प्रथमः खण्डः
ॐ पौर्णमासेनेष्टिपशुसोमा उपदिष्टाः
॥१॥तैरमावास्यायां पौर्णमास्यां वा यजेत
॥२॥राजन्यश्चाग्निहोत्रं जुहुयात्
॥३॥तपस्विने ब्राह्मणायेतरं कालं भक्तमुपहरेत्
॥४॥ऋतसत्यशीलः सोमसुत् सदा जुहुयात्
॥५॥बहुषु बहूनामनुदेश आनन्तर्ययोगः
॥६॥द्वे द्वे तु याज्यानुवाक्ये
॥७॥अदृष्टादेशे नित्ये
॥८॥अग्न्याधेयं
॥९॥कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रोष्ठपदयोः
॥१०॥एतेषां कस्मिंश्चित्
॥११॥वसन्ते पर्वणि ब्राह्मण आदधीत
॥१२॥ग्रीष्मवर्षाशरत्सु क्षत्रियवैश्योपक्रुष्टाः
॥१३॥यस्मिन् कस्मिंश्चिदृतावादधीत
॥१४॥सोमेन यक्ष्यमाणो नर्तुं पृच्छेन्न नक्षत्रं
॥१५॥अश्वत्थाच्छमीगर्भादरणी आहरेदनवेक्षमाणः
॥१६॥यो अश्वत्थः शमीगर्भ आरुरोह त्वेसचा । तं त्वाहरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति पूर्णाहुत्यन्तमग्न्याधेयं
॥१७॥यदि त्विष्टयस्तनुयुः
॥१८॥प्रथमायामग्निरग्निः पवमानः
॥१९॥अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः
॥२०॥स हव्यवाडमत्याऽग्निर्होता पुरोहित इति स्विष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्
॥२१॥सर्वत्र देवतागमे नित्यानामपायः
॥२२॥याः स्विष्टकृतमन्तराज्यभागौ च तास्तत्स्थाने
॥२३॥एष समानजातिधर्मः
॥२४॥द्वितीयस्यां वृधन्वन्तौ । अग्निः पावकोऽग्निः शुचिः स नः पावकदीदिवोऽग्ने पावकरोचिषाऽग्निः शुचिव्रततम उदग्ने शुचयस्तव
॥२५॥साह्वान् विश्वा अभियुजोऽग्निमीडे पुरोहितमिति संयाज्ये । तृतीयस्यां सामिधेन्यावावपते प्रागुपोत्तमायाः पृथुपाजा अमर्त्य इति द्वे
॥२६॥धाय्ये इत्युक्त एते प्रतीयात् पुष्टिमन्तावग्निना रयिमश्नवद्गयस्फानो अमीवहेति । अग्नीषोमाविन्द्राग्नी विष्णुरिति वैकल्पिकानि
॥२७॥अदितिः
॥२८॥उत त्वामदिते महि महीमूषु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम । तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिं
॥२९॥प्रेद्धो अग्न इमो अग्न इति संयाज्ये विराजावित्युक्त एते प्रतीयादिति तिस्रः
॥३०॥आद्योत्तमे वैव स्यातां
॥३१॥आद्या वा
॥३२॥तथा सति तस्यामेव धाय्ये विराजौ
॥३३॥इतिमात्रे विकारे वैराजतन्त्रेति प्रतीयात्
॥३४॥आधानाद् द्वादशरात्रमजस्राः
॥३५॥अत्यन्तं तु गतश्रियः
॥३६॥द्वितीयः खण्डः
उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वल्य दक्षिणाग्निमानीय विट्कुलाद्वित्तवतो वैकयोनय इत्येके ध्रियमाणं वा प्रज्वल्यारणिमन्तं वा मथित्वा गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेत्
॥१॥देवं त्वा देवेभ्यः श्रिया उद्धरामीत्युद्धरेत्
॥२॥उद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान् यच्च विद्वांश्चकार । अह्ना यदेनः कृतमस्ति किञ्चित् सर्वस्मान्मोद्धृतः पाहि तस्मादिति प्रणयेत्
॥३॥अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य योनौ । तयानन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगायाग्नावग्निः स्वाहेति निदध्यादादित्यमभिमुखः
॥४॥एवं प्रातर्व्युष्टायान्तमेवाभिमुखः
॥५॥रात्र्या यदन इति तु प्रणयेत्
॥६॥अत ऊर्द्ध्वमाहिताग्निर्व्रतचार्याहोमात्
॥७॥अनुदितहोमी चोदयात्
॥८॥अस्तमिते होमः
॥९॥नित्यमाचमनं
॥१०॥ऋतसत्याभ्यां त्वा पर्युक्षामीति जपित्वा पर्युक्षेत् त्रिस्त्रिरेकैकं पुनः पुनरुदकमादाय
॥११॥आनन्तर्ये विकल्पः
॥१२॥दक्षिणं त्वेव प्रथमं विज्ञायते पिता वा एषोऽग्नीनां यद्दक्षिणः पुत्रो गार्हपत्यः पौत्र आहवनीयस्तस्मादेवं पर्युक्षेत्
॥१३॥गार्हपत्यादविच्छिन्नामुदक्नधारां हरेत् तन्तु तन्वन् रजसो भानुमन् विहीत्याहवनीयात्
॥१४॥पश्चाद्गार्हपत्यस्योपविश्योदङ्ङङ्गारानपोहेत् सुहुतकृतः स्थ सुहुतं करिष्यथेति
॥१५॥तेष्वग्निहोत्रमधिश्रयेदधिश्रितमध्यधिश्रितमधिश्रितं हिं३ इति
॥१६॥इडायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति वा
॥१७॥न दध्यधिश्रयेदधिश्रयेदित्येके
॥१८॥तृतीयः खण्डः
पयसा नित्यहोमः
॥१॥यवागूरोदनो दधि समिग्रामकामान्नाद्यकामेन्द्रियकामतेजस्कामानां
॥२॥अधिश्रितमवज्वलयेत्
॥३॥अनधिश्रयं दध्यग्निष्टे तेजो माहार्षीरिति
॥४॥स्रुवेण प्रतिषिञ्च्यान्न वा शान्तिरस्यमृतमसीति
॥५॥तयोरव्यतिचारः
॥६॥पुनर्ज्वलता परिहरेत् त्रिरन्तरितं रक्षोऽन्तरिता अरातय इति
॥७॥समुदन्तं कर्षन्निवोदङ्ङुद्वासयेद्दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति निदधत्
॥८॥सुहुतकृतः स्थ सुहुतमकार्ष्टेत्यङ्गारानतिसृज्य स्रुक्स्रुवं प्रतितपेत् ग्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातय इति
॥९॥उत्तरतः स्थाल्याः स्रुवमासाद्योमुन्नयानीत्यतिसर्जयीत
॥१०॥आहिताग्निराचम्यापरेण वेदिमतिव्रज्य दक्षिणत उपविश्यैतच्छ्रुत्वोमुन्नयेत्यतिसृजेत्
॥११॥अतिसृष्टो भूरिडा भुव इडा स्वरिडा वृध इडेति स्रुवपूरमुन्नयेत्
॥१२॥अग्नियमग्नियं पूर्णतमं योऽनु ज्येष्ठमृद्धिमिच्छेत् पुत्राणां
॥१३॥योऽस्य पुत्रः प्रियः स्यात् तं प्रति पूर्णमुन्नयेत्
॥१४॥स्थालीमभिमृश्य समिधं स्रुचं चाध्यधि गार्हपत्यं हृत्वा प्राणसम्मितामाहवनीयसमीपे कुशेषूपसाद्य जान्वाच्य समिधमादध्याद्रजतां त्वाग्निज्योतिषं रात्रिमिष्टकामुपदधे स्वाहेति
॥१५॥समिधमाधाय विद्युदसि विद्य मे पाप्मानमग्नौ श्रद्धेत्यप उपस्पृश्य प्रदीप्तां द्व्यङ्गुलमात्रेऽभिजुहुयाद्भूर्भुवः स्वरो३मग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति
॥१६॥पूर्वामाहुतिं हुत्वा कुशेषु सादयित्वा गार्हपत्यमवेक्षेत पशून्मे यच्छेति
॥१७॥अथोत्तरां तूष्णीं भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा
॥१८॥प्रजापतिं मनसा ध्यायात् तूष्णीं होमेषु सर्वत्र
॥१९॥भूयिष्ठं स्रुचि शिष्ट्वा त्रिरनुप्रकम्प्यावमृज्य कुशमूलेषु निमार्ष्टि पशुभ्यस्त्वेति
॥२०॥तेषां दक्षिणत उत्ताना अङ्गुलीः करोति प्राचीनावीती तूष्णीं स्वधा पितृभ्य इति वा
॥२१॥अपोऽवनिनीय
॥२२॥वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धेत्यप उपस्पृश्य
॥२३॥आहिताग्निरनुमन्त्रयेत
॥२४॥आधानमुक्त्वा तेन ऋषिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद्ध्रुवासीदेति समिधं
॥२५॥ता अस्य सूद दोहस इति पूर्वामाहुतिं
॥२६॥उपोत्थायोत्तरां कांक्षेतेक्षमाणो भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः
॥२७॥आग्नेयीभिश्च
॥२८॥अग्न आयूंषि पवस इति तिसृभिः
॥२९॥चतुर्थः खण्डः
संवत्सरे संवत्सरे
॥१॥यवाग्वा पयसा वा स्वयं पर्वणि जुहुयात्
॥२॥ऋत्विजामेक इतरं कालं
॥३॥अन्तेवासी वा
॥४॥स्पृष्ट्वोदकमुदङावृत्य भक्षयेत्
॥५॥अपरयोर्वा हुत्वा
॥६॥आयुषे त्वा प्राश्नामीति प्रथमं । अन्नाद्याय त्वेत्युत्तरं
॥७॥तूष्णीं समिधमाधायाग्नये गृहपतये स्वाहेति गार्हपत्ये
॥८॥नित्योत्तरा
॥९॥तूष्णीं समिधमाधायाग्नये संवेशपतये स्वाहेति दक्षिणे । अग्नयेऽन्नादायान्नपतये स्वाहेति वा
॥१०॥नित्योत्तरा
॥११॥अथैनां कुशैः प्रक्षाल्य चतस्रः पूर्णाः प्रागुदीच्योर्निनयेदृतुभ्यः स्वाहा दिग्भ्यः स्वाहा सप्तर्षिभ्यः स्वाहेतरजनेभ्यः स्वाहेति
॥१३॥पञ्चमीं कुशदेशे पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहेति । षष्ठीं पश्चाद्गार्हपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति
॥१४॥प्रताप्यान्तर्वेदि निदध्यात्
॥१५॥परिकर्मिणे वा प्रयच्छेत्
॥१६॥अग्रेणाहवनीयं परीत्य समिध आदध्यात् तिस्रस्तिस्र उदङ्मुखस्तिष्ठन्
॥१७॥प्रथमां समन्त्रां
॥१८॥आहवनीये दीदिहीति गार्हपत्ये दीदायेति दक्षिणे दीदिदायेति
॥१९॥उक्तं पर्युक्षणं
॥२०॥ताभ्यां परिसमूहने
॥२१॥पूर्वे तु पर्युक्षणात्
॥२२॥एवं प्रातः
॥२३॥उपोदयं व्युषित उदिते वा
॥२४॥सत्यऋताभ्यां त्वेति पर्युक्षणमोमुन्नेष्यामीत्यतिसर्जनं हरिणीं त्वा सूर्यज्योतिषमहरिष्टकामुपदधे स्वाहेति समिदाधानं भूर्भुवः स्वरॐ सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति होम उन्मार्जनञ्च
॥२५॥पञ्चमः खण्डः
प्रवत्स्यन्नग्नीन् प्रज्वल्याचम्यातिक्रम्योपतिष्ठते
॥१॥आहवनीयं शंस्य पशून्मे पाहीति । गार्हपत्यं नय प्रजां मे पाहीति । दक्षिणमथर्वपितुं मे पाहीति । गार्हपत्याहवनीयावीक्षेतेमान् मे मित्रावरुणौ गृहान् गोपायतं युवं अविनष्टानविहृतान् पूषैनानभिरक्षत्वास्माकं पुनरायनादिति
॥२॥यथेतं प्रत्येत्य प्रदक्षिणं पर्यन्नाहवनीयमुपतिष्ठते । मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्ने । तत्त्वं बिभृहि पुनराममैतोस्तवाहं नाम बिभराण्यग्र इति
॥३॥प्रव्रजेदनपेक्षमाणो मा प्रगामेति सूक्तं जपन्
॥४॥आरादग्निभ्यो वाचं विसृजेत
॥५॥सदा सुगः पितुर्मा अस्तु पन्था इति पन्थानमवरुह्य
॥६॥अनपस्थिताग्निश्चेत् प्रवासमापद्येत । इहैव सन् तत्र सन्तं त्वाग्ने हृदा वाचा मनसा वा बिभर्मि । तिरो मा सन्तं मा प्रहासीर्ज्योतिषा त्वा वैश्वानरेणोपतिष्ठत इति प्रतिदिशमग्नीनुपस्थाय
॥७॥अपि पन्थामगन्महीति प्रत्येत्य
॥८॥समित्पाणिर्वाग्यतोऽग्नीन् ज्वलतः श्रुत्वाऽभिक्रम्याहवनीयमीक्षेत । विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशारिषाम । नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वः सम्मारय्यासृजेति
॥९॥अग्निषु समिध उपनिधायाहवनीयमुपतिष्ठते । मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः । ते बिभृवो दक्षसे जीवसे च यथायथं नौ तन्वा जातवेद इति
॥१०॥ततः समिधोऽभ्यादध्यात्
॥११॥आहवनीयेऽगन्म विश्ववेदसमस्मभ्यं वसुवित्तमं । अग्ने सम्राडभिद्युम्नमभिसह आयच्छस्व स्वाहेति । गार्हपत्येऽयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपतेऽभिद्युम्नमभिसह आयच्छस्व स्वाहेति । दक्षिणेऽयमग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः । अग्ने पुरीष्याभिद्युम्नमभिसह आयच्छस्व स्वाहेति । गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रावरुणौ गृहानजूगुपतं युवं । अविनष्टानविहृतान् पूषैनानभ्यराक्षीदास्माकं पुनरायनादिति
॥१२॥यथेतं प्रत्येत्य । परिसमूह्योदग्विहारादुपविश्य भूर्भुवः स्वरिति वाचं विसृजेत
॥१३॥प्रोष्य भूयो दशरात्राच्चतुर्गृहीतमाज्यं जुहुयात् मनोज्योतिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो या अनिष्टास्ताः सन्तनोमि हविषा घृतेन स्वाहेति
॥१४॥अग्निहोत्राहोमे च
॥१५॥प्रतिहोममेके
॥१६॥गृहानीक्षेताप्यनाहिताग्निर्गृहा मा बिभीतोपमः स्वस्त्ये वोऽस्मासु च प्रजायध्वं मा च वो गोपतीरिषदिति प्रपद्येत । गृहानहं सुमनसः प्रपद्ये वीरघ्नो वीरवतः सुवीरान् । इरां वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशातीति शिवं शम्मं शंयोः शंयोरिति त्रिरनुवीक्षमाणाः
॥१७॥विदितमप्यलीकं न तदहर्ज्ञापयेयुः
॥१८॥विज्ञायतेऽभयं वोऽभयं मेऽस्त्वित्येवोपतिष्ठेत प्रवसन् प्रत्ये त्याहरहर्वेति
॥१९॥षष्ठः खण्डः
अमावास्यायामपराह्णे पिण्डपितृयज्ञः
॥१॥दक्षिणाग्नेरेकोल्मुकं प्राग्दक्षिणा प्रणयेत् ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्ठाल्लोकात् प्रणुदात्वस्मादिति
॥२॥सर्वकर्माणि तां दिशं
॥३॥उपसमाधायोभौ परिस्तीर्य दक्षिणाग्नेः प्रागुदक् प्रत्यगुदग्वैकैकशः पात्राणि सादयेच्चरुस्थालिशूर्पस्फ्योलूखलमुसलस्रुवध्रुवकृष्णाजिनसकृदाच्छिन्नेध्ममेक्षणकमण्डलून्
॥४॥दक्षिणतोऽग्निष्ठमारुह्य चरुस्थालीं व्रीहीणां पूर्णां निमृजेत्
॥५॥परिशन्नान् निदध्यात्
॥६॥कृष्णाजिन उलूखलं कृत्वेतरान् पत्न्यवहन्यादविवेचं
॥७॥अवहतान्त्सकृत् प्रक्षाल्य दक्षिणाग्नौ श्रपयेत्
॥८॥अर्वागतिप्रणीतात् स्फ्येन लेखामुल्लिखेदपहता असुरा रक्षांसि वेदिषद इति
॥९॥तामभ्युक्ष्य सकृदाच्छिन्नैरवस्तीर्य आसादयेदभिघार्य स्थालीपाकमाज्यं सर्पिरनुत्पूतं नवनीतं वोत्पूतं ध्रुवायामाज्यं कृत्वा दक्षिणतः
॥१०॥आञ्जनाभ्यञ्जनकशिपूपबर्हणानि
॥११॥प्राचीनावीतीध्ममुपसमाधाय मेक्षणेनादायावदानसम्पदा जुहुयात् सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इति
॥१२॥स्वाहाकारेण वाग्निं पूर्वं यज्ञोपवीती
॥१३॥मेक्षणमनुप्रहृत्य प्राचीनावीती लेखां त्रिरुदकेनोपनयेच्छुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति
॥१४॥तस्याम् पिण्डान् निपृणीयात् पराचीन पाणिः पित्रे पितामहाय प्रपितामहाय एतत् ते असौ ये च त्वाम् अत्र अन्व् इति
॥१५॥तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिः प्रत्यक्षमितरानर्चयेत् तदर्थत्वात्
॥१६॥सर्वेभ्य एव निपृणीयादिति तौल्वलिः क्रियागुणत्वात्
॥१७॥अपि जीवान्त आत्रिभ्यः प्रेतेभ्य एव निपृणीयादिति गौतमः क्रिया ह्यर्थकारिता
॥१८॥उपायविशेषो जीवमृतानां
॥१९॥न परेभ्योऽनधिकारात् । न प्रत्यक्षं । न जीवेभ्यो निपृणीयात्
॥२०॥न जीवान्तर्हितेभ्यः
॥२१॥जुहुयाज्जीवेभ्यः
॥२२॥सर्वहुतं सर्वजीविनः
॥२३॥नामान्यविद्वांस्ततपितामहप्रपितामहेति
॥२४॥सप्तमः खण्डः
निपृताननुमन्त्रयेतात्र पितरो मादयध्वं यथाभागमावृषायध्वमिति
॥१॥सव्यावृदुदङ्ङावृत्य यथाशक्त्यप्राणन्नासि त्वाऽभिपर्यावृत्त्यामीमदन्त पितरो यथाभागमावृषायीषतेति
॥२॥चरोः प्राणभक्षं भक्षयेत्
॥३॥नित्यं निनयनं
॥४॥असावभ्यंक्ष्वासावंक्ष्वेति पिण्डेष्वभ्यञ्जनाञ्जने
॥५॥वासो दद्याद्दशामूर्णास्तुका वा पञ्चाशद्वर्षताया ऊर्द्ध्वं स्वंलोमैतद्वः पितरो वासो मा नोऽतोऽन्यत् पितरो युंग्ध्वमिति
॥६॥अथैनानुपतिष्ठेत नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरोऽघोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय । स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम
॥७॥मनोऽन्वाहुवामह इति च तिसृभिः
॥८॥अथैनान् प्रवाहयेत् परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः । दत्तायास्मभ्यं द्रविणे ह भद्रं रयिञ्च नः सर्ववीरं नियच्छतेति मैसं
॥९॥अग्निं प्रत्येयादग्ने तमद्याश्वं न स्तोमैरिति
॥१०॥गार्हपत्यं यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु करोतु मामनेनसमिति मैसं
॥११॥वीरं मे दत्त पितर इति पिण्डानां मध्यमं
॥१२॥पत्नीं प्राशयेदाधत्त पितरो गर्भं कुमारं पुष्करस्रजं । यथायमरपा असदिति
॥१३॥अप्स्वितरौ
॥१४॥अतिप्रणीते वा
॥१५॥यस्य वागन्तुरन्नकाम्याभावः स प्राश्नीयात्
॥१६॥महारोगेण वाभितप्तः प्राश्नीयादन्यतरां गतिं गच्छति
॥१७॥एवमनाहिताग्निर्नित्ये
॥१८॥श्रपयित्वातिप्रणीय जुहुयात्
॥१९॥द्विवत् पात्राणामुत्सर्गः
॥२०॥तृणं द्वितीयमुद्रिक्ते
॥२१॥अष्टमः खण्डः
दर्शपूर्णमासावारप्स्यप्मानोऽन्वारम्भणीयां
॥१॥अग्नाविष्णू सरस्वती सरस्वानग्निर्भगी
॥२॥अग्नाविष्णू सजोषसेमा वर्द्धन्तु वां गिरः । द्युम्नैर्वाजेभिरागतं । अग्नाविष्णू महि धामप्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमे दमे सुष्टुतिर्वामियाना प्रति वां जिह्वा घृतमुच्चरण्यत् । पावका नः सरस्वती पावीरवी कन्या चित्रायुः पीपिवांसं सरस्वतो दिव्यं सुपर्णं वायसं बृहन्तमासवं सवितुर्यथा स नो राधांस्याभरेति
॥३॥आधानाद्यद्यामयावी यदि वार्था व्यथेरन् पुनराधेय इष्टिः
॥४॥तस्यां प्रयाजानूयाजान् विभक्तिभिर्यजेत्
॥५॥समिधः समिधोऽग्नेऽग्न आज्यस्य व्यन्तु । तनूनपादग्निमग्न आज्यस्य वेतु । इडो अग्निनाग्न आज्यस्य व्यन्तु । बर्हिरग्निरग्न आज्यस्य वेत्विति
॥६॥समिधाग्निं दुवस्पते ह्यूषु ब्रवाणि त इत्याग्नेयावाज्यभागौ
॥७॥बुद्धिमदिन्दुमन्तावित्याचक्षते
॥८॥तथानुवृत्तिः
॥९॥इज्या च
॥१०॥नित्यं पूर्वमनुब्राह्मणिनः
॥११॥अग्न आयूँषि पवस इत्युत्तरं
॥१२॥नित्यस्तूत्तरे हविःशब्दः
॥१३॥आग्नेयं हविः । अधाह्यग्ने क्रतोर्भद्रस्याभिष्टे अद्य गीर्भिर्गृणन्त एभिर्नो अर्कैरग्ने तमद्याश्वं न स्तामैरिति संयाज्ये । देवं बर्हिरग्नेर्वसुवने वसुधेयस्य वेतु देवो नराशंसोऽग्नौ वसुवने वसुधेयस्य वेत्विति
॥१४॥नवमः खण्डः
आग्रयणं व्रीहिश्यामाकयवानां
॥१॥सस्यं नाश्नीयादग्निहोत्रमहुत्वा
॥२॥यदा वर्षस्य तृप्तः स्यादथाग्रयणेन यजेत
॥३॥अपि हि देवा आहुस्तृप्तो नूनं वर्षस्याग्रयणेन हि यजत इति अग्निहोत्रीं वै नानादयित्वा तस्याः पयसा जुहुयात्
॥४॥अपि वा क्रिया यवेषु
॥५॥इष्टिस्तु राज्ञः
॥६॥सर्वेषां चैके
॥७॥श्यामाकेष्ट्यां सौम्यश्चरुः
॥८॥सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरेडाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत् प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रिये मह्यं यशसे मह्यमन्नाद्याय
॥९॥भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितवाविशे ह शन्नो भव द्विपदे शं चतुष्पद इति प्राश्याचम्य नाभिमालभेतामोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वानसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादमा म एधि मामृधाम इन्द्रेति
॥१०॥एतेन भक्षिणो भक्षान् सर्वत्र नवभोजने
॥११॥अथ व्रीहियवानां धाय्ये विराजौ
॥१२॥अग्नीन्द्राविन्द्राग्नी वा विश्वेदेवाः सोमो यदि तत्र श्यामाको द्यावापृथिवी
॥१३॥आद्या ये अग्निमिन्धते सुकर्माणः सुरुचो देवयन्तो विश्वेदेवास आगत ये के च ज्मामहि नो अहिमाया मही द्यौः पृथिवी च नः प्रपूर्वजे पितरानव्यसीभिरिति
॥१४॥दशमः खण्डः
अथ काम्याः
॥१॥आयुष्कामेष्ट्यां जीवातुमन्तौ
॥२॥आ नो अग्ने सुचेतुना त्वं सोम महे भगमित्यग्निरायुष्मानिन्द्रस्त्राता
॥३॥आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः । पुनस्ते प्राण आयातु परा यक्ष्मं सुवामि ते । आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमं । त्रातारमिन्द्रमवितारमिन्द्रं मा ते अस्यां सहसावन् परिष्टौ । पाहि नो अग्ने पायुभिरजस्रैरग्ने त्वं पारयानव्यो अस्मानिति संयाज्ये
॥४॥स्वस्त्ययन्यां रक्षितवन्तौ
॥५॥अग्ने रक्षा णो अँ हसस्त्वं नः सोम विश्वत इति
॥६॥अग्निः स्वस्तिमान्त्स्वस्ति नो दिवो अग्ने पृथिव्या आरे अस्मदमतिमारे अँ ह इति पूर्वयोक्ते संयाज्ये
॥७॥पुत्रकामेष्ट्यामग्निः पुत्री
॥८॥यस्मै त्वं सुकृते जातवेदो यस्त्वा हृदा कीरिणा मन्यमानः । अग्निस्तुविश्रवस्तममिति द्वे संयाज्ये
॥९॥आग्नेय्या उत्तरे
॥१०॥नित्ये मूर्द्धन्वतः
॥११॥तुभ्यं ता अङ्गिरस्तमाश्यामन्तं काममग्ने तवोतीति कामाय
॥१२॥वैमृध्या उत्तरे
॥१३॥वि न इन्द्र मृधो जहि मृगो न भीमः कुचरो गिरिष्ठाः । सद्युत्तिमिन्द्रसच्युतिं प्रच्युतिं जघनच्युतिं । प्रनाकाफान आभर प्रयप्स्यन्निव सक्थ्यौ वि न इन्द्र मृधो जहि । चनीखुदद्यथासपमभि नः सुष्टुतिं नयेति
॥१४॥इन्द्राय दात्रे पुनर्दात्रे वा
॥१५॥यानि नो धनानि क्रुद्धो जिनासि मन्युना । इन्द्रानुविद्धि नस्तानि अनेन हविषा पुनः । पुनर्न इन्द्रो मघवा ददातु धनानि शक्रो धनीः सुराधाः । अस्मद्र्यक् कृणुतां याचितो मनः श्रुष्टी न इन्द्रो हविषा मृधातीति
॥१६॥आशानामाशापालेभ्यो वा
॥१७॥आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदम्भूतस्याध्यक्षेभ्यो विधेम हविषा वयं । विश्वा आशा मधुना संसृजामि अनमी वा आप ओषधयः सन्तु सर्वाः । अयं यजमानो मृधो व्यस्यत्वगृभीताः पशवः सन्तु सर्व इति
॥१८॥लोकेष्टिः
॥१९॥पृथिव्यन्तरिक्षं द्यौरिति देवताः
॥२०॥पृथिवीं मातरं महीमन्तरिक्षमुपब्रुवे । बृहतीमूतये दिवं । विश्वं बिभर्त्ति पृथिवी अन्तरिक्षं विपप्रथे । दुहे द्यौर्बृहती पयः । वर्म मे पृथिवी मही अन्तरिक्षं स्वस्तये । द्यौर्मे शर्म महि श्रव इति तिस्रस्त्रयाणां
॥२१॥प्रथमे प्रथमस्योत्तमे मध्यमस्य
॥२२॥एकादशः खण्डः
मित्रविन्दा महावैराजी
॥१॥अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता पूषा सरस्वती त्वष्टेत्येकप्रदानाः
॥२॥अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपेण समनक्तु यज्ञं
॥३॥प्रतिलोममादिश्य यजेद् ये यजामहे त्वष्टारं सरस्वतीं पूषणं सवितारं बृहस्पतिमिन्द्रं मित्रं वरुणं सोममग्निं त्वष्टा रूपाणि दधती सरस्वती भगं पूषा सविता नो ददातु । बृहस्पतिर्दददिन्द्रः सहस्रं मित्रो दाता वरुणः सोमो अग्निरिति
॥४॥अष्टौ वैराजतन्त्राः
॥५॥तासामाद्याः षडेकहविषः
॥६॥स्नुषाश्वशुरीययाभिचरन् यजेत
॥७॥इन्द्रः सूरो अतरद्रजांसि स्नुषा सपत्ना श्वशुरीऽहमस्मि । अहं शत्रून् जयामि जर्हृषाणोऽहं वाजं जयामि वाजसातौ ॥ इन्द्रः सूरः प्रथमो विश्वकर्मा मरुत्वाँ अस्तु गणवान् सजातैः । मम स्नुषा श्वशुरस्य प्रविष्टौ सपत्ना वाचं मनस उपासतां ॥
॥८॥जुष्टो दमूना अग्ने शर्द्ध महते सौभगायेति संयाज्ये
॥९॥विमतानां सम्मत्यर्थे संज्ञानी
॥१०॥अग्निर्वसुमान् सोमो रुद्रवानिन्द्रोमरुत्वान्वरुण आदित्यवानित्येकप्रदानाः
॥११॥अग्निः प्रथमो वसुभिर्नो अव्यात् सोमो रुद्रैरभिरक्षतु त्मना । इन्द्रो मरुद्भिरृतुथा कृणोतु आदित्यैर्नो वरुणः शर्म यंसत् ॥ समग्निर्वसुभिर्नो अव्यात् सं सोमो रुद्रियाभिस्तनूभिः । समिन्द्रोरातहव्यो मरुद्भिः समादित्यैर्वरुणो विश्ववेदा इति
॥१२॥ऐन्द्रामारुतीं भेदकामाः
॥१३॥मरुतो यस्य हि क्षये प्र शर्द्धाय मारुताय स्वभानव इति
॥१४॥ऐन्द्रीमनूच्य मारुत्या यजेन्मारुतीमनूच्यैन्द्र्या यजेदिन्द्रं पूर्वं निगमेषु मरुतो वा
॥१५॥इन्द्रं वा । प्रधानादूर्द्ध्वं मरुतः
॥१६॥प्रकृत्या सम्पत्तिकामाः संज्ञानीञ्च
॥१७॥ऐन्द्रा बार्हस्पत्यां प्रधृष्यमाणाः
॥१८॥आ न इन्द्रा बृहस्पती अस्मै इन्द्रा बृहस्पती इति यद्यपीन्द्राय चोदयेयुः
॥१९॥द्वादशः खण्डः
पवित्र इष्ट्याम्
॥१॥अपाम् इद्म न्ययनम् समुद्रस्य निवेशनम् । अन्यन्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम् शिवो भव । नमस् ते हरसे शोचिषे नमस् ते अस्त्व् अर्चिषे । अन्यन्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम् शिवो भव इति पावकवत्यो धाय्ये
॥२॥पावकवन्ताव् आज्य भागौ
॥३॥अग्नी रक्षांसि सेधति
॥४॥यो धारया पावकया इति
॥५॥ऋचौ याज्ये
॥६॥यत् ते पवित्रम् अर्चिष्य् आ कलशेषु धावति इति
॥७॥पवित्र इत्य् एते
॥८॥अग्निः पवमानः सरस्वती प्रिया अग्निः पावकः सविता सत्य प्रसवो अग्निः शुचिर् वायुर् नियुत्वान् अग्निर् व्रत पतिर् दधिक्रावा अग्निर् वैश्वानरो विष्णुः शिपिविष्टः
॥९॥उत नः प्रिय अप्रियास्व् इमा जुह्वाना युष्मद् आ नमोभिः
॥१०॥वायुर् अग्रेगा यज्ञप्रीर् वायो शुक्रो अयामि ते
॥११॥दधिक्राव्णो अकारिषम् आदधिक्राः शवसा पञ्च कृष्टीः
॥१२॥जुष्टो दमूना अग्ने शर्ध महते सौभगाय इति सम्याज्ये
॥१३॥सा एषा संवत्सरम् अतिप्रवसतः
॥१४॥शुद्धि कामो वा
॥१५॥तद् एषा अभि यज्ञ गाथा गीयते । वैश्वानरीम् व्रातपतीम् पवित्र इष्टिम् तथैव च । ऋतावृधौ प्रयुञ्जानः पुनाति दश पौरुषम् इति
॥१६॥त्रयोदशः खण्डः
वर्षकामेष्टिः कारीरी
॥१॥तस्यां प्रति त्यं चारुमध्वरमीडे अग्निं स्ववसं नमोभिरिति धाय्ये
॥२॥याः काश्च वर्षकामेष्ट्याऽप्सुमन्तौ
॥३॥अप्स्वग्ने सधिष्टवाप्सु मे सोमो अब्रवीदिति
॥४॥अग्निर्धामच्छन्मरुतः सूर्यः
॥५॥तिस्रश्च पिण्ड्य उत्तराः
॥६॥हिरण्यकेशो रजसो विसार इति द्वे त्वन्त्याचिदच्युता धामन्ते विश्वं भुवनमधिश्रितमिति वावाश्रेव विद्युन्मिमाति पर्वतश्चिन्महि वृद्धो बिभाय सृजन्ति रश्मिमोजसा वहिष्ठेभिर्विहरन् यासि तन्तुमुदीरयथा मरुतः समुद्रतः प्र वो मरुतस्तविषा उदन्यव आयं नरः सुदानवो ददाशुषे विद्युन्महसो नरो अश्मदिद्यवः कृष्णं नियानं हरयः सुपर्णा नियुत्वन्तो ग्रामजितो यथा नरः
॥७॥अग्ने बाधस्व विमृधो विदुर्ग्रहा यं त्वा देवापिः शुशुचानो अग्न इति संयाज्ये । ऋचोऽनूच्य यजुर्भिरेके यजन्ति
॥८॥संस्थितायां सर्वा दिश उपतिष्ठेताच्छावदतवसं गीर्भिराभिरिति चतसृभिः प्रत्यृचं सूक्तेन सूक्तेन वा
॥९॥चतुर्दशः खण्डः
अत ऊर्ध्वमिष्ट्ययनानि
॥१॥सांवत्सरिकाणि
॥२॥तेषां फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा प्रयोगः
॥३॥तुरायणं
॥४॥अग्निरिन्द्रोविश्वेदेवा इति पृथगिष्टयोऽनुसवनमहरहः
॥५॥एका वा त्रिहविः
॥६॥दाक्षानणयज्ञे द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत
॥७॥नित्ये पूर्वे यथाऽसन्नयतोऽमावास्यायां
॥८॥उत्तरयोरैन्द्रं पौर्णमास्यां द्वितीयं
॥९॥मैत्रावरुणममावास्यायां
॥१०॥आ नो मित्रावरुणा यद्वंहिष्ठं नातिविधे सुदानू इति प्राजापत्य इडादधः
॥११॥प्रजापते न त्वदेतान्यन्यस्तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीव धन्य इदं नो देव प्रतिहर्य हव्यमिति द्यावापृथिव्योरयनं
॥१२॥पौर्णमासेनामावास्यादामावास्येनापौर्णमासात्
॥१३॥असमाम्नातास्वर्थात् तन्त्रविकारः
॥१४॥अध्वर्युर्वा यथा स्मरेत्
॥१५॥वैराजन्त्वग्निमन्थने
॥१६॥धाय्ये त्व् एव एके
॥१७॥धाय्ये त्वेवैके देवतलक्षणा याज्यानुवाक्याः
॥१८॥गायत्र्यावती हूतवत्युपोक्तवती पुरस्ताल्लक्षणानुवाक्या
॥१९॥त्रिष्टुब्वती वीतवती जुष्टवत्यपरिष्टाल्लक्षणा याज्या । अपि वान्यस्य छन्दसः
॥२०॥न तु याज्या ह्रसीयसी
॥२१॥नोष्णिङ् बृहती
॥२२॥क्षामनष्टहतदग्धवतीस्तु वर्जयेत्
॥२३॥व्यक्ते तु दैवते तथैव
॥२४॥लक्षणमपि वाऽव्यक्ते
॥२५॥अनधिगच्छन् सर्वशः
॥२६॥अनधिगम आग्नेयीभ्यां
॥२७॥व्याहृतिभिर्वा
॥२८॥देवतामादिश्य प्रणुयाद्यजेच्च
॥२९॥नाम्राभ्यां वा
॥३०॥इममाशृणुधी हवं यन्त्वागीर्भिर्हवामहे । एदं बर्हिर्निषीद नः । स्तीर्णं बर्हिरानुषगासदेतदुपेडाना इह नो अद्य गछ । अहेडता मनसेदं जषस्व वीहि हव्यं प्रयतमाहुतम्म इति नम्रे
॥३१॥आग्नेय्यावनिरुक्ते
॥३२॥पञ्चदशः खण्डः
चातुर्मास्यानि प्रयोक्ष्यमाणः पूर्वेद्युर्वैश्वानरपार्जन्यां
॥१॥वैश्वानरो अजीजनदग्निर्नो नव्यसीम्मतिं । क्ष्मया वृधान ओजसा । पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्रगायत प्रवाता वान्ति पतयन्ति विद्युत इत्यग्न्याधेयप्रभृत्यन्ता उपांशुहविषः
॥२॥सौमिक्यः
॥३॥प्रायश्चित्तिक्यः
॥४॥अन्वायात्यैककपालाः
॥५॥सर्वत्र वारुणवर्जं
॥६॥सावित्रश्चातुर्मास्येषु
॥७॥प्रधानहवींषि चैके
॥८॥पित्र्योपसदः सतन्त्राः
॥९॥पौनराधेयिकी च प्रागुत्तमादनुयाजात्
॥१०॥अपि वा सुमन्द्र तन्त्राः
॥११॥आगुःप्रणववषट्कारा उच्चैः सर्वत्र
॥१२॥तथाऽऽग्रयणेऽग्नियं
॥१३॥आहार्यस्तु प्राणसन्ततः प्रणवः पुरोऽनुवाक्यायाः
॥१४॥तथागुर्वषट्कारौ याज्यायाः
॥१५॥तन्त्रस्वराण्युपांशोरुच्चानि
॥१६॥मन्द्राण्युपांशुतन्त्राणां
॥१७॥षोडशः खण्डः
प्रातर्वैश्वदेव्यां प्रेषितोऽग्निमन्थनीया अन्वाह पश्चात् सामिधेनीस्थानस्य पदमात्रेऽवस्थायाभिहिङ्कृत्य
॥१॥अभि त्वा देव सवितर्मही द्यौः पृथिवी च नस्त्वामग्ने पुष्करादधीति तिसॄणामर्द्धर्चं शिष्ट्वाऽऽरमेदासंप्रैषात्
॥२॥अन्यत्राप्यन्त ऋचोऽवसाने जायमाने त्वेतस्मिन्नेवावसाने
॥३॥अग्ने हंसीत्यत्रिणमिति सूक्तमावपेत पुनः पुनराजन्मनः
॥४॥जातं श्रुत्वानन्तरेण प्रणवेन शिष्टमुपसन्तनुयात्
॥५॥शिष्टेनोत्तराम्
॥६॥उत ब्रुवन्तु जन्तव आयं हस्तेन खादिनमित्यर्धर्च आरमेत् । प्र देवं देव वीतय इति द्वे अग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निना तमर्जयन्त सुक्रतुं यज्ञेन यज्ञमयजन्त देवा इति परिदध्यात्
॥७॥सर्वत्रोत्तमां परिधानीयेति विद्यात्
॥८॥धाय्ये विराजौ नव प्रयाजाः प्रागुत्तमाच्चतुर आवपेत दुरो अग्न आज्यस्य व्यन्तूषासा नक्ताग्न आज्यस्य वीतां दैव्या होताराऽग्न आज्यस्य वीतां तिस्रो देवीरग्न आज्यस्य व्यन्त्विति
॥९॥अग्निः सोमः सविता सरस्वती पूषा मरुतः स्वतवसो विश्वेदेवा द्यावापृथिवी
॥१०॥आ विश्वदेवं सत्पतिं वाममद्य सवितर्वाममुश्वः पूषन् तव व्रते वयं शुक्रन्ते अन्यद्यजतं ते अन्यदिहेहवः स्वतवसः प्रचित्रमर्क्कं गृणते तुरायेति
॥११॥नवानूयाजाः षडूर्द्ध्वं प्रथमाद्देवी द्वारो वसुवने वसुधेयस्य व्यन्तु । देवी उषासा नक्ता वसुवने वसुधेयस्य वीतां । देवी जोष्ट्री वसुवने वसुधेयस्य वीतां । देवी ऊर्जाहुती वसुवने वसुधेयस्य वीतां । देवा दैव्या होतारा वसुवने वसुधेयस्य वीतां । देवीस्तिस्रस्तिस्रो देवीर्वसुवने वसुधेयस्य व्यन्त्विति
॥१२॥अनूयाजानां सूक्तवाकस्य शंयुवाकस्य वोपरिष्टाद्वाजिभ्यो वाजिनमनावाह्यादेशं
॥१३॥शन्नो भवन्तु वाजिनो हवेषु वाजे वाजेऽवत वाजिनो न इत्यूर्ध्वजुरनवानं याज्यां
॥१४॥अग्ने वीहीत्यनुवषट्कारौ वाजिनस्याग्ने वीहीति वा । यत्र क्वचकसंप्रैषे द्वौ वषट्कारौ समस्तावेव तत्र द्विरनुमन्त्रयेत ॥
॥१५॥न चाग्ररुत्तरस्मिन्
॥१६॥वाजिनभक्षमिडामिव प्रतिगृह्योपहवमिच्छेत
॥१७॥अध्वर्य उपह्वयस्व ब्रह्मन्नुपह्वयस्वाग्नीदुपह्वस्वेति
॥१८॥यन्मे रेतः प्रसिच्यते यद्वा मे अपि गच्छति यद्वा जायते पुनः । तेन मा शिवमाविश तेन मा वाजिनं कुरु । तस्य त वाजिपीतस्योपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयेत् ॥
॥१९॥एवमध्वर्युर्ब्रह्माग्नीध्रः
॥२०॥यजमानः प्रत्यक्षमितरे च दीक्षिताः
॥२१॥पौर्णमासेनेष्ट्वा चातुर्मास्यव्रतान्युपेयात्
॥२२॥केशान्निवर्तयीत
॥२३॥श्मश्रूणि वापयीत । अधः शयीत । मधुमांसलवणस्त्र्यवलेखनानि वर्जयेत्
॥२४॥ऋतौ भार्यामुपेयात्
॥२५॥वापनं सर्वेषु पर्वसु
॥२६॥आद्योत्तमयोर्वा
॥२७॥सप्तदशः खण्डः
पञ्चम्यां पौर्णमास्यां वरुणप्रघासैः
॥१॥पश्चाद्दार्शपौर्णमासिकाया वेदेरुपविश्य प्रेषितोऽग्निप्रणयनीयाः प्रतिपद्यते
॥२॥प्र देवं देव्या धियेति तिस्र इडायास्त्वाप देव यमग्ने विश्वेभिः स्वनीक देवैरित्यर्द्धर्च आरमेत् । आसीनः प्रथमामन्वाहोपांशु सप्रणवां
॥३॥तत्र स्थानात् स्थानसङ्क्रमणे प्रणवेनावसायाऽनुच्छ्वस्योत्तरां प्रतिपद्यते
॥४॥प्राणसन्ततं भवतीति विज्ञायते
॥५॥उत्तरमग्निमनुव्रजन्नुत्तराः
॥६॥इमं महे विदथ्याय शूषमयमिह प्रथमो धायि धातृभिरिति तु राजन्यवैश्ययोराद्ये
॥७॥पश्चादुत्तरस्या वेदेरवस्थाय
॥८॥उत्तरवेदेस्तु सोमेषु
॥९॥निहितेऽग्नौ सीद होतः स्व उ लोके चिकित्वान्नि होता होतृषदने विदान इति द्वे परिधाय तस्मिन्नेवासन उपविश्य भूर्भुवः स्वरिति वाचं विसृजेत
॥१०॥अन्यत्रापि यत्रानुब्रुवन्ननुव्रजेत्
॥११॥तिष्ठत्संप्रैषेषु तथैव वाग्विसर्गः
॥१२॥अग्निमन्थनादिसमाना वैश्वदेव्या
॥१३॥हविषान्तु स्थाने षष्ठप्रभृतीनामिन्द्राग्नी मरुतो वरुणः कः
॥१४॥इन्द्राग्नी अवसा गतं श्नथद्वृत्रमुत सनोति वाजं मरुतो यस्य हि क्षयेऽराइवेदं चरमा अहेवेमं मे वरुण श्रुधि तत्त्वायामि ब्रह्मणा वन्दमानः कयानश्चित्र आभुवद्धिरण्यगर्भः समवर्त्तताग्र इति प्रतिप्रस्थाता वाजिने तृतीयः
॥१५॥संस्थितायामवभृथं व्रजन्ति
॥१६॥तत्रावभृथेष्टिः कृताऽकृता
॥१७॥तामुपरिष्टाद्व्याख्यास्यामो द्वयोर्मासयोरैन्द्राग्नः पशुः
॥१८॥अष्टादशः खण्डः
तथा ततः साकमेधाः
॥१॥पूर्वेद्युस्तिस्र इष्टयोऽनुसवनं
॥२॥प्रथमायामग्निरनीकवान् । अनीकवन्तमूतयेऽग्निं गीर्भिर्हवामहे । स नः पर्षदतिद्विषः । सैनानीकेन सुविदत्रो अस्मे इति उत्तरस्यां वृधन्वन्तौ । मरुतः सान्तपनाः । सान्तपना इदं हविर्यो नो मरुतो अभिदुर्हृणायुरिति मरुद्भ्यो गृहमेधेभ्य उत्तरा आज्यभागप्रभृतीडान्ता
॥३॥गृहमेधास आगत प्रबुध्न्या व ईरते महाँसीति
॥४॥पुष्टिमन्तौ विराजौ संयाज्ये अनिगदे
॥५॥अन्यत्राऽप्यनावाहने
॥६॥आवाहनेऽपि पित्र्यायां पशौ च
॥७॥बहु चैतस्यां रात्र्यामन्नं प्रसुवीरन्
॥८॥तस्या विवासे पौर्णदर्वं जुहुयुः
॥९॥ऋषभे रवाणे
॥१०॥स्तनयित्नौ वा
॥११॥आग्नीध्रं हैके रावयन्ति ब्रह्मपुत्रं वदन्तः
॥१२॥यदि होतारञ्चोदयेयुस्तस्य याज्यानुवाक्ये । पूर्णादर्वि परापत सुपूर्णा पुनरापत । वस्नेव विक्रीणावहा इषमूर्ज्जं शतक्रतो । देहि मे ददामि ते नि मे धेहि नि ते दधे । अपामिक्यमिव सम्भरकोऽम्बा ददते दददिति
॥१३॥मरुद्भ्यः क्रीडिभ्य उत्तरा
॥१४॥उत ब्रुवन्तु जन्तवोऽयं कृत्नुरगृभीत इति परोक्षवार्त्रघ्नौ
॥१५॥क्रीडं वः शर्द्धो मारुतमत्यासो न ये मरुतः स्वञ्चः
॥१६॥जुष्टो दमूना अग्ने शर्ध महते सौभागायेति संयाज्ये । वाजिनावभृथवर्जं माहेन्द्र्युक्ता वरुणप्रघासैः
॥१७॥हविषान्तु सप्तमादीनां स्थान इन्द्रो वृत्रहेन्द्रोमहेन्द्रो वा विश्वकर्मा
॥१८॥आ तू न इन्द्र वृत्रहन्ननु ते दायि मह इन्द्रियाय विश्वकर्मन् हविषा वावृधानो या ते धामानि परमाणि यावमेति
॥१९॥एकोनविंशः खण्डः
दक्षिणाग्नेरग्निमतिप्रणीय पित्र्या
॥१॥सा शंव्य् अन्ता
॥२॥लुप्तजपा होतारमवृथा वषट्कारानुमन्त्रणाभिहिङ्कारवर्जं
॥३॥तस्यां प्राञ्चि कर्माणि दक्षिणा
॥४॥इतराणि तथान्वयं
॥५॥उशन्तस्त्वा निधीमहीत्येतां त्रिरनवानन्ताः सामिधेन्यः
॥६॥तासामुत्तमेन प्रणवेनावह देवान् पितॄन् यजमानायेति प्रतिपत्तिः
॥७॥अग्निं होत्रायावह स्वं महिमानमावहेत्येतस्य स्थानेऽग्निं कव्यवाहनमावाहयेत्
॥८॥उत्तमे चैनं प्रयाजे प्रागाज्यपेभ्यो निगमयेत्
॥९॥सूक्तवाके चाग्निर्होत्रेणेत्येतस्य स्थाने
॥१०॥नेह प्रादेशः
॥११॥न मार्जनं
॥१३॥न सूक्तवाके नामादेशः
॥१४॥ईक्षितः सीद होतरिति वोक्त उपविशेत्
॥१५॥जीवानुमन्तौ सव्योत्तर्युपस्थाः प्राचीनावीतिनो हविर्भिश्चरन्ति
॥१६॥दक्षिण आग्नीध्र उत्तरोऽध्वर्युः । द्वे द्वे अनुवाक्ये । अध्यर्धामनवानं
॥१७॥ॐ स्वधेत्याश्रावणं । अस्तुस्वधेति प्रत्याश्रावणं । अनुस्वधास्वधेति सम्प्रैषः
॥१८॥ये स्वधेत्यागूर्ये स्वधा मह इति वा । स्वधा नम इति वषट्कारः
॥१९॥नित्याः प्लुतयः
॥२०॥पितरः सोमवन्तः सोमो वा पितृमान् पितरो बर्हिषदः पितरोऽग्निष्वात्ता यमः
॥२१॥उदीरतामवर उत्परासस्त्वया हि नः पितरः सोमपूर्व उपहूताः पितरः सोम्यासस्त्वं सोम प्रचिकितो मनीषा सोमो धेनुं सोमो अर्वन्तमाशुं त्वं सोम पितृभिः संविदानो बर्हिषदः पितर ऊत्यार्वागाहं पितॄन् सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्याग्निष्वात्ताः पितर एह गच्छत ये चेह पितरो ये च ने ह ये अग्निदग्धा ये अनग्निदग्धा इमं यमप्रस्तरमा हि सीदेति द्वे परेयिवांसम्प्रवतो महीरनु
॥२२॥वैवस्वताय चेन्मध्यमा याज्या
॥२३॥येतातृषुर्देवत्रा जेहमानास्त्वदग्ने काव्या त्वन्मनीषाः स प्रत्नथा सहसा जायमान इति
॥२४॥अग्निः स्विष्टकृत् कव्यवाहनः
॥२५॥प्रकृत्यात ऊर्ध्वं
॥२६॥वषट्कारक्रियायां चोर्ध्वमाज्यभागाभ्यामन्यन्मन्त्रलोपात्
॥२७॥एक एका च अनुवाक्या
॥२८॥एकैका चानुवाक्या १८ यो अग्निः क्रव्यवाहनस्त्वमग्न ईडितो जातवेद इति संयाज्ये
॥२९॥भक्षेषु प्राणभक्षान् भक्षयित्वा बर्हिष्यनुप्रहरेयुः संस्थितायां प्राग्वानुयाजाभ्यां दक्षिणावृतो दक्षिणाग्निमुपतिष्ठन्ते
॥३०॥अनावृत्यानतिप्रणीतचर्यायां
॥३१॥अयाविष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । स प्रत्युदैद्धरुणं मध्वो अग्रं स्वां यत्तनूं तन्वामैरयतेति
॥३२॥आवृत्य त्वेवेतरौ
॥३३॥आहवनीयं सुसन्दृशं त्वेति पंक्त्या
॥३४॥गार्हपत्यमग्निं तम्मन्य इत्येकयर्चा न सूक्तेन
॥३५॥अथैनमभिसमायन्ति मा प्रमा माग्ने त्वन्न इति जपन्तः
॥३६॥पूर्वेण गार्हपत्यसूक्ते समाप्य सव्यावृतस्त्र्यम्बकान् व्रजन्ति
॥३७॥तत्राध्वर्यवः कर्म्माधीयते
॥३८॥प्रत्येत्यादित्यया चरन्ति
॥३९॥पुष्टिमन्तौ धाय्ये विराजौ
॥४०॥विंशः खण्डः
पञ्चम्यां पौर्णमास्यां शुनासीरीयया
॥१॥अर्वाग्यथोपपत्ति वा
॥२॥वाजिनवर्ज्जं समाना वैश्वदेव्या । हविषान्तु स्थाने षष्ठप्रभृतीनां वायुर्नियुत्वान् वायुर्वा शुनासीराविन्द्रोवा शुनासीर इन्द्रो वा शुनः सूर्य्य उत्तमः
॥३॥आ वायो भूष शुचिपा उप नः प्रयाभिर्यासिदाश्वां समच्छस त्वन्नो देव मनसेशानाय प्रहुतिं यस्त आनट् शुनासीराविमां वाचं जुषेथां शुनन्नः फाला विकृषन्तु भूमिमिन्द्रवयं शुनासीर मेऽस्मिन् पक्षे हवामहे । स वाजेषु प्रनोविषत् । अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेम मघवानमिन्द्रमश्वायन्तो गव्यन्तो वाजयन्तस्तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः
॥४॥समाप्य सोमेन यजेताशक्तौ पशुना
॥५॥चातुर्मास्यानि वा पुनश्चातुर्मास्यानि वा पुनः
॥६॥