मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

षोडशः प्रश्नः

3
आपस्तम्बश्रौतसूत्रम् · 16

अग्निचयनम्

पाठः आरभ्यताम्

कण्डिकासूत्राणि
प्रथमा कण्डिका7
द्वितीया कण्डिका11
तृतीया कण्डिका14
चतुर्थी कण्डिका11
पञ्चमी कण्डिका12
षष्ठी कण्डिका7
सप्तमी कण्डिका12
अष्टमी कण्डिका14
नवमी कण्डिका14
दशमी कण्डिका18
एकादशी कण्डिका13
द्वादशी कण्डिका13
त्रयोदशी कण्डिका12
चतुर्दशी कण्डिका10
पञ्चदशी कण्डिका10
षोडशी कण्डिका5
सप्तदशी कण्डिका17
अष्टादशी कण्डिका8
एकोनविंशी कण्डिका14
विंशी कण्डिका14
एकविंशी कण्डिका14
द्वाविंशी कण्डिका8
त्रयोविंशी कण्डिका10
चतुर्विंशी कण्डिका15
पञ्चविंशी कण्डिका2
षड्विंशी कण्डिका13
सप्तविंशी कण्डिका23
अष्टाविंशी कण्डिका4
एकोनत्रिंशी कण्डिका2
त्रिंशी कण्डिका1
एकत्रिंशी कण्डिका1
द्वात्रिंशी कण्डिका7
त्रयस्त्रिंशी कण्डिका8
चतुस्त्रिंशी कण्डिका7
पञ्चत्रिंशी कण्डिका11

प्रथमा कण्डिका

अग्निं चेष्यमाणोऽमावास्यायां पौर्णमास्यामेकाष्टकायां वोखां संभरति

॥१॥

अषाढामधिकृत्यैके समामनन्ति

॥२॥

बृहस्पतिपुरोहिता देवा देवानां देवा देवाः प्रथमजा देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशास्त्रिस्त्रयस्त्रिंशा अनु व आरभ इदं शकेयं यदिदं करोमि ते मावत ते मा जिन्वतास्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्यां देवहूत्यामिति चतुर्गृहीतं जुहोति

॥३॥

जुहूं स्रुवं च संमृज्य जुह्वामष्टगृहीतं गृहीत्वा युञ्जानः प्रथमं मन इति यजुरष्टमाभिरृग्भिरेकामाहुतिं जुहोत्यन्तर्वेद्यूर्ध्वस्तिष्ठन्

॥४॥

यं कामयेत पापीयान्स्यादित्येकैकं तस्य जुहुयाज्जिह्मस्तिष्ठन्

॥५॥

यदि कामयेत च्छन्दांसि यज्ञयशसेनार्पयेयमित्युक्तम्

॥६॥

ऋचा स्तोमं समर्धयेत्यपरं चतुर्गृहीतं गृहीत्वा देवस्य त्वा सवितुः प्रसव इति चतुर्भिरभ्रिमादत्ते वैणवीं कल्माषीं सुषिरामसुषिरां वोभयतःक्ष्णूमन्यतरतःक्ष्णूं वा प्रादेशमात्रीमरत्निमात्रीं व्यायाममात्रीमपरिमितां वा । खादिरीं पालाशीमौदुम्बरीमर्कमयीं कार्ष्मर्यमयीं वैकङ्कतीं शमीमयीं वा यो वा यज्ञियो वृक्षः फलग्रहिः

॥७॥

द्वितीया कण्डिका

इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीं रशनामादाय प्रतूर्तं वाजिन्ना द्रवेत्यश्वमभिदधाति

॥१॥

तूष्णीं गर्दभस्यादाय युञ्जाथां रासभं युवमिति गर्दभम्

॥२॥

योगेयोगे तवस्तरमिति तिसृभिरश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः

॥३॥

यदि कामयेत पापवस्यसं स्यादिति गर्दभप्रथमा गच्छेयुः

॥४॥

अग्निं पुरीष्यमङ्गिरस्वदच्छेहीति जपति

॥५॥

अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति येन द्वेष्येण संगच्छते तमभिमन्त्रयते । अपश्यन्निर्दिशति

॥६॥

अग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति वल्मीकवपाम् । आ सूर्यस्योदेतोस्तामुद्धत्योपतिष्ठते

॥७॥

अन्वांग्नरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति

॥८॥

आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमय्य द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठं संमार्ष्टि

॥९॥

अभि तिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि संजयन् । अभिष्ठितोऽसीति यं द्वेष्टि तमधस्पदमश्वस्य मनसा ध्यायति

॥१०॥

उत्क्रामोदक्रामीदिति द्वाभ्यां मृत्खनादुदञ्चमश्वमुत्क्रमय्यापो देवीरुपसृजेत्यश्वस्य पदेऽप उपसृज्य पदे हिरण्यं निधाय

॥११॥

तृतीया कण्डिका

जिघर्म्यग्निमा त्वा जिघर्मीति मनस्वतीभ्यामेकामाहुतिं हिरण्ये हुत्वापादाय हिरण्यं परि वाजपतिः कविरग्निरिति तिसृभिरभ्रिया मृत्खनं परिलिखति । बाह्यांबाह्यां वर्षीयसीम्

॥१॥

देवस्य त्वा सवितुः प्रसव इति द्वाभ्यां खनति

॥२॥

अपां पृष्ठमसीति पुष्करपर्णमाहृत्यैतयैव विवेष्ट्य शर्म च स्थो वर्म च स्थ इति द्वाभ्यामुत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति । उपरिष्टात्पुष्करपर्णमुत्तानम्

॥३॥

पुरीष्योऽसि विश्वभरा इति मृत्खनमभिमन्त्र्य त्वामग्ने पुष्करादधीति कृष्णाजिने पुष्करपर्णे च संभरति चतसृभिस्तिसृभिर्वा । गायत्रीभिर्ब्राह्मणस्य । त्रिष्टुग्भी राजन्यस्य । जगतीभिर्वैश्यस्य

॥४॥

यं कामयेत वसीयान्स्यादित्युभयीभिस्तस्य संभरेत्

॥५॥

अष्टाभिः संभरति

॥६॥

जनिष्वा हि जेन्य इति मृदमभिमृश्य मृत्खनं संलोभ्य सं ते वायुरिति मृखनेऽप आनीय समुद्यम्य कृष्णाजिनस्यान्तान्सुजातो ज्योतिषा सहेति क्षौमेण मौञ्जेनार्कमयेण वा दाम्नोपनह्यति

॥७॥

उदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति सावित्रीभ्यामुत्तिष्ठति

॥८॥

स जातो गर्भो असीति हरति

॥९॥

स्थिरो भव वीड्वङ्ग इति गर्दभस्य पृष्ठ आदधाति

॥१०॥

शिवो भव प्रजाभ्य इत्याहितमभिमन्त्रयते

॥११॥

प्रैतु वाजी कनिक्रददिति तिसृभिरत्वरमाणाः प्रत्यायन्ति

॥१२॥

अग्निं पुरीष्यमङ्गिरस्वद्भराम इति येन द्वेष्येण संगच्छते तमभिमन्त्रयते । अपश्यन्निर्दिशति

॥१३॥

उत्तरेण विहारं परिश्रित ओषधयः प्रति गृह्णीताग्निमेतमिति द्वाभ्यामोषधीषु पुष्पवतीषु फलवतीषूपावहरति

॥१४॥

चतुर्थी कण्डिका

वि पाजसेति विस्रस्यापो हि ष्ठा मयोभुव इति तिसृभिरप उपसृज्य मित्रः संसृज्य पृथिवीमिति द्वाभ्यां संसर्जनीयैः संसृजति । अर्मकपालैः पिष्टैर्वेण्वङ्गारैर्व्रीहितुषैः पलाशकषायेण शर्कराभिः पिष्टाभिः कृष्णाजिनलोमभिरजलोमभिरिति

॥१॥

यच्चान्यद्दृढार्थ उपार्धं मन्यते

॥२॥

रुद्राः संभृत्य पृथिवीमिति मृदं संक्षिप्य संसृष्टां वसुभिरिति तिसृभिः कर्त्रे प्रयच्छति

॥३॥

मखस्य शिरोऽसीति पिण्डं कृत्वा यज्ञस्य पदे स्थ इति कृष्णाजिनं पुष्करपर्णं चाभिमृशति मृदि वाङ्गुष्ठाभ्यां निगृह्णाति

॥४॥

वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसेति चतुर्भिर्महिष्युखां करोति बहुभार्यस्य । अध्वर्युरेकभार्यस्य

॥५॥

क्रियमाणामेतैरेव यजमानोऽनुमन्त्रयते

॥६॥

त्र्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा । चतुरश्रां परिमण्डलां वा । प्रादेशमात्रीमूर्ध्वप्रमाणेनारत्निमात्रीं तिर्यक्प्रमाणेन व्यायाममात्रीं समन्तपरिमाणेन । अपरिमितां वा

॥७॥

पञ्चप्रादेशामिषुमात्रीं वा यदि पञ्च पशवो भवन्तीति वाजसनेयकम्

॥८॥

कुर्वंश्चतस्रोऽश्रीः प्रतिदिशमुन्नयति

॥९॥

अष्टाश्रिं वा

॥१०॥

नवाश्रिमभिचरतः कुर्यात् । द्व्यङ्गुले बिलादधस्तात्

॥११॥

पञ्चमी कण्डिका

अदित्यै रास्नासीति रास्नां करोति

॥१॥

अश्रीणां रास्नायाश्च संधौ द्वौ चतुरः षडष्टौ वा स्तनान्करोति

॥२॥

अदितिस्ते बिलं गृह्णात्विति बिलं कृत्वा कृत्वाय सा महीमुखामित्युत्तरतः सिकतासु प्रतिष्ठाप्य मित्रैतां त उखां परिददाम्यभित्त्या एषा मा भेदीति मित्राय परिददाति

॥३॥

य उखां करोति सो ऽषाढामेतस्या एव मृदस्तूष्णीं चतुरश्रां त्र्यालिखितामिष्टकाम्

॥४॥

वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसेति सप्तभिरश्वशकेनोखां धूपयति

॥५॥

वृष्णो अश्वस्य शकेनेत्येके

॥६॥

गार्हपत्याद्धूपनपचने भवतः

॥७॥

अदितिस्त्वा देवीत्यग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः संभारैरवस्तीर्य देवानां त्वा पत्नीरिति तस्मिन्नुखामवदधाति

॥८॥

तूष्णीमषाढामन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य धिषणास्त्वा देवीरिति चतुर्भिरुखायामग्निमभ्यादधाति

॥९॥

मित्रैतामुखां पचेति पच्यमानां तिसृभिर्मैत्रीभिरुपचरति

॥१०॥

पक्वां देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमाना पृथिव्याशा दिश आ पृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्य मित्रैतां तु उखां परिददाम्यभित्त्या एषा मा भेदीति मित्राय परिददाति

॥११॥

तूष्णीमषाढामुद्वास्य

॥१२॥

षष्ठी कण्डिका

वसवस्त्वा च्छृन्दन्तु गायत्रेण च्छन्दसेति चतुर्भिरजाक्षीरेणोखामाच्छृणत्ति

॥१॥

सप्तैकविंशतिं वा माषानादाय पुरुषशिरोऽच्छैति वैश्यस्य राजन्यस्य वेषुहतस्याशनिहतस्य वा

॥२॥

माषानुपन्युप्यायं योऽसि यस्य त इदं शिर इति पुरुषशिरः प्रच्छिद्यैतेन त्वमत्र शीर्षण्वानेधीति सप्तधा वितृणां वल्मीकवपां शिरसः स्थाने प्रतिनिदधाति

॥३॥

योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी । यमं भङ्ग्यश्रवो गाय यो राजानपरोध्यः । यमं गाय भङ्ग्यश्रवो यो राजानपरोध्यः । येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा । हिरण्यकक्ष्यान्सुधुरान्हिरण्याक्षानयःशफान् । अश्वाननश्यतो दानं यमो राजाभितिष्ठतीति तिसृभिर्यमगाथाभिः परिगायति

॥४॥

आहरञ्जपतीत्येके

॥५॥

इदमस्माकं भुजे भोगाय भूयादिति पुरुषशिर आदायोदेह्यग्ने अधि मातुः पृथिव्या इत्याहरति

॥६॥

परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत् । परि वाजपतिः कविरित्येषा । परि प्रागाद्देवो अग्नी रक्षोहामीवचातनः । सेधन्विश्वा अप द्विषो दहन्त्रक्षांसि विश्वहेति तिसृभिः पर्यग्नि कृत्वा मृदा प्रलिप्य निदधाति

॥७॥

सप्तमी कण्डिका

अग्निभ्यः कामाय पशूनालभते मुष्करान् । प्राजापत्यमजं तूपरमुपाकृत्याश्वर्षभवृष्णिबस्तान्

॥१॥

एकशिंशतिं चतुर्विंशतिं वा पराचीः साभिधेनीरन्वाह । एकादश प्राकृतीः । समास्त्वाग्न इति दशाग्निकीः

॥२॥

रायो अग्ने महे त्वा दानाय समिधीमहि । ईडिष्वा हि मही वृषन्द्यावा होत्राय पृथिवीमिति यद्येकविंशतिः

॥३॥

उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे । अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि । समन्या यन्तीत्येषा । अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे अभि प्रियतमे संधस्थे आ च परा च चरति प्रजानन्निति तिस्रॐऽप्सुमतीर्यदि चतुर्विशतिः

॥४॥

अमुत्रभूयादित्यामयाविनः कुर्यात्

॥५॥

बृहस्पते सवितर्बोधयिनमित्यनामयाविनः

॥६॥

उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति

॥७॥

हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति

॥८॥

ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति

॥९॥

आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्याः

॥१०॥

यः प्राणतो य आत्मदा इति प्राजापत्यस्य

॥११॥

अपि वा संज्ञप्तानां शिरांसि प्रच्छिद्य मृदा प्रलिप्य निदधाति

॥१२॥

अष्टमी कण्डिका

अपः कबन्धान्यभ्यवहरन्ति

॥१॥

प्राजापत्येन संस्थापयतीति विज्ञायते

॥२॥

अपि वा सर्वेषामेतेषां स्थाने वायवे नियुत्वते श्वेतमजं तूपरमालभते

॥३॥

वायुमती श्वेतवती वपाया याज्यानुवाक्ये । वायुमती नियुत्वती दैवतस्य

॥४॥

तस्य शिरः प्रच्छिद्य मृदा प्रलिप्य निदधाति

॥५॥

वायव्यः कार्या इत्युक्तम्

॥६॥

तस्याग्नये वैश्वानराय द्वादशकपालं पशुपुरोडाशं निर्वपति

॥७॥

यः कश्चनाग्नौ पशुरालभ्यते वैश्वानर एवास्य द्वादशकपालः पशुपुरोडाशो भवतीत्येके

॥८॥

तेनेष्ट्वा संवत्सरं न मांसमश्नीयान्न स्त्रियमुपेयान्नोपरि शयीत

॥९॥

अपि वा मांसमश्नीयादुपरि शयीत स्त्रियं त्वेव नोपेयादिति वाजसनेयकम्

॥१०॥

यत्प्राग्दीक्षणीयायास्तत्कृत्वा त्रिहविषं दीक्षणीयां निर्वपति

॥११॥

वैश्वानरं द्वादशकपालं तृतीयं पुरस्तादसंवत्सरभृतः

॥१२॥

यत्प्राग्दीक्षाहुतीभ्यस्तत्कृत्वाकूत्यै प्रयुजेऽग्नये स्वाहेति पञ्चाध्वरिकीर्हुत्वाकूतिमग्निमिति षडाग्निकीः । विश्वे देवस्य नेतुरिति पूर्णाहुतिं सप्तमीम्

॥१३॥

यं कामयेत प्रमायुकः स्यादिति तस्य सकृदनुद्रुत्य जुहुयात् । प्राणानस्य संभिनत्ति । बधिरो ह भवतीति विज्ञायते

॥१४॥

नवमी कण्डिका

संवत्सरं दीक्षित उख्यं बिभर्ति । त्र्यहं षडहं द्वादशाहं वा

॥१॥

योऽर्वाक् संवत्सरादरुश्चिदेव स इत्येके

॥२॥

अग्नेर्वै दीक्षयेत्युक्तम्

॥३॥

यत्प्राङ्मुष्टिकर्मणस्तत्कृत्वा शणकुलायेन मुञ्जकुलायेन वोखां प्रच्छाद्य मा सु भित्था इति द्वाभ्यामाहवनीये प्रवृणक्ति

॥४॥

मित्रैतामुखां तपेति प्रदक्षिणमङ्गारैः परीन्द्धे

॥५॥

द्र्वन्नः सर्पिरासुतिरिति तस्यां क्रुमुकमुल्लिखितं घृतेनाक्त्वावदधाति मुञ्जांश्च

॥६॥

यो गतश्रीः स्यादित्युक्तम्

॥७॥

प्रदाव्यादाहरेद्यं कामयेत प्रस्यन्दिन्यामस्य राष्ट्रं जायुकं स्यादिति । वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य । भर्जनादन्नकामस्य

॥८॥

न काम्यमग्निं कुर्वाण आहवनीये प्रवृञ्ज्यात्

॥९॥

जात उख्येऽनुगमयत्याहवनीयम्

॥१०॥

परस्या अधि संवत इति वैकङ्कतीं समिधमादधाति

॥११॥

परमस्याः परावत इति शमीमयीम्

॥१२॥

एतद्वा विपरीतम्

॥१३॥

सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुख्यमुपतिष्ठते

॥१४॥

दशमी कण्डिका

यदग्ने यानि कानि चेति पञ्चभिरौदुम्बरमपरशुवृक्णमुख इध्ममभ्यादधाति

॥१॥

तैल्वकमभिचरतः

॥२॥

दंष्ट्राभ्यां मलिम्लूनित्याश्वत्थीं समिधमादधाति

॥३॥

ये जनेषु मलिम्लव इति वैकङ्कतीम्

॥४॥

यो अस्मभ्यमरातीयादिति शमीमयीम्

॥५॥

तस्मादग्निचितः पापं न कीर्तयेन्नो अग्निं बिभ्रतो नो अग्निविदः

॥६॥

संशितं मे ब्रह्मोदेषां बाहू अतिरमित्युत्तमे यजमानं वाचयंस्तूष्णीमौदुम्बर्यौ समिधावादधाति

॥७॥

मातेव पुत्रं पृथिवी पुरीष्यमग्निं स्वे योनौ भरिष्यत्बुखा । तां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्मा युनक्त्विति मौञ्जे शिक्ये षडुद्यामे द्वादशोद्यामे वोखामवदधाति

॥८॥

एकविंशतिनिर्बाधो यो रुक्मः सूत्रोतो दृशानो रुक्म इति तमासीनो यजमानोऽन्तर्निर्बाधं प्रतिमुच्य बहिर्निर्बाधान्कुरुते

॥९॥

विश्वा रूपाणीति शिक्यपाशं प्रतिमुञ्चते

॥१०॥

नक्तोषासेति कृष्णाजिनमुत्तरम्

॥११॥

सुपर्णोऽसि गरुत्मानित्युख्यमवेक्ष्य सुपर्णोऽसि गरुत्मानित्यादायोत्थायोपरि नाभेर्धारयमाणो विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्प्राचः क्रामति

॥१२॥

अक्रन्ददग्निरित्येतामनूच्याग्नेऽभ्यावर्तिन्निति चतसृभिः प्रदक्षिणमावर्तते

॥१३॥

उदुत्तममिति शिक्यपाशमुन्मुच्या त्वाहार्षमित्याहृत्योपतिष्ठतेऽग्रे बृहन्नुषसामूर्ध्वो अस्थादिति

॥१४॥

यं कामयेत राष्ट्रं स्यादिति तं मनसा ध्यायेत्

॥१५॥

औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या ग्रादेशमात्रपादा मौञ्जविवाना फलकास्तीर्णा वा मृदा प्रदिग्धा

॥१६॥

सीद त्वं मातुरस्या उपस्थ इति तस्यां चतसृभिरुख्यं सादयति

॥१७॥

शर्करायां वा तिसृभिः सादयति । हंसबत्योपतिष्ठत इत्येके

॥१८॥

एकादशी कण्डिका

येन देवा ज्योतिषोर्ध्वा उदायन्निति प्रादेशमात्रैः काष्ठैरुख्यमुपसमिन्द्धे

॥१॥

नित्यो ज्वलति

॥२॥

व्रतकालेऽन्नपतेऽन्नस्य नो देहीत्यौदुम्बरीं समिधं व्रते ऽक्त्वाभ्यादधाति

॥३॥

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छन्दसा रात्रिमिष्टकामुपदधे तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति सायं समिधमादधाति

॥४॥

एतेनैव त्रैष्टुभेन च्छन्दसाहरिष्टकामुपदध इति प्रातः

॥५॥

दिवस्परीत्येकादशभिर्द्वादशभिस्त्रयोदशभिर्वा वात्सप्रेणोपतिष्ठते

॥६॥

पूर्वेद्युर्विष्णुक्रमान्क्रामति । उत्तरेद्युरुपतिष्ठते

॥७॥

एवं सदा क्रयात्

॥८॥

यदहः सोमं क्रीणीयात्तदहरुभयं समस्येत् । प्र च क्रामेदुप च तिष्ठेत

॥९॥

मुष्टिकरणप्रभृति कर्म प्रतिपद्यते

॥१०॥

यद्युख्ये भ्रियमाणेऽयं देवः प्रजा अभिमन्येताग्नेयीभिर्भिषग्वतीभिस्तिसृभिस्तिस्रः समिध आदध्यात् । भिषङ्गो अग्न आवह स्वरूपं कृष्णवर्तने । असि होता न ईड्यः । त्वं नो अग्ने भिषग्भव देवेषु हव्यवाहनः । देवेभ्यो हव्यवडसि । भिषजस्त्वा हवामहे भिषजः समिधीमहि । भिषग्देवेषु नो भवेति

॥११॥

यदि कामयेत वर्षोदिति याः सौरी रश्मिवतीस्ताभिस्तिसृभिस्तिस्रः समिध आदध्यात् । सूर्यो अपो वि गाहते रश्मिभिर्वाजसातमः । बोधा स्तोत्रे वयोवृधः । परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः । उभे आ पप्रौ रोदसी महित्वा । वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्वः । दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तरिति

॥१२॥

यदि कामयेत न वर्षेदिति याः सौरीर्भ्राजस्वतीस्ताभिस्तिसृभिस्तिस्रः समिध आदध्यात्

॥१३॥

द्वादशी कण्डिका

अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु । भ्राजन्तो अग्नयो यथा । तरणिर्विश्वदर्शत इत्येषा । दिवो रुक्म उरुचक्षा उदेति दूरे अर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूता आयन्नर्थानि कृणवन्नपांसीति

॥१॥

यद्युख्ये भ्रियमाणे यजमानस्य नश्येदग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येत्येताभिश्चतसृभिरुपतिष्ठेत

॥२॥

विन्दत्येवेति विज्ञायते

॥३॥

यदहः प्रयायादुदु त्वा विश्वे देवा इत्युख्यमुद्यम्य सीद त्वं मातुरस्या उपस्थ इति चतसृभिर्द्वीषे शकटे प्रौग उख्यमासादयति

॥४॥

तिसृभिरासादयति । हंसवत्योपतिष्ठत इत्येके

॥५॥

समोप्येतरावग्नी अन्वारोप्य प्रेदग्ने ज्योतिष्मान्याहीति प्रयाति

॥६॥

अक्रन्ददग्निरित्यक्षशब्दमनुमन्त्रयते

॥७॥

अध्यवसाय समिधाग्निं दुवस्यतेति घृतानुषिक्तामवसिते समिधमादधाति

॥८॥

उत्तरया त्रिष्टुभा राजन्यस्य । जगत्या वैश्यस्य

॥९॥

इन्धनव्रतनाध्यवसानसंनिपाते घृतानुषिक्तां पूर्वामादधाति

॥१०॥

यद्युखां भस्माभिनिषीदेदुख्यमादायोदकान्तं गत्वेमं सुयोनिं सुवृतं हिरण्मयं सहस्रभृष्टिं महिषावरोह । उत्सं जुषस्व मधुमन्तमूर्व समुद्रियं सदनमाविशस्व । इमं स्तनं मधुमन्तं धयापां प्रप्यातमग्ने सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तमूर्व समुद्रियं सदनमाविशस्वेत्येताभ्यामुखाया अग्निमुद्धृत्यानिरूहञ्छिक्यादुखामापो देवीः प्रति गृह्णीत भस्मैतदिति तिसृभिरप्सु भस्म प्रवेशयति

॥११॥

भस्मनोऽपादाय प्रपीद्य प्रसद्य भस्मनेति द्वाभ्यामुखायां प्रत्यवधाय पुनरूर्जा सह रय्येति पुनरुदैति

॥१२॥

पुनस्त्वादित्या रुद्रा वसवः समिन्धतामिति पुनरुख्यमुपसमिन्द्धे

॥१३॥

त्रयोदशी कण्डिका

बोधा स बोधीति बोधवतीभ्यामुपतिष्ठते

॥१॥

नित्यमप्सु भस्मप्रवेशनम् दीक्षितस्य कृतास्विष्टकासु । अकृतासु संसर्गार्थं भवति

॥२॥

पुरीषे पशुकामः कुर्वीत

॥३॥

अप्सु यायावरः प्रवयेत्

॥४॥

दीक्षितस्येष्टकाः करोति मासप्रभृतिषु दीक्षाकल्पेषु पुरस्ताददीक्षितस्येतरेषूपरिष्टात्प्राजापत्यात्पशोः

॥५॥

मृन्मयीरिष्टकाः करोति पादमात्र्योऽरत्निमात्र्य ऊर्वस्थिमात्र्योऽणूकमात्र्य ऋजुलेखा दक्षिणावृतः सव्यावृतस्त्र्यालिखिताश्च

॥६॥

निर्मन्थ्येन लोहिनीः पचन्ति

॥७॥

अभिन्ना भवन्ति

॥८॥

खण्डां कृष्णां लक्ष्मणां च नोपदध्यात्

॥९॥

पुष्करपर्णं रुक्मो हिरण्मयः पुरुषः स्रुचौ सप्त स्वयमातृणाः शर्करा हिरण्येष्टकाः ह्पञ्च घृतेष्टका दूर्वास्तम्बः कूर्म उलुखलं मुसलं शूर्पमश्मानः पशुशिरांसि सर्पशिरश्चामृन्मयीरिष्टकाः

॥१०॥

जानुदघ्नं साहस्रं चिन्वीत प्रथमं चिन्वानः । नाभिदघ्नं द्विषाहस्रं द्वितीयम् । आस्यदघ्नं त्रिषाहस्रं तृतीयम् । उत्तरमुत्तरं ज्यायांसम्

॥११॥

महान्तं बृहन्तमपरिमितं स्वर्गकामश्चिन्वीतेति वाजसनेयकम्

॥१२॥

चतुर्दशी कण्डिका

अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति गार्हपत्यचितेरायतनं व्यायाममात्रं चतुरस्रं परिमण्डलं वोद्धत्य हरिण्या पलाशशाखया शमीशाखया वा संमृज्य प्राचीमुदीचीं वा शाखामुदसित्वा शं नो देवीरभिष्टय इत्यद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति

॥१॥

संज्ञानमित्यूषान्

॥२॥

तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति

॥३॥

सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्येकविंशत्या शर्कराभिर्गार्हपत्यचितेरायतनं परिश्रयति । तिस्रस्तिस्रः संहिताः

॥४॥

व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तमिति शर्करा अभिमन्त्र्यायं सो अग्निरिति चतस्रो मध्ये प्राचीरिष्टका गार्हपत्यचितावुपदधाति

॥५॥

इडामग्नेऽयं ते योनिरृत्विय इति द्वे पुरस्तात्समीची तिरश्ची वा

॥६॥

एवं पश्चाच्चिदसि परिचिदसीति

॥७॥

अवशिष्टं त्रयोदशभिर्लोकंपृणाभिः प्रच्छादयति

॥८॥

लोकं पृण ता अस्य सूददोहस इति द्वाभ्यांद्वाभ्यां मन्त्राभ्यामेकैकां लोकंपृणामुपदधाति

॥९॥

सर्वास्विष्टकासु तयादेवतमन्ततो दधाति

॥१०॥

पञ्चदशी कण्डिका

चात्वालस्थानात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानर्यर्चा चितावनुव्यूहति

॥१॥

सा चितिर्भवति

॥२॥

पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः । त्रिचितीकं द्वितीयम् । एकचितीकं तृतीयम्

॥३॥

एकचितीकानेवात ऊर्ध्वं चिन्वीत

॥४॥

अजीजनन्नमृतं मर्त्यास इति गार्हपत्यचितिमभिमृश्य समितमिति तस्यां चतसृभिरुख्यं संनिवपति

॥५॥

विज्ञायते च वि वा एतौ द्विषाते यश्चोखायां यश्च चीयते । ब्रह्म यजुः । यत्संन्युप्य विहरति ब्रह्मणैवैनौ संशास्तीति

॥६॥

साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । विद्वाँ अस्य व्रता ध्रुवा वया इवानु रोहत इति संन्युप्तावभिमन्त्र्य मातेव पुत्रमिति शिक्यादुखां निरूह्य यदस्य धारे रजत इति वैश्वानर्या शिक्यमादत्ते

॥७॥

नैरृतीरिष्टकाः कृष्णास्तिस्रस्तुषपक्वास्ताः शिक्यं रुक्मसूत्रमासन्दीं चादाय दक्षिणमपरमवान्तरदेशं गत्वा नमः सु ते निरृत इति स्वकृत इरिणे प्रदरे वा शिक्यं निधाय तस्येष्टकाभिः पाशमभ्युपदधाति

॥८॥

यस्यास्ते अस्याः क्रूर आसञ्जुहोमीत्येताभिस्तिसृभिः पराचीरसंस्पृष्टा दक्षिणापवर्गम्

॥९॥

न तयादेवतं करोति

॥१०॥

षोडशी कण्डिका

यत्ते देवी निरृतिराबबन्धेति शिक्यजालेनैनाः म्रच्छाद्य रुक्मसूत्रमासन्दीं च परस्तान्निधायापास्मदेतु निरृतिर्नेहास्या अपि किंचन । अगोतां नाष्ट्रां पाप्मानं सर्वं तदपहन्महे । अपास्मन्नैरृतान्पाशान्मृत्यूनेकशतं चये । अपास्य ये सिनाः पाशा मृत्यूनेकशतं सुवे । ये ते पास्य एकशतं मृत्यो मर्त्याय हन्तवे । तान्यज्ञस्य मायया सर्वानवयजामहे । देवीमहं निरृतिं बाधमानः पितेव पुत्रं दसये वचोभिः । विश्वस्य या जायमानस्य वेद शिरःशिरः प्रति सूरी विचष्ट इत्येताभिश्चतसृभिरुपहिता अभिमन्त्र्य यदस्य पारे रजस इति वैश्वानर्या परिषिच्य भूत्यै नम इत्युपस्थायाप्रतीक्षमायन्ति

॥१॥

निरृत्या अन्तर्हित्या इति विज्ञायते

॥२॥

शं नो देवीरभिष्टय इत्यद्भिर्मार्जयन्ते

॥३॥

ऊर्जं बिभ्रद्वसुमनाः सुमेधा गृहानैमि मनसा मोदमानः सुवर्चाः । अघोरेण चक्षुषाहं शिवेन गृहाणां पश्यन्वय उत्तिराणि । गृहाणामायुः प्र वयं तिरामो गृहा अस्माकं प्र तिरन्त्वायुः । गृहानहं सुमनसः प्रपद्येऽवीरघ्नो वीरवतः सुवीरानिति गृहानभ्येति

॥४॥

निवेशनः संगमनो वसूनामित्याहवनीयं गार्हपत्यं वोपतिष्ठन्ते

॥५॥

सप्तदशी कण्डिका

राज्ञो निवपनादि कर्म प्रतिपद्यते

॥१॥

प्रायणीयया प्रचर्य वेदिं विमिमीते

॥२॥

हविष्कृता वाचं विसृज्येति वाजसनेयकम्

॥३॥

प्रायणीयाया ध्रौवादित्येतदादि कर्म प्रतिपद्यते

॥४॥

आतिथ्यया प्रचर्याग्निं विमिमीते

॥५॥

हविष्कृता वाचं विसृज्येति वाजसनेयकम्

॥६॥

समूलं हरितं दर्भस्तम्बमाहृत्य मध्ये ऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा सजूरब्दोऽयावभिरिति दर्भस्तम्बे पञ्चाहुतीर्जुहोति

॥७॥

यावान्यजमान ऊर्ध्वबाहुस्तावता वेणुनाग्निं विमिमीते

॥८॥

त्रीन्प्राचश्चतुर उदीचः

॥९॥

पुरुषमात्राणि पक्षपुच्छानि

॥१०॥

आत्मा चतुःपुरुषः

॥११॥

अरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति

॥१२॥

एवमुत्तरत उत्तरम्

॥१३॥

प्रादेशेन वितस्त्या वा पश्चात्पुच्छम्

॥१४॥

एकविधः प्रथमोऽग्निः । द्विविधो द्वितीयः । त्रिविधस्तृतीयः । त एवमेवोद्यन्त्यैकशतविधात्

॥१५॥

तदु ह वै सप्तविधमेव चिन्वीत सप्तविधो वाव प्राकृतोऽग्निस्तत ऊर्ध्वमेकोत्तरानिति वाजसनेयकम्

॥१६॥

स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथा । बडित्था पर्वतानामित्येताभ्यां विमितमग्निमाक्रमन्ते

॥१७॥

अष्टादशी कण्डिका

सं वरत्रा दधातनेति मंप्रेष्यति

॥१॥

निष्कृताहावमवटमित्यवटादुदकमाहावेषूत्सिञ्चति

॥२॥

तेषु बलीवर्दान्पाययन्ति

॥३॥

उद्योजनमन्तर्याममीषां खगल्यं शफम् । अष्ट्रां तालं प्रतीनाहमुभे मण्डूक्यौ युजाविति युगलाङ्गलं संप्रसारयति

॥४॥

सीरा युञ्जन्तीति द्वाभ्यां सीरं युनक्ति षड्गवं द्वादशगवं चतुर्विंशतिगवं वा

॥५॥

उष्टारयोः पिल्वयोरथो आबन्धनीययोः । सर्वेषां विद्म वो नाम वाहाः कीलालपेशस इति युक्तानभिमन्त्र्योदस्थाद्गोजिद्धनजिदश्वजिद्धिरण्यजित्सूनृतया परीवृतः । एकचक्रेण सविता रथेनोर्जो भागं पृथिवीमेत्वापृणन्निति लाङ्गलमुच्छ्रयति

॥६॥

ब्रह्म जज्ञानमित्येषा । अनाप्ता या वः प्रथमा यस्यां कर्माणि कृण्वते । वीरान्नो अत्र मा दभंस्तद्व एतत्पुरो दधे । पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्यै ऋणया न ईयसे । सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वां असश्चतः । अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतव इति ब्रह्मवर्माणि जुहोति

॥७॥

मलिम्लुचो नामासि त्रयोदशो मास इन्द्रस्य वर्मासीन्द्रस्य शर्मासीन्द्रस्य वरूथमसि तं त्वा प्रपद्ये

॥८॥

एकोनविंशी कण्डिका

गायत्रीं लोमभिः प्रविशामि । त्रिष्टुभं त्वचा प्रविशामि । जगतीं मांसेन प्रविशामि । अनुष्टुभमस्थ्ना प्रविशामि । पङ्क्तिं मज्ज्ञा प्रविशामि । ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुप्रगच्छेम देवा इति विमितमग्निमाक्रमन्ते

॥१॥

लाङ्गलं पवीरवमिति द्वाभ्यां कृषति

॥२॥

कीनाशा बलीवर्दानजन्ति

॥३॥

पुच्छाच्छिरोऽधि क्वषति

॥४॥

कामं कामदुघे धुक्ष्वेति प्रदक्षिणमावर्तयंस्तिस्रस्तिस्रः सीताः संहिताः कृषति

॥५॥

मध्ये संभिन्ना भवति

॥६॥

दक्षिणात्पक्षादुत्तरम् । उत्तरस्माद्दक्षिणम् । दक्षिणायै श्रोणेरुत्तरमंसम् । उत्तरायै दक्षिणम् । एतद्वा विपरीतम्

॥७॥

विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम लुवरगन्मेति दक्षिणेऽंसे उत्तरे वा बलीवर्दान्विमुच्य तानुदीचः प्राचो वोत्सृज्याध्वर्यवे ददाति

॥८॥

चतुरश्रमसंभिन्नं षोडशसीतं वाजसनेयिनः समामनन्ति

॥९॥

पञ्चदशोदपात्रान्निनयति । द्वादश कृष्टे त्रीनकृष्टे

॥१०॥

या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति

॥११॥

अनुसीतमित्युक्तम्

॥१२॥

तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो गोधूमा वेणुश्यामाकनीवारा जर्तिलाश्च गवीधुका आरण्यजा मर्कटका विज्ञेयाः

॥१३॥

गार्मुतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे । सप्तारण्या अकृष्टे

॥१४॥

विंशी कण्डिका

यामोषधीनां नाधिगच्छेत्तस्याः स्थाने यवान्मधुमिश्रान्वपेत्

॥१॥

उप्ता मे ऽसीति वा मनसा ध्यायेत्

॥२॥

अधिगतायां यः प्रथम इध्म आगच्छेत्तस्मिन्नेनामुपसं नह्येत्

॥३॥

ये वनस्पतीनां फलग्रहयस्तानिध्म उपसंनह्य प्रोक्षेत्

॥४॥

मा नो हिंसीज्जनिता यः पृथिव्या इति चतसृभिर्दिग्भ्यो लोष्टान्समस्यति ये ऽन्तर्विधाद्वहिर्विधमापन्ना भवन्ति

॥५॥

यं द्विष्याद्यत्र स स्यात्तस्यै दिशो जघन्यं लोष्टमाहरेदिषमूर्जमहमित आदद इति

॥६॥

घृतेन सीतेति सीतान्तरालान्यभिमृशति । उत्तरवेदिं वा

॥७॥

उत्तरवेदिमुपवपति यावानग्निः

॥८॥

व्याघारणान्तां कृत्वाग्ने तव श्रवो वय इति षद्भिः सिकता न्युप्य चित स्थ परिचित इत्यपरिमिताभिः शर्कराभिराहवनीयचितेरायतनं परिश्रयति यथा गार्हपत्यस्यैवम्

॥९॥

त्रिसप्ताभिः पशुकामस्य । त्रिणवाभिर्भ्रातृव्यवतः । दशभिर्दशभिरन्नाद्यकामस्य । अपरिमिताभिरपरिमितकामस्य

॥१०॥

यं कामयेतापशुः स्यादित्यपरिमित्य तस्येत्युक्तम्

॥११॥

आप्यायस्व समेतु त इति सिकता व्यूहति

॥१२॥

उत्तरया त्रिष्टुभा राजन्यस्य

॥१३॥

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदमिति जगत्या वैश्यस्य

॥१४॥

एकविंशी कण्डिका

आतिथ्याया ध्रौवादित्येतदादि कर्म प्रतिपद्यते

॥१॥

पौर्वाह्णिकीभ्यां प्रचर्याग्रेण प्राग्वंशं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि प्रथमस्याश्चितेरिष्टकाः संसादयति । अपि वा तिस्रः स्वयमातृणास्तिस्रश्च विश्वज्योतिषः

॥२॥

ता दर्भाग्रमुष्टिनाज्येन व्यवोक्ष्य समुद्यम्य चित्यग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीति संप्रेष्यति । प्रणीयमानेभ्युओऽनुब्रूहीति वा

॥३॥

प्रथमायां त्रिरनूक्तायां हिरण्यगर्भः समवर्तताग्र इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति

॥४॥

श्वेतमश्वं पुरस्तान्नयन्ति

॥५॥

प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिध इति स्वयंचित्याभिमृशति

॥६॥

इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो वा

॥७॥

स्वयं चिन्वन्नात्मन्नग्निं गृह्णीते न स्वयंचित्याभिमृशति

॥८॥

प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः

॥९॥

प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः

॥१०॥

दक्षिणतः श्वेतो ऽश्वस्तिष्ठति

॥११॥

तमालभ्येन्द्रं विश्वा अवीवृधन्नित्युत्तरेण पुच्छाप्ययमन्तर्विध आक्रमणं प्रतीष्टकामुपदध्यात्

॥१२॥

उत्तरतः पश्चाद्वोपचारोऽग्निः

॥१३॥

वाङ्म आसन्निति सर्वत्रारोहन्प्रत्यवरोहंश्च जपति । सकृद्वान्ततः

॥१४॥

द्वाविंशी कण्डिका

तत्त्वा यामि ब्रह्मणा वन्दमान इति शालामुखीये हुत्वा प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदा दर्भस्तम्बमाक्रमय्य प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति

॥१॥

अपां पृष्ठमसीत्यश्वस्य पदे पुष्करपर्णमुत्तानमुपधायापां निधिं गायेति संप्रेष्यति

॥२॥

ब्रह्म जज्ञानमिति पुष्करपर्ण उपरिष्टान्निर्बाधं रुक्ममुपधाय हिरण्यगर्भः समवर्तताग्र इति तस्मिन्हिरण्मयं पुरुषं प्राचीनमुत्तानं दक्षिणेनातृणं प्राङ्मुख उपधाय पुरुषसाम गायेति संप्रेष्यति

॥३॥

द्रप्सश्चस्कन्देति पुरुषमभिमृश्य नमो अस्तु सर्पेभ्य इति तिसृभिरभिमन्त्र्य कृणुष्व पाज इति पञ्चभिरुत्तरवेदिवत्पुरुषं व्याघार्य स्रुचावुपदधातीत्युक्तम्

॥४॥

अपि वाग्नेस्त्वा तेजसा सादयामीत्याज्यस्य पूर्णां कार्ष्मर्यमयीं दक्षिणेन पुरुषम् । इन्द्रस्य त्वौजसा सादयामीति दध्नः पूर्णामौदुम्बरीमुत्तरेण पुरुषम्

॥५॥

अग्निर्मूर्धेति कार्ष्मर्यमयीमुपतिष्ठते । भुवो यज्ञस्येत्यौदुम्बरीम् । एतद्वा विपरीतम्

॥६॥

मूर्धन्वतीभ्यामुपदधाति यजुर्भ्यामुपतिष्ठत इत्येके

॥७॥

अत्र पुरुषवद्रुक्मं व्याघार्य

॥८॥

त्रयोविंशी कण्डिका

ध्रुवासि धरुणास्तृतेति स्वयमातृणामभिमृश्याश्वेनोपघ्राप्य प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठ इत्यविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपदधाति । भूरिति चैतया व्याहृत्या

॥१॥

चित्तिं जुहोमीति स्वयमातृणायां हुत्वानुप्राणिति

॥२॥

अविद्वान्ब्राह्मणो वरं ददात्येकं द्वौ त्रीन्वा

॥३॥

आसीनः प्रथमां स्वयमातृणामुपदधाति । ऊर्ध्वज्ञुर्द्वितीयाम् । तिष्ठंस्तृतीयाम्

॥४॥

स्वयमातृणायां साम गायेति संप्रेष्यति

॥५॥

एवं द्वितीयां तृतीयां चोपधाय संप्रेष्यति

॥६॥

यदि मन्येत यजमानः पूर्वो मातिक्रान्तो भ्रातृव्य इति प्रथोऽसीत्युपहितां प्राचीमुदूहेत् । यदि वापरः पृथिव्यसीति प्रतीचीम् । सदृङ्यदि भूरसि भुवनमसीति विचालयेत्

॥७॥

तेजोऽसि तेजो मे यच्छेति हिरण्येष्टकाम्

॥८॥

पृथिव्युदपुरमन्नेनेति मण्डलेष्टकाम्

॥९॥

भूरसि भुवनस्य रेतः । इष्टका स्वर्गो लोकः । वाचा त्वान्वारोहामि । अग्निर्ज्योतिर्ज्योतिरग्निः । तया देवतयाङ्गिरस्वद्ध्रुवा सीद । सूरसि सुवनस्य रेतः । इष्टका स्वर्गो लोकः । मनसा त्वान्वारोहामि । सूर्यो ज्योतिर्ज्योतिः सूर्यः । तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यन्वारोहे द्वे

॥१०॥

चतुर्विंशी कण्डिका

काण्डात्काण्डात्परोहन्तीति द्वाभ्यां दूर्वेष्टकां सलोष्टं हरितं दूर्वास्तम्बमप्रच्छिन्नाग्रं यथास्योपहितस्य स्वयमातृणायामग्रं प्राप्नुयादिति

॥१॥

प्रबाहुगिष्टकायां हिरण्यशकलावध्यूह्य यास्ते अग्ने सूर्ये रुच इति द्वाभ्यां वामभृतम्

॥२॥

विराड् ज्योतिरिति तिस्रो रेतःसिचः

॥३॥

तासां द्वे प्रथमायां चित्यां यून उपदध्यात् । सर्वा मध्यमायां विवयसः । एकां प्रथमायामेकामुत्तमायां स्थविरस्य

॥४॥

अन्यतरामुपदध्याद्द्वेष्यस्य

॥५॥

यजुषेमां चामूं चोपदधाति । मनसा मध्यमाम्

॥६॥

बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम्

॥७॥

अग्नेर्यान्यसीति द्वे संयान्यौ

॥८॥

मधुश्च माधवश्चेति द्वे ऋतव्ये समानतयादेवते

॥९॥

सर्वास्वृतव्यास्ववकामनूपदधाति

॥१०॥

अवकासु सादयतीत्येके

॥११॥

अषाढासीति द्वाभ्यामषाढामुपरिष्टाल्लक्ष्माणम्

॥१२॥

यं कामयेत वसीयान्त्स्यादित्युत्तरलक्ष्माणं तस्येत्युक्तम्

॥१३॥

घर्मेष्टकामुपधाय कुलायिनीम्

॥१४॥

तयोः प्रवर्ग्ये मन्त्रौ

॥१५॥

पञ्चविंशी कण्डिका

मधु वाता ऋतायत इति तिसृभिर्दध्ना मधुमिश्रेण कूर्ममभ्यज्य मही द्यौः पृथिवी च न इति पुरस्तात्स्वयमातृणायाः प्रत्यञ्चं जीवन्तं प्राङ्मुख उपदधाति

॥१॥

चतस्र आशाः प्रचरन्त्वग्नय इति वोपधायावकाभिः परीतंस्य जालेन प्रच्छाद्य शङ्कुभिः परिणिहत्यापां गम्भीरं गच्छ मात्वा सूर्यः परीताप्सीन्मो अग्निर्वैश्वानरः । अघोरः प्रजा अभिविपश्यानु त्वा दिव्या वृष्टिः सचताम् । संसर्प त्रीन्समुद्रान्स्वर्गांल्लोकानपां पतिर्वृषभ इष्टकानाम् । तत्र गच्छ यत्र पूर्वे परेताः पुरीषं वसानः स्वां योनिं यथायथमित्युपहितमभिमन्त्रयते

॥२॥

षड्विंशी कण्डिका

यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे । इह द्युमत्तमं वद जयतामिव दुन्दुभिरिति प्रादेशमात्रं चतुःस्रक्त्यौदुम्बरमुलूखलमुत्तरेऽंसे प्रयुनक्ति

॥१॥

अपरिमितं मुसलम्

॥२॥

उत स्म ते वनस्पते वातो वि वात्यग्रमित् । अथो इन्द्राय पातवे सुनु सोममुलूखलेति सर्वौषधस्य पूरयित्वावहत्येदं विष्णुर्विचक्रम इति मध्येऽग्नेरुपदधाति

॥३॥

तद्विष्णोः परमं पदमिति मुसलम्

॥४॥

दिवो वा विष्णविति शूर्पम्

॥५॥

स्यूता देवेभिरमृतेनागा उखां स्वसारमधि वेदिमस्थात् । सत्यं पूर्वैरृषिभिश्चाकुपानोऽग्निः प्रविद्वानिह तत्करोत्विति घृतेनोखां पूरयति । दध्ना मधुना सिकताभिर्वा सर्वैर्वा

॥६॥

संसृज्य न रिक्तामवेक्षेत । शुग्विद्धा भवति

॥७॥

अथास्यां पय आनयति

॥८॥

संन्युप्य पूरणमेके समामनन्ति

॥९॥

यं कामयेत क्षोधुकः स्यादित्यूनां तस्येत्युक्तम्

॥१०॥

ध्रुवासि पृथिवीति मध्येऽग्नेरुपदधाति

॥११॥

पृथिवि पृथिव्यां सीद माता मातरि माता स्योना स्योनायामुखां स्वसारमधि वेदिमस्थात् । सत्यं पूर्वैरृषिभिश्चाकुपानोऽग्निः प्रविद्वानिह तद्दधात्विति वोलूखलमुपदधातीति वाजसनेयकम्

॥१२॥

अग्ने युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमानिति द्वाभ्यामुखायां हुत्वा पुरुषशिरसि हिरण्यशल्कान्प्रत्यस्यति

॥१३॥

सप्तविंशी कण्डिका

द्रप्सश्चस्कन्देत्यास्ये । अभूदिदं विश्वस्य भुवनस्येति वा

॥१॥

ऋचे त्वेति दक्षिणेऽक्षिकटे । रुचे त्वेति सव्ये

॥२॥

द्युते त्वेति कर्णयोः

॥३॥

भासे त्वेति दक्षिणस्यां नासिकायाम् । ज्योतिषे त्वेत्युत्तरस्याम्

॥४॥

समित्स्रवन्तीति शृतातङ्क्येन दध्ना मधुमिश्रेण पुरुषशिरः पूरयति

॥५॥

सर्वेषां पशुशिरसां हिरण्यशस्कप्रत्यसनं पूरणं च वाजसनेयिनः समामनन्ति

॥६॥

तस्मिन्त्सुपर्णो मधुकृत्कुलायीति पुरुषशिर आदायादित्यं गर्भमित्युखायां पुरस्ताच्चुबुकं प्राचीनमुत्तानं प्राङ्मुख उपधाय चित्रं देवानामित्यर्धर्चाभ्यामक्षिकटयोर्हुत्वा पशुशीर्षाण्युपदधाति

॥७॥

यं कामयेतापशुः स्यादिति विषूचीनानि तस्येत्युक्तम्

॥८॥

वातस्य ध्राजिमिति पुरस्तात्प्रतीचीनमश्वस्य

॥९॥

अजस्रमिन्दुमिति पश्चात्प्राचीन मृषभस्य

॥१०॥

वरूत्रिं त्वष्टुरिति दक्षिणत उदीचीनं वृष्णेः

॥११॥

यो अग्निरग्नेरित्युत्तरतो दक्षिणा वस्तस्य

॥१२॥

तान्यव्यवायेनोत्सर्गैरुपतिष्ठते

॥१३॥

इमं मा हिंसीर्द्विपादमिति पुरुषस्य

॥१४॥

इमं मा हिंसीरेकशफमित्यश्वस्य

॥१५॥

इमं समुद्रमित्यृषभस्य

॥१६॥

इमामूर्णायुमिति वृष्णेः

॥१७॥

अजा ह्यग्नेरिति बस्तस्य

॥१८॥

यदि वायव्यस्य स्यान्मुख्यस्य स्थाने सर्वेषामुपधानैरुपधाय सर्वेषामुत्सर्गैरुपतिष्ठेत

॥१९॥

अपि वा तस्यतस्य स्थान उपधाय तस्यतस्योत्सर्गेणोपतिष्ठते

॥२०॥

यं कामयेत कनीयोऽस्यान्नं स्यादिति संतरां तस्येत्युक्तम्

॥२१॥

नमो अस्तु सर्पेभ्य इति दक्षिणेऽंसे सर्पशिर उपदध्याद्विषूचीनं पशुशीर्षैः

॥२२॥

अपि वा यजुरेव वदेन्नोपदध्यात्

॥२३॥

अष्टाविंशी कण्डिका

मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्षिणांतेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवा सीद । प्रमा छन्दस्तदन्तरिक्षं वातो देवता । प्रतिमा छन्दस्तद्द्यौः सूर्यो देवता । अस्रीविश्छन्दस्तद्दिशः सोमो देवता । विराट् छन्दस्तद्वाग्वरुणो देवता । गायत्री छन्दस्तदजा बृहस्पतिर्देवता । त्रिष्टुप् छन्दस्तद्धिरण्यमिन्द्रो देवता । जगती छन्दस्तद्गौः प्रजापतिर्देवता । अनुष्टुप् छन्दस्तद्वायुर्मित्रो देवता । उष्णिहा छन्दस्तच्चक्षुः पूषा देवता । पङ्क्तिश्छन्दस्तत्कृषिः पर्जन्यो देवता । बृहती छन्दस्तदश्वः परमेष्ठी देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्येताभिर्द्वादशभिस्त्रिरभ्यासं पुरस्तात्प्रतीचीं पुरुषाकृतिं चिनोति

॥१॥

पुरुषशिरोऽस्याः शिरो भवति

॥२॥

सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते

॥३॥

अपस्या उपदधाति । अपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीः । अर्णवे सदने सीदेति पञ्च दक्षिणत उदीचीः । अपां त्वा सदने सादयामीति पञ्च पश्चात्प्राचीः । गायत्री छन्द इति पञ्चोत्तरतो दक्षिणाः

॥४॥

एकोनत्रिंशी कण्डिका

ये यज्ञं संमगृभ्णन्देवा देवेभ्यस्परि । तान्गायत्री नयतु प्रजानती स्वर्गे लोके अमृतं दुहाना । ये ज्योतींषि संदधति स्वरारोहन्तो अमृतस्य लोकम् । ते यन्तु प्रजानन्तो यज्ञं विदानाः सुकृतस्य लोके । ये पशवो मेध्यासो यज्ञस्य योनिमभिसंबभूवुः । तान्ददन्ते कवयो विपश्चितो यज्ञं विदानाः सुकृतस्य लोके । यः पन्था विततो देवयानश्छन्दोभिर्विगृहीत एति । तेनातिष्ठद्दिवमन्तरिक्षं यज्ञं गृहीत्वा सुकृतस्य लोकम् । यो यज्ञः सहस्रधारो द्यावापृथिव्योरधि निर्मितः । तेनैतु यजमानः स्वस्त्या दिवोऽधि पृष्ठमस्थादिति पञ्च हिरण्येष्टकाः प्रतिदिशम् । एकां मध्ये

॥१॥

आयवे स्वाहा योष्कृते स्वाहायोष्पत्वने स्वाहा विष्णवे स्वाहा बृहस्पतये स्वाहेति पञ्चोपधायाद्भ्यः संभूतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्र इत्येतामुपधायर्तसदसि सत्यसदसि तेजःसदसि वर्चःसदसि यशःसदसि गृणानासि । धामासि धाम्यै त्वा धामभ्यस्त्वा धामसु सीद । सनिरसि सन्यै त्वा सनेयम् । वित्तिरसि वित्त्यै त्वा विदेयम् । शक्तिरसि शक्त्यै त्वा शकेयम् । भूतिरसि भूत्यै त्वा भूयासम् । कर्मासि कर्मणे त्वा क्रियासम्

॥२॥

त्रिंशी कण्डिका

गूर्दोऽसि गूर्दाय त्वा गूर्देभ्यस्त्वा गूर्दे सीद । क्षत्रं पाहि क्षत्रं पिन्व क्षत्रं जिन्व क्षत्रं यच्छ क्षत्रं दृंह क्षत्रमसि क्षत्राय त्वा क्षत्रेभ्यस्त्वा क्षत्रे सीद । विश्वेषु त्वा पार्थिवेषु सादयामि । विश्वेषु त्वान्तरिक्षेषु सादयामि । विश्वेषु त्वा दिव्येषु सादयामि । विश्वेषु त्वा देवेषु सादयामि । विश्वासु त्वाप्सु सादयामि । विश्वासु त्वौषधीषु सादयामि । विश्वेषु त्वा वनस्पतिषु सादयामि । विश्वासु त्वा दिक्षु सादयामि । दिवि सीद । स्वर्जिदसि पृतनाजिदसि भूरिजिदस्यभिजिदसि विश्वजिदसि सर्वजिदसि सत्राजिदसि धनजिदसि भ्राडसि विभ्राडसि प्रभ्राडसि । सपत्नहनं त्वा वज्रं सादयामि । अभिमातिहनं त्वा वज्रं सादयामि । अरातिहनं त्वा वज्रं सादयामि । यातुहनं त्वा वज्रं सादयामि । पिशाचहनं त्वा वज्रं सादयामि । रक्षोहणं त्वा वज्रं सादयामि । शत्रुहणममित्रहणं भ्रातृव्यहणमसुरहणं त्वेन्द्रं वज्रं सादयामि । उद्वदस्युदितिरस्युद्यत्यस्याक्रममाणास्याक्रामन्त्यस्याक्रान्तिरसि संक्रममाणासि संक्रामन्त्यसि संक्रान्तिरसि स्वर्ग्यासि स्वरसि । इषि सीदोर्जि सीद भगे सीद द्रविणे सीद सुभूते सीद पृथिव्या यज्ञिये सीद विष्णोः पृष्ठे सीदेडायाः पदे सीद घृतवति सीद पिन्वमाने सीद

॥१॥

एकत्रिंशी कण्डिका

संवत्सरे सीद परिवत्सरे सीदेदावत्सरे सीदेदुवत्सरे सीदेद्वत्सरे सीद वत्सरे सीद । एकस्यां सीद दशसु सीद शते सीद सहस्रे सीदायुते सीद नियुते सीद प्रयुते सीदार्बुदे सीद न्यर्बुदे सीद समुद्रे सीद मध्ये सीद पद्मे सीदान्ते सीद परार्धे सीद । पिन्वमानासि पिन्वमानाय त्वा पिन्वमानेभ्यस्त्वा पिन्वमाने सीद । ऋतमस्यृताय त्वर्तेभ्यस्त्वर्ते सीद । सत्यमसि सत्याय त्वा सत्येभ्यस्त्वा सत्ये सीद । संधिरसि संधये त्वा संधिभ्यस्त्वा संधिषु सीद । संश्लिडसि संश्लिषे त्वा संश्लिड्भ्यस्त्वा संश्लिट्सु सीद । संपदसि संपदे त्वा संपद्भ्यस्त्वा संपत्सु सीदेत्येताभ्यामनुवाकाभ्यां प्रतिमन्त्रमृषीष्टकाः सादनप्रवादैश्च पर्यायैः

॥१॥

द्वात्रिंशी कण्डिका

अयं पुरो भुव इति पञ्चाशतं प्राणभृतः । दशदश प्रतिदिशमक्ष्णया दश । मध्येऽन्तरामुपधाय बाह्यांबाह्याम्

॥१॥

प्राची दिशामिति पञ्चाशतमपानभृतो यथा प्राणभृतः । बाह्यामुपधायान्तरामन्तराम्

॥२॥

आयुषः प्राणं संतनु । प्राणादपानं संतनु । अपानाद्व्यानं संतनु । व्यानाच्चक्षुः संतनु । चक्षुषः श्रोत्रं संतनु । श्रोत्रान्मनः संतनु । मनसो वाचं संतनु । वाच आत्मानं संतनु । आत्मनः पृथिवीं संतनु । पृथिव्या अन्तरिक्षं संतनु । अन्तरिक्षाद्दिवं संतनु । दिवः सुवः संतन्विति द्वादश संततीः

॥३॥

पृथिवी वशामावास्या गर्भो वनस्पतयो जराय्वग्निर्वत्सोऽग्निहोत्रं पीयूषः । अन्तरिक्षं वशा धाता गर्भो रुद्रो जरायु वायुर्वत्सो घर्मः पीयूषः । द्यौर्वशा स्तनयित्नुर्गर्भो नक्षत्राणि जरायु सूर्यो वत्सो वृष्टिः पीयूषः । ऋग्वशा बृहद्रथंतरे गर्भः प्रैषनिविदो जरायु यज्ञो वत्सो दक्षिणाः पीयूषः । विड्वशा राजन्यो गर्भः पशवो जरायु राजा वत्सो बलिः पीयूष इति पञ्च वशाः

॥४॥

अर्थेत स्थाध्वगतोऽग्नेर्वस्तेजिष्ठेन तेजसा देवताभिर्गृह्णामीति कुम्भं कुम्भीं चाद्भिः पूरयित्वा शर्म च स्थ वर्म च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामीति पुरस्तादनुसीतमुपधाय ज्योतिषे वामिति हिरण्यशल्कौ प्रत्यस्यति

॥५॥

एवमुत्तरा उत्तरैर्मन्त्रैः प्रतिदिशमनुसीतम् । चतस्रो मध्ये

॥६॥

शुक्रा स्थ वीर्यावतीरिन्द्रस्य व इन्द्रियावतो देवताभिर्गृह्णामि

॥७॥

त्रयस्त्रिंशी कण्डिका

ऋतं च स्थ सत्यं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । चक्षुषे वाम् । मन्द्रा स्थाभिभुवो विश्वेषाम् वो देवानां देवताभिर्गृह्णामि । सपत्नघ्नीश्च स्थाभिमातिघ्नीश्च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । रेतसे वाम् । अधिपति स्थौजस्वानादित्यानां वो देवानां देवताभिर्गृह्णामि । रक्षोघ्नीश्च स्थारातिघ्नीश्च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । प्रजाभ्यो वाम् । क्षत्रभृत स्थौजस्विनीर्मित्रावरुणयोर्वो ब्रह्मणा देवताभिर्गृह्णामि । वसु च स्थ वामं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । तेजसे वाम् । व्रजक्षित स्थोर्ध्वश्रितो बृहस्पतेर्वो ब्रह्मणा देवताभिर्गृह्णामि । भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । वर्चसे वामिति कुम्भेष्टकानां ग्रहणसादनप्रत्यसनाः

॥१॥

हिरण्यवर्णा इत्युपहिता अभिमन्त्रयते

॥२॥

दिवि श्रयस्वेति बार्हस्पत्यं नैवारं पयसि चरुं मध्ये कुम्भेष्टकानामुपदधाति

॥३॥

समन्या यन्तीत्येषा । हिरण्यवर्णः स हिरण्यसंदृगपां पतिः सेदु हिरण्यवर्णः । हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मा इत्येताभ्यां च नैवारम्

॥४॥

त्रिवृत्ते अग्ने शिरस्तन्मे अग्ने शिरः । पञ्चदशौ ते अग्ने बाहू तौ मे अग्ने बाहू । सप्तदशस्ते अग्न आत्मा स मे अग्न आत्मा । एकविंशौ ते अग्ने ऊरू तौ मे अग्ने ऊरू । त्रिणवौ ते अग्ने अष्ठीवन्तौ तौ मे अग्ने अष्ठीवन्तौ । त्रयस्त्रिंशं ते अग्ने प्रतिष्ठानं तन्मे अग्ने प्रतिष्ठानमित्येताः शिरसि पक्षयोर्मध्ये पुच्छे वोपदधाति

॥५॥

त्रिवृत्ते अग्ने शिरस्तेन मा पाहीति संनमयंस्तांतामुपतिष्ठते यजमानः

॥६॥

त्वामग्ने वृषभमित्यृषभमुपधाय लोकं पृण ता अस्य सूददोहस इत्यवशिष्टमपरिमिताभिर्लोकंपृणाभिः प्रच्छादयति

॥७॥

सर्वान्वर्णानिष्टकानां कुर्यादिति

॥८॥

चतुस्त्रिंशी कण्डिका

लेखाधिकारो भवति विज्ञायते च

॥१॥

या दक्षिणावृतस्ता दक्षिणत उपदध्यात् । सव्यावृत उत्तरतः । ऋजुलेखाः पश्चात्पुरस्ताच्च । त्र्यालिखिता मध्ये

॥२॥

चितौ हिरण्यं निधाय चित्तिमचित्तिमिति चितिकॢप्त्याभिमृशति

॥३॥

यत्तेऽचितं यदु चितं ते अग्ने यदूनं यद्वात्रातिरिक्तम् । विश्वे देवा अङ्गिरसश्चिनवन्नादित्यास्ते चितिमापूरयन्तु । यास्ते अग्ने समिधः । चित्तिमचित्तिम् । वयमग्ने धनवन्तः स्यामालं यज्ञायोत दक्षिणायै । ग्रावा वदेदभि सोमस्यांशुनेन्द्रं शिक्षेमेन्दुना सुतेन । रायस्पोषं नो धेहि जातवेद ऊर्जो भागं मधुमत्सूनृतावत् । दधाम यज्ञं सुनवाम सोमं यज्ञेन त्वामुपशिक्षेम शक्र । ईशानं त्वा शुश्रुमो वयं धनानां धनपते गोमदग्ने । अश्वावद्भूरि पुष्टं हिरण्यवदन्नमध्येहि मह्यम् । दुहां ते द्यौः पृथिवी पयोऽजगरस्त्वा सोदकी विसर्पतु । प्रजापतिनात्मानमाप्रीणे रिक्तो म आत्मा । यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश । तस्मै रुद्राय नमो अस्तु देवा इत्येताभिः स्वयंचित्याभिमृशति

॥४॥

उत्तरतः कृष्णो ऽश्वस्तिष्ठति । श्यावो वा

॥५॥

तमालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानर्यर्चा चितावनुब्यूहति

॥६॥

सा चितिर्भवति

॥७॥

पञ्चत्रिंशी कण्डिका

यो अप्स्वन्तरग्निर्यो वृत्रे यः पुरुषे यो अश्मनि । य आविवेश भुवनानि विश्वा तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यः सोमे अन्तर्यो गोष्वन्तर्वयांसि य आविवेश यो मृगेषु । य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । पृष्टो दिवीत्येषा । येनेन्द्रस्य रथं संबभूवुर्यो वैश्वानर उत वैश्वदेव्यः । धीरो यः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यं हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः । यो देवानां देवतमस्तपोजास्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । उक्षान्नाय वशान्नायेत्येताभिः षड्भिश्चितिंचितिमुपधायाभिजुहोति

॥१॥

अग्ने भूरीणीत्याग्नेय्या धामच्छदा चितिंचितिमुपधायाभिजुहोति

॥२॥

उपतिष्ठत इत्येके

॥३॥

आग्नेय्या गायत्र्या प्रथमां चितिमभिमृशेदित्युक्तम्

॥४॥

अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् । मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् । त्वामर्भस्य हविषः समानमित्त्वां महो वृणते नरो नान्यं त्वत् । मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज । अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भरेत्येता आम्नाता भवन्ति

॥५॥

षडुपसदः

॥६॥

द्व्यहंद्व्यहमेकैकेनोपसन्मन्त्रेण जुहोति

॥७॥

अनूपसदमग्निं चिनोति द्व्यहम्

॥८॥

उत्तमा चितिः

॥९॥

त्रीणि चतुस्तनानि व्रतानि । त्रीणि त्रिस्तनानि । त्रीणि द्विस्तनानि । एकमेकस्तनम्

॥१०॥

आपराह्णिकीभ्यां प्रचर्य श्वेतमश्वं परिणीय वसन्ति वसन्ति

॥११॥