सौत्रामणी, काम्याः पशव इष्टयश्च
प्रथमा कण्डिका
त्र्यहे पुरस्तात्सीसेन क्लीबाच्छष्पाणि क्रीत्वा क्षौमे वासस्युपनह्य निधाय सौत्रामण्यास्तन्त्रं प्रक्रमयति
॥१॥तस्या निरूढपशुबन्धवत्कल्पः
॥२॥अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते
॥३॥यथार्थं पात्राणि प्रयुनक्ति । स्थालीं कपालानां स्थाने
॥४॥निर्वपणकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे प्रभूतान्व्रीहीन्निर्वपति
॥५॥व्याख्यातश्चरुकल्पः
॥६॥श्रपयित्वाग्रेण गार्हपत्यमवटं खात्वा तस्मिन्सुरायाः कल्पेन सुरां संदधाति
॥७॥परिस्रुद्भवति
॥८॥स्वाद्वीं त्वा स्वादुनेति शष्पैः सुरां संसृजति
॥९॥तिस्रो रात्रीः संसृष्टा वसति
॥१०॥एकयूपं छिनत्ति
॥११॥न वेदं करोति
॥१२॥पुरस्तात्कृतेनार्थान्कुरुते
॥१३॥सौमिक्या वेदितृतीये यजत इति विज्ञायते
॥१४॥उत्तरवेद्यां क्रियमाणायां प्रतिप्रस्थाता चात्वालात्पुरीषमाहृत्य दक्षिणेनोत्तरवेदिं खरं कृत्वाग्रेणान्वाहार्यपचनं सुराग्रहार्थं द्वितीयं खरं करोति
॥१५॥अग्नौ प्रणीयमाने प्रतिप्रस्थाता दक्षिणाग्नेरग्निमाहृत्य दक्षिणेनोत्तरवेदिं खरे न्युप्योपसमादधाति
॥१६॥पात्रसंसादनकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि पात्राणि प्रयुनक्ति । सतं वालस्रावं श्येनपत्त्रं श्रपणानि च
॥१७॥प्राक् पशूपाकरणात्कृत्वोद्भिद्य सुरां ब्राह्मणस्य मूर्धन्खरे वा सादयित्वा पुनातु ते परिस्रुतमिति वालमयेन पवित्रेण सुरां पावयति
॥१८॥प्राङ् सोमो अतिद्रुत इति सोमवामिनः । प्रत्यङ् सोमो अतिद्रुत इति सोमातिपवितस्य
॥१९॥पूतां यथायतनं सादयित्वैकयूपे पशूनुपाकरोति
॥२०॥द्वितीया कण्डिका
आश्विनं धूम्रमजं सारस्वतं मेषमैन्द्रमृषभं वृष्णिं वा बार्हस्पत्यम्
॥१॥चतुर्थं सोमवामिनः सोमातिपवितस्य वा
॥२॥हुतासु वपासु निष्कमृषभं सात्वरीं च वडबां ददाति
॥३॥नष्टप्रत्यासृतां ब्रुवते
॥४॥अनुशिशुर्वडबा दक्षिणा
॥५॥हरितरजतौ च शतमानावित्येके
॥६॥चात्वाले मार्जयित्वापरस्मिन्खरे सुराग्रहान्गृह्णन्ति
॥७॥कुविदङ्गेति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या
॥८॥उपयामगृहीतोऽस्यच्छिद्रं त्वाच्छिद्रेणाश्विभ्यां जुष्टं गृह्णामीत्याश्विनमध्वर्युर्गृह्णाति । एतेनैव सरस्वत्या इति सारस्वतं प्रतिप्रस्थाताग्नीध्रो वा । इन्द्राय त्वेत्यैन्द्रं ब्रह्मा यजमानो वा
॥९॥क्वलसक्तुभिः सिंहलोमभिश्चाश्विनं श्रीणाति । बदरसक्तुभिः शार्दूललोमभिश्च सारस्वतम् । कर्कन्धुसक्तुभिर्वृकलोमभिश्चैन्द्रम्
॥१०॥तदभावे सिंहावध्वर्युर्मनसा ध्यायेत् । शार्दूलौ उप्रतिप्रस्थाता । वृकौ यजमानः
॥११॥सर्वाञ्छ्येनपत्त्रेण परिमृज्यैष ते योनिरिति यथादेवतं यथायतनं सादयति
॥१२॥पयोग्रहा वा स्युः
॥१३॥पाशुकानि वाज्यानि गृहीत्वा ग्रहान्गृह्णीयुः
॥१४॥ततः पुरोडाशान्निर्वपति । बार्हस्पत्यस्य पशुपुरोडाशं निरुप्यैन्द्रमेकादशकपालमिति
॥१५॥त्रींस्तानासाद्य ग्रहैः प्रचरन्ति
॥१६॥ये गृह्णन्त्यध्वर्युः संप्रेष्यति
॥१७॥अश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे सोमानां सुराम्णामनुब्रूहि । अश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे सोमानां सुराम्णां प्रेष्येति संप्रैषौ । सोमान्सुराम्णः प्रस्थितान्प्रेष्येति वा
॥१८॥युवं सुराममश्विना नमुचावासुरे सचा । विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् । पुत्रमिव पितरावश्विनोभेन्द्रावतं कर्मणा दंसनाभिः । यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभीष्णादिति सर्वदेवत्ये याज्यानुवाक्ये भवतः
॥१९॥तृतीया कण्डिका
सोमस्याग्ने वीहीत्यनुयजति
॥१॥अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चमू इव सोमः । वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् । यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नय इति हुतां हूयमानां वा यजमानोऽनुमन्त्रयते
॥२॥ब्राह्मणं परिक्रीणीयादुच्छेषनस्य पातारम्
॥३॥नाना हि वां देवहितं सदो मितं मा संसृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एष मा मा हिंसीः स्वां योनिमाविशन् । यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामीति वा स्वयं पिबेत्
॥४॥द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वं भुवनं समेत्यन्तरा पूर्वमपरं च केतुमिति वा वल्मीकवपायामवनयेत्
॥५॥दक्षिणेऽग्नौ शतातृणां स्थालीं प्रबद्धां धारयति
॥६॥तस्या बिल उदीचीनदशं पवित्रं वितत्य यन्मे मनः परागतमिति तस्मिञ्छतमानं हिरण्यं निधाय सोमप्रतीकाः पितरस्तृप्णुतेति तस्मिन्सुराशेषमानयति । सोमप्रतीकाः पितरो मदन्तां व्यशेम देवहितं यदायुः । इन्द्रपीतो विचक्षणो व्यशेम देवहितं यदायुरिति वा
॥७॥स्रवन्तीं सौमीभिः पितृमतीभिस्तिसृभिस्तिसृभिरुत्तरोत्तराभिरुपतिष्ठन्ते
॥८॥त्वं सोम प्रचिकित इत्येता आम्नाता भवन्ति
॥९॥पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा । पश्चाद्धोता
॥१०॥यदग्ने कव्यवाहनेति काव्यवाहनीभिर्दक्षिणेऽग्नौ शतातृणां प्रतिष्ठापयति यदि ब्राह्मणो यजते
॥११॥चतुर्थी कण्डिका
अथ यदि राजन्यो वैश्यो वा नाद्रियेत दक्षिणमग्निं प्रणियितुम्
॥१॥स्वयमेतं सुराशेषं व्रतयन्नासीत
॥२॥बार्हस्पत्यस्य पशुपुरोडाशेन प्रचर्य पशुभिः प्रचर्य पुरोडाशैः प्रचरति
॥३॥समानं तु स्विष्टकृदिडम्
॥४॥अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते
॥५॥हृदयशूलैर्मासरेण पात्रैश्चावभृथमवयन्ति
॥६॥मासरमृजीषकल्पेन प्रतिपादयति
॥७॥बल्कसं मासर इत्याचक्षते
॥८॥यस्ते देव वरुण गायत्रच्छन्दाः पाशस्तं त एतेनावयजे स्वाहेत्याश्विनपात्रमवभृथे प्रविध्यति । एतेनैव त्रिष्टुप्छन्दा इति सारस्वतस्य । जगतीछन्दा इत्यैन्द्रस्य । अनुष्टुप्छन्दा इति सतं वालस्रावं श्येनपत्त्रं च । पङ्क्तिच्छन्दा इति शूलान्
॥९॥तूष्णीं प्रत्यायनम्
॥१०॥तया सोमवामिनं सोमातिपवितं राजानमपरुध्यमानमपरुद्धमभिषिच्यमानमभिषिषिचानं वा याजयेत्
॥११॥अभिचर्यमाणो यजेत । अभिचरन्नन्नाद्यकामः ह्प्रजाकामः पशुकामो वा
॥१२॥सर्वेष्वभिषेकेष्वाम्नाता
॥१३॥तया ब्राह्मणो राजन्यो वैश्यो वा तेजस्कामो यजेत
॥१४॥पञ्चमी कण्डिका
अथातः कौकिलीं व्याख्यास्यामः
॥१॥तस्याः पूर्ववत्कल्पः
॥२॥निर्वपणकाल ऐन्द्रं पशुमालभते
॥३॥ऋषभो दक्षिणा
॥४॥आदित्यं चरुम्
॥५॥वत्सः
॥६॥पुरस्तादेव कालायसेन कालानुशातनेन कालेन तसरेण पक्ष्मणा व्रीहियवश्यामाकान्क्रीत्वा क्षौमे वासस्युपनद्धान्व्रीहींस्तोक्मानि कुर्वन्ति । यवानीषदुपतप्तान्
॥७॥चूर्णानि तानि दध्नोदश्विता वा संसृज्य दर्भैः परितंस्य निदधाति
॥८॥स मासरः
॥९॥तेषामेव स्थूलचूर्णानि संस्रावेणाभिषिक्तानि स नग्नहुः
॥१०॥श्यामाकान्सक्तून्कृत्वा सुरायाः संधानकाले तोक्मैर्मासरेण नग्नहुना च सुरां संसृज्य सक्तूनां तृतीयेन परिकीर्य परीतो षिञ्चता सुतमित्येकस्या गोर्दुग्धेन परिषिच्यापरेण तृतीयेन परिकीर्यैतयैव द्वयोर्दुग्धेनापरेण तृतीयेन परिकीर्यैतयैव तिसृणां दुग्धेन तिस्रो रात्रीः संसृष्टा वसति
॥११॥षष्ठी कण्डिका
अवटस्थाने कारोतरमेके समामनन्ति
॥१॥बैदलश्चर्मनद्धो भवति
॥२॥तस्मिन्बैदलं शुण्डामुखमवदधाति
॥३॥तस्य बिलं चर्मणा परिणद्धं भवति
॥४॥तस्मिन्यदास्रवति सा परिस्रुद्भवति
॥५॥पात्रसंसादनकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि पात्राणि प्रयुनक्ति
॥६॥त्रयान्सक्तून्यवगोधूमानामुपवाकासक्तूंश्च श्येनपत्त्रे वाले द्रोणे वा
॥७॥अजाविलोम्नामध्वर्योः पवित्रं भवति । गोअश्वानां प्रतिप्रस्थातुः
॥८॥आज्यं निरुप्याध्वर्युद्रोणे प्रभूतं पयो निर्वपति
॥९॥मन्त्रवदित्याश्मरथ्यः । तूष्णीमित्यालेखनः
॥१०॥आज्यमुत्पूय वालेन पय उत्पुनाति
॥११॥प्राङ् सोमो अतिद्रुत इति सोमवामिनः । प्रत्यङ् सोमो अतिद्रुत इति सोमातिपवितस्य
॥१२॥ब्रह्म क्षत्रं पवत इति सुरां प्रतिप्रस्थाता
॥१३॥पाशुकान्याज्यानि गृहीत्वाध्वर्युः पयोग्रहान्गृह्णाति
॥१४॥कुविदङ्गेति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या
॥१५॥सप्तमी कण्डिका
उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिस्तेजसे त्वेति सादयित्वोपयामगृहीतोऽसि सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा गोधूमसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्वीर्याय त्वेति सादयित्वोपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वोपवाकासक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्बलाय त्वेति सादयित्वोत्तरैर्यथालिङ्गमुपतिष्ठते
॥१॥सुरायां वाल आनीयमानायां धारायाः प्रतिप्रस्थाता सुराग्रहान्गृह्णाति
॥२॥नाना हि वां देवहितं सदः कृतमिति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या
॥३॥उपयामगृहीतोऽस्याश्विनं तेजोऽश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्मोदाय त्वेति सादयति
॥४॥उपयामगृहीतोऽसि सारस्वतं वीर्यं सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिरानन्दाय त्वेति सादयति
॥५॥उपयामगृहीतोऽस्यैन्द्रं बलमिन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्महसे त्वेति सादयति
॥६॥सुरावच्छ्रयणानि
॥७॥सन्नाननुवाकशेषेणाध्वर्युर्यजमानश्चोपतिष्ठते । उत्तरेण चानुवाकेन
॥८॥अष्टमी कण्डिका
पूर्ववत्पशूनुपाकरोति
॥१॥बार्हस्पत्यवर्जं समानमा पर्यग्निकरणात्
॥२॥मध्यमे पर्यग्निकरणपर्याय उल्मुकैकदेशं खरे न्युप्योपसमादधाति
॥३॥शेषेण पर्यग्नि कृत्वैतदेव पशुश्रपणार्थं प्रणयति
॥४॥हुतासु वपासु चत्वारिंशद्गा दक्षिणा ददाति । अनुशिशुं च वडबाम्
॥५॥अत्र वा ग्रहान्गृह्णीयुः
॥६॥उक्तः संप्रैषः
॥७॥सर्व आहवनीये हूयेरन्नित्याश्मरथ्यः । दक्षिणेऽग्नौ सुराग्रहा इत्यालेखनः
॥८॥सुरावन्तमिति पयोग्रहाञ्जुहोति । यस्ते रसः संभृत इति सुराग्रहान्
॥९॥तूष्णीमनुवषट्कृते हुत्वा यमश्विना नमुचेरित्याश्विनमध्वर्युर्भक्षयति
॥१०॥यदत्र रिप्तमिति सारस्वतं प्रतिप्रस्थाताग्नीध्रश्च
॥११॥इदं हविरित्यैन्द्रं ब्रह्मा यजमानश्च
॥१२॥व्याख्याता सुरायाः प्रतिपत्तिः
॥१३॥दक्षिणेनाहवनीयं पयःशेषं पितृपितामहप्रपितामहे भ्यो ददाति पितृभ्यः स्वधाविभ्यः स्वधा नम इति
॥१४॥पुनन्तु मा पितरः सोम्यास इत्युपतिष्ठते
॥१५॥नवमी कण्डिका
अथाहुती जुहुतः । ये समाना इत्यध्वर्युः । ये सजाता इति प्रतिप्रस्थाता
॥१॥मनोताकाले पृथक् पात्रेषु पशूनां यूषाणि निदधाति
॥२॥पुरस्तात्स्विष्टकृतः शृङ्गशफैरुपहोमाञ्जुहोति
॥३॥अष्टावष्टावेकैकस्य कुष्टिकाशफाः
॥४॥आश्विनस्य यूषेण कुष्ठिकां शफं च पूरयित्वा सीसेन तन्त्रमित्यष्टर्चेन प्रतिमन्त्रं द्वाभ्यांद्वाभ्यां कुष्ठिकाशफाभ्यां जुहोति
॥५॥उत्तमायां शृङ्गे अनुषजति
॥६॥हुत्वाहुत्वा स्वेष्वभिषेचनपात्रेषु संपातानवनीयाहवनीये कुष्ठिकाशफान्प्रविध्यति
॥७॥एवमुत्तरेणाष्टर्चेन सारस्वतस्य
॥८॥सर्वेणानुवाकेनैन्द्रस्य
॥९॥औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना
॥१०॥मित्रोऽसि वरुणोऽसीति तां यजमानायतने प्रतिष्ठापयति
॥११॥आसादनोपवेशनाभिमन्त्रणानि राजसूयवत्
॥१२॥तस्यां प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नाश्विनसंपातैरभिषिञ्चति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामीति
॥१३॥एवमुत्तरेण मन्त्रेण सारस्वतस्य
॥१४॥उत्तमेनैन्द्रस्य
॥१५॥दशमी कण्डिका
कोऽसि कतमोऽसीति पाणी संमृश्याध्वर्युर्व्याहृतीर्जुहोति
॥१॥अत्र राजसूयवन्मङ्गल्यनाम्न आहूय शिरो मे श्रीरिति यथालिङ्गमङ्गानि संमृश्य जङ्घाभ्यां पद्भ्यामिति प्रत्यवरुह्य प्रति क्षत्रे प्रतितिष्ठामि राष्ट्र इति जपित्वा त्रया देवा इत्याहुतीर्हुत्वा लोमानि प्रयतिर्ममेति यथालिङ्गमङ्गानि संमृशते
॥२॥स्विष्टकृत्प्रभृति समानमावभृथात्
॥३॥यद्देवा देवहेडनमित्यवभृथे पञ्चाहुतीर्जुहोतीत्याश्मरथ्यः । आहवनीये हूयेरन्नित्यालेखनः
॥४॥अवभृथ निचङ्कणेत्यवभृथं यजमानोऽभिमन्त्र्य सुमित्रा न आपो द्रुपदादिवेन्मुमुचान इत्याप्लुत्योद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यस्यति
॥५॥पशुवत्समिध उपस्थानं च
॥६॥समाववर्त्तीत्युपस्थाय भूः स्वाहेत्याहुतिं हुत्वा पूर्ववत्पितृयज्ञः
॥७॥इन्द्राय वयोधसे पशुमालभते
॥८॥ऋषभो दक्षिणा
॥९॥आदित्यं चरुम्
॥१०॥धेनुः
॥११॥विज्ञायते च । वत्सं पूर्वस्यां ददाति । मातरमुत्तरस्याम्
॥१२॥संतिष्ठते कौकिली
॥१३॥तया स्वर्गकामो यजेत
॥१४॥एकादशी कण्डिका
सावित्रं स्वर्गकामश्चिन्वीत
॥१॥पशुबन्धे चीयते
॥२॥चेष्यमाण उपकल्पयते पञ्चाशीतिशतं हिरण्येष्टका यावदुत्तममङ्गुलिपरु तावतीः शर्करा वाभ्यक्ताश्चतस्रः स्वयमातृणा अपरिमिता लोकंपृणाः
॥३॥षड्ढोतारमित्येतदादि पाशुकं कर्म प्रतिपद्यते
॥४॥वेदितृतीये यजत इति विज्ञायते
॥५॥प्रागुत्तरात्परिग्राहात्कृत्वोत्तरवेदिदेशस्य मध्ये शङ्कुं निहत्य सर्वतः परिमण्डलं रथचक्रमात्रं सावित्रं परिलिख्य समूलं हरितं दर्भस्तम्बमाहृत्य मध्येऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा सजूरब्दोऽयावभिरिति दर्भस्तम्बे पञ्चाहुतीर्हुत्वोद्धत्यावोक्ष्य व्याघारणान्तामुतरवेदिं कृत्वा लेखाया अभ्यन्तरं नव परिमण्डला लेखालिखित्वा सिकताभिरवकीर्य दर्भैः प्रच्छाद्य दध्ना मधुमिश्रेण शर्कराभिरिति बाह्यां लेखां संपूर्य वसति
॥६॥हुते प्रातरग्निहोत्रे प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिध इति स्वयंचित्याभिमृश्याग्नेर्भस्मासीति सिकता निवपति । संज्ञानमित्यूषान्
॥७॥तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति
॥८॥सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्यपरिमिताभिः शर्कराभिः परिश्रित्या प्यायस्व समेतु त इति सिकता व्यूहति
॥९॥न लेखाः संलोभयन्ति
॥१०॥अभ्यन्तरं जघनार्ध उदपात्रमुपदधाति वाक्त्वा समुद्र उपदधे सुप्रजाविनं रायस्पोषवनिं मह्यं वाजिनायेति
॥११॥द्वादशी कण्डिका
नवम्यां बाह्यायां लेखायां पञ्चदश पूर्वपक्षस्याहान्युपदधाति संज्ञानं विज्ञानमिति
॥१॥तेषामन्तरालेष्वेतेषामह्नां पञ्चदश मूहूर्तानुपदधाति चित्रः केतुरिति
॥२॥अथान्तरस्यां पञ्चदश पुर्वपक्षस्य रात्रीरुपदधाति दर्शा दृष्टेति
॥३॥तासामन्तरालेष्वेंतासां रात्रीणां पञ्चदश मुहूर्तानुपदधाति दाता प्रदातेति
॥४॥अथान्तरस्यां पञ्चदशापरपक्षस्याहान्युपदधाति प्रस्तुतं विष्टुतमिति
॥५॥तेषामन्तरालेष्वेतेषामह्नां पञ्चदश मुहूर्तानुपदधाति सविता प्रसवितेति
॥६॥अथान्तरस्यां पञ्चदशापरपक्षस्य रात्रीरुपदधाति सुता सुन्वतीति
॥७॥तासामन्तरालेष्वेतासां रात्रीणां पञ्चदश मुहूर्तानुपदधात्यभिशास्तानुमन्तेति
॥८॥अथान्तरस्यां द्वादश पूर्वपक्षानुपदधाति पवित्रं पवयिष्यन्निति
॥९॥अथान्तरस्यां द्वादशापरपक्षानुपदधाति सहस्वान्सहीयानिति
॥१०॥अथान्तरस्यां त्रयोदश मासनामान्युपदधात्यरुणोऽरुणरजा इति
॥११॥अथ सिकता उपदधात्येजत्का जोवत्का इति
॥१२॥अथान्तरस्यां पञ्चदश मुहूर्तानुपदधातीदानीं तदानीमिति
॥१३॥अथान्तरस्यां षड्यज्ञक्रतूंस्त्रीणि चतुर्नामान्युपदधात्यग्निष्टोम उक्थ्यो ऽग्निरृतुरिति
॥१४॥अथ नाभ्यां चत्वारि संवत्सरनामान्युपदधाति प्रजापतिः संवत्सरो महान्क इति
॥१५॥चतस्रः स्वयमातृणा दिक्षूपदधाति भूरग्निं च पृथिवीं च मां चेति
॥१६॥लोकं पृणेति लोकंपृणा उपदधाति
॥१७॥चात्वालात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानर्यर्चा चितावनुव्यूहति
॥१८॥सा चितिर्भवति
॥१९॥आरोहणं जपति अवरोहणं जपति
॥२०॥उपस्थानेनोपतिष्ठते त्वमेव त्वां वेत्थ योऽसि सोऽसीति
॥२१॥साहस्रवत्करोति
॥२२॥धेनूः कृत्वा यजमानः संहारविहाराभ्यामुपतिष्ठते संवत्सरोऽसि परिवत्सरोऽसीति
॥२३॥उत्तरत उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरं जुहोति
॥२४॥त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपमसंचरे पशूनामर्कपर्ण उदस्यति वल्मीकवपायां वावदधाति
॥२५॥जघनेनाग्निं प्राङ्मुख उपविश्य संचितोक्थ्येन होतानुशंसति भूर्भुवः स्वरित्यनुवाकेन
॥२६॥त्रयोदशी कण्डिका
अग्निप्रणयनादि पाशुकं कर्म प्रतिपद्यते समानमातिमुक्तिभ्यः
॥१॥अतिमुक्तीर्हुत्वा चतुर्गृहीतं जुहोति
॥२॥त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् । अपरं चतुर्गृहीतम्
॥३॥अग्नाविंष्णू इति वसोर्धारायाः । अपरं चतुर्गृहीतम्
॥४॥अन्नपत इत्यन्नहोमः । अपरं चतुर्गृहीतम्
॥५॥सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः
॥६॥अपरं चतुर्गृहीतं वसूनां त्वाधीतेन रुद्राणामूर्म्यादित्यानां तेजसा विश्वेषां देवानां क्रतुना मरुतामेम्ना जुहोमि स्वाहेति
॥७॥तासां संस्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञीत्यनुवाकेन
॥८॥अथैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे स्वाहेत्यनुवाकेन प्रतिमन्त्रम्
॥९॥बर्हिषः संभरणादि पाशुकं कर्म प्रतिपद्यते समानमा वपाया होमात्
॥१०॥हुतायां वपायामन्विष्टकं पष्ठौहीर्दक्षिणा ददाति
॥११॥यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः पाययेद्ब्राह्मणान् । ओदनान्वाशयेत्
॥१२॥तेनो हैवास्य स काम उपाप्तो भवति
॥१३॥पष्ठौहीं त्वन्तर्वतीं दद्याद्धिरण्यं वासश्च
॥१४॥यत्प्राङ् मनोतायास्तत्कृत्वौदुम्बर पात्रेण यूष्णो मृत्यवे ग्रहं गृह्णाति
॥१५॥विपश्चिते पवमानायेति ग्रहणसादनौ
॥१६॥नाचिकेत एव मृत्युग्रहः स्यादित्यपरम्
॥१७॥तस्य स्विष्टकृतमनु होमः
॥१८॥होष्यन्नप उपस्पृशेद्विद्युदसि विद्य मे पाप्मानमिति
॥१९॥अथ जुहोत्यप मृत्युमप क्षुधमिति
॥२०॥अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च मे पाप्मानमिति
॥२१॥तस्येडामनु भक्षः
॥२२॥भक्षयति भक्षोऽस्यमृतभक्ष इति
॥२३॥भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण
॥२४॥समानमत ऊर्ध्वं पाशुकं कर्म
॥२५॥संतिष्ठते सावित्रः
॥२६॥चतुर्दशी कण्डिका
एतेन नाचिकेतो व्याख्यातः
॥१॥नात्र लेखा भवन्ति
॥२॥एकविंशतिर्हिरण्येष्टकाः शर्करा वाभ्यक्ता उपधानकाले नाभ्यामेवोपधीयन्ते चतुरश्रं परिमण्डलं वा लोकोऽसि स्वर्गोऽसीत्यनुवाकेन प्रतिमन्त्रम्
॥३॥तं हैतमेके पशुबन्ध एवोत्तरवेद्यां चिन्वत इति ब्राह्मणव्याख्याता विकाराः
॥४॥ताननुक्रमिष्यामः
॥५॥पशुबन्धे सोमे सत्त्रे सहस्रे सर्ववेदसे वा यत्र वा भूयिष्ठा आहुतयो हूयेरंस्तत्र चेतव्यः
॥६॥सत्त्रे प्रतिष्ठामीप्सन्यशः प्रजां पशून्स्वर्गमृद्धिमीप्सन्यथावकाशं यथासमाम्नातम्
॥७॥सर्वत्र पुरस्तादुपक्रमः प्रदक्षिणमुत्तरतोऽपवर्गः
॥८॥पशुकामः पाङ्क्तमेव चिन्वीत । पञ्चपञ्च प्रतिदिशमेकां मध्ये
॥९॥ज्यैष्ठ्यमीप्सन्यशः प्रजां वा त्रिवृतमेव । सप्त पुरस्तात्तिस्रो दक्षिणतः सप्त पश्चात्तिस्र उत्तरत एकां मध्ये
॥१०॥ज्यैष्ठ्यकामो मध्यात्प्रक्रम्योर्ध्वां रीतिं प्रतिपादयेत्
॥११॥स्वर्गकामः पश्चात्प्रक्रम्य प्राचीं रीतिं प्रतिपादयेत्
॥१२॥स यदीच्छेत्तेजस्वी यशस्वी ब्रह्मवर्चसी स्यामिति प्राग्दक्षिणेभ्यः प्राङा होतुर्धिष्ण्यादुत्सर्पेद्येयं प्रागाद्यशस्वती सा मा प्रोर्णोतु तेजसा यशसा ब्रह्मवर्चसेनेति
॥१३॥अथ यदीच्छेद्भूयिष्ठं मे श्रद्दधीरन्भूयिष्ठा दक्षिणा नयेयुरिति दक्षिणासु नीयमानासु प्राच्येहि प्राच्येहीति
॥१४॥प्राची जुषाणा वेत्वाज्यस्य स्वाहेति स्रुवेणोपहत्याहवनीये जुहुयात्
॥१५॥स्वयमातृणादि समानमुत्तरम्
॥१६॥संतिष्ठते नाचिकेतः
॥१७॥एतेन चातुर्होत्रो व्याख्यातः
॥१८॥यावत्पदं हिरण्येष्टकाः शर्करा वाभ्यक्ताः
॥१९॥उपधानकालेऽग्रेण दर्भस्तम्बं दशहोतारं प्रतिमन्त्रमुदञ्चमुपदधाति । हृदयं ग्रहं चत्वारि पदानि संभाराणां द्वे पत्नीनाम्
॥२०॥एवं दक्षिणतः प्राञ्चं चतुर्होतारम्
॥२१॥पश्चादुदञ्चं पञ्चहोतारम्
॥२२॥उत्तरतः प्राञ्चं षड्ढोतारम्
॥२३॥उपरिष्टात्प्राञ्चं सप्तहोतारम्
॥२४॥पञ्चात्र पदानि संभाराणामवशिष्टानि च पत्नीनाम्
॥२५॥स्वयमातृणादि समानमुत्तरम्
॥२६॥संतिष्ठते चातुर्होत्रः
॥२७॥पञ्चदशी कण्डिका
एतेन वैश्वसृजो व्याख्यातः
॥१॥यावन्मन्त्रं हिरण्येष्टकाः शर्करा वाभ्यक्ताः
॥२॥उपधानकालेऽग्रेणोत्तरनाभिं यच्चामृतं यच्च मर्त्यमित्येतैस्त्रिभिरनुवाकैरभिदक्षिणमग्निं परिचिनोति
॥३॥तिस्रो वा चितयस्त्रिभिरनुवाकैः
॥४॥स्वयमातृणादि समानमुत्तरमन्यत्रानुशंसनात्
॥५॥ऋचां प्राची महती दिगुच्यत इत्यनेनानुवाकेनानुशंसति
॥६॥रात्रिसत्त्रेषु शतरात्रान्तेषु समहाव्रतेषु त्रिषु च सारस्वतेषु सत्त्रेषु काठकचातुर्मास्येषु साध्यानां षडहवर्जितेषु विश्वसृजामयने प्रजापतेः सहस्रसंवत्सरयोश्च वैश्वसृजोऽग्निर्नियतः
॥७॥अभिप्रयायं चेदभिचिनुयुरुत्तरवेदिदेशमेतैर्मन्त्रैरभिमृशेत्
॥८॥योऽस्य सुप्रियः सुविचित इव स्यात्तस्मै वैश्वसृजम् । तृतीये वा पर्याये
॥९॥सावित्रनाचिकेतचातुर्होत्रवैश्वसृजारुणकेतुकान्समस्यन्सौम्येऽप्यध्वरे चिन्वीत
॥१०॥सावित्रः प्रथमा चितिः । लोकंपृणा द्वितीया । नाचिकेतस्तृतीया । लोकंपृणा चतुर्थी । चातुर्होत्रः पञ्चमी । वैश्वसृजः षष्ठी । आरुणकेतुकः सप्तमी
॥११॥सवनीययूष्णो मृत्यवे ग्रहं गृह्णाति
॥१२॥य एतानग्नीन्पृथक् समासेन वा चिन्वान उभयीर्दक्षिणा ददाति क्रतुदक्षिणा यथासमाम्नातमग्निदक्षिणाश्चेति
॥१३॥अत्र पृथगप्रयुज्य न समस्यन्ते
॥१४॥अग्निं चित्वा सौत्रामण्या यजेत । मैत्रावरुण्या वामिक्षया
॥१५॥आरुणकेतुको ब्राह्मणव्याख्यातः
॥१६॥दिवः श्येनीभिरन्वहं स्वर्गकामो यजेत । अपाद्याभिश्च
॥१७॥ता ब्राह्मणव्याख्याताः
॥१८॥षोडशी कण्डिका
काम्यैः पशुभिरमावास्यायां पौर्णमास्यां वा यजेत
॥१॥तेषां निरूढपशुबन्धवत्कल्पः
॥२॥वायव्यं श्वेतमिति ते ब्राह्मणव्याख्याताः
॥३॥तेषामावापिकेषु स्थानेषु यथादेवतं षडृचो निदधाति । वपायाः पुरोडाशस्य हविष इति द्वेद्वे
॥४॥पीवोऽन्नां रयिवृधः सुमेधा इत्येतानि यथापूर्वं यथालिङ्गमाम्नातानि भवन्ति
॥५॥सर्वेष्वाभिचरणिकेषु लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति मल्हा इति
॥६॥मणिला इत्यर्थः
॥७॥विषम आलभेतेति
॥८॥विषमं दैवते मीमांसा
॥९॥आदित्या स्यात्प्राजापत्या वैकादशिनदेवता वा यद्देवता वा गर्भिणयः
॥१०॥पर्यारिणीति परिहारसूर्भवति
॥११॥स्फ्यो यूप इति स्फ्याकृतियूप अग्न्यागारिको वा
॥१२॥त्वाष्ट्रं वडबमिति यं पुमांसं सन्तमारोहति
॥१३॥अपां चौषधीनां च संधाविति प्रावृषि शरत्प्रतिपत्तौ वा । अपि वापां चौषधीनां च संधौ
॥१४॥विशाखो यूप इति यदूर्ध्वं रशनायास्तद्विशाखम् । यद्वोपरादुभे शाखे अष्टाश्री सचषाले स्याताम्
॥१५॥प्राशृङ्गो ऽवाशृङ्ग उक्षा वशा वेहद्धेनुर्वत्स ऋषभोऽनड्वान्पुनरुत्सृष्टो गोमृग इति गव्याः
॥१६॥अन्नाय वेहतमालभते । वाचे व्रेहतम् । श्रद्धायै वेहतम् । ब्रह्मण ऋषभम्
॥१७॥आ गावो अग्मन्नित्युपहोमाः
॥१८॥मृत्यवे वेहतम्
॥१९॥तत्र भर्तारमुपजुहुयात्
॥२०॥सूर्याचन्द्रमोभ्यां यमौ श्वेतं कृष्णं चैकयूपे
॥२१॥अद्भ्यो वेहतम्
॥२२॥तत्र सलिलमुपजुहुयात्
॥२३॥भगाय वाशितामिति
॥२४॥य ऊर्ध्वमाश्विनात्पशवस्तेषां सूक्तक्रमेण विधिः
॥२५॥सप्तदशी कण्डिका
ऋषभे गोषु जीर्णे यूनः कर्णमाजपेत्पिशङ्गरूपस्तन्नस्तुरीपमित्येताभ्याम्
॥१॥अथैनं गोष्वपिसृजत्येतं युवानमिति
॥२॥अथ जीर्णमालभते प्राजापत्यमैन्द्रं त्वाष्ट्रं वा
॥३॥नमो महिम्न इत्युपाकरणेऽनुवर्तयते
॥४॥तृतीयया वपां जुहोति । चतुर्थ्या हविः । पञ्चम्या सौविष्टकृतम्
॥५॥आग्नेयमष्टाकपालं निरुप्याजां वशामालभते
॥६॥वायव्यामालभेत भूतिकाम इत्युक्तानि दैवतानि
॥७॥वायव्ययोपाकरोत्या वायो भूष शुचिपा इति
॥८॥आकूत्यै त्वा कामाय त्वेति पर्यग्नौ क्रियमाणे जुहोति
॥९॥त्वं तुरीया वशिनी वशासीत्युदीचीं नीयमानामनुमन्त्रयते
॥१०॥अजासि रयिष्ठेति निहन्यमानाम्
॥११॥तन्तुं तन्वन्निति वपां जुहोति
॥१२॥अनुल्बणं वयत जोगुवामप इति हविः
॥१३॥मनसो हविरसीति हविःशेषान्प्राश्नन्ति
॥१४॥सा वा एषा त्रयाणामेवावरुद्धेत्युक्तम्
॥१५॥तस्यै वा एतस्या एकमेवादेवयजनं यदालब्धायामभ्रो भवति
॥१६॥यदालब्धायामभ्रः स्यादप्सु वा प्रवेशयेत्सर्वां वा यजमान एवान्वहं प्राश्नीयात्
॥१७॥जयाभ्याताना राष्ट्रभृत इति ब्राह्मणव्याख्याताः
॥१८॥अस्मिन्ब्रह्मन्नित्यभ्यातानेष्वनुषजति
॥१९॥येन कर्मणेर्त्सेत्तत्र होतव्या ऋध्नोत्येव तेन कर्मणेति विज्ञायते
॥२०॥अष्टादशी कण्डिका
काम्याभिरिष्टिभिरमावास्यायां पौर्णमास्यां वा यजेत
॥१॥ता ब्राह्मणव्याख्याताः
॥२॥समिध्यमानवतीं समिद्धवतीं चान्तरेण पृथुपाजवत्यौ धाय्ये दधाति । यथादिष्टं वानुपदावाज्यभागौ
॥३॥यत्कामेष्टिस्तत्प्रवादौ स्यातां तदर्थत्वात्तल्लिङ्गत्वात् । तद्देवतौ वा । प्राकृतौ वा
॥४॥अनादेशे प्रकृतिः प्रत्येतव्या
॥५॥अनुष्टुभौ संयाज्ये
॥६॥त्वां चित्रश्रवस्तम । त्वामग्ने हविष्मन्तो देवं मर्तास ईडते । मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषगित्येते आम्नाते भवतः
॥७॥उभा वामिन्द्राग्नी आहुवध्या इत्येतासां यथापूर्वमाम्नाता याज्यानुवाक्या लिङ्गैर्नियम्यन्ते
॥८॥पूर्वस्मिन्नर्धर्चे देवता पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या । उपरिष्टाल्लक्ष्मा याज्या
॥९॥एतद्वा विपरीतम्
॥१०॥अवशिष्टा विकल्पार्थाः
॥११॥उपहोमा वा तत्र संदिग्धाः
॥१२॥अनुक्रमिष्यामः
॥१३॥अग्नये रक्षोख्ने पुरोडाशमष्टाकपालममावास्यायां निशायां निर्वपेत्तस्याः साद्गुण्यसामर्थ्यात्
॥१४॥अमावास्यायाः कालापनयः स्यात्
॥१५॥कृणुष्व पाज इति रक्षोघ्नीः पराचीः सामिधेनीरम्वाह
॥१६॥वि ज्योतिषेति याज्यानुवाक्ये भवतः
॥१७॥एकोनविंशी कण्डिका
आदित्यं चरुं निर्वपेत्संग्राममुपप्रयास्यन्
॥१॥वैश्वानरं द्वादशकपालं निर्वपेत्संग्रामायतनं गत्वा
॥२॥यया रज्ज्वोत्तमां गामाजेत्तया भ्रातृव्यगवीमभिदध्याद्गोष्ठे वास्य न्यस्येत्
॥३॥बल्बजानपीध्मे संनह्येत्
॥४॥तान्सहेध्मेन प्रोक्षेत्
॥५॥सरस्वत्याज्यभागेत्याज्यहविर्भवति
॥६॥आज्यं प्रोक्षणमाज्येन मार्जयन्त इति सर्वप्रोक्षणमार्जनानीत्याज्येन
॥७॥मानवी ऋचौ धाय्ये कुर्यात् । मक्षू देववत इत्येतासां द्वे
॥८॥एतामेव निर्वपेदायतनं गत्वा
॥९॥भ्रातृव्यक्षेत्रं गत्वैतामिष्टिं निर्वपेत्
॥१०॥तत्र दक्षिणमर्धं वेद्या उद्धत्य तदेवार्धेन बर्हिष स्तृणीयात् । अर्धमिध्मस्याभ्यादध्यात्
॥११॥ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः
॥१२॥आहवनीय ऐन्द्रमधिश्रयति । गार्हपत्ये मारुतम्
॥१३॥काल ऐन्द्रमासादयति । सामिधेनीष्वनूच्यमानासु मारुतम्
॥१४॥अथ यत्रेन्द्रायानुब्रूहीत्यैन्द्री पुरोऽनुवाक्या । मरुतो यजेति मारुती याज्या । मरुद्भ्योऽनुब्रूहीति मारुती पुरोऽनुवाक्या । इन्द्रं यजेत्यैन्द्री याज्या
॥१५॥ऐन्द्रमेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकामः
॥१६॥तत्रैन्द्रस्य प्रथममवदानमवदायोभे वैश्वदेवस्यावद्येत् । अथैन्द्रस्यावशिष्टमुपरिष्टात्
॥१७॥इन्द्राय विश्वेभ्यो देवेभ्योऽनुब्रूहीन्द्रं विश्वान्देवान्यजेति संप्रेष्यति
॥१८॥भरेष्विन्द्रमिति याज्यानुवाक्ये भवतः
॥१९॥विंशी कण्डिका
उपाधाय्यपूर्वयं वासो दक्षिणा
॥१॥चित्रान्तमित्यर्थः
॥२॥संज्ञानीं पृथङ्निरुप्य सर्वतः समवदाय सर्वा देवता अनुद्रुत्य संप्रेष्यति
॥३॥अग्निः प्रथमो वसुभिरिति सर्वदेवत्ये याज्यानुवाक्ये भवतः
॥४॥अपरुद्धोऽपरुध्यमानो वा धारयद्वतीयं निरुप्यासीत यावदेनं नापरुन्ध्युः
॥५॥अथापरुध्यमानोऽदिते ऽनुमन्यस्वेत्यपरोद्धुः पदमादाय गच्छेत्
॥६॥यः परस्ताद्ग्राम्यवादी स्यात्तस्य गृहाद्व्रीहीनाहरेत्
॥७॥शुक्लांश्च कृष्णांश्च विचिनुयात्
॥८॥ये शुक्लाः स्युस्तमादित्यं चरुं निर्वपेत्
॥९॥ये कृष्णास्तान्कृष्णाजिन उपनह्य निधाय हविष्कृता वाचं विसृज्योप प्रेत मरुतः सुदानव इति यजमानमभ्यैति
॥१०॥सत्याशीरिति यजमानस्योत्तरे वाससि पदैकदेशं निवपति
॥११॥इह मन इत्युरसि शेषं निनयति
॥१२॥सिद्धमिष्टिः संतिष्ठते
॥१३॥यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाम्यामुष्मादमुष्यै विशोऽवगन्तोरित्यपरोद्धुर्नाम गृह्णीयात्तस्यै च विशः
॥१४॥यदि नावगच्छेदाश्वत्थान्मयूखान्सप्त मध्यमेषायामुपहन्यादिदमहमादित्यान्बध्नाम्यामुष्मादमुष्यै विशोऽवगन्तोरिति । त्रीन्प्राचश्चतुर उदीचः
॥१५॥यदि नावगच्छेदेतमेवादित्यं चरुं निर्वपेत्
॥१६॥इध्मेऽपि मयूखान्संनह्येत्
॥१७॥तान्सहेध्मेनाभ्यादध्यात्
॥१८॥अवगतः कृष्णानां व्रीहीणां वारुणं चरुं निर्वपति
॥१९॥सिद्धमिष्टिः संतिष्ठते
॥२०॥एकविंशी कण्डिका
प्राजापत्यां शतकृष्णलां निर्वपेदायुष्कामः
॥१॥शतं हिरण्यकृष्णलानि काकिण्या माषेण वा संमितानि
॥२॥तानि पवित्रवत्याज्य आवपति
॥३॥धर्ममात्रं श्रपणम्
॥४॥प्रचरणकालेऽष्टौ देवताया अवद्यति । चत्वारि स्विष्टकृति । द्वे प्राशित्रेष्टाविडायाम्
॥५॥चतुर्धाकरनकाले सर्वाणि प्राशित्रे समोप्यैकधा ब्रह्मण उपहरति
॥६॥तानि ब्रह्मा भक्षयति
॥७॥भक्षापनय इतरेषाम्
॥८॥सौर्यं चरुं रुक्माभ्यां परिगृह्यासादयति
॥९॥तस्य प्रयाजेप्रयाजे कृष्णलं जुहोति
॥१०॥अपोह्य रुक्मौ चरुणा प्रचरति
॥११॥एतावेव रुक्मौ दक्षिणा
॥१२॥अग्नये दात्रे पुरोडाशमष्टाकपालमिति त्रीणि
॥१३॥तेषां प्राजापत्यं संसृष्टहविस्तृतीयं भवति
॥१४॥दधि मधु घृतमापो धानास्तण्डुला इत्येके षामाज्यविकारः
॥१५॥मधूदके संसृष्टे मुख्ये स्वाधर्म्यम्
॥१६॥घृतं न पूतमुभे सुश्चन्द्रेति याज्यानुवाक्ये भवतः
॥१७॥आग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेदिति संहितानि हवींष्यधिश्रयेदित्यर्थः
॥१८॥लेपौ वास्मिन्समाश्लेषयेत्
॥१९॥ब्रह्मन्विशं विनाशयेयमिति सर्वं ब्राह्मणस्पत्यं भवति
॥२०॥मारुती याज्यानुवाक्ये कुर्यात्
॥२१॥अथैतं त्रिधातुमेकादशसूत्तानेषु कपालेष्वधिश्रयति
॥२२॥द्वाविंशी कण्डिका
प्रथमं पुरोडाशमधिश्रित्य परितपनान्तं कृत्वा तस्मिन्नुत्तरं ज्यायांसमधिश्रित्य तदन्तमेव कृत्वा तस्मिन्नुत्तरं ज्यायांसमधिश्रयति
॥१॥प्रचरणकाले दक्षिणार्धात्प्रथमां देवतां यजेत् । मध्याद्द्वितीयाम् । उत्तरार्धात्तृतीयाम्
॥२॥सर्वेषामभिगमयन्नवद्यतीत्युक्तम्
॥३॥प्राच्यां दिशि त्वमिन्द्रेति तिस्र ऋचो व्यत्यासमन्वाह
॥४॥प्रथमामनूच्य मध्यमया यजेत् । मध्यमामनूच्योत्तमया यजेत् । उत्तमामनूच्य प्रथमया यजेत्
॥५॥एवं सर्वा याज्याः पुरोऽनुवाक्याश्च भवन्ति
॥६॥सर्वपृष्ठां निर्वपति
॥७॥यदिन्द्राय राथंतरायेति यथासमाम्नातं द्वादशसूत्तानेषु कपालेष्वधिश्रयति
॥८॥प्रचरणकाले पूर्वार्धात्प्रथमां देवतां यजति
॥९॥एवमितराः प्रदक्षिणमुत्तरापवर्गम्
॥१०॥समन्तं पर्यवद्यतीत्युक्तम्
॥११॥अभि त्वा शूर नोनुम इति षडृचो व्यत्यासमन्वाह
॥१२॥न बृहत्या वषट्कुर्यात्
॥१३॥अनुवाक्यायाश्चत्वार्यक्षराणि याज्यां गमयेत्
॥१४॥अनुष्टुभं च ह वा एतत्संपादयन्ति पङ्क्तिं चेति ते मन्यामहे
॥१५॥अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमोमित्यनूच्य न्द्र तस्थुष स्त्वामिद्धि हवामह इति यजेत्
॥१६॥त्रयोविंशी कण्डिका
त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठोमित्यनूच्य स्वर्वतोऽभि त्वा शूर नोनुम इति यजेत्
॥१॥कदा चन स्तरीरसीत्यासां चतुर्थीं दधाति
॥२॥अग्नये भ्राजस्वते पुरोडाशमष्टाकपालमित्युक्तम्
॥३॥चतुर्धाकरणकाले सौर्यांस्त्रीन्पिण्डानुद्धृत्योदुं त्यं जातवेदसं सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्यजमानाय प्रयच्छति
॥४॥तान्यजमानः प्राश्नाति
॥५॥वैश्वदेवीं सांग्रहणीं निर्वपेद्ग्रामकामः
॥६॥नवनीते श्रपयति
॥७॥ध्रुवोऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिदधाति
॥८॥आमनमसीत्युपहोमाः
॥९॥यो ज्योगामयावी स्याद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेत् । आग्नेयादीनि पञ्च
॥१०॥पात्रसंसादनकाले खादिरं पात्रं चतुःस्रक्ति प्रयुनक्ति । सौवर्न च प्रवर्तं शतमानस्य कृतम्
॥११॥अथो खलु यावतीः समा एष्यन्मन्येत तावन्मानं स्यात्
॥१२॥यन्नवमैत्तन्नवनीतमभवदित्याज्यमवेक्ष्याज्यग्रहणकाले तूष्णीं खादिरे चतुर्गृहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्प्रवर्तमवदधाति
॥१३॥चतुर्विंशी कण्डिका
उपहोमकालेऽश्विनोः प्राणोऽसीत्येतैः प्रतिमन्त्रं चतुर उपहोमाञ्जुहोति
॥१॥हुत्वाहुत्वा प्रवर्तमभिघारयति राडसि विराडसि सम्राडसि स्वराडसीति
॥२॥यत्खादिर आज्यं तदग्रेणाहवनीयं पर्याहृत्य दक्षिणस्यां वेदिश्रोण्यां सादयति
॥३॥तद्यजमानोऽवेक्षते घृतस्य धाराममृतस्य पन्थामिति
॥४॥अथास्य ब्रह्मा दक्षिणं हस्तं गृह्णाति
॥५॥ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पावमानेन त्वा स्तोमेनेति
॥६॥अथ यजमानो हिरण्याद्घृतं निष्पिबति
॥७॥इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते
॥८॥उद्धृत्य हिरण्यं प्रक्षाल्यायुष्टे विश्वतो दधदिति यजमानाय प्रयच्छति
॥९॥तद्यजमान आचम्य प्रतिगृह्य प्रदक्षिणं दक्षिणे कर्ण आबध्नात्यायुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि सर्वं म आयुर्भूयात्सर्वमायुर्गेषमिति
॥१०॥अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युर्दक्षिणं हस्तं गृह्णाति
॥११॥सिद्धमिष्टिः संतिष्ठते
॥१२॥पञ्चविंशी कण्डिका
ऐन्द्रावरुणं पुरोडाशं निरुप्यैन्द्रावरुणीं पयस्यां निर्वपेत्
॥१॥उद्वास्यालंकृत्य पयस्यायां पुरोडाशमवदधाति
॥२॥एतयैव प्रच्छाद्यासादयति
॥३॥अथास्मात्प्रतिदिशं पयस्यां व्यूहति या वामिन्द्रावरुणा यतव्या तनूरिति
॥४॥एतैरेव पुनः समूहति
॥५॥अमुक्तमिति मन्त्रान्तान्संनमति
॥६॥सहैव पयस्यायाः पुरोडाशस्यावद्यति
॥७॥यो वामिन्द्रावरुणावग्नौ स्राम इत्युपहोमाः
॥८॥अग्नये संवर्गाय पुरोडाशमष्टाकपालमित्युक्तम्
॥९॥युक्ष्वा हि देवहूतमानिनि पञ्चदश सामिधेनीरन्वाह
॥१०॥नित्यया परिदधाति
॥११॥कुवित्सु नो गविष्टय इति याज्यानुवाक्ये
॥१२॥यस्याजुषद्विद्मा हि त इति संयाज्ये
॥१३॥चित्रापूर्णमासे चित्रामिष्टिं निर्वपेत् । आग्नेयादीनि सप्त
॥१४॥अग्ने गोभिर्न आ गहीत्युपहोमाः
॥१५॥पुष्कलेषु नक्षत्रेषूदवसाय कारीर्या वृष्टिकामो यजेत
॥१६॥अग्नीनन्वाधायापरेणाहवनीयं दक्षिणातिक्रम्योपविश्य यजमानो मारुतमसि मरुतामोज इति कृष्णं वासः कृष्णतूषं परिधत्ते
॥१७॥रमयत मरुतः श्येनमायिनमिति पश्चाद्वातं प्रतिमीवति
॥१८॥पुरोवातमेव जनयत्येहि वातेति
॥१९॥कृष्णोऽश्वः पुरस्तात्प्रत्यङ्मुखोऽवस्थितो भवति
॥२०॥तमेतेन वाससाभिपिनष्ट्यभिक्रन्देति
॥२१॥यदि क्रन्देद्विधूनुयाच्छकृन्मूत्रं वा कुर्याद्वर्षिष्यतीति विद्यात्
॥२२॥षड्विंशी कण्डिका
पुरोवातो वर्षन्नित्यष्टौ वातनामानि हुत्वान्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्खर्जूरसक्तून्करीरसक्तून्वा मान्दा वाशा इति कृष्णमधुषा संयुत्य तिस्रः पिण्डीः कृत्वा पुष्करपलाशैः संवेष्ट्य समुद्यम्य कृष्णाजिनस्यान्तान्वृष्णो अश्वस्य संदानमसीति कृष्णेन दाम्नोपनह्यति
॥१॥उत्करे प्रागीषं त्रिगधमनोऽवस्थितं भवति
॥२॥छदींषीत्यर्थः
॥३॥देवा वसव्या इति पूर्वस्यां गधायां कृष्णाजिनमाबध्नीयात्
॥४॥अहोरात्रावासक्तं भवति
॥५॥यदि वर्षेत्पिण्डीरेव जुहुयात्
॥६॥यदि न वर्षेद्देवाः शर्मण्या इति मध्यमायामाबध्नीयात्
॥७॥अहोरात्रावासक्तं भवति
॥८॥यदि वर्षेत्पिण्डीरेव जुहुयात्
॥९॥यदि न वर्षेद्देवाः सपीतय इति जघन्यायामाबध्नीयात्
॥१०॥अहोरात्रावासक्तं भवति
॥११॥यदि वर्षेत्पिण्डीरेव जुहुयात्
॥१२॥यदि न वर्षेच्छो भूते धामच्छदादीनि त्रीणि हवींषि निर्वपति कृष्णानां व्रीहीणाम्
॥१३॥तान्यासाद्योत्करे कृष्णाजिनमासादयति
॥१४॥कृष्णोष्णीषाः कृष्णवसना निवीता ऋत्विजः प्रचरन्ति
॥१५॥त्र्वं त्या चिदच्युतेति याज्यानुवाक्याः
॥१६॥उपहोमकाले दिवा चित्तमः कृण्वन्तीत्येतैः प्रतिमन्त्रं पिण्डीराबध्नाति
॥१७॥जुहोतीत्येके
॥१८॥अथासां धूममनुमन्त्रयते
॥१९॥सप्तविंशी कण्डिका
असितवर्णा हरयः सुपर्णा इति
॥१॥उत्करे कृष्णामपक्वां स्थालीमद्भिः पूरयति सृजा वृष्टिमिति
॥२॥यदि भिद्येत वर्षिष्यतीति विद्यात्
॥३॥अनस उपस्तम्भने शङ्कौ वा कृष्णाविर्बद्धा भवति
॥४॥अब्जा असीति तां प्रोक्षति
॥५॥तस्यामश्ववद्विज्ञानमुपैति
॥६॥उत्करे वर्षाहूस्तम्बं प्रतिष्ठाप्योन्नम्भय पृथिवीमिति वर्षाह्वां जुहोति
॥७॥अपां पूर्णां स्रुचं जुहोतीत्येके
॥८॥अथैनमाहवनीयेऽनुप्रहरति
॥९॥अथास्य धूममनुमन्त्रयते हिरण्यकेशो रजसो विसार इति
॥१०॥ये देवा दिविभागा इत्युपर्याहवनीये कृष्णाजिनमवधूनोत्यूर्ध्वग्रिवं बहिष्टाद्विशसनम्
॥११॥कृष्णं वासः कृष्णोऽश्वः कृष्णाविर्दक्षिणा
॥१२॥अथ सवकारीर्याग्नेय एवाष्टाकपालोऽनुपसर्गः
॥१३॥तस्योपहोमा वातनामानि याभिः पिण्डीराबध्नाति जुहोति याभ्यां च धूममनुमन्त्रयते
॥१४॥पूर्ववत्त्रिधातुमधिश्रयति । यवमयस्तु मध्ये
॥१५॥ऐन्द्रावैष्णवं हविर्भवति
॥१६॥प्र सो अग्न इत्युष्णिहककुभौ धाय्ये दधाति
॥१७॥अग्ने त्री ते वजिना त्री षधस्थेति त्रिवत्या परिदधाति
॥१८॥सं वां कर्मणोभा जिग्यथुरिति याज्यानुवाक्ये
॥१९॥उत्तरे संयाज्ये
॥२०॥हिरण्यं तार्प्यं धेनुरिति दक्षिणा
॥२१॥ऐन्द्राबार्हस्पत्यं चरुं निर्वपेद्राजन्ये जाते
॥२२॥हिरण्मयं दाम दक्षिणा दक्षिणा
॥२३॥