमित्रा अश्वं विन्देरन्हन्येतास्य यज्ञः
॥१॥अथान्यमानीय प्रोक्षेयुः
॥२॥एतस्य संवत्सरस्य योत्तमामावास्या तस्यामुखां संभरति
॥३॥त्रैधातवीया दीक्षणीया
॥४॥आकूत्यै प्रयुजेऽग्नये स्वाहेति चत्वार्यौद्ग्रहणानि जुहोति
॥५॥स्वाहाधिमाधीताय स्वाहेति त्रीणि वैश्वदेवानि
॥६॥सोऽयं दीक्षा हुतिकालो विवृद्धः
॥७॥सप्ताहमन्वहमौद्ग्रहणैर्वैश्वदेवैश्चोत्तरैः प्रचरति
॥८॥षडुत्तमेऽहन्यौद्ग्रहणानि जुहोति । सर्वस्मै स्वाहेति पूर्णाहुतिमुत्तमाम्
॥९॥षडहमाग्नावैष्णवेन प्रचरति
॥१०॥सप्तम्यामाग्निक्या त्रिहविषेति वाजसनेयकम्
॥११॥भुवो देवानां कर्मणेत्यृतुदीक्षाभिः कृष्णाजिनमारोहन्तमभिमन्त्रयते
॥१२॥आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतां जज्ञि बीजमिति जातमुख्यमुपतिष्ठते
॥१३॥विसृष्टवाचि यजमाने संप्रेष्यति वीणागणकिनो देवैरिमं यजमानं संगायतेति
॥१४॥एवं सदौ पवसथात्
॥१५॥प्रजापतिना सुत्यास्ववभृथोदयनीयानूबन्ध्योदवसानीयास्विति
॥१६॥देवैरन्ततः
॥१७॥नवमी कण्डिका
वेदिकाले द्विस्तावा वेदिः । त्रिस्तावोऽग्निरेकविंशो वा
॥१॥वैश्वानरेण प्रचर्याग्नये गायत्रायेति दशहविषं सर्वपृष्ठां निर्वपति
॥२॥समिद्दिशामाशया न इति यथालिङ्गं याज्यानुवाक्याः
॥३॥कस्त्वा युनक्ति स त्वा युनक्त्विति परिधीन्युनक्ति
॥४॥अस्य यज्ञस्यर्द्ध्यै मह्यं संनत्या इति सर्वत्रानुषजति
॥५॥रथवाहने हविर्धाने राज्जुदालमेकविंशत्यरत्निमग्निष्ठं मिनोति
॥६॥पौतुद्रवावभितः । त्रयो बैल्वा दक्षिणतः । त्रयः उत्तरतः । त्रयः खादिरा दक्षिणतः । त्रय उत्तरतः । त्रयः पालाशा दक्षिणतः । त्रय उत्तरतः
॥७॥खादिराः पालाशा वान्तत इत्येके
॥८॥एकादशैकादशिनीः प्राचीः संमिन्वन्तीति कालबविब्राह्मणं भवति
॥९॥चतुष्टय्य आपो दिग्भ्यः समाभृताः
॥१०॥तासां वसतीवरीर्गृह्णाति
॥११॥श्वो भूते प्रतायते गोतमचतुष्टोमयोः पूर्वो रथंतरसामा
॥१२॥पशुकाल आग्नेयं सवनीयं पशुमुपाकरोति । ऐकादशिनान्वा
॥१३॥दक्षिणाकाले यदब्राह्मणानां दिक्षु वित्तं तत्त्र्यहे समशः प्रतिविभज्यान्वहं ददाति
॥१४॥दशमी कण्डिका
प्राचीं दिशमध्वर्यवे । दक्षिणां ब्रह्मणे । प्रतीचीं होत्रे । उदीचीमुद्गात्रे । यदन्यद्भूमेः पुरुषेभ्यश्च । अपि वा प्राचीं होत्रे । प्रतीचीमध्वर्यवे
॥१॥महिषीं ब्रह्मणे ददाति । वावातां होत्रे । परिवृक्तीमुद्गात्रे । पालाकलीमध्वर्यव इति विज्ञायते
॥२॥पत्नीसंयाजान्तमहः संतिष्ठते
॥३॥संस्थितेऽहन्यभित आहवनीयं षट्त्रिंशतमाश्वत्थानुपतल्पान्मिन्वन्ति
॥४॥अस्तमित आदित्ये षट्त्रिंशतमध्वर्यव उपतल्पानधिरुह्य खादिरैः स्रुवैः सर्वां रात्रिमन्नहोमाञ्जुह्वति । आज्यं मधु तण्डुलान्पृथुकांल्लाजान्करम्भान्धानाः सक्तून्मसूस्यानि प्रियङ्गुतण्डुलानिति
॥५॥चतुष्टयमेके समामनन्ति । आज्येन जुहोति लाजैर्जुहोति धानाभिर्जुहोति सक्तुभिर्जुहोति
॥६॥एकस्मै स्वाहेत्येतेषामनुवाकानामयुज आज्येन युजोऽन्नेन । आज्येनान्ततः
॥७॥अत्र प्रयुक्तानां प्रयोक्ष्यमाणानां च मन्त्राणां प्रयोगमेके समामनन्ति
॥८॥एकादशी कण्डिका
विभूर्मात्रा प्रभूः पित्रेत्यश्वनामानि
॥१॥आयनाय स्वाहा प्रायणाय स्वाहेत्युद्द्रावान्
॥२॥अग्नये स्वाहा सोमाय स्वाहेति पूर्वहोमान्
॥३॥पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येतं हुत्वाग्नये स्वाहा सोमाय स्वाहेति पूर्वदीक्षाः
॥४॥पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येकविंशिनीं दीक्षाम्
॥५॥भुवो देवानां कर्मणेत्यृतुदीक्षाः
॥६॥अग्नये स्वाहा वायवे स्वाहेत्येतं हुत्वार्वाङ्यज्ञः सं क्रामत्वित्याप्तीः
॥७॥भूतं भव्यं भविष्यदिति पर्याप्तीः
॥८॥आ मे गृहा भवन्त्वित्याभूः
॥९॥अग्निना तपो न्वभवदित्यनुभूः
॥१०॥स्वाहाधिमाधीताय स्वाहेति समस्तानि वैश्वदेवानि
॥११॥दद्भ्यः स्वाहा हनूभ्यां स्वाहेत्यङ्गहोमान्
॥१२॥अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि
॥१३॥ओषधीभ्यः स्वाहा मूलेभ्यः स्वाहेत्योषधिहोमान्
॥१४॥वनस्पतिभ्यः स्वाहेति वनस्पतिहोमान्
॥१५॥मेषस्त्वा पचतैरवत्वित्यपाव्यानि
॥१६॥कूप्याभ्यः स्वाहाद्भ्यः स्वाहेत्यपां होमान्
॥१७॥अम्भोभ्यः स्वाहा नभोभ्यः स्वाहा महोभ्यः स्वाहेत्यम्भांसि नभांसि महांसि
॥१८॥द्वादशी कण्डिका
नमो राज्ञे नमो वरुणायेति यव्यानि
॥१॥मयोभूर्वातो अभि वातूसा इति गव्यानि
॥२॥प्राणाय स्वाहा व्यानाय स्वाहेति संततिहोमान्
॥३॥सिताय स्वाहासिताय स्वाहेति प्रमुक्तीः
॥४॥पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येतं हुत्वा दत्वते स्वाहादन्तकाय स्वाहेति शरीरहोमान्
॥५॥यः प्राणतो य आत्मदा इति महिमानौ
॥६॥आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामिति समस्तानि ब्रह्मवर्चसानि
॥७॥जज्ञि बीजमित्येतं हुत्वाग्नये समनमत्पृथिव्यै समनमदिति संनतिहोमान्
॥८॥भूताय स्वाहा भविष्यते स्वाहेति भूताभव्यौ होमौ
॥९॥यदक्रन्दः प्रथमं जायमान इत्यश्वस्तोमीयं हुत्वैकस्मै स्वाहेत्येताननुवाकान्पुनःपुनरभ्यासं रात्रिशेषं हुत्वोषसे स्वाहेत्युषसि । व्युच्छन्त्यै स्वाहेति व्युच्छन्त्याम् । व्युष्ट्यै स्वाहेति व्युष्टायाम् । उदेष्यते स्वाहेत्युपोदयम् । उद्यते स्वाहेत्युद्यति । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहेत्युदिते हुत्वा प्रज्ञातानन्नपरिशेषान्निदधाति
॥१०॥त्रयोदशी कण्डिका
प्रतायत एकविंश उक्थ्यो महानाम्नीसामा
॥१॥अन्तरेणाग्रयणोक्थ्यौ प्राकृतं सोममभिषुत्य यः प्राणतो य आत्मदा इति महिमानौ गृह्णाति । राजतेन पूर्वं सौवर्णेनोत्तरम्
॥२॥सूर्यस्ते हमिमेति पूर्वं सादयति । चन्द्रमास्ते महिमेत्युत्तरम्
॥३॥आयुर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभावसुः । दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रस इत्यश्वस्य ग्रीवासु सौवर्णनिष्कं प्रतिमुच्याग्निस्ते वाजिन्युङ्ङनु त्वारभ इति वालधावश्वमन्वारभ्य बहिष्पवमानं सर्पन्त्यग्निर्मूर्धेति
॥४॥उद्गातारमपरुध्याश्वमुद्गीथाय वृणीते
॥५॥तस्मै वडबा उपरुन्धन्ति
॥६॥ता यदभिहिङ्करोति स उद्गीथः । यत्प्रत्यभिहिङ्कुर्वन्ति स उपगीथः
॥७॥उदगासीदश्वो मेध्यो यज्ञिय इति शतेन शतपलेन च निष्केणोद्गातारमुपशिक्ष्येमां देवतामुद्गायन्तीमनूद्गायेति संप्रेष्यति
॥८॥तेन हिरण्येन स्तोत्रमुपाकरोति
॥९॥बर्हिःस्थाने भवति
॥१०॥नमो राज्ञे नमो वरुणायेति वेतसशाखयाश्वतूपरगोमृगानग्निष्ठ उपाकरोति येषां चानादिष्टो देशः
॥११॥प्लक्षशाखाभिरितरान्पशूनश्वे पर्यङ्ग्यान् । आग्नेयं कृष्णग्रीवं पुरस्ताल्ललाटे । पौष्णमन्वञ्चम् । ऐन्द्रापौष्णमुपरिष्टाद्ग्रीवासु । आग्नेयौ कृष्णग्रीवौ बाहुवोः । त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः । शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे । सौर्ययामौ श्वेतं कृष्णं च पार्श्वयोः । धात्रे पृषोदरमधस्तात् । सौर्यं बलक्षं पुच्छे
॥१२॥अन्यत्राग्निष्ठादष्टादशिनः
॥१३॥चतुर्दशी कण्डिका
रोहितो धूम्ररोहित इति नवनव प्रतिविभज्यैन्द्राग्नदशमानेके समामनन्ति
॥१॥एवमारण्यान्
॥२॥तान्यूपान्तरालेषु धारयन्ति
॥३॥इन्द्राय राज्ञे सूकर इत्येकादश दशत आलभ्यन्ते
॥४॥वसन्ताय कपिञ्जलानालभते । ग्रीष्माय कलविङ्कान् । वर्षाभ्यस्तित्तिरीन् । शरदे वर्तिकाः । हेमन्ताय ककरान् । शिशिराय विकिरान्
॥५॥कृष्णा भौमाः । धूम्रा आन्तरिक्षाः । बृहन्तो दैवाः । शबला वैद्युताः । सिध्मास्तारका इति पञ्चदशिनः
॥६॥कृष्णग्रीवा आग्नेयाः । बभ्रवः सौम्याः । उपध्वस्ताः सावित्राः । सारस्वत्यो वत्सतर्यः । पौष्णाः श्यामाः पृश्नयो मारुताः । बहुरूपा वैश्वदेवाः । वशा द्यावापृथिव्याः
॥७॥कृष्णग्रीवा इत्युक्तम्
॥८॥एता ऐन्द्राग्नाः । पृश्नयो मारुताः । कृष्णा वारुणाः । कायास्तूपराः
॥९॥अग्नयेऽनीकवते प्रथमजानालभते । मरुद्भ्यः सांतपनेभ्यः सवात्यान् । मरुद्भ्यो गृहमेधिभ्यो बाष्कान् । मरुद्भ्यः क्रीडिभ्यः संसृष्टान् । मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान्
॥१०॥कृष्णग्रीवा इत्युक्तम्
॥११॥एता ऐन्द्राग्नाः । प्राशृङ्गा ऐन्द्राः । बहुरूपा वैश्वकर्मणाः
॥१२॥पितृभ्यः सोमवद्भ्यो बभ्रून्धूम्रानूकाशान् । पितृभ्यो बर्हिषद्भ्यो धूम्रान्बभ्र्वनूकाशान् पितृभ्योऽग्निष्वात्तेभ्यो धूम्रान्रोहितांस्तैयम्बकान्
॥१३॥कृष्णाः पृषन्त इत्येके
॥१४॥पञ्चदशी कण्डिका
श्वेता आदित्याः
॥१॥कृष्णग्रीवा इत्युक्तम्
॥२॥एता ऐन्द्राग्नाः । बहुरूपा वैश्वदेवाः । प्राशृङ्गाः शुनासीरीयाः । श्वेता वायव्याः । श्वेताः सौर्या इति चातुर्मास्याः पशवः
॥३॥द्वयानैकादशिनानालभन्ते । प्राकृतानाश्वमएधिकांश्च
॥४॥अग्नयेऽनीकवत इत्याश्वमेधिकान् । सोमाय स्वराज्ञ इति द्वंद्विनः
॥५॥उपाकृताय स्वाहेत्युपाकृते जुहोति । आलब्धाय स्वाहेति नियुक्ते । हुताय स्वाहेति हुते
॥६॥पत्नयोऽश्वमलं कुर्वन्ति । महिषी वावाता परिवृक्तीति
॥७॥शतंशतमेकैकस्याः सचिवाः । राजपुत्रीर्दाराश्चोग्राणामराज्ञां सूतग्रामण्यामिति
॥८॥सहस्रंसहस्रं मणयः सुवर्णरजतसामुद्राः
॥९॥वालेसु मणीनावयन्ति । भूरिति सौवर्णान्महिषी प्राग्वहात् । भुव इति राजतान्वावाता प्रत्यग्वहात्प्राक् श्रोणेः । सुवरिति सामुद्रान्परिवृक्ती प्रत्यक् श्रोणेः
॥१०॥वालेसु कुमार्यः शङ्खमणीनुपग्रथ्नन्त्यप्रस्रंसाय । न वा
॥११॥अथास्य स्वदेशानाज्येनाभ्यञ्जन्ति । वसवस्त्वाञ्जन्तु गायत्रेण छन्दसेति गौल्गुलवेन महिषी । रुद्रा इति कासाम्बवेन वावाता । आदित्या इति मौस्तकृतेन परिवृक्ती
॥१२॥गौल्गुलवेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भव । कासाम्बवेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भव । मौस्तकृतेन सुरभिरश्वो मेधमुपाकृतः । देवाँ उपप्रेष्यन्वाजिन्वर्चोदा लोकजिद्भवेत्येतैश्च प्रतिमन्त्रम्
॥१३॥षोडशी कण्डिका
युञ्जन्ति ब्रध्नमिति दक्षिणस्यां युगधुर्येतमश्वं युनक्ति
॥१॥युञ्जन्त्यस्य काम्येति प्रष्टी
॥२॥केतुं कृण्वन्नकेतव इति रथे ध्वजमवगूहति
॥३॥जीमूतस्येवेति कवचमध्यूहते
॥४॥धन्वना गा इति धनुरादत्ते
॥५॥वक्ष्यन्तीवेति ज्यामभिमृशति
॥६॥ते आचरन्तीति धनीरार्त्नी संमृशति
॥७॥बह्वीनां पिता बहुरस्य पुत्र इति पृष्ठ इषुधिं निनह्यति
॥८॥रथे तिष्ठन्नयति वाजिन इति सारथिमभिमन्त्रयते
॥९॥तीव्रान्घोषान्कृण्वते वृषपाणय इत्यश्वान्
॥१०॥स्वादुषंसदः पितरो वयोधा इति तिसृभिः पितॄनुपतिष्ठते
॥११॥ऋजीते परि वृङ्ग्धि न इत्यात्मानं प्रत्यभिमृश्या जङ्घन्तीत्यश्वाजनिमादायाहिरिव भोगैरिति हस्तघ्नमभिमन्त्रयते
॥१२॥वनस्पते वीड्वङ्गो हि भूया इति पञ्चमी रथम्
॥१३॥आमूरज प्रत्यावर्तयेमाः केतुमदिति दुन्दुभीन्संह्रादयन्ति
॥१४॥आक्रान्वाजी क्रमैरत्यक्रमीद्वाजीत्युदगुदकान्तमभिप्रयाय ये ते पन्थानः सवितरित्यध्वर्युर्यजमानं वाचयति
॥१५॥स्वयं वाजिन्नपोऽवजिघ्रेत्यपोऽश्वमवघ्राप्य यद्वातो अपो अगमदिति प्रदक्षिणमावर्तयति
॥१६॥यतः प्रायति तदवतिष्ठते
॥१७॥वि ते मुञ्चामीत्येतमश्वं विमुच्य रथवाहनं हविरस्य नामेति रथवाहने रथमत्याधाय द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठं संमार्ष्टि
॥१८॥लाजी३ञ्छाची३ न्यशो ममां३ इति पत्नयोऽश्वायान्नपरिशेषानुपवपन्ति
॥१९॥ययोपन्युप्तमत्ति तस्यै प्रजा राष्ट्रं भवति
॥२०॥सप्तदशी कण्डिका
आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठमित्यश्वमभिमन्त्र्य यथोपाकृतं नियुज्य प्रोक्ष्योपपाययति
॥१॥यद्युपपाय्यमानो न पिबेदग्निः पशुरासीदित्युपपाययेत्
॥२॥समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याप्रियो भवन्ति
॥३॥मेषस्त्वा पचतैरवत्विति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति
॥४॥पर्यग्निकृतानारण्यानुत्सृजन्ति
॥५॥वडबे पुरुषी च
॥६॥अजः पुरो नीयतेऽश्वस्य
॥७॥वेतसशाखायां तार्प्यं कृत्त्यधीवासं हिरण्यकशिपु चास्तीर्य सौवर्णं रुक्ममुपरिष्टात्कृत्वा तस्मिन्नश्वतूपरगोमृगान्निघ्नन्ति । प्लक्षशाखास्वितरान्पशून्
॥८॥श्यामूलेन क्षौमेण वाश्वं संज्ञपयन्ति । स्पन्द्याभिरितरान्पशून्
॥९॥प्राणाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमाने पशावाहुती जुहोति । संज्ञप्ते वा
॥१०॥यामेन साम्ना प्रस्तोतानूपतिष्ठते
॥११॥अम्बे अम्बाल्यम्बिक इति प्रतिप्रस्थाता पत्नीरुदानयति
॥१२॥ता दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सिग्भिरभिधून्वत्यस्त्रिः प्रदक्षिणमश्वं परियन्त्यवन्ती स्थेति
॥१३॥सव्यानुद्ग्रथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघ्नाना अनभिधून्वत्यस्त्रिः प्रतिपरियन्ति
॥१४॥प्रदक्षिणमन्ततो यथा पुरस्तात्
॥१५॥नवकृत्वः संपादयन्ति
॥१६॥अम्बे अम्बाल्यम्बिक इति महिष्यश्वमुपसंविश्य
॥१७॥अष्टादशी कण्डिका
गणानां त्वा गणपतिं हवामह इत्यभिमन्त्र्याहं स्यां त्वं स्याः सुरायाः कुलजः स्यात्तत्रेमांश्चतुरः पदो व्यतिषज्य शयावहा इति पदो व्यतिषजते
॥१॥तौ सह चतुरः पदः सं प्र सारयावहा इति पदः संप्रसारयते
॥२॥सुभगे काम्पीलवासिनीति क्षौमेण वाससाध्वर्युर्महिषीमश्वं च प्रच्छाद्य वृषा वामित्यभिमन्त्रयते
॥३॥उत्सक्थ्योर्गृदं धेहीति प्रजननेन प्रजननं संधायाम्बे अम्बाल्यम्बिक इति महिष्यश्वं गर्हते
॥४॥ऊर्ध्वामेनामुच्छ्रयतादिति पत्नयोऽभिमेधन्ते
॥५॥त्रिर्महिषी गर्हते । त्रिः पत्नयोऽभिमेधन्त उत्तरयोत्तरयर्चा
॥६॥दधिक्राव्णो अकारिषमिति सर्वाः सुरभिमतीमृचमन्ततो जपित्वापोहिष्ठीयाभिर्मार्जयित्वा गायत्री त्रिष्टुबिति द्वाभ्यां सौवर्णीभिः सूचीभिर्महिष्यश्वस्यासिपथान्कल्ल्पयति प्राक्क्रडात् । एवमुत्तराभ्यां राजतीभिर्वावाता प्रत्यक्क्रोडात्प्राङ्नाभेः । एवमुत्तराभ्यां लौहीभिः सीसाभिर्वा परिवृक्ती शेषम्
॥७॥तूष्णीं तूपरगोमृगयोरसिपथान्कल्पयन्ति
॥८॥कस्त्वा छ्यति कस्त्वा वि शास्तीत्यश्वस्य त्वचमाच्छ्यति
॥९॥चन्द्रं नाम मेदः । तदुद्धरति
॥१०॥नाश्वस्य वपा विद्यते
॥११॥उद्धरतीतरेषाम्
॥१२॥कर्णं छित्त्वा त्र्यङ्गेषूपसंनह्यति
॥१३॥नाश्वस्य गुदो विद्यते
॥१४॥शृतासु वपासुत्तरत उपरिष्टादग्नेर्वेतसशाखायामश्वतूपरगोमृगाणां वपाः सादयति
॥१५॥एकोनविंशी कण्डिका
दक्षिणतः प्लक्षशाखास्वितरेषां पशूनाम्
॥१॥पूर्वौ परिवप्यमहिमानौ हुत्वाश्वतूपरगोमृगाणां वपाः समवदाय संप्रेष्यति
॥२॥प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य वपानां मेदसामनुब्रूहि । क्प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य वपानां मेदसां प्रेष्येति संप्रैषौ । चन्द्रवपयोर्मेदसामनुब्रूहि चन्द्रवपयोर्मेदसां प्रेष्येति वा
॥३॥समवदायेतरेषां वपाः संप्रेष्यति
॥४॥विश्वेभ्यो देवेभ्य उस्राणां छागानां मेषाणां वपानां मेदसामनुब्रूहि । विश्वेभ्यो देवेभ्य उस्राणां छागानां मेषाणां वपानां मेदसां प्रेष्येति संप्रैषौ
॥५॥उत्तरौ परिवप्यमहिमानौ हुत्वा चात्वाले मार्जयित्वाभितोऽग्निष्ठं ब्रह्मोद्याय पर्युपविशेते । दक्षिणो ब्रह्मा । उत्तरो होता
॥६॥किं स्विदासीत्पूर्वचित्तिरित्येतस्यानुवाकस्य पृष्टानि होतुः प्रतिज्ञातानि ब्रह्मणः
॥७॥ब्रह्मण उदञ्चं विजयं संज्ञापयन्ति
॥८॥प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि लोम च तिर्यगसंभिन्दन्तः सूकरविशसं विशसतेति संप्रैषवत्कुर्वन्ति
॥९॥अश्वस्य लोहितं स्विष्टकृदर्थं निदधाति
॥१०॥शफं गोमृगकण्टं च माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति
॥११॥हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः पुरस्तादभिषेकस्य जुहोति । अयं पुरो भुव इति षट् च प्राणभृतः
॥१२॥व्याघ्रचर्मणि हिंहचर्मणि वाभिषिच्यते
॥१३॥विंशी कण्डिका
ऋषभचर्माभिषिच्यमानस्योपरि धारयन्ति
॥१॥सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन सौवर्णेन शतमानेन शतक्षरेण शतकृष्णलेन यजमानस्य शीर्षन्नधिनिदधाति
॥२॥प्रजापतेस्त्वा प्रसवे पृथिव्या नाभावन्तरिक्षस्य बाहुभ्यां दिवो हस्ताभ्यां प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामीति महिम्नोः संस्स्रावेणाभिषिञ्चति
॥३॥वायव्यैरभिषिञ्चतीत्येके
॥४॥मधुश्च माधवश्चेति मासनामभिरभिषिच्यमानमभिजुहोति
॥५॥वसन्ताय स्वाहा ग्रीष्माय स्वाहेत्यृतुभ्यः षट्
॥६॥वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माँ अभिदासत्यधरं गमया तमः । वि रक्षो वि मृधो नुद वि वृत्रस्य हनू रुज । वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासत इति वैमृधीभ्यां यजमानो मुखं विमृष्टे
॥७॥ऊर्ध्वा अस्य समिधो भवन्तीति प्राजापत्याभिराप्रीभिरभिषिच्यमानस्य हस्तं गृह्णाति
॥८॥प्रजापतिश्चरति गर्भे अन्तः । प्रजापतिं प्रथमं यज्ञियानां देवानामग्रे यजतं यजध्वम् । स नो ददातु द्रविणं सुवीर्यं रायस्पोषं वि ष्यतु नाभिमस्मे । तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीवधन्य इदं नो देव प्रति हर्य हव्यमिति षट् प्राजापत्या उपरिष्टादभिषेकस्य जुहोति
॥९॥प्राची दिशामिति षट् चापानभृतः
॥१०॥अत्र यजमानो जागतान्विष्णुक्रमान्क्रामति
॥११॥एकविंशी कण्डिका
पशुकाल उत्तरत उपरिष्टादग्नेर्वैतसे कटेऽश्वं प्राञ्चं यथाङ्गं चिनोति
॥१॥एवं पुरस्तात्प्रत्यञ्चं तूपरम् । पश्चात्प्राचीनं गोमृगम्
॥२॥दक्षिणतः प्लक्षशाखास्वितरान्पशूनासादयति
॥३॥वपावच्चर्या
॥४॥हविष इत्यन्तौ नमति
॥५॥आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठमिति वैतसेन कटेनाश्वतूपरगोमृगान्सर्वहुतान्हुत्वेलुवर्दाय स्वाहा बलिवर्दाय स्वाहेत्यश्वमभिजुहोति
॥६॥अत्र कटमनुप्रहरति
॥७॥येऽश्वस्य हुतस्य गन्धमाजिघ्रन्ति सर्वे ते पुण्यलोका भवन्तीति विज्ञायते
॥८॥हविषा प्रचर्याज्यमवदानं कृत्वा स्तेगान्दंष्ट्राभ्यां मण्डूकाञ्जम्भ्येभिरित्येतैश्चतुर्दशभिरनुवाकैः प्रतिमन्त्रं शरीरहोमाञ्जुहोति
॥९॥दिवाकीर्त्यं पञ्चदशम् । अरण्येऽनुवाक्यं षोडशम् । द्यौस्ते पृष्ठमित्येतं सप्तदशमाज्येनैव
॥१०॥यदक्रन्दः प्रथमं जायमान इत्येतैस्त्रिभिरनुवाकैः षट्त्रिंशतमश्वस्तोमीयाञ्जुहोति
॥११॥क्रमैरत्यक्रमीदित्येतां षट्त्रिंशीम्
॥१२॥अष्टादश जुहोतीत्येके
॥१३॥इमा नु कं भुवना सीषधेमेति द्विपदाः
॥१४॥अन्ततोऽश्वस्य लोहितेन शृतेन स्तिष्टकृतं यजति
॥१५॥द्वाविंशी कण्डिका
गोमृगकण्ठेन प्रथमामाहुतिं जुहोति । अश्वशफेन द्वितीयाम् । अयस्मयेन कमण्डलुना तृतीयाम्
॥१॥पत्नीसंयाजान्तमहः संतिष्ठते
॥२॥श्वो भूते प्रतायते सर्वस्तोमोऽतिरात्रो बृहत्सामा
॥३॥पशुकाले गव्यानैकादशिनानालभन्ते प्राजापत्यान्वैश्वदेवान्वा । प्राजापत्यृमृषभं तूपरं सर्वरूपं सर्वेभ्यः कामेभ्यो द्वादशमुपालम्भ्यम्
॥४॥समानमावभृथात्
॥५॥अवभृथेन प्रचर्यात्रेयं शिपिविष्टं खलतिं विक्लिधं शुक्लं पिङ्गाक्षं तिलकावलमवभृथमभ्यवनीय तस्य मूर्धञ्जुहोति मृत्यवे स्वाहा भ्रूणहत्यायै स्वाहा जुम्बकाय स्वाहेति तिस्रः
॥६॥तस्मै शतमनोयुक्तं च ददाति
॥७॥शते चानोयुक्ते चेत्येके
॥८॥सह पुण्यकृतः पापकृतश्च हस्तसंरब्धा ग्राममभ्युदायन्ति । सर्वे ते पुण्यलोका भवन्तीति विज्ञायते
॥९॥सौरीर्नव श्वेता वशा अनूबन्ध्या भवन्ति
॥१०॥अथैकेषाम् । रोहिणीरैन्द्रीः सौरीः श्वेताः शितिपृष्ठा बार्हस्पत्याः
॥११॥अत्र वा द्वंद्विन आलभते
॥१२॥छगलः कल्माषः किकिदीविर्विदीगय इति ते त्रयस्त्वाष्ट्राः
॥१३॥पात्नीवत आग्नेय ऐन्द्राग्न आश्विनस्ते विशालयूप आलभ्यन्ते
॥१४॥त्रयोविंशी कण्डिका
अथैकेषाम् । त्रैतानां प्रथमजं कालकाभ्रुमश्विभ्यां मध्यमे विशालयूप आलभते । तेषामेव मध्यमजमूर्जे दक्षिणे । उत्तमजं पृथिव्या उत्तरे
॥१॥तेषां पशुपुरोडाशानग्नयेंऽहोमुचेऽष्टाकपाल इति दशहविषं मृगारेष्टिमनुनिर्वपति
॥२॥समानं तु स्विष्टकृदिडम्
॥३॥अग्नेर्मन्वे प्रथमस्य प्रचेतस इति यथालिङ्गं याज्यानुवाक्याः
॥४॥त्रैधातवीययो दवस्यति
॥५॥तस्यां सहस्रं ददाति
॥६॥उदवसाय विशालयूपमेके समामनन्ति
॥७॥तदाहुर्द्वादश ब्रह्मौदनान्संस्थिते निर्वपेद्द्वादशभिर्वेष्टिभिर्यजेतेति
॥८॥तदु तथा न कुर्यात् । द्वादशैव ब्रह्मौदनान्संस्थिते निर्वपेत् । तेष्वन्वहं द्वादशानि शतानि ददाति
॥९॥पिशङ्गास्त्रयो वासन्ता इत्यृतुपशुभिः संवत्सरं यजते
॥१०॥अथैकेषाम् । आग्नेया वासन्ताः । ऐन्द्रा ग्रैष्माः । मारुताः पार्जन्या वा वार्षिकाः । ऐन्द्रावारुणाः शारदाः । ऐन्द्राबार्हस्पत्या हैमन्तिकाः । ऐन्द्रावैष्णवाः शैशिराः
॥११॥संवत्सराय निवक्षस इति द्वयोर्द्वयोर्मासयोः पशुबन्धेन यजते
॥१२॥संतिष्ठतेऽश्वमेधः
॥१३॥चतुर्विंशी कण्डिका
पञ्चाहः पुरुषमेधः
॥१॥ब्राह्मणो राजन्यो वा यजेत
॥२॥ओजो वीर्यमाप्नोति । सर्वा व्यष्टीर्व्यश्नुते
॥३॥एकादशसु यूपेष्वेकादशाग्नीषोमीयाः
॥४॥पञ्चशारदीयवदहानि । अग्निष्टोमो वोपोत्तमः
॥५॥देव सवितः । तत्सवितुः । विश्वानि देव सवितरिति तिस्रः सावित्रीर्हुत्वा मध्यमेऽहन्पशूनुपाकरोति
॥६॥द्वयानैकादशिनानुपाकृत्य पुरुषान्
॥७॥ब्रह्मणे ब्राह्मणमालभत इत्येतद्यथासमाम्नातम्
॥८॥तान्यूपान्तरालेषु धारयन्ति
॥९॥उपाकृतान्दक्षिणतोऽवस्थाय ब्रह्मा सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन परा चानुशंसति
॥१०॥पर्यग्निकृतानुदीचो नीत्योत्सृज्याज्येन तद्देवता आहुतीर्हुत्वा द्वयैरैकादशिनैः संस्थापयति
॥११॥दक्षिणाकाले यदब्राह्मणानां दिक्षु वित्तं तत्सभूमि ददाति यथाश्वमेधे
॥१२॥ब्राह्मणो यजमानः सर्ववेदसम्
॥१३॥एतस्मिन्नेवाहन्यश्वमेधवदभिषेकः
॥१४॥एकादशानूबन्ध्याः सौरीर्वैश्वदेवीः प्राजापत्या वा
॥१५॥त्रैधातवीययोदवसाय पृथगरणीष्वग्नीन्समारोप्योत्तरनारायणेनादित्यमुपस्थायारण्यमवतिष्ठेत
॥१६॥ग्रामं वा प्रविश्य त्रैधातवीयया यजेत
॥१७॥पञ्चविंशी कण्डिका
सौत्रामण्या मैत्रावरुण्या चामिक्षया साकंप्रस्थायीयेन पञ्चबिलेन चरुणा पञ्चशारदीयेनेति
॥१॥पञ्चबिलस्य चरोर्विज्ञायते । आज्य आग्नेयः पूर्वस्मिन्बिले । दधन्यैन्द्रो दक्षिणे । शृते प्रतिदुहि नीतमिश्रे वा वैश्वदेवः पश्चिमे । अप्सु मैत्रावरुण उत्तरे । पयसि बार्हस्पत्यो मध्यमे
॥२॥सर्वमेधो दशरात्रः
॥३॥राजा यजेत यः कामयेत सर्वमिदं भवेयमिति
॥४॥एकशतविधोऽग्निः
॥५॥अग्निष्टुदग्निष्टोमः ह्प्रथममहः । सर्वमाग्नेयं भवति
॥६॥इन्द्रस्तुदुकथ्यो द्वितीयः । सर्वमैन्द्रम्
॥७॥सूर्यस्तुदुकथ्यस्तृतीयः । सर्वं सौर्यम्
॥८॥वैश्वदेव उकथ्यश्चतुर्थः । सर्वं वैश्वदेवम्
॥९॥आश्वमेधिकं मध्यमं पञ्चममहः । तस्मिन्नश्वं मेध्यमालभते
॥१०॥पौरुषमेधिकं मध्यमं षष्ठम् । तस्मिन्पुरुषान्
॥११॥अप्तोर्यामः सप्तमः । तस्मिन्सर्वान्मेध्यानालभते
॥१२॥वपा वपावतां जुहोति । त्वच उत्कृत्यावपानाम्
॥१३॥शुष्कानार्द्रांश्चौषधिवनस्पतीन्संवृश्च्याहवनीयेऽनुप्रकिरन्ति
॥१४॥प्रातःसवने सन्नेषु नाराशंसेष्वन्नमन्नं जुहोति
॥१५॥सर्वस्याप्त्यै सर्वस्यावरुद्ध्या इति विज्ञायते
॥१६॥एवं माध्यंदिने तृतीयसवने च
॥१७॥अष्टमं त्रिणवम्
॥१८॥नवमं त्रयस्त्रिंशम्
॥१९॥विश्वजित्सर्वपृष्टोऽतिरात्रो दशममहः
॥२०॥दक्षिणाकाले यदब्राह्मणानां दिक्षु वित्तं तत्सभूमि सपुरुषं ददाति यथाश्वमेधे यथाश्वमेधे
॥२१॥