गवां बन्धनयोक्त्रेषु भवेन्मृत्युरकामतः
अकामकृतपापस्य प्रायश्चित्तं कथं भवेत्
॥१॥वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम्
स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत्
॥२॥सावित्र्याश्चापि गायत्र्याः संध्योपास्त्यग्निकार्ययोः
अज्ञानात्कृषिकर्तारो ब्राह्मणा नामधारकाः
॥३॥अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्
सहस्रशः समेतानां परिषत्त्वं न विद्यते
॥४॥यद्वदन्ति तमोमूढा मूर्खा धर्ममतद्विदः
तत्पापं शतधा भूत्वा तद्वक्तॄनधिगच्छति
॥५॥अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः
प्रायश्चित्ती भवेत्पूतः किल्बिषं पर्षदि व्रजेत्
॥६॥चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः
स धर्मेति विज्ञेयो नेतरैस्तु सहस्रशः
॥७॥प्रमाणमार्गं मार्गन्तो ये धर्मं प्रवदन्ति वै
तेषामुद्विजते पापं सद्भूतगुणवादिनाम्
॥८॥यथाश्मनि स्थितं तोयं मारुतार्केण शुध्यति
एवं परिषदादेशान्नाशयेत्तस्य दुष्कृतम्
॥९॥नैव गच्छति कर्तारं नैव गच्छति पर्षदम्
मारुतार्कादिसम्योगात्पापं नश्यति तोयवत्
॥१०॥चत्वारो वा त्रयो वापि वेदवन्तोऽग्निहोत्रिणः
ब्राह्मणानां समर्था ये परिषत्साभिधीयते
॥११॥अनाहिताग्नयो येऽन्ये वेदवेदाङ्गपारगाः
पञ्च त्रयो वा धर्मज्ञाः परिषत्सा प्रकीर्तिता
॥१२॥मुनीनामात्मविद्यानां द्विजानां यज्ञयाजिनाम्
वेदव्रतेषु स्नातानामेकोऽपि परिषद्भवेत्
॥१३॥पञ्च पूर्वं मया प्रोक्तास्तेषां चासंभवे त्रयः
स्ववृत्तिपरितुष्टो ये परिषत्सा प्रकीर्तिता
॥१४॥अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः
परिषत्त्वं न तेष्वस्ति सहस्रगुणितेष्वपि
॥१५॥यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः
ब्राह्मणस्त्वनधीयानस्त्रयस्ते नामधारकाः
॥१६॥ग्रामस्थानं यथा शून्यं यथा कूपस्तु निर्जलः
यथा हुतमनग्नौ च अमन्त्रो ब्राह्मणस्तथा
॥१७॥यथा षण्ढोऽफलः स्त्रीषु यथा गौरूषराफला
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः
॥१८॥चित्रकर्म यथानेकैरङ्गैरुन्मील्यते शनैः
ब्राह्मण्यमपि तद्वद्धि संस्कारैर्मन्त्रपुर्वकैः
॥१९॥प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः
ते द्विजा पापकर्माणः समेता नरकं ययुः
॥२०॥ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश्च ये
त्रैलोक्यं तारयन्त्येते पञ्चेन्द्रियरता अपि
॥२१॥संप्रणीतः श्मशानेषु दीप्तोऽग्निः सर्वभक्षकः
एवं च वेदविद्विप्रः सर्वभक्षोऽपि दैवतम्
॥२२॥अमेध्यानि तु सर्वाणि प्रक्षिप्यन्ते यथोदके
तथैव किल्बिषं सर्वं प्रक्षिपेच्च द्विजानले
॥२३॥गायत्रीरहितो विप्रः शूद्रादप्यशुचिर्भवेत्
गायत्रीब्रह्मतत्त्वज्ञाः संपूज्यन्ते जनैर्द्विजाः
॥२४॥दुःशीलोऽपि द्विजः पूज्यो न तु शूद्रो जितेन्द्रियः
कः परित्यज्य गां दुष्टां दुहेच्छीलवतीं खरीम्
॥२५॥धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः
क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः
॥२६॥चातुर्वेद्यो विकल्पी च अङ्गविद्धर्मपाठकः
त्रयश्च आश्रमो मुख्याः पर्षदेषा दशावरा
॥२७॥राज्ञश्चानुमते स्थित्वा प्रायश्चित्तम्विनिर्दिशेत्
स्वयमेव न कर्तव्यं कर्तव्या स्वल्पनिष्कृतिः
॥२८॥ब्राह्मणांस्तानतिक्रम्य राजा कर्तुं यदिच्छति
तत्पापं शतधा भूत्वा राजानमनुगच्छति
॥२९॥प्रायश्चित्तं सदा दद्याद्देवतायतनाग्रतः
आत्मकृच्छ्रं ततः कृत्वा जपेद्वै वेदमातरम्
॥३०॥सशिखं वपनं कृत्वा त्रिसंध्यमवगाहनम्
गवां मध्ये वसेद्रात्रौ दिवा गाश्चाप्यनुव्रजेत्
॥३१॥उष्णे वर्षति शीते वा मारुते वाति वा भृशम्
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः
॥३२॥आत्मनो यदि वान्येषां गृहे क्षेत्रे खलेऽथ वा
भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम्
॥३३॥पिबन्तीषु पिबेत्तोयं संविशन्तीषु संविशेत्
पतितां पङ्कमग्नां वा सर्वप्राणैः समुद्धरेत्
॥३४॥ब्राह्मणार्थे गवार्थे वा यस्तु प्राणान्परित्यजेत्
मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च
॥३५॥गोवधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत्
प्राजापत्यं ततः कृच्छ्रं विभजेत्तच्चतुर्विधम्
॥३६॥एकाहमेकभक्ताशी एकाहं नक्तभोजनः
अयाचिताश्येकमहरेकाहं मारुताशनः
॥३७॥दिनद्वयं चैकभक्तो द्विदिनं चैकभोजनः
दिनद्वयमयाची स्याद्द्विदिनं मारुताशनः
॥३८॥त्रिदिनं चैकभक्ताशी त्रिदिनं नक्तभोजनः
दिनत्रयमयाची स्यात्त्रिदिनं मारुताशनः
॥३९॥चतुरहं चैकभक्ताशी चतुरहं नक्तभोजनः
चतुर्दिनमयाची स्याच्चतुरहं मारुताशनः
॥४०॥प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम्
विप्राणां दक्षिणां दद्यात्पवित्राणि जपेद्द्विजः
ब्राह्मणान्भोजयित्वा तु गोघ्नः शुद्धो न संशयः
॥४१॥